१९ कर्मविशेषनिर्णयः

कर्माणिद्विविधानिदैवानिपित्र्याणिच दैवानिषङ्विधानि एकभुक्तनक्तायाचितोपवासव्रतदानाख्यानि

मध्याह्नीकवारमेकान्नभोजनमेकभुक्तम्

रात्रावेवप्रदोषकालेभोजनंनक्तम् याचनांविनातद्दिनेलब्धस्यान्नादेर्भोजनमयचितस्

दिनान्तरलब्धस्यापिपाचकंस्त्रीपुत्रादिकंप्रतियाचनमन्तरेणभोजनमयाचितमितिकेचित्

अहोरात्रभोजनाभाव उपवासःपूजाद्यात्मकःकर्मविशेषोव्रतम्

स्वस्वत्वनिवृत्तिपूर्वकंपरस्वत्वापादनंदानम् तानिचैकभुक्तादीनिक्वचिदृताद्यङ्गतयाविहितानि

क्वचिदेकादश्याद्युपवासप्रतिनिधितयाविहितानिक्वचित्स्वतंत्राणितीत्रिविधानि

तत्राण्याङ्गानांप्रतिनिधिभुतानांचतत्तत्प्रधानवशेननिर्णयः ।