४६ पौर्णिमास्यांविशेषः

सङ्वकालादूर्ध्वं त्रयोदशादिघटीमारभ्यार्धाह्नात्पूर्वसंधौसद्यःकालापौर्णमासीतस्यांसंधिदिने एवान्वाधानंयागश्चसद्योनुष्ठेयः

इदंपौर्णमास्यांसद्यःकालत्वं वैकल्पिकमितिकेचित् अमावास्यांसर्वत्रद्व्यहकालतैवनकदाचिदपिसद्यःकालता

पौर्णमास्याममायांचापराह्णसंधौप्रतिपच्चतुर्थपादे यागोनदोषाय

अमावास्यायामपराह्णसंधावपिप्रतिपदित्रिमुहूर्ताधिकाद्वितीयाप्रवेशेचन्द्रदर्शनसम्भवेन

चन्द्रार्शनेयागनिषेधाद अमावास्यायामेवेष्टिश्चतुर्दश्यामन्वाधानंबौधायनादीनाम्

अमावास्यायांसप्तघटीमितप्रतिपदभावे

चन्द्रदर्शनेपिप्रतिपद्येवबौधायनैरिष्टिःकार्या आश्वलायनापस्तम्बादीनांतुचन्द्रदर्शन

निषेधोनास्तीतिप्रातिपद्येवेष्तिः

यत्रसंधिदिने इष्टिस्तत्रसाप्रतिपद्येवसमापनीयानतुपर्वणि पर्वणियागसमाप्तौपुनर्यागः कर्तव्यः

एवमेवस्मार्तेपार्वणस्थालीपाकनिर्णयः

केचित्तुस्मार्तेस्थालीपाकःप्रतिपद्येवस्मापनीय इति नियमोनास्ति

पूर्वाह्णे एवस्थालीपाकंसमाप्यसंधेरूर्ध्वं प्रतिपदिब्राह्मणभोजनमात्रंकार्यम्

जयन्तोपिसंधिसन्निकृष्टेप्रातःकाले एवस्थालीपाकमाहेतिविशेषमाहुः

श्रौतेपिब्राह्मणभोजनमात्रंप्रतिपदिकार्यमन्यत्तंत्रपूर्वाह्ण एवसमापनीयं

नप्रतिपदपेक्षेति पुरुषार्थचिन्तामणावुक्तम् कात्यायनानांपौर्णमसेष्टिनिर्णयः

पूर्वोक्तःसर्वसाधारण एवनतत्रकश्चिद्विशेषः इति सिन्ध्वादिबहुग्रन्थसंमतं

अन्येतुपूर्वाह्णसंधौसंधिदिनेन्वाधानंपरेह्नियाग इति पौर्णमासीविषयेकातीयानां विशेषमाहुः ।