११६ माघीपूर्णिमा

माघीपूर्णिमापरा अत्रकृत्यम् एवं माघावसानेतुदेयंभोज्यमवारितम् ।

भोजयेद्विजदांपत्यंभूषयेद्वस्त्रभूषणैः १ कम्बलाजिनरक्तवस्त्राणितूलगर्भचोलकानि

उपानहौप्रच्छादनपटाश्चैतानिमाधवःप्रीयतामित्युक्त्वादेयानि

अथकृतस्यमाघस्नानस्यसाङ्गतार्थमुद्यापनंकरिष्य इति संकल्प्य सवित्रे प्रसवितेचपरंधामजलेमम ।

त्वत्तेजसापरिभ्रष्टंपापंयातुसहस्त्रधा १ दिवाकर जगन्नाथप्रभाकरनमोस्तुते ।

परिपूर्णकरिष्येहंमाघस्नानंतवाज्ञया २ इति मन्त्राभ्यामपिसंकल्पः कार्यः

एवं चतुर्दश्यांसंकल्पोपवासाधिवासनमाधवपूजनानिकृत्वापूर्णिमायांतिलचर्वाज्यैष्टोत्तर

शतहोमंकृत्वातिलशर्करागर्भत्रिंशन्मोदकात्मकंवायनंदेयम् तन्त्रमन्त्रौ

सवितःप्रसवस्त्वं हिपरंधामजलेमम । त्त्वत्तेजसापरिभ्रष्टंपापंयातुसहस्त्रधा१ दिवाकरजगन्नाथप्रभाकरनमोस्तुते ।

परिपूर्णकुरुष्वेहमाघस्नानमुषःपते २

इति ततोदम्पत्योःसूक्ष्मवाससीसप्तधान्यानिचदत्त्वाब्राह्मणेभ्योदाम्पत्यायचषड्रसभोजनंदेयम्

तत्रमन्त्रःसूर्योमेप्रियतांदेवोविष्णुमूर्तिर्निरञ्जनः

इति एवं माघप्लवीयातिभित्त्वादेवं दिवाकरम् । परिव्राडयोगयुक्तश्चरणेचाभिमुखेहतः १ इति ।