२३ वामनपूजनेननरमेधफलम्

आषाढशुक्लद्वादश्यांवामनपूजनेननरमेधफलम्

पूर्वाषाढायुतायांपौर्णिमास्यामन्नपानादिदानादक्षय्यान्नादिप्राप्तिः अस्यामेवपौर्णमास्यांप्रदोषव्यापिन्यां

श्रीशिवस्यशयनोत्सवः अस्यामेवकोकिलाव्रतम् तत्र स्नानंकरिष्येनियताब्रह्मचर्येस्थितासती ।

भोक्ष्यामिनक्तंभूशय्यांकरिष्येप्राणिनांदयाम् १ इति मासव्रतंसंकल्प्य कोकिलारूपिणींशिवांप्रत्यहंसंपूज्यनक्तभोजनम्

यस्मिन्वर्षेऽधिकाषाढस्तस्मिन्नेववर्हेशुद्धाषाढेव्रतंकार्यमित्याचारः सनिर्मूलः आषाढस्यश्रावणस्यवा

पौर्णमास्यांचतुर्दश्यामष्टम्यांवाशिवपवित्रारोपणमुक्तम्

अस्यांपौर्णमास्यांसंन्यासिनांचातुर्मास्यावाससंकल्पाङ्गत्वेनक्षौरव्यासपूजादिकविहितम् अत्रकर्मणि

औदयिकीत्रिमुहूर्तापौर्णमासीग्राह्या चातुर्मासस्यमध्येतुवपनं वर्जयेद्यतिः ॥ चातुर्मासंद्विमासंवासदैकत्रैवसंवसेत् १