१३५ शनिव्रतम्

अथशनिव्रतम् लोहमयंशनितैलकुम्भेलोहैमृन्मयेवानिक्षिष्यकृष्णवस्त्राभ्यांकम्बलेनवायुतंकृष्णैः

सुगन्धपुष्पैश्चकृसरान्नैस्तिलोदनैःपूजयित्वा कृष्णायद्विजायतदभावेऽन्यस्मैसधनिर्देयः तत्रशन्नोदेवीरितीमन्त्रः

शूद्रादेस्तु यःपुनर्नष्टराज्यायनलायपरितोषितः ।

स्वप्नेददौनिजंराज्यंसमेसौरिःप्रसीदतु १ नमोर्कपुत्रायशनैश्चरायनीहारवर्णाञ्जनमेचकाय ।

श्रुत्वारहस्यंभवकामदस्त्वं फलप्रदोमेभवसूर्यपुत्र २ इत्यादयः

एवं व्रतंप्रतिशनिवारंसंवत्सरंकार्यम् कोणस्थः पिङ्गलोबभ्रुःकृष्णोरौद्रोन्तकोयमः ।

सौरिःशनैश्चरोमन्दःपिप्पलादेनसंस्तुतः । इति दशनामानिवानित्यंपठनीयानि

अथशनिस्तोत्रम् पिप्पलाद उवाच नमस्ते कोणसंस्थायपिङ्गलायनमोस्तुते ।

नमस्तेबभ्रुरूपायकृष्णायचनमोस्तुते १ नमस्तेरौद्रदेहायनमस्तेचान्तकायच ।

नमस्तेयमसंज्ञायनमस्तेसौरयेविभो २ नमस्तेमन्दसंज्ञायशनैश्चरनमोस्तुते ।

प्रसादंकुरुदेवेशदीनस्यप्रणतस्यच ३ अनेनस्तोत्रेणप्रत्यहं प्रातःशनिस्तवनेनसार्धसप्तवार्षिकशनिपीडानाशः ।