०४ दशावतारजयन्त्यः

चैत्रशुक्लतृतीयायामपराह्णेमस्योत्पत्तिः वैशाकपूर्णिमायांसायंकूर्मोत्पत्तिः भाद्रपदशुक्लतृतीयायामपराह्णेवराहोत्पत्तिः

वैशाख शुक्लचतुर्दश्यांसायंनारसिंहावतारःभाद्रपदशुक्लद्वादश्यांमध्याह्नेवामनप्रादुर्भावः वैशाखशुक्लतृतीयायांमध्याह्नेपरशुरामोद्भवः

प्रदोषे इति बहवः चैत्रशुक्लनवम्यांमध्याह्नेदशरथिरामव्यक्तिः श्रावणकृष्णाष्टम्यां निशीथेश्रीकृष्णाविर्भावः

आश्विनशुक्ल्दशम्यांसायंबुद्धोऽभूत् श्रावणशुक्लषष्ठ्यांसायंकल्किर्जातैतितत्तत्कालव्यापिन्योग्राह्याः

अत्रमत्स्यकूर्मवराहबुद्धकल्कीनामाषाढादिमासान्तराणि एकादश्यादितिथ्यन्तराणिप्रातरादिकालान्तराणिच

वचनान्तरानुसारेणोक्तानिकल्पभेदेनव्यवस्थापनीयानि स्वस्वपरिगृहीतपक्षानुसारेणतत्तदुपासकैरुपोष्याणि

श्रीरामकृष्णनृसिंहजयन्त्य एवनित्याः सर्वैरुपोष्याः चैत्रशुक्लचतुर्थ्यामध्याह्नव्यापिन्यांलड्‌डुकादिभिः

श्रीगणेशमर्चयित्वादमनकारोपणंकुर्यात् विघ्ननाशंसर्वान्कामान्प्राप्नुयात् चैत्रशुक्लपञ्चम्यामनन्तादिनागान्पूजयित्वा

क्षीरसर्पिनैवेद्यंदद्यात् अस्यामेवपञ्चम्यांलक्ष्मीपूजनम् अत्रैवचोच्चेःश्रवादिपूजनात्मकंहयव्रतमुक्तम्

अत्रसर्वत्रपञ्चमीसामान्यनिर्णयानुसारेणग्राह्या एवमग्रेपि यत्रविशेषनिर्णयोनोच्यतेतत्रप्रथमपरिच्छेदोक्त एवनिर्णयोऽनुसंधेयः

षष्ठ्यांस्कन्दस्यदमनकारोपणम् सप्तम्यांभास्करस्यदमनकपूजा नवम्यांदेव्याः सर्वदेवानांपौर्णमास्यामित्यन्यत्रविस्तरः

चैत्रशुक्लाष्टम्यांभवान्या उत्पत्तिः तत्र नवमीयुताग्राह्या अत्रपुनर्वसुयुताष्टम्यामष्टाशोककलिकाप्राशनम्

तत्रमन्त्रः त्वामशोकनराभीष्टमधुमाससमुद्भव ।

पिबामिशोकसंतप्तोमामशोकंसदाकुरु १ इति अत्रैवयोगविशेषेकृत्यम् पुनर्वसुबुधोपेताचैत्रेमासिसिताष्टमी ।

प्रातस्तुतिविधिवत्स्नात्ववाजपेयफलंलभेत् १ इति चैत्रशुक्लनवमीरामनवमी चैत्रशुक्लनवम्यां

पुनर्वसुयुतांमध्याह्नेकर्कलग्नेमेषस्थेसूर्यौच्चस्थेग्रहपञ्चकेशीरामजन्मश्रवणात् अस्यामध्याह्नव्यापिन्यामुपोषणंकार्यम्

पूर्वेद्युरेवमध्याह्नेसत्वेसैवग्राह्यादिनद्वयेमध्याह्नव्याप्तावव्याप्तौवापरा अष्टमीविद्धायानिषेधात्

अतःपूर्वेद्युःसकलमध्याह्नव्यापिनीपुनर्वमुयुतामपित्यक्त्वापरेद्युस्त्रिमुहुर्तापिनवमीसर्वैरप्युपोष्या

यदितुदशम्याहासवशेनपारणादिनेस्मार्तानामेकादशीव्रतप्राप्तिस्तत्स्मातैरष्टमीविद्धोपोष्या

वैष्णवैर्मुहूर्तत्रययुतापरैवोपोष्याशुद्धायानवम्या अलाभेमुहूर्तत्रयन्यूनत्वेवा सर्वैरपि अष्टमीविद्धैवोपोष्येत्याहुः

इदंव्रतंनित्यंकाम्यंच ।