४४ इष्टिकालः

पक्षान्ता उपवस्तव्याः पक्षाद्यायष्टव्याः उपवासोन्वाधानाख्यंकर्म पर्वणोयश्चतुर्थांश आद्याः प्रतिपदस्त्रयः ।

यागकालःसविज्ञेयः प्रातरुक्तोमनीषिभिः १ प्रतिपत्तुर्यचरणेनयष्टव्यमितिस्थितिः । तत्रपर्वप्रतिपदोःपूर्णत्वेसंदेहाभावः

पर्वण्यन्वाधानस्योत्तरदिनेयागस्ययथोक्तकाललाभात्

पर्वनखन्डत्वेतुपर्वापेक्षयाप्रतिपदोहासवृद्धिघटिकागणयित्वातदर्धहासेपर्वणिवियोज्यवृद्धौसंयोज्यसंधिकालंज्ञात्वान्वाधानादिकालोनिर्णेतव्यः

यत्रहासवृद्धीनस्तत्रयथास्थितःस्पष्ट एवसंधिः तत्रसंधिश्चतुर्विधःपूर्वाह्णसंधिर्मध्याह्नसंधिरपराह्णसंधिरात्रिसंधिश्चेति

द्वेधाविभक्तदिनस्यपूर्वार्धंपूर्वाह्नः

अपरार्ध अपराह्णः पूर्वाह्णापराह्णसंधिभूतोघटिकाद्वयात्मकोमुहूर्तोमध्याह्न आवर्तनापरपर्यायैतिकौस्तुभे

उभयसंधिरेकपलात्मक एवमध्याह्नोनतुघाटकाद्वयात्मक इति प्रायेणेदानींशिष्टाचारः तत्रोक्तरीत्यार्‍हासवृद्ध्यर्धवियोजनसंयोजनेनानिर्णीतः

पर्वप्रतिपदोःसंधिर्यदिपूर्वाह्णेमध्याह्नेवाभवति तदासंधिदिनात्पूर्वदिनेन्वाधानंसंधिदिनेयागः

यद्यपराह्णेरात्रौवासंधिस्तदासंधिदिनेन्वाधानंतत्परदिनेयागः

अथोदाहरणम् पर्वसप्तदशघटीमितंप्रतिपदेकादशघटीमितातत्रषड्‌घटीमितः

प्रतिपत्क्शयस्तदर्धघटीत्रयंपर्वणिवियोजितंजातःसंधिश्चतुर्दशघटिमितः

अयंत्रिंशद्‌घटिमितेदिनमानेपूर्वाह्णसंहिः अष्टाविंशतिघटीमितेतु दिनमानेऽयमेवमध्याह्णसंधिः अत्रसन्धिदिनेयागः

पूर्वदिनेन्वाधानम् पर्व १४ प्रतिपत् १९ अत्रपञ्चघटिका वृद्धिः तदर्धसार्धघटीद्वयंपर्वणिसंयोजितं जातःसंधिःसार्धषोडशघटीमितः

अयं अपराह्णसंधिः अत्रस्म्धिदिनेन्वाधानंपरेद्युर्यागः ।