५४ चातुर्मास्यकालः

तत्प्रयोगे चत्वारः पक्षः फाल्गुन्यां चैत्र्यां वा पौर्णमास्यां वैश्वदेवपर्व कृत्वा चतुर्षु चतुर्षु

मासेष्वाषाढ्यादिष्वेकैक पर्वेत्येवं यावज्जीवमनुष्ठानमिति यावज्जीवपक्षः उक्तरीत्या

संवत्सरपर्यंतमनुष्ठाय सवनेष्ट्या पशुयागेन वा समापनं सांवत्सरपक्षः प्रथमेऽहीन

वैश्वदेवपर्व चतुर्थे वरुणप्रघासपर्व अष्टमनवमयोः साकमेधपर्व द्वादशे शुनासीरीयपर्वेति

द्वादशाहपक्षः पंचभिर्दिनैः यथाप्रयोगः पक्षः द्वादशाहयथाप्रयोगपक्षयोरुदगयने शुक्लपक्षे

देवनक्षत्रेप्वारभ्य शुक्लपक्ष एव समाप्तिरिति बहवः कृष्णेपक्षे वा समाप्तिरिति केचित्‌

द्वादशाहपंचाहपक्षयोरपि सवनेष्टयादिना समापने कृते सकृत्करणं तदभावे प्रतिवत्सरमनुष्ठानम्‍

क्वचिदैकाहिकप्रयोगपक्षोप्युक्तः सच चैत्र्यादिषु चतसृषु पौर्णमासीष्वेकस्यांकस्यंचिद्भवति क्वचित्तु सप्ताहः

पक्षः स यथा द्व्यहे वैश्वदेवपर्वतृतीयदिने वरुणप्रघासः चतुर्थे ग्रहमेधीया पंचमे महाहवीषि षष्ठे

पितृयज्ञादिसाकमेधपर्वशेषः सप्तमे शुनासीरीयपर्वेति अत्र शुक्लपक्षादिः पंचाहपक्षोक्तः कालः ॥

इति चातुर्मास्यकालनिर्णय उद्देश अष्टविंशः ॥