२१ नक्तम्

तत्रसूर्यास्तोत्तरत्रिमुहूर्तात्मकप्रदोषव्यापिनीतिथिर्नक्तेग्राह्या अन्यतरदिनेतद्वयाप्तौतदकेदेशस्पर्शेवासैवग्राह्या

भोजनंतु अस्तोत्तरंघटिकात्रयसंध्याकालं त्यक्त्वाकार्यम् संध्याकालेभोजननिद्रामैथुनाध्यायनवर्जनात्

यतिभिरपुत्रविधुरैर्विधवाभिश्चनक्तंसायान्हव्यापिन्यांदिनाष्टमभागेकार्यम् रात्रौतेषांभोजननिषेधात् ।

एवं सौरनक्तमपिसायान्हव्यापिन्यांदिवैवकार्यम् दिनद्वयेप्रदोषव्याप्तौपरा

दिनद्वयेप्रदोषव्याप्त्यभावेपरत्रैवसायान्हेदिनाष्टमभागेनक्तंकार्यनतुरात्रौ साम्येनैकदेशव्याप्तौपरेव

वैषम्येणप्रदोषैकदेशव्याप्तौतदाधिक्यवतीपूर्वापिग्राह्या यदिपूजाभोजनपर्याप्तंतदाधिक्यंलभ्यते

नोचेत्साम्यपक्षवदुत्तरैवनत्वाधिक्यवशात्पूर्वेति नक्तव्रतभोजनंवैधत्वाद्रविवासरसंक्रान्त्यादावपिरात्रावेवकार्यं

रविवारादौरात्रिभोजननिषेधस्यरागप्राप्तभोजनपरत्वात् एकादश्याद्युपवासप्रत्याम्नाय भूतंनक्तंतूपवासनिर्णीतादिने एवेति

अयाचितस्यत्वहोरात्रसाध्यत्वादुपवासवन्निर्णयः पित्र्याणामपराह्णदिव्यापित्वेननिर्णयस्तत्तत्प्रकरणे वक्ष्यते

एकभुक्तनक्तायाचितोपवासानांपूर्वतिथावनुष्ठितानांपरेद्युस्तिथ्यन्तेपारणम्

यामत्रयोर्ध्वगामिन्यांतिथौप्रातःपारणमितिसर्वत्रज्ञेयमितिमाधवः

इति एकभुक्तादिनिर्णयः पञ्चम उद्देश