स्पर्शकालात्पूर्वस्नात्वा अमुकगोत्रोऽमूकशर्माहंराहुग्रस्तेदिवाकरेनिशाकरेवा
अमुकदेवताया अमुकमन्त्रसिद्धिकामोग्रासादिमुक्तिपर्यन्तममुकमन्त्रस्यजपरूपंपुरश्चरणंकरिष्ये
इति संकल्पं च कृत्वाऽऽसनबन्धन्यासादिकं च स्पर्शात्पूर्वमेवविधायस्पर्शादिमोक्षपर्यन्तंमूलमन्त्रजपंकुर्यात् तथ
परदिनेस्नानादिनित्यंकृतंविधाय
अमुकम्नत्रस्यकृतैतद्ग्रहणकालिकामुकसंख्याकपुरश्चरणजपसाङ्गतार्थंतद्दशांशहोमतद्दशांशतर्पणतद्दश अंशमार्जनतद्दशांशब्राह्मणभोजनानिकरिष्ये
इति संकल्प्य होमादिकंतत्तच्चतुर्गुणद्विगुणान्यतरजपंबाकुर्यात्
ग्रहणकालेचतत्प्रेरितःपुत्रादिरमुकशर्मणोऽमुकगोत्रस्यामुकग्रहणस्पर्शस्नानजनितश्रेयः
प्राप्त्यर्थं स्पर्शस्नानंकरिष्ये इत्यादिसंकल्पपूर्वकंतदीयस्नानदानादिककुर्यात् पुरश्चरणमकुर्वद्भिरपिगुरूपदिष्टः
स्वस्वेष्टदेवतामन्त्रजपोगायत्रीजपश्चावश्यंग्रहणेकार्योऽन्यामन्त्रमालिन्यम् ग्रहणकालेशयनेकृते रोगो मूत्रेदारिद्यं
पुरोषेकृमिर्मैथुनेग्रामसूकरोऽभ्यङ्गेकुष्ठीभोजनेनरक इति पूर्वपक्वमन्नंग्रहणात्तरंत्याज्यम्
एवं ग्रहणकालस्थितजलपानेपादकृच्छ्राभिधानाज्जलमपित्याज्यम् काञ्जिकंतक्रंघृततैलपाचितमन्नंक्षीरंचपूर्वसिद्धंग्रहणोत्तरं
ग्राह्यम् घृतेसंधिते गोरसेषुग्रहणकालेकुशान्तरायंकुर्यात् ॥