३७ पूजानन्तरंकृत्यामग्निपुराणे

इत्येवं पूजयित्वातुपुरुषसूक्तैःसवैष्णवैः । स्तुत्वावादित्रनिर्घोषैर्गीतिवादित्रमङ्गलैः १ सुकथाभिर्विचित्राभिस्तथाप्रेक्षणकैरपि ।

पूर्वेतिहासैःपौराणैःक्षिपेत्तांशर्वरीनृप २ इति अत्रकथासुवैचित्र्यंदेश भाषाकाव्यकृतं सूक्तानांप्रागुक्तेः पुराणकथानामन्तेभिधानात्

प्रेक्षणकानि नृत्यादीनि

तथाचवैदिकसूक्तकरणकस्तुतिविशिष्टःपौराणेतिहासमिश्रितोगीतनृत्ययुतदेशभाषाकाव्यप्रमुखकथाकरणकोजागरोविप्रादिवर्णत्रयस्यविधीयते

शूद्रादीन्प्रति एतादृशजागरस्य विधातुमयोग्यत्वात् वचनान्तरेणतुसूक्तादिरहितगीतादिविशिष्टोवर्णचतुष्ट्यसाधारणोविधीयते

गोकुलस्थजन्मलीलादि श्रवणोत्तरंवैष्णवैःपरस्परंदध्यादिभिःसेचनंकार्यम् । दधिक्षीरघृताम्बुभिः ।

आसिञ्चन्तोविलिम्पन्त इत्यादिभागवतवचनेनतथाविधिकल्पनात् अयमुत्सवोधुनामहाराष्ट्रदेशेगोपालकालेतिव्यवहियत

इति मेभाति एतत्सर्वं कौस्तुभे श्रीमदनन्तदेवैःस्पष्टीकृतमस्तीति नमह्यमसूयाकार्या

एतादृशकथायुतोजागरोन्यत्ररामनवम्येकादश्याद्युत्सवेष्वप्यूह्यः

पूजाजागरादिविशिष्टव्रतोत्सवसाम्यात् महाराष्ट्रीयेषुतथाचाराच्च भगवत्प्रेमादिभाग्यशालिनस्तु

पर्वणिस्युरुतान्वहमितिन्यायेनप्रत्यहमेवोक्तविधिकथोत्सवं कुर्वन्तीतिभाति ।

ततोनव्यांब्राह्मणान् भोज्यदक्षिणादिदिभिःसन्तोष्योक्तपारणानिर्णीतेकालेभोजनंकुर्यात् अस्यैवजयन्तीव्रतस्यसंवत्सरसाध्यःप्रयोगः

श्रावणकृष्णाष्टमीमारभ्यप्रतिमांसकृष्णाष्टम्यामुक्तविधिनापूजादिरूपः पुराणान्तरे उक्तः अत्रोद्यापनविधिर्ग्रन्थान्तरेज्ञेयः

इति जन्माष्टमीनिर्णयः ।