५० श्राद्धेऽमावास्यानिर्णीयते

पञ्चधाविभक्तदिनचतुर्थभाग्याख्यापराह्णव्यापिन्यमावास्यादर्शश्राद्धेग्राह्या पूर्वेद्युरेवपरेद्युरेववापराह्णेकार्त्स्न्येनैकदेशेनवाव्यापित्वे

सैवग्राह्या उभयदिनेप्यपराह्णेवैषम्येणैकदेशव्यापित्वेयाधिकव्यापिनीसाग्राह्या दिनद्वयेसाम्येनैकदेशव्याप्तौतिथिक्षयेपूर्वातिथिवृद्धौ

तिथिसाम्येचपरा तत्रसमव्याप्तौतिथिवृद्धिक्षयसाम्योदाहरणानि चतुर्दशी १९ अमा २३ दिनम् ३०

अत्रदिनद्वयेपिसमापञ्चघटिकैकदेशव्याप्तिश्चतुर्दश्यपेक्शयाचतुर्घटिकाभिरमायावृद्धिसत्वादुत्तराग्राह्या तथा चतुर्दशी २३ अमा १९

अत्रैकाघटिकासमाव्याप्तिर्घटिकाचतुष्टयेनतिथिक्षयात्पूर्वाग्राह्या अथ चतुर्दशी २१ अमा २१

अत्रघटीत्रयेणदिनद्वयेऽशतःसमाव्याप्तिस्तिथेस्तुवृद्धिक्षयाभावेनसमत्वात्पराग्राह्या

दिनद्वयेपूर्णापराह्णव्याप्तौतिथिवृद्धित्वापराग्राह्यायदादिनद्वयेप्यपराह्णस्पर्शाभावस्तदागृह्याग्निमिद्भिःश्रौत अग्निमद्भिश्चसिनीवालीसंज्ञि

काचतुर्दशीमिश्रापूर्वाग्राह्या निरग्निकैःस्त्रीशूद्रादिभिश्वकुहूसंज्ञिकाप्रतिपन्मि आपराग्राह्येतिमाधवाचार्यसंमतोदर्शनिर्णयः प्रायः

सर्वत्रशिष्टैराद्रियते पुरुषार्थचिन्तामणौतुबह्‌वृचैस्तैत्तिरीयैश्चसाग्निकैरपराह्णव्याप्त्यसत्वोपि इष्टिदिनात्पूर्वदिने एवदर्शश्राद्धांकार्यम्

तथाचदिनद्वयकोर्त्स्न्येनापराह्णव्याप्तौपरत्रैवदर्शः एकदेशेनापराह्णव्याप्तौप्रतिपद्‌वृद्ध्याप्रतिपदीष्टावुत्तरत्रैवदर्शः द्वितीयदिने

एवापराह्णव्याप्तौ तुयदिप्रतिपत्क्षयवशाद्दर्शदिन एव इष्टिप्राप्तिस्तदाबहव ऋचनांसिनीवाली तैत्तिरीयाणांकुहूर्ग्राह्या सामगानांविकल्पेनद्वयम्

यदापूर्वदिनेपराह्णेधिकाव्याप्तिः परदिनेऽल्पा तदा सामगानांपूर्वातैत्तिरीयाणां उत्तरा

उभयत्रापराहणस्पर्शाभावेपिसामगानांपूर्वातैत्तिरीयानापरेत्याद्युक्तम् दर्शेदर्शश्राद्धवर्षश्राद्धयोर्दशमासिकयोर्दर्शश्राद्धोदकुम्भश्राद्धयोश्चसंपते

देवताभेदाच्छ्राद्धद्वयंकार्यम् तत्रादौ मासिकाब्दिकादिश्राद्धंकृत्वापाकान्तरेणदर्शश्राद्धांकार्यम् वैश्वदेव आब्दिकादि

श्राद्धशेषेणपृथक्पाकेनवादर्शश्राद्धात्प्राग्भवति आहिताग्निस्तुवैश्वदेवं पिण्डपितृयज्ञंचकृत्वाब्दिकंकुर्यात्

दर्शश्राद्धमनुपनीतविधुरप्रवासस्थैरपिकार्यम् अमाश्राद्धातिक्रमेन्यूषुषुवाचमिति ऋचं शतवारंजपेत इति दर्शनिर्णयोद्देशः ॥