१०५ माघस्नानम्

अथमाघस्नानम् तत्रपौषस्यशुक्लैकादश्यांपौर्ममास्याममावास्यायांवामाघस्नानारम्भः

माघेद्वादशीपूर्णिमादौसमापनम् यद्वा मकरसंक्रमणप्रभृतिकुम्भसंक्रमणपर्यन्तंस्नानंकार्यम् ।

अथस्नानकालः अरुनोदयमारभ्यप्रातःकालावधिः उत्तमंतुसनक्षत्रंलुप्ततारंचमध्यमम् ।

सवितर्युदितेभूपततोहीनंप्रकीर्तितम् १ माघमासेरटन्त्यापःकिंचिदभ्युदितेरवौ ।

ब्रह्मघ्न्वासुरापंवाकंपतन्तंपुनीमहे २ अत्राधिकारिणः ब्रह्मचारीगृहस्थोवावानप्रस्थोऽथभिक्षुकः ।

बालवृद्धयुवानश्चनरनारी नपुंसकाः १ इति अथजलतारतम्येनफलम् तप्तेनवारिणास्नानंद्‌गृहेक्रियतेनरैः ।

षडब्दफलदंतद्धिमकरस्थेदिवाकरे १ वाप्यादौद्वादशाब्दफलम् तडागेतद्‌द्विगुणम् नद्यांतश्चतुर्गुणम् महानद्यांशतगुणम्

महानदीसंगमे तच्चतुर्गणम् गङ्गायांसहस्त्रगुणम् गङ्गायमुनासंगमे एतच्छतगुणमिति

यत्रकुत्रापिस्नाने प्रयागस्मरणंकार्यम् इदंसमुद्रेप्यतिप्रशस्तम् ।