२६ चतुर्थीनिर्णयः

चतुर्थीगनेशव्रतारिक्तोपवासकार्ये पञ्चमीयुता ग्राह्या गौरीविनायकव्रतयोस्तु मध्याह्नव्यापिनी ग्राह्या

परदिन एव मध्याह्नव्यापिनी चेत्परैव दिनद्वये मध्याह्नव्यापित्वे दिनद्वये मध्याह्नव्याप्त्यभावे साम्येन वैषम्येन वैकदेशव्याप्तौ च पूर्वैव

तृतीयायोगप्राशस्त्यात् नागव्रतेतुपूर्वदिन एवमध्याह्नव्यापिनीचपूर्वैव उभयदिनमध्याह्नव्याप्त्यादिपक्षचतुष्टयेपञ्चमीयुतैवग्राह्या

संकष्टचतुर्थीतुचन्द्रोदयव्यापिनीग्राह्या परदिनेचन्द्रोदयव्याप्तौपरैव

उभयदिनेचन्द्रोदयव्यापित्वेतृतीयायुतैवग्राह्या दिनद्वयेचन्द्रोदयव्याप्त्यभावे परैव ।

इति चतुर्थीनिर्णयो दशम उद्देशः