६० ग्रहणशुभाशुभनिर्णयः

स्वजन्मराशेस्तृतीयषष्ठैकादशदशमराशिस्थितंग्रहणंशुभप्रदम् द्वितीयसप्तमनवपञ्चमस्थानेषुमध्यमम्

जन्मचतुर्थाष्टमद्वादशराशिस्थितमनिष्टप्रदम् यस्यजन्मराशौजन्मनक्षत्रेवाग्रहणं तस्यविशेषतोऽनिष्टप्रदं

तेनगर्गाद्युक्ताशान्तिकार्या अथवा बिम्बदानंकार्यम् तद्यथा चन्द्रग्रहेरजतमयंचन्द्रबिम्बंसुवर्णमयं नागबिम्बंचकृत्वा

सूर्यग्रहेसौवर्नसूर्यबिम्बनागबिम्बंचकृत्वाघृतपूर्नताम्रपात्रेकांस्यपात्रेवानिधायतिलवस्त्रदक्षिणासाहित्यंसंपाद्य

ममजन्मराशिजन्मनक्षत्रस्थितामुकग्रहणसूचितसर्वानिष्टप्रशान्तिपूर्वकं एकादशस्थानस्थितग्रहणसूचितशुभफलावाप्तयेबिम्बदानं

करिष्ये इति संकल्प्य सूर्यचन्द्रंराहुंचध्यात्वानमस्कृत्य । तमोमयमहाभीमसोमसूर्यविमर्दन । हेमताराप्रदानेनममशान्तिप्रदोभव १

विधुंतुदनमस्तुभ्यंसिंहिकानन्दनाच्युत । दनेनानेननागस्य रक्षमांवेधजाद्भयात् २ इति मन्त्रमुच्चार्य इदंसौवर्णराहूबिम्बंनागं

सौवर्णं रविबिम्बंराजतंचन्द्रबिम्बंवा घृतपूर्णकांस्यपात्रनिहितं यथाशक्तितिलवस्त्रदक्षिणासहितं ग्रहणसूचितारिष्टविनाशार्थं

शुभफलप्राप्त्यर्थंचतुभ्यमहंसंप्रदहे इति दानवाक्येनपूजितब्राह्मणायदद्यात् एवं चतुर्थाद्यनिष्टस्थानेष्वपिदानंकार्यमितिभाति

यस्यजन्मराश्यादिग्रहणंतेन राहुग्रस्तरवीन्दुबिम्बंनावलोकनीयम् इतरजनैरपिपटजलादिव्यवधाने नैवग्रस्तबिम्बंद्रष्टव्यं

नसाक्षात् मङ्गलकार्येषुपूर्णग्रासे चन्द्रग्रदेद्वादश्यादितृतीया न्तंदिनसप्तकंवर्ज्यम् सूर्यपूर्णग्रासे एकादश्यादिचतुर्थ्यन्तदिनानिवर्ज्यानि

खण्डग्रहणेतु चतुर्दश्यादिदिनत्रयंवर्ज्यम् ज्योतिर्निबन्धेषुग्रासपादतारतम्येन दिनाधिक्योनत्वं तारतम्येनयोजितम्

ग्रस्तास्तेपूर्वदिनत्रयंवर्ज्यम् ग्रस्तोदयेपरंदिनत्रर्य वर्ज्यम् ग्रहणनक्षत्रंषण्मासंपूर्णग्रासेवर्ज्यम् पादादिग्रासेसार्धमासादितारतम्येन

योज्यम् पूर्वसंकल्पितस्यद्रव्यस्यग्रहणोत्तरं दानेतद्‌द्विगुणंदेयं भवति इति ग्रहणनिर्णयोद्देशः ॥