प्रथमपरिच्छेदेमासविशेषानपेक्षंसामान्यतस्तिथ्यादिनिर्णयमभिधायास्मिंन्द्वितीयपरिच्छेदेचैत्रादिमासविशेषोपादानेन
प्रतिपदादितिथिषुविहितसंवत्सरकृत्यनिर्णयसारंसंगृह्णीमः अत्रशुक्लप्रतिपदादिरमान्त एवमासः
प्रायेणदाक्षिणात्यैराद्रियते इति तमेवाश्रित्यनिर्णय उच्यते अत्रकिंचित्पूर्वपरिच्छेदोक्तमपिपुनर्विशेषोक्तिभिर्दृढीक्रियते
इति पुनरुक्तिर्नदोषाय तत्र मेषसंक्रान्तौपूर्वाः पराश्चदशदशनाड्यः पुण्यकालः रात्रौत्वर्धरात्रात्प्राक्संक्रमेपुर्वदिनोत्तरार्धपुण्यम
अर्धरात्रात्परतःसंक्रमे उत्तरदिनस्यपूर्वार्धपुण्यम् अर्धरात्रेसंक्रमेदिनद्वयेपुण्यम् ।