५५ काम्येष्टीनां विकृतिसामान्यनिर्णयः

काम्येष्टीनां विकृतिसामान्यनिर्णयानुसारेण पर्वण्यधिष्ठानम्‍ ।

शुक्लपक्षस्थदेवनक्षत्रे वा जातेष्टिस्तु पत्‍न्या विंशतिरात्र्यात्मककर्मानधिकाराख्यजननाशौचनिवृत्तौ

सत्या पर्वणि कार्या गृहदाहेष्ट्यादिनैमित्तिकेष्टीनां निमित्तानंतरमनुष्ठाने पर्वाद्यपेक्षा नास्ति तदसंभवे

पर्वा एक्षा क्रत्वर्थानां नित्यानां क्रतुनासहैवानुष्ठानम्‍ न तत्र पृथक्कालापेक्षा हविर्दोषोद्देशादिनैमित्तिकक्रत्वर्थेष्टयस्तु

स्विष्टकृदुत्तरं समिष्टयजुषः प्राक्‌ निमित्तस्मरणे तदानिमेव तदीयतंत्रोपजीवनेने निर्वापप्रभृतिकार्याः तदनंतरं स्मरणे

तत्प्रयोगं समाप्य पुनर्न्वाधानादिविधिना कार्याः इति काम्यनैमित्तिकादीष्टीनां निर्णय उद्देश एकोनत्रिंशः ॥