१७ अषाढेदक्षिणायनसंज्ञाकर्कसंक्रान्तिः

कर्कसंक्रान्तौ पूर्वं त्रिंशन्नाड्यः पुण्यकालः तत्रापिसंक्रांन्तिसन्निहितानाड्यःपुण्यतमाः

रात्रावर्धरात्रात्प्राक्‌परतश्चसंक्रमेपिपूर्वदिनेपुण्यकालःतत्रापिमध्याह्नात्परतः पुण्यतमत्वम्

सूर्योदयोत्तरंघटीद्वयात्प्राक्‌संक्रमेपरत एवपुण्यम् ज्योतिर्ग्रन्थेतुसूर्योदयात्प्राक्‌घटीत्रयात्मक

संध्यासमयेपिकर्कसंक्रमेपरदिने एवपुण्यमित्युक्तम्

अत्रदानोपवासादिप्रथमपरिच्छेदे उक्तम् कर्ककन्याधनुःकुम्भस्थेरवौ केशकर्तनादिकांनीनिषिद्धम्

आषाढेमासमेकभक्तव्रतेकृतेबहुधनधान्यपुत्रप्राप्तिः अत्रमासे उपानच्छत्रलवणामलकानिवामनप्रीत्यैदेयानि

आषाढशुक्लद्वितीयायांपुष्यनक्षत्रयुतायांकेवलायांवा श्रीरामस्यरथोत्सवः

आषाढशुक्लपक्षेदशमीपौर्णमासीचमन्वादिः तन्निर्णयस्तूक्तः