६३ ग्रन्थप्रयोजनः

मीमांसाधर्मशास्त्रज्ञाःसुधियोऽनलसाबुधाः । कृतकार्याःप्राङ्‌निबंन्धैस्तदर्थनायमुद्यमः १

येपुनर्मन्दमतयोऽलसा अज्ञाश्चनिर्णयम्‍ । धर्मेवेदितुमिच्छन्तिरचितस्तदपेक्षया २

निबन्धोयंधर्मसिन्धुसारनामासुबोधनः । अमुना प्रीयतांश्रीम्मद्विठ्ठलोभक्तवत्सलः ३

सर्वत्रमूलवचनानीहज्ञेयानिताद्विचाराश्च । कौस्तुभनिर्णयसिन्धुश्रीमाधवकृतनिबन्धेभ्यः ४

प्रेम्णासद्भिर्ग्रन्थःशब्दार्थतःसदोषोपि । स्शोध्यवापिहरिनासुदाममुनिसतुषपृथुकमुष्टिरिव ५

इति श्रीमदनन्तोपाध्यायसूनुकाशीनाथोपाध्यायविरचितेधर्मसिन्धुसारे प्रथमपरिच्छेदःसमाप्तः ॥