३८ श्रावणमास निर्णयोद्देशः

नभोमासस्यदर्शेतुशुचिर्दर्भान्समाहरेत् । अयातयामास्तेदर्भविनियोज्याः पुनः पुनः १ केचिद्भाद्रामायांदर्भग्रहणमाहुः कुशाः

काशायवादूर्वा उशीराश्चसकुन्दकाः । गोधूमाव्रीहयोमौञ्जादशदर्भाः सबल्वजाः१ विरिञ्चिनासहोत्पन्न परमेष्ठिनिसर्गज ।

नुदसर्वाणिपापानिदर्भस्वस्तिकरोभव २ एवं मन्त्रंसमुच्चार्यततः पूर्वोत्तरामुखः । हंफट्‌कारेणमन्त्रेण सकृच्छित्वासमुद्धरेत ३

चतुर्भिर्दर्भैर्विप्रस्य पवित्रं क्षत्रियादेरेकैकन्यूनम् सर्वेषांबाभवेत् द्वाभ्यांपवित्रंग्रंथितंनवा ॥

इति श्रीमदनन्तोपाध्यायसूनुकाशीनाथोपाध्यायविरचितेधर्मसिन्धुसारेश्रावणमास निर्णयोद्देशः ।