०७ चैत्रशुक्लद्वादश्यांविष्णोर्दमनोत्सवः

सचपारणाहे पारणाहेनलभ्येतद्‌द्वादशीघटिकापिचेत् ।

तदात्रयोदशीग्राह्यापवित्रमनार्पणे १ इत्युक्तेः शिवस्यतुचतुर्दश्यांकार्यः अथप्रयोगः उपवासदिनेनित्यपूजांकृत्वादमनकस्थानंगत्वाक्रयेण

तमादायचन्दनादिनसंपूज्यश्रीकृष्णपूजार्थंत्वांनेष्ये

इति प्रार्थ्यप्रणमेत् अन्यदेवतासुयथादैवतमूहःततोदमनकंगृहमानीयपञ्चगव्येनशुद्धोदकेनचप्रक्षाल्यदेवाग्रेस्थापयित्वा

तस्मिन्दमनके अशोककालवसन्तकामान्काममात्रंवागन्धादिभिःपूजयेत् तत्र नमोस्तुपुष्पबाणायजगदाहलादकारिणे ।

मन्मथायजगन्नेत्रेरतिप्रीतिप्रियायते १ इति कामावाहनमन्त्रः कामभस्मसमुद्भतरतिबाष्पपरिप्लुत ।

ऋषिगन्धर्वदेवादिविमोहकनमोस्तुते १ इति दमनकमुपस्थाय

ॐ कामायनम इति मन्त्रेणसपरिवारायकामरूपिणेदमनकायगन्धाद्युपचारान्दद्यात्

ततोरात्रौदेवसंपूज्याधिवासनंकुर्यात् तदित्थम् देवाग्रेसर्वतोभद्रंसंपाद्यतत्रकलशं

संस्थाप्यतत्रधौतवस्त्राच्छन्नंदमनकंवैणवपटलेस्थापितंनिधायपूजार्थंदेवदेवस्यविष्णोर्लक्ष्मीपतेःप्रभो ।

दमनत्वमिहागच्छसानिध्यंकुरुतेनमः १ इति दमनकदेवतामावाह्यप्रागाद्यष्टदिक्षु ।

क्लींकामदेवायनमोह्रंरत्यैनमः १ क्लींभस्मशरीरायनमोर्‍हींरत्यैनमः २ क्ली अनङ्गायनमोहींरत्यै० २

क्लीमन्मथायनमोहीरंरत्यै० ४ क्लीवसन्तसखायनोमोर्‍हींरत्यै० ५ क्लींस्मरायनमोर्‍हीं रत्यै ६

क्लीं इक्षुचापायनमोर्‍हीं रत्यै० ७ क्लीपुष्पबाणास्त्रायनमोर्‍हींरत्यै०८ इति पूजयेत्तपुरुषायविद्‌महेकामदेवायधीमहि ।

तन्नोनङ्गःप्रचोदयात् । इति गायत्र्यादमनकमष्टोत्तरशतमभिमन्त्र्यगन्धादिभिःसंपूज्यर्‍हींनम इति पुष्पांजलिदत्वा

नमोस्तुपुष्पबाणाय इति पूर्वोक्तावाहनमन्त्रेणनमेत् क्षीरोदधिमहानागशय्यावस्थितविग्रह ।

प्रातस्त्वांपूजयिष्यामिसन्निधौभवतेनमः १ इति देवं प्रार्थ्यपुष्पाञ्जलिंदत्वातस्यामेकादश्यांरात्रौ

जागरणंकुर्यात् प्रातर्नित्यपूजांकृत्वापुनर्देवं संपूज्यदूर्वागन्धाक्षतयुतांदमनकमञ्जरीमादायमूलमन्त्रंपठित्वा

देवदेवजगन्नाथवाञ्छितार्थप्रदायक । ह्रत्स्थान्पूरयमेविष्णोकामान्कामेश्वरीप्रिय १ इदंदमनकंदेवगृहाणमदनुग्रहात् ।

इमांसांवत्सरीपूजांभगवन्परिपूरय २ पुनर्मूलंजप्त्वादेवेदमनमर्पयेत् ततोयथाशोभं

दत्वाङ्गदेवताभ्योदत्वादेवं प्रार्थयेत् मणिविद्रुममालाभिर्मन्दारकुसुमादिभिः ।

इयंसावत्सरीपूजातवास्तुगरुडध्वज १ वनमालांयथादेवकौस्तुभंसततंह्रदि ।

तद्वद्दामनकींमालांपूजांचह्रदयेवह २ जानताजानतावापिनकृतंयंत्तवार्चनम् ।

तत्सर्वं पूर्णतांयातुत्वत्प्रसादाद्रमापते ३ जितंतेपुण्डरीकाक्षमस्तेविश्वभावन ।

ह्रषीकेशनमस्तेस्तुमहापुरुषपूर्वज ४ मन्त्रहीनंक्रियाहीनमित्यादिचसंप्रार्थ्य

पञ्चोपचारैर्देवं संपूज्यनीराज्यब्राह्मणेभ्योदमनंदत्वास्वयंशेषंसंधार्यसुह्रद्युतःपारणंकुर्यात्

मन्त्रदीक्षारहितैर्नाम्नार्पणीयम् अस्यगौणकालः श्रावणमासावधिः नेदंमलमासेभवति शुक्रास्तादौतुकर्तव्यम् ।

इति दमनारोपणविधिः अस्यामेव भारते अहोरात्रेणद्वादश्यांचैत्रेविष्णुरितिस्मरन् ।

पौण्डरीकमवाप्नोतिदेवलोकंचगच्छति इति ।