११४ भीष्माष्टमी

माघशुक्लाष्टमीभीष्माष्टमी अस्यांभीष्मोद्देशेनयेश्राद्धंकुर्वन्तितेसन्ततिमन्तोभवन्ति

तत्रश्राद्धंकाम्यंतर्पणंतुनित्यम् तर्पणेकृतेसंवत्सरोपात्तुदुरितनाशः अकृतेपुण्यनाश इत्युक्तेः

तत्रतर्पणमन्त्रः वैयाघ्रपद्यगोत्रायासांकृत्यप्रवरायच । गङ्गापुत्रायभीष्माय आजन्मब्रह्मचारिणे १

अपुत्रायजलंदद्मिनमोभीष्मायवर्मणे । भीष्मः शान्तनवोवीरः सत्यवादीजि एंद्रियः २

आभिरद्भिरवाप्नोतुपुत्रपौत्रोचितांक्रियाम् ।

इति एवमपसव्येनतर्पणंकृत्वाचम्यसव्येनार्घ्यंदद्यात् वसूनामवतारायशन्तनोरात्मजायच ।

अर्घ्यददामिभीष्माय आबाल्यब्रह्मचारिणे १ इति अत्रजीवत्पितृकस्यानाधिकार इति कौस्तुभः

जीवत्पितृकस्याप्यधिकार इति बहवः अत्रमध्याह्नव्यापिनी अष्टमीग्राह्या श्राद्धादेरेकोद्दिष्टत्वादिति ।