१४ मलमासे वर्ज्यानि

अथमलमासे वर्ज्यानि उपाकर्मोत्सर्जने अष्टकाश्राद्धानि अधिके वर्ज्यानि चूडामौजीबन्धविवाहास्तीर्थादियात्रावास्तुकर्मगृहप्रवेशदेवप्रतिष्ठाकूपारामाद्युत्सर्गो

नूतनवस्त्रालंकारधारणं तुलापुरुषादिमहादानानि यज्ञकर्माधानमपूर्वतीर्थदेवदर्शनं संन्यासःकाम्यवृषोत्सर्गो राजाभिषेको व्रतानि सगतिकमन्नप्राशनं

समावर्तनमतिक्रान्तनामकर्मादिसंस्काराः पवित्रारोपणदमनार्पणेश्रवणाकर्म सर्पबल्यदिपाकसंस्थाः शयनपरिवर्तनाद्युत्सवःशपथदिव्यादिकर्म

एतानि मलमासे वर्ज्यानि नैमित्तिकानिरजोदर्शनशान्तिविच्छिन्नाधानपुनः प्रतिष्ठादीनि यदि निमित्तानन्तरमेव क्रियन्ते तदा न मलमासादिदोषः

कालातिपत्तौ तु शुद्धे एव कर्तव्यानि आग्रयणं दुर्भिक्षसंकटेमलमासे कार्यमन्यथा शुद्धे एव युगादिमन्वादिश्राद्धानामासद्वयेप्यावृत्तिःक्षयात्पूर्वोऽधिमासः

संसर्पसंज्ञकःपूर्वमुक्तः तत्र चूडाकर्मव्रतबंधविवाहाग्न्याधानयज्ञोत्सवमहालयराजाभिषेका एव वर्ज्याः नान्यानि कर्माणि

अपूर्वव्रतारंभो व्रतसमाप्तिश्च मिलमासे न भवति सपूर्वमाघस्नानादेःक्षयमासेप्यारम्भसमाप्तीति

मकरसंक्रान्तियुक्तक्षयमासगतपरुणिमास्यां माघस्नानमारभ्य कुम्भसंक्रान्तियुतमाघपौर्नमास्यां समापनीयम् एवं कार्तिकेप्यूहम् यत्र वैशाखादिरधिकस्तत्र वैशाखस्नानादिमासव्रतानां चैत्रपूर्णिमाया प्रारब्धानां शुद्धवैशाखपौर्णमास्यां समाप्तिरिति तेषां मासद्वयमनुष्ठानम् ।