अत्रचतुर्थ्याचन्द्रदर्शनेमिथ्याभिदूषणदोषस्तेनचतुर्थ्यामुदितस्यपञ्चम्यांदशंनंविनायकव्रतदिनेपिनदोषाय
पूर्वदिनेसायाह्नमारभ्यप्रवृत्तायांचतुर्थ्याविनायकव्रताभावेपिपूर्वेद्युरेवचन्द्रदर्शनेदोष इति सिध्यति
चतुर्थ्यामुदितस्यनदर्शनमितिपक्षेतु अवशिष्टपञ्चषण्मुहूर्तमात्रचतुर्थीदिनेपिनिषेधापत्तिः इदानींलोकास्तु
एकतरपक्षाश्रयेणीविनायकव्रतदिने एवचन्द्रंपश्यन्तिनतूदयकालेदर्शनकाले वाचतुर्थीसत्वासत्वेनियमेनाश्रयन्ति
दर्शनेजातेतद्दोषशान्तये सिंहःप्रसेनवमवधीत्सिंहोजाम्बवताहतः ।
सुकुमारकमारोदीस्तवह्येषस्यमन्तकः १ इति श्लोकजपःकार्यः
तत्रमृन्मयादिमूर्तौप्राणप्रतिष्ठापूर्वं विनायकंषोडशोपचारैःसंपूज्यैकमोदकेनैवेद्यंदत्वासगन्धा एकविंशतिदूर्वागृहीत्वा
गणादिपायोमापुत्रायाघनाशनायविनायकायेशपुत्रायसर्वसिद्धिप्रदायै अकदन्तायेभवक्त्रायमूषकवाहनायकुमारगुरवे
इति दशनामभिर्दूर्वयोर्द्वयंद्वयंसमर्प्यावशिष्टामेकांदूर्वा
उक्तदशनामभिः समर्पयेत् दशमोदकांन्विप्रायदत्त्वादशस्वयंभुञ्जीतेतिसंक्षेपः ।