१३० फाल्गुनवद्यद्वितीयामहोत्सवः

कृष्णद्वितीयायांदेशग्रामाधिपतिर्विततेवितानादिशोभितेदेशेरम्यासने उपविश्यपौरजानपदानलोकान्‌सिन्दूरादिक्षौदैः

चन्दनादिभिः पट्टवासैश्चविक्रीर्यतेभ्यस्ताम्बूलादिदत्वानृत्यगीतविनोदैर्महोत्सवं कुर्यात् इदानींप्राकृतजनास्तुकृष्ण

पञ्चमीपर्यन्तमेतमुत्सवं कुर्वन्ति इति होलिकोत्सवः ।

फाल्गुनामावास्यामन्वादिःसापराह्णव्यापिनीग्राह्या

इति श्रीमदन्तोपाध्याय-सुनुकाशीनाथोपाध्यायविरचितेधर्मसिंधुसारेफाल्गुनमासकृत्यनिर्णयोद्देशःसमाप्तः