तत्र प्रतिपन्निर्णयः शुक्लप्रतिपत् शुक्लप्रतिपत् पूजाव्रतादावपराह्णव्याप्तिसत्वेपूर्वविद्धाग्राह्या
सायाह्नव्यापित्वेपि पूर्वैवेति माधवाचार्याः
अन्यथा द्वितीयायुताग्राह्या कृष्णप्रतिपत्सर्वापि द्वितीयायुतैव ग्राह्या उपवासे तु पक्षद्वयेपि प्रतिपत्पूर्वविद्धैव ग्राह्या
अपराह्णव्यापिन्यां प्रतिपदिकरणीयस्योपवासादेः संकल्पं प्रातरेव कुर्यात्
संकल्पकाले प्रतिपदादितिथ्यभावेपि संकल्पे प्रतिपदादिरेव वक्तव्या न त्वमावास्यादिः
एवमुपोष्याद्वादशीशुद्धेत्यादिस्थले एकादशीव्रतप्रयुक्तसंकल्पपूजादावेकादश्यवेकीर्तनीया न तु द्वादशी
संध्याग्निहोत्रादिकर्मान्तरेषु तत्तत्कालव्यापिनीद्वादश्यादिरेवेति मम प्रतिभाति संकल्पश्च सूर्योदयात्प्रागुषः
काले सूर्योदयोत्तरं प्रातःकालाख्यत्रिमुहूर्तस्याद्यमुहूर्तद्वये प्रशस्तः तृतीयो मुहूर्तस्तु निषिद्धः ।
इति प्रतिपन्निर्णयः सप्तमः ७