१०८ माघेतिलपात्रदानं

अथमाघेतिलपात्रदानंप्रशस्तम् तत्प्रयोगः ताम्रपात्रेतिलान्कृत्वापलषोडशनिर्मिते ।

सहिरण्यंस्वशक्त्यावाविप्रायप्रतिपादयेत १ वाङ्मनः

कायजत्रिविधपापनाशपूर्वकंब्रह्मलोकप्राप्तिकामस्तिलपात्रदानंकरिष्ये उक्तपरिमाणेताम्रपात्रे

प्रस्थतिलान्कर्षसुवर्णयुतान्यथाशक्तिसुवर्णयुतान्वाकृत्वाविप्रंसंपूज्य देवदेव जगन्नाथवांच्छितार्थफलप्रद ।

तिलपात्रंप्रदास्यामितवाङ्गेसंस्थितोह्यम् १ इति मन्त्रेणदद्यात् धान्यमानेतुकुडवोमुष्टीनांस्याच्चतुष्टये ।

चत्वारःकुडवाःप्रस्थश्चतुःप्रस्थमथाढकम् १ अष्टाढकोभवेद्‌द्रोणोद्विद्रोणःशूर्प उच्यते ।

सार्धशूर्पोभवेत्खारीत्युक्तरीत्यापलंसुवर्णाश्चत्वारःकुडवं प्रस्थमाढकम् ।

द्रोणंचखारिकाचेति पूर्वपूर्वाच्चतुर्गुणम् १ इत्युक्तरीत्यावाप्रस्थमानस्वरूपंज्ञेयम् यद्वा हिरण्यरहितात्तिलांस्ताम्रपात्रे

निधाय तिलाःपुण्याःपवित्राश्चसर्वपापहराःस्मृताः ।

शुक्लाश्चैवतथाकृष्णाविष्णुगात्रसमुद्भवाः १ यानिकानिचपापानिब्रह्महत्यासमानिच ।

तिलपात्रप्रदानेनतानिनश्यन्तुमेसदा १ इदंतिल पात्रं यथाशक्तिदक्षिणासहितं

यमदैवतंब्रह्मलोकप्राप्तिकामस्तुभ्यमहंसंप्रदद इति दद्यात् अथहिरण्यतुलसीपत्रदानमन्त्राः सुवर्णतुलसीदानाद्‌ब्रह्मणःकार्यसंभवात् ।

पापं प्रशममायातुसर्वे सन्तुमनोरथाः १ अथशालग्रामदानमन्त्रः शालग्रामशिलापुण्या भुक्तिमुक्तिप्रदायिनी ।

शालग्रामप्रदानेनममसन्तुमनोरथाः १ चक्राङिकतसमायुक्ताशालग्रामशिलाशुभा ।

दानेनैवभवेत्तस्या उभयोर्वाञ्छितं फलम् १ ।