१८ विहितव्रतादिविषये तु निर्णयः

तत्र कर्मणो यस्य यः कालस्तत्कालव्यापिनी तिथिर्ग्राह्या यथा विनायकादिव्रते मध्यान्हादौ पूजनादिविधानान्मध्यान्हदिव्यापिनी दिनद्वये कर्मकाले व्याप्तावव्याप्तौ तदेकदेशव्याप्तौ वा युग्मवाक्यादिना पूर्वविद्धायाःपरविद्धाया वा तिथेर्ग्राह्यत्वम् युग्मवाक्यं तु युग्माग्नियुगभूतानांषण्मुन्योर्वसुरन्ध्रयोः । रुद्रेणद्वादशीयुक्ताचतुर्दश्याचपूर्णिमा । प्रतिपद्यप्यमावास्यातिथ्योर्युग्मंमहाफलमिति १ युग्मंद्वितीया अग्निस्तृतीया । द्वितीया तृतीया विद्धाग्राह्या तृतीया द्वितीयाविद्धाग्राह्येत्येवं द्वितीयातृतीययोर्युग्मम् चतुर्थी पञ्चम्योर्युग्मम् षष्ठीसप्तम्योर्युगम् अष्टमीनवम्योर्युगम् एकादशीद्वादश्योर्युग्मम् चतुर्दशीपौर्णमास्योर्युगम् अमावास्याप्रतिपदोर्युग्ममित्यर्थः क्वचिच्चतुर्थी गणनाथस्यमा तृविद्धाप्रशस्यत इत्यादिविशेषवाक्यैर्ग्राह्यत्वनिर्णयःवचनवशेनग्राह्यायास्तिथेः कर्मकालेसत्वाभावे साकल्यवचनैः सत्त्वभावनीयम् तानिच यांतिथिसमनुप्राप्य उदयंयातिभास्करः । सातिथिः सकलाज्ञेयास्नानदानजपादिषु इत्यादीनि इति सामान्यनिर्णयश्चतुर्थ उद्देशः