१८ एकादश्यांविष्णुशयनोत्सवः

तत्रसोपस्करेमञ्चकेसुप्तांश्रीविष्णुप्रतिमां शङ्खादिंचतुरायुधांलक्ष्मीसंवाहितचरणांनानाविधोपचारैः संपूजयेत् ।

सुप्तेत्वयि जगन्नाथेजगत्सुप्तंभवेदिदम् । विबुद्धेत्वयिबुद्ध्येततत्सर्वं सचराचरम् १

इति प्रार्थ्य उपोष्यजागरंकृत्वाद्वादश्यांपुनःसंपूज्यत्रयोदश्यां गीतनृत्यवाद्यादिकं निवेदयेत्

एवमिदंत्रिदिनसाध्यंव्रतम् तत्रस्मार्तैर्वैष्णवैश्चस्वस्वैकादशीव्रतदिने शयनीव्रतमारब्धव्यम् रात्रौशयनोत्सवः

दिवाप्रबोधोत्सवः द्वादश्यांपारणाद्वेशयनप्रबोधोत्सवावितिकेचित् अत्रदेशाचाराह्यवस्था नेदंमलमासेकार्यम्

आषाढशुद्धद्वादश्यामनुराधायोगरहितायांपारणंकार्यम् तत्रापि अनुराधाप्रथम पादयोग एववर्ज्यः

यदातुद्वादशीस्वल्पावर्ज्यनक्षत्रभागोद्वादशीमतिक्रम्यविद्यतेतदानिषेधमनादृत्यद्वा दश्यामेवपारणंकार्यमितिकौस्तुभे उक्तम्

सङ्गवकालभागंत्यक्त्वाप्रातर्मध्याह्नभागेवाभोक्तव्यमितिपुरुषार्थचिन्तामणौ ।