४० द्वादशी निर्णयः

द्वादशीत्वेकादशीविद्धाग्राह्या अथ अष्टौमहाद्वादश्यः शुद्धाधिकैकादशीयुक्ताद्वादशी उन्मीलनीसंज्ञा

द्वादश्येवशुद्धाधिका वर्धतेसावञ्जुली सूर्योदये एकादशीततःक्षयगामिनीद्वादशीद्वितीयसूर्योदये

त्रयोदशी एवमेकाहोरात्रेतिथित्रयस्पर्शात्त्रिस्पर्शासंज्ञाद्वादशी दर्शस्यपौर्णमास्यावायदादिनवृद्धिस्तपदापक्षवर्धिनीसंज्ञा

पुष्यर्क्षयुताजया श्रवणयुताविजया पुनर्वसुयुताजयन्ती रोहिणीयुतापापनाशिनी एताःपापक्षयमुक्तिका उपवसेत

श्रवणयुतातु एकादशीवन्नित्या एतास्वष्टसु एकादशीद्वादश्योरेकत्वेतन्त्रेणोपवासः पार्थक्येशक्त्यस्यापेवासद्वयम

यस्त्वारब्धव्रतद्वय उपवासद्वयाशक्तश्च तस्य द्वादशीसमुपोषणाद्‍व्रतद्वयपुण्यलाभः तत्रश्रवणर्क्शयोगोमुहूर्तमात्रोपि ग्राह्यः

पुष्यादियोगः सूर्योदयमारभ्यास्तमयपर्यन्तश्चेदुपवासः पारनतु

तिथिनक्षत्रसंयोगोपोषणे उभयान्तेन्यतरान्तेवेतिसर्वसामान्यनिर्णयः

इति द्वादशीनिर्णयोद्देशोऽष्टादशः ।