१६ सिंहस्थापवादः

मघानक्षत्रगतो सिंहांशगते च गुरौ सर्वदेशेषु सर्वमाङ्गलिककर्मणां निषेधः सिंहांशोत्तरं गोदादक्षिणे भागीरथ्युत्तरे सिंहस्थे दोषो नास्ति गङ्गोदामध्यदेशे तु सर्वसिम्हस्थे विवाहव्रतबन्धयोर्दोषः
अन्यकर्माणि सिंहांशोत्तरं सर्वदेशेषु कर्तव्यानि मेषस्थे सूर्ये सर्वदेशेषु सर्वमाङ्गलिककर्मणां सर्वासिंहस्थे न दोषः

क्वचिद्‌वृषस्थितेऽर्केपि दोषाभाव उक्तः
अत्रसिंहस्थे गुरौ गोदावरीस्नानं कन्यागते कृष्णास्नानं महापुण्यम् गोदावर्यां यात्रिकाणां मुण्डनोपवासावावश्यकौ

न तु तत्तीरवासिनाम् गर्भिण्यामपि भार्यायां विवाहादिमङ्गलोत्तरमापगोदावर्यामुण्डने दोषो नास्ति गयागोदावरीयात्रायां मलमासगुरुशुक्रास्तादिदोषो नास्ति

मलमासे व्रतविशेषोऽन्यत्र ज्ञेयः

इति मलमासगुरुशुक्रास्तसिंहस्थगुरुवर्ज्यावर्ज्यनिर्णयस्तृतीय उद्देशः ।