१२४ शिवनिर्माल्यविचार

शिवनिर्माल्यग्रहणाग्रहणविचारस्तृतीयपरिच्छेदेज्ञेयः मासशिवरात्रिनिर्णयः प्रथमपरिच्छेदे उक्तः

शिवरात्रिव्रतोद्यापनंकौस्तुभादौज्ञेयम् मासशिवरात्रिव्रतोद्यापनमपिकौस्तुभेस्पष्टम्

माघामावास्यायामपराह्णव्यापिन्यांयुगादित्वादपिण्डकंश्राद्धंकार्यम् तच्चदर्शश्राद्धेनसहतन्त्रंकार्यम्

माघामावास्यायांशततारकायोगेपरमःपुण्यकालस्तत्रश्राद्धात्परमापितृतृप्तिः

इति श्रीमदनन्तोपाध्यायसुनुकाशीनाथोपाध्यायविरचितेधर्मसिन्धुसारेमाघमासकृत्यनिर्णयोद्देशः ।