१२२ मृन्मयलिङ्गेशिवपूजा

अथमृन्मयलिङ्गेशिवपूजाचिकिर्षायांतद्विधिः

ॐ हरायनम इति मृदमाह्रत्यशोधितांतस्यांजलप्रक्षेपेणसंपीड्यतेनपिण्डेन

ॐमहेश्वरायनम इति लिङ्गंकुर्यात् तच्चलिङ्गमशीतिगुञ्जात्मककर्षादधिकपरिमाणमङ्गुष्ठमात्रंततोधिकंवाकार्यंनन्यूनम् ।

मृन्मयलिङ्गेपञ्चसूत्रसंपादनाभावेपिनदोषः अत एव सप्तकृत्वस्तुलारूढंवृद्धिमेतिनहीयते ।

बाणलिङगमितिप्रोक्तंशेषंमार्मदमुच्यते १ इत्युक्तलक्षणाद्वाणलिङ्गादतिर्दुलभाद्दःसंपाद्य पञ्चसूत्रसंपादनात्सुवर्णादि

लिङ्गांच्चमृन्मयलिङ्गंश्रेष्ठम्द्वापरेपारदंश्रेष्ठंपार्थिवं तुकलौयुगे ।

इति वचनाच्च ततः ॐशूलपाणये नमः शिव इहप्रतिष्ठितोभवेतिसबिल्वपत्रेपूजापीठेप्रतिष्ठाप्य ध्यायेन्नित्यंमहेशमितिध्यात्वा

ॐपिनाकधृषेनमः श्रीसाम्बसदाशिव इहागच्छ इह प्रतिष्ठेहसन्निहितोभवेत्यावाहयेत्

इहद्विजानाम्सर्वत्रमूलमन्त्रोपिज्ञेयःततःॐनमःशिवायेतिमूलमन्त्रेणपाद्यमर्घ्यमाचमनंदत्त्वापशुपतयेनम इति मूलेनचस्नानं

वस्त्रमुपवीतंगन्धंपुष्पंधूपद्पनैवेद्यफलताम्बूलनीराजनमन्त्रपुष्पाञ्जलीन्दत्त्वाशर्वायक्षितिमूर्तयेनम इति प्राच्यांपूजयेत्

भवायजलमूर्तयेनमः ईशान्यां रुद्रायाग्निमूर्तये० उदीच्या उग्रायवायुमूर्तयेनमः वायव्यां भीमायाकाशम्० प्रतीच्यां

पशुपतयेयजमानमूर्तयेनम इति नै ऋत्यामहादेवायसोममूर्तयेनम इति दक्षिणस्यां ईशानायसूर्यमूर्तयेनमैत्याग्नेय्यां

ततःस्तुत्वानमस्कृत्यमहादेवायनम इति विसर्जयेदितिसंक्षेपः विस्तरस्तुपुरुषार्थचिन्तामणौज्ञेयः

शिवरात्रिश्चेत्पूर्वोक्तपूजाविधिःपार्थिवलिङ्गेपिकार्यः पार्थिवलिङ्गोद्यापनविधि कौस्तुभादौज्ञेयः ।