१०२ दत्तात्रेयोत्पत्तिः

मार्गशीर्षपौर्णिमास्यांदत्तात्रेयोत्पत्तिः इयंप्रदोषव्यापिनीग्राह्या मार्गशीर्षशुक्लचतुर्दश्यांपौर्णमास्यांवाप्रदोषे

आश्वालायनैःप्रत्यवरोहणंकार्यम् तत्रकर्मकालव्यापिनीतिथिःतत्प्रयोगःप्रयोगरत्नकौस्तुभादौज्ञेयः

मार्गशीर्षादिमासचतुष्ट्यस्यकृष्णाष्टमीष्वष्टकाश्राद्धानि तत्पूर्वसप्तमीषुपूर्वेद्युःश्राद्धानि तदुत्तरनवमिषुचान्वष्टक्यश्राद्धानि कर्तव्यानि

एवं भाद्रकृष्णपक्षेपि अष्टकादिश्राद्धानिकार्याणीपतिपञ्चाष्टकापक्ष आश्वलायनभिन्नशाखिनाम् आश्वलायनांनातुमार्गादि

चतुरष्टकापक्ष एव भाद्रपदकृष्णाष्टम्यांतु माध्यावर्षश्राद्धंकरिष्ये इति संकल्प्य सर्वमष्टकाश्राद्धवत्कार्यम्

सप्तम्यांतुमाध्यावर्षश्राद्धंकर्तुपूर्वेद्युःश्राद्धंकरिष्य इति संकल्पः नवम्यामन्वष्टकाश्राद्धंकरिष्य इति संकल्प इति विशेषः

एवं भाद्रकृष्णाष्टमीश्राद्धस्य माध्यावर्षसंज्ञकत्वादाश्वलायनानांचतुरश्टकापक्षः अन्यशाखिनांपौषादिव्यष्टकापक्षोऽपि

एवं सर्वा अष्टकाःकर्तुमशक्तेन एकैवाष्टकाकार्यासाचमाघपौर्णिमास्यनन्तरकृष्णपक्षस्यसप्तम्यामष्टम्यांनवम्यामितिदिनत्रयेकार्या

दिनत्रयेश्राद्धत्रयंकर्तुमशक्तेनमाघकृष्णेऽष्टमीश्राद्धमेवकार्यम् तत्राष्टकाश्राद्धेऽपराह्नव्यापिन्यष्टमीग्राह्या

दिनद्वयेव्याप्त्यव्याप्त्यादौदर्शवन्निर्णयः अष्टम्यनुरोधेनपूर्वपरदिनयोःपूर्वेद्युःश्राद्धान्वष्टक्यश्राद्धेकार्ये

नतुसप्तम्यादेरपराह्णव्याप्तिरपेक्शनीया एकदिनेप्यशक्तस्यप्रत्याम्नायाः अनडु ओयवसमाहरेत

अग्निनावाकक्षंदहेदपिवानूचानेभ्य उदकुम्भमाहरेदपिवाश्राद्धम्त्रानधीयीतेतिक्वचिदुपवासोऽप्युक्तः

एवं श्रवणाकर्मादिपाकसंस्थालोपेप्रतिपाकयज्ञंप्राजापत्यकृच्छ्रप्रायश्चित्तमुक्तम् मलमासेऽष्टकाश्राद्धनिनकार्याणीतिनारायणवृत्तिः

अष्टकादिश्राद्धत्रयप्रयोगः कौस्तुभप्रयोगरत्नादौ अत्राष्टमीश्राद्धेकामकालसंज्ञकौविश्वेदेवौ सप्तमीनवम्योस्तुपुरूरवार्द्रवाविति

आहिताग्नेः पूर्वेद्युः श्राद्धाङ्गहोमोऽष्टकाङ्गहोमोन्वष्टकाग्नौकरणहोमोदिनत्रयेहविः श्रपणंचदक्षिणाग्नौभवतीतिविशेषः

शेषमनाहिताग्निवत् अष्टकालोपेप्राजापत्यमुपवासोवाप्रायश्चित्तम् अन्वष्टक्यलोपेतद्दिनेशतवारमेभिर्द्युभिःसुमना इति मन्त्रजपः ।