४९ पिण्डपितृयज्ञकालः

तत्राश्वलायनानींयस्मिन्नहोरात्रे अमावास्याप्रतिपदोःसंधिस्तद्दिनापराह्णेपञ्चधाविभक्तदिनचतुर्थभागरूपेपिण्डपितृयज्ञः

सचापराह्णसंधावन्वाधानदिनेभवति मध्याह्नेपूर्वाह्णेवासंधौयागदिने यागोत्तरमपराह्णेभवति ।

यदाहोरात्रसंधौतिथिसंधिस्तदान्वाधानदिने एवपिण्डपितृयज्ञः एवमापस्तम्बहिरण्यकेशिमतानुसारिनामपिसंधिदिने एवपितृयज्ञः

सचापराह्णेऽधवृक्षसूर्येवाकार्यः अपराह्णश्चपञ्चधाविभक्तदिनचतुर्थभागोनवाधाविभक्तदिनसप्तमभागोवा

सांख्यायनकात्यायनसामगानामन्वाधानदिने एवपिण्डपितृयज्ञः पूर्वमेवोक्तः सचत्रेधाविभक्तदिनतृतीयभागरूपेपराह्णेकार्यः

गृह्याग्निमतांबह्‌वृचानांदर्शश्राद्धपिण्डपितृयज्ञयोरेकस्मिन्दिनेप्राप्तौ व्यतिषङ्गेणानुष्ठानम् व्यतिषङ्गोनामोभयोः

सहप्रयोगः खण्डपर्वणितुपूर्वेद्युः केवलदर्शश्राद्धमुत्तरेह्निकेवलः पिण्डपितृयज्ञः श्रौताग्निमतांतुकेवलः

पिण्डपितृयज्ञ एवदक्षिणाग्नौकार्योनव्यतिषङ्गेण श्रौताग्निमतासंपूर्णेदर्शे इत्थंक्रमः आदावन्वाधानंततो वैश्वदेवस्ततः

पिण्डपितृयज्ञस्ततोदर्शश्राद्धमिति अस्मिन्नेवकालेजीवन्पितृकेणसाग्निकेनहोमान्तेवा पितुः पित्रादित्रयोद्देशेनपिण्डसहितोवा

पिण्डपितृयज्ञःकार्यःयद्वा पिण्डपितृयज्ञोनैवारब्धव्यः इष्टिलोपेपादकृच्छ्रंप्रायश्चित्तम् इष्टिद्वयलोपेऽर्द्धकृच्छ्रम्

इष्टित्रयलोपे अग्निनाशात्पुनराधानम् पिण्डपितृयज्ञलोपेवैश्यानरोष्टिःप्रायश्चित्तम्

इष्टिस्थानेसप्तहोतारंहोष्यामीतिसंकल्प्यतन्मन्त्रेणचतुर्गृहीताज्येनपूर्णाहुतिर्वीकार्या

इति पिण्डपितृयज्ञोद्देशः ।