३० अष्टमीनिर्णयः

व्रतमात्रेऽष्टमी शुक्लपक्शेपरा कृष्णपक्षेपूर्वा मीलितशिवशक्त्योरुत्सवेकृष्णापिपरा बुधाष्टमीशुक्लपक्षेप्रातः

कालमारभ्यापराह्णपर्यन्तंयद्दिनेमुहूर्तमात्रोपिबुधवासरयोगःसाग्राह्या सायाह्नकालेचैत्रमासेश्रावणादिमासचतुष्टयेकृष्णपक्षेचनग्राह्या

सर्वकृष्णाष्टमीषुकालभैरवोद्देशेनकेचिदुपवसन्तितत्रमार्गशीर्षकृष्णाष्टभ्यां भैरवजयन्तीत्वत्तद्वन्निर्णयौचित्येनमध्याह्नव्यापिनीग्राह्या

दिनद्वयेमध्याह्नव्याप्तौपूर्वैव प्रदोषव्यापिनीतिकौस्तुभे अत उभयदिनेप्रदोषव्याप्तौद्विविधवाक्याविरोधायपरैव

पूर्वत्रप्रदोषव्याप्तिरेवपरत्रमध्याह्ने एवतदाबहुशिष्टाचारानुरोधात्प्रदोषगापूर्वैव

यत्तु अर्कपर्वद्वये रात्रौ चतुर्दश्यष्टमीदिवेति वचनाद्दिवाभोजननिषेधमात्रपरिपालनं न तु किंचितद्रंतत्रनिषेधस्तु निवृत्यात्माकालमात्रमपेक्षतैति

वचनाद्बोजनकालव्यापिनीमष्टमीत्यक्त्वा नवम्यां सप्तम्यां वा भोक्तव्यमिति भाति युक्तमयुक्तं वा सद्भिर्विचारणीयम् ।

इत्यष्टमीनिर्णयश्चतुर्दशोद्देशः