पशुयागस्तु वर्षतौ श्रावण्यादिचतुर्णां पर्वणामन्यतमे पर्वणि दक्षिणायनदिने उत्तरायणदिने वा कार्यः तत्र खंडपर्वणि विकृतिसामान्योक्तपर्वनिर्णयः ॥ इति पशुयागनिर्णय उद्देशः सप्तविंशः॥