१७ तिथिनिर्णये सामान्यपरिभाषा

तिथिर्द्विविधा पूर्णा सखण्डा च
सूर्योदयमारभ्य षष्टिनाडिकाव्याप्ता पूर्ना एतदन्या सखण्डा
सखण्डापि द्विविधा शुद्धा विद्धा च

सूर्योदयमारभ्य अस्तसमयपर्यन्तं विद्यमाना शिवरात्र्यादौ निशीथपर्यन्तं विद्यमाना च शुद्धा तदन्या विद्धा

वेधोपि द्विविधः प्रातर्वेधःसायंवेधश्च
सूर्योदयोत्तरं षड्‌घटिकापरिमिततिथ्यन्तरस्पर्शात्मकःप्रातर्वेधः सूर्यास्तात्प्राक्‌षड्‌घटीमिततिथ्यन्तरस्पर्शःसायंवेधः
एकादशीव्रतविषये तु वेधो वक्ष्यते क्वचित्तिथिविशेषे वेधाधिक्यम् पञ्चमीद्वादशनाडीभिः षष्ठीं विद्धां करोति दशमीपञ्चदशभिरेकादशीवेधकृत् चतुर्दशी अष्टादशनाडिभिःपञ्चदशीं विध्यति विद्धाश्च तिथयःक्वचित्कर्मणि ग्राह्याः कुत्रचित्त्याज्याश्च भवन्ति
तत्र संपूर्णा शुद्धा च तिथिः प्रायेण निर्णयं नापेक्षते संदेहाभावात् निषेधविषये सखण्डापि न निर्णयार्हा निषेधस्तु निवृत्त्यात्माकालमात्रमपेक्षते इति वचनेन अष्टम्यादिषु नारिकेलादिभक्षणनिषेधादेस्तत्कालमात्रव्याप्ततिथ्यपेक्षणात् ।