मघानक्षत्रगतोसिंहांशगतेचगुरौसर्वदेशेषुसर्वमाङ्गलिककर्मणांनिषेधःसिंहांशोत्तरंगोदादक्षिणेभागीरथ्युत्तरे
सिंहस्थेदोषो नास्ति गङ्गोदामध्यदेशेतुसर्वसिम्हस्थे विवाहव्रतबन्धयोर्दोषः अन्यकर्माणिसिंहांशोत्तरंसर्वदेशेषुकर्तव्यानि
मेषस्थे सूर्ये सर्वदेशेषु सर्वमाङ्गलिककर्मणां सर्वासिंहस्थे न दोषः क्वचिद्वृषस्थितेऽर्केपि दोषाभाव उक्तः
अत्र सिंहस्थे गुरौ गोदावरीस्नानं कन्यागते कृष्णास्नानं महापुण्यम् गोदावर्यां यात्रिकाणां मुण्डनोपवासावावश्यकौ नतु तत्तीरवासिनाम्
गर्भिण्यामपि भार्यायां विवाहादिमङ्गलोत्तरमापगोदावर्यामुण्डने दोषोनास्ति गयागोदावरीयात्रायां मलमासगुरुशुक्रास्तादिदोषोनास्ति
मलमासे व्रतविशेषोऽन्यत्रज्ञेयः
इति मलमासगुरुशुक्रास्तसिंहस्थगुरुवर्ज्यावर्ज्यनिर्णयस्तृतीय उद्देशः ।