१२७ भद्रामुखपुच्छलक्षणम्

अथभद्रामुखपुच्छलक्षणम् । पूर्णिमायां भद्रायास्तृतीयेपादान्तेघटीत्रयं

पुच्छम् चतुर्थपादाद्यघटीपञ्चकंमुखम् तथाचमध्यममानेनषष्टिघटीमितायां

पूर्णिमायांपौर्णिमाप्रवृत्त्युत्तरंसार्धैकोनविंश्तिघटिकोत्तरंघटीत्रयंपुच्छम्

सार्धद्वाविंशतिघटिकोत्तरघटीपञ्चकंमुखम् तिथेश्चतुःषष्टिघटीमितत्वे

पूर्णिमाया एकविंशतिघटिकोत्तरंपुच्छम् चतुर्विंशतिघटिकोत्तरंमुखम् एवं तिथेर्मानान्तरप्यूह्यम् ।