तत्रैकादश्युपवासो द्वेधा भोजननिषेधपरिपालनात्मको व्रतात्मकश्च
आद्ये पुत्रवदगृहस्थादीनां कृष्णपक्षेप्यधिकारः
व्रतात्मकोपवासस्तु अपत्ययुक्तैर्गृहस्थैश्च कृष्णपक्षे न कार्यः किंतु समन्त्रकं व्रतसंकल्पमकृत्वा यथाशक्तिनियमयुतं भोजनवर्जनमेव कार्यम
एवं तिथिक्षये शुक्लैकादश्यामपि ज्ञेयम शयनीबोधिनीमध्यवर्तिकृष्णैकादशीषुसापत्यगृहस्थादीनांसर्वेषामधिकारः
विष्णुसायुज्यकामैरायुःपुत्रकामैश्चकाम्यव्रतंपक्षद्वयेपिकार्यम तत्रनकोपिनिषेधः वैष्णवगृहिणांकृष्णैकादश्यपिनित्योपोश्या
इदमेकादशीव्रतंशैववैष्णवसौरादीनांसर्वेशांनित्यम अकरणेप्रत्यवायश्रवणात संपत्त्यादिफलश्रवनात्काम्यंचभवति
केचिन्मुहूरादिमितदशमीसत्वेदशम्यामेवभोजनंकर्तव्यम
सूर्योदयात्पूर्वमेवप्रवृत्तायांशुद्धाधिकाधिकद्वादशिकायांतुनैरन्तर्येणोपवासद्वय्म्कार्यमितितिथिपालनमपिवदनति
तन्नयुक्तम अष्टमवर्षादूर्ध्वमशीतितमवर्षपर्यन्तमेकादशीव्रताधिकारः शक्तस्यतु अशीतेरूर्ध्वमप्यधिकारः
सभर्तृकाणां स्त्रीणा भर्त्रनुज्ञां पित्राद्यनुज्ञां वा विनोपवासव्रताद्याचरणे व्रतवैफल्यं भर्त्रायुःक्षयो नरकश्च
अशक्तानां तु नक्तं हविष्यान्नम् अनोदनं वा फलं तिलाः क्षीरम् अथाम्बु चाज्यम् । यत्-पञ्चगव्यम्, यदि चापि वायुः - प्रशस्तम् अत्रोत्तरम् उत्तरंच १
इति पक्षेषु शक्ति-तारतम्येनैक-पक्षाश्रयणं न त्वेकादशी-त्यागः
प्रमादादिनैकादश्याम् उपोषणाद्य्- अकरणे द्वादश्याम् वापि व्रतं कार्यम्
द्वादश्याम् अप्य् अकरणे यवमध्यचान्द्रायणं प्रायश्चित्तम्
नास्तिकाद्याकरणे पिपीलिका-मध्य-चान्द्रायणम्
अशक्तपतिपित्राद्युद्देशेनस्त्रीपुत्रभगिनीभ्रात्रादिभिरेकादशीव्रताचरणे ऋतुशतजंपुण्यम् ।
विश्वास-टिप्पनी
आशौचे ऽपि नित्यव्रतं कर्तुम् उचितम् इति स्मृतिकाराः।