तत्राष्टमीद्विविधा शुद्धाविद्धाचदिवारात्रौवासप्तमी योगरहितायत्रदिनेयावतीतत्र तावतीशुद्धा
दिवारात्रौवासप्तमीयोगवतीयस्मिन्नहोरात्रेयावतीतत्रतावतीविद्धा सापुनर्दिविधारोहिणीयुतारोहिणीयोगरहिताचेति
तत्ररोहिणीयोगरहितकेवलाष्टमीभेदाः सप्तमीनाड्यः ५९ पलानि ५९ अष्टमी ५८।५ अस्यांशुद्धायां संदेहोनास्ति
द्वितीयकोट्यभावात् सप्तमी २ अष्टमी ५५ अस्यांविद्धायामप्यसंदेहः दिनान्तरे अभावेद्वितीयकोट्यभावात् यदा
दिनद्वयेकेवलाष्टमीवर्ततेतदाचत्वारः पूर्वेद्युरेवनिशीथव्यापिनी परेद्युरेवनिशीथव्यापिनीदिनद्वयेपिनिशीथव्यापिनी
दिनद्वयेपिनिशीथव्याप्त्य भाव इति रात्र्यर्धंनिशीथपदार्थः स्थूलदृष्ट्यात्वष्टमोमुहर्तोनिशीथः तत्रपूर्वेद्युरेव निशीथव्यापिनीयथा
सप्तमी ४० अष्टमि ४२ अत्र सप्तमीयुतापूर्वविद्धैवाष्टम्युपोष्या यथावाष्टमी६०।४ इयंशुद्धाधिकापिपूर्वेव
परेद्युरेवनिशीथेयथासप्तमी ४७ अष्टमी ४६ अत्रपरैवाष्टम्युपोष्या उभयत्रनिशीथेयथा सप्तमी४२ अष्टमी ४६
अत्रापिपरैवाष्टमीग्राह्या अत्रसर्वत्रसप्तमीयुक्तायारांत्रिपूर्वार्धावसानेकलयाप्यष्टम्याः सत्वे एवनिशीथव्यापित्वं
नवमीयुक्तायांरात्र्युत्तरार्धादिभागेसत्व एवोत्तरत्रनिशीथव्यापित्वं सप्तमीदिने उत्तरभागे
एवसत्त्वेनवमीयुतदिनेपूर्वभाग एवसत्त्वेचनिशीथाव्यापित्वपक्श एवमन्तव्यः एवं वक्ष्यमाणरोहिणीयुक्तभेदेष्वपिज्ञेयम्
रोहिणीयुताष्टम्यामपिपूर्वदिन एवनिशीथेऽष्टमीरोहिण्योर्योगःपरदिन एवनिशीथेयोगःदिनद्वये निशीथेयोग इति पक्षत्रयम्
पूर्वेद्युरेवनिशीथेयोगोयथासप्तमी ४० तद्दिनेकृत्तिका ३५ अष्टमी ४६ तद्दिनेरोहिणी ३६ अत्रपूर्वविद्धैवाष्टम्युपोष्या
परदिन एवनिशीथयोगो यथा सप्तमी ४२तद्दिनेकृत्तिका ५० अष्टमी ४७ रोहिणी ४६ अत्रपरैवाष्टमीग्राह्या
दिनद्वयेनिशीथेऽष्टमीरोहिण्योर्योगोयथा सप्तमी ४२ कृत्तिका ४३ अष्टमी ४७ रोहिणी ४८ अत्रपरैवाष्टमीग्राह्या
अथरोहिणीयुताष्टम्यामेवदिनद्वयेपिनिशीथेरोहिणीयोगाभावोबहुधासंभवति ।