२९ यजुर्वेदनिर्णयः

तत्रबह्‌वृचानांश्रवणवत्सर्वयजुर्वेदिनांश्रावणपौर्णमासीमुख्यकालः पौर्णमास्याः

खंडत्वेयदापूर्णिमापूर्वदिनेमुहूर्ताद्यनन्तरंप्रवृत्ताद्वितीयदिनेषण्मुहूर्तव्यापिनीतदासर्वयाजुषाणामुत्तरैव

यदाशुद्धाधिकतयादिनद्वयेपिसूर्योदयव्यापिनीतदासर्वयाजुषाणांपूर्वैव

पूर्वदिनेमुहूर्ताद्यनन्तरंप्रवृत्ताद्वितीयदिनेमुहूर्तद्वयत्रयादिव्यापिनीषण्मुहूर्तन्यूनातदातैत्तिरीयैरुत्तराग्राह्या

तैत्तिरीयभिन्नयाजुषैःपुर्वाग्राह्या यदापुर्वदिनेमुहूर्ताद्यनन्तरंप्रवृत्ताद्वितीयदिने

मुहूर्तद्वयन्यूनाभवतिक्षयवशान्नास्त्येववातदासर्वयाजुषाणांपूर्वैवहिरण्यकेशीतैत्तिरीयाणां

श्रावणीपौर्णमासीमुख्यःकालस्तदभावेश्रावणेहस्तःश्रावणशुक्लपञ्चमीतुतत्तत्सूत्रेनुक्तेर्नग्राह्या

एतदेवभाद्रपदेपिकालद्वयमितिविशेषः खण्डतिथित्वेनिर्णयः पुर्वोक्त एव हस्तनक्षत्रमपि औदयिकंसङ्गवस्पर्शिग्राह्यमन्यथापूर्वविद्धमेव

आपस्तम्बानांश्रावणीपौर्णमासीमुख्यातदभावे भाद्रपदीतिविशेषः बौधायनानां श्रावणीपौर्णमासीमुख्या

दोषसंभावनयातदभावे आषाढीतिविशेषः एतेषामपिखण्डतिथित्वेपूर्वोक्त एवनिर्णयः ।