१० तृतीयापरशुरामजयन्ती

इयंरात्रिप्रथमयामव्यापिनीग्राह्या पूर्वेद्युरेवप्रथमयामव्याप्तौ पूर्वा

दिनद्वयेरात्रिप्रथमयामेसाम्येनवैषम्येणवैकदेशव्याप्तौपरा अत्रप्रदोषेपरशुरामसंपूज्यार्घ्यदद्यात् तत्रमन्त्रः ।

जमदग्निसुतोवीरक्षत्रियान्तकरप्रभो ।

गृहाणार्घ्यंमयादत्तंकृपयापरमेश्वर १ इति वैशाखशुक्लसप्तम्यां गङ्गोत्पत्तिस्तस्यां

मध्याह्नव्यापिन्यांगङ्गापूजनंकार्यम् दिनद्वयेतद्वयाप्तौपूर्वा । वैशाखमासेद्वादश्यांपूजयेन्मधुसूदनम् ।

अग्निष्टोममवाप्नोतिसोमलोकंचगच्छति १ वैशाखशुक्लचतुर्दशीनृसिंहजयन्ती सा सूर्यास्तमयकालव्यापिनीग्राह्या

दिनद्वयेतद्वयाप्तौतदव्याप्तौवापरैव स्वातीनक्षत्रशनिवारादियोगेसातिप्रशस्ता ।