४३ पौर्णिमामावास्ययोनिर्णयः

पौर्णिमामावास्येतुसावित्रीव्रतंविनापरेग्राह्ये यत्तुकेश्चिच्छ्रावणीहुताशनीपौर्णिमयोःकुलधर्मादौपूर्वविद्ध्योर्ग्राह्यत्वोक्तेः

सर्वापौर्णिमासीकुलधर्मादौपूर्वागृह्यतेतत्रमूलंमृग्यम् अष्टादशनाडिकातोन्यूनचतुर्दशीसत्त्वेतादृशचतुर्दशीवेधस्य

भूतोष्टादशनाडीभिरितिवचनादादूषकत्वप्रतीतेरस्तुवातादृशस्थलेकुलधर्मेपूर्वत्रग्राह्यत्वम्

अष्टादशनाडिकाधिकचतुर्दशीवेधेतुपूर्वविद्धापौर्णमासीनग्राह्येतिमेप्रतिबाति अमावास्याभौमसोमवारयुता

स्नानदानादौमहापुण्या एवभानुयुतासप्तमी भौमयुताचतुर्थीयत्तुसोमयुतामावास्यायामश्वत्थपूजाद्यात्मकंसोमवतीव्रतमनुष्ठीयतेतत्र

अपराह्णपर्यन्तंमुहूर्तमात्रयोगेपिव्रतंकार्यम् दिनान्त्यषड्‌घटिकात्मकसायाह्नेयोगे रात्रियोगेचनकार्यमितिशिष्टाचारः

यतीनांक्षौरादौ उदयेत्रिमुहूर्तव्यापिनीपौर्णिमासीग्राह्या तृतीयमुहूर्तस्पर्शाभावेचतुर्दशीयुता इति पञ्चदशीनिर्णयोद्देशः ।