१२ गुरुशुक्रास्ते वर्ज्यानि

गुरुशुक्रास्तादौ सिंहस्थे गुरौ च वर्ज्यादियन्मलमासे वर्ज्यमुक्तं तद्‌गुरुशुक्तास्तबाल्यवार्धकेष्वपि ज्ञेयम् तत्रास्तात्प्राक्‌सप्ताहं वार्धकमुदयानन्तरं सप्ताहं बाल्यमिति-

मध्यमःपक्षः पञ्चदशाहपञ्चाहत्र्यहादिपक्षा आपदनापदादिविषयतया देशविशेषपरतया च योज्य अयं वर्ज्यावर्ज्यनिर्णयसिंहस्थे गुरावपि ज्ञेयाःतत्र विषेष उच्यते कर्णवेधचौलमौञ्जीबन्धविवाहदेवयात्राव्रतवास्तुकर्मदेवप्रतिष्ठासंन्यासाविशेषतो वर्ज्या इति ।