भाद्रपदकृष्णामावास्यायां कन्यासंक्रान्तिः तता आश्विनोऽधिमासः शुद्धाश्विनप्रतिपदि तुलासंक्रान्तिः कार्तिकशुक्लप्रतिपदि वृश्चिकसंक्रान्तिः
ततोमार्गशीर्षशुद्धप्रतिपदि धनुःसंक्रान्तिः तस्मिन्नेव मासेऽमावास्यायां मकरसंक्रान्तिरिति धनुर्मकरसंक्रान्तिद्वययुक्त एकोमासः
क्षयमाससंज्ञकः स च मार्गशीर्षपौषाख्यमासद्वयात्मक एकोमासो ज्ञेयः तस्य प्रतिपदादितिथीनां पूर्वार्धे मार्गशीर्ष
उत्तरार्धे पौषैत्येवं सर्वतिथीनां मासद्वयात्मकत्वात् अत्र तिथिपूर्वार्धेमृतस्य मार्गशीर्षे प्रत्यब्दश्राद्धमुत्तरार्धं मृतस्य तु पौषे
एवं जनने वर्धापनादिविधिरपि तत ऊर्ध्वं माघामावास्यायां कुंम्भसंक्रान्तिः ततःफाल्गुनोऽधिमासः शुद्धफाल्गुनशुक्लप्रतिपदि मीनसंक्रान्तिः
एवं पूर्वापराधिमासद्वययुक्तः क्षयमासो यस्मिन्वर्षे तत्र त्रयोदशमासात्मकं किचिदूननवत्यधिकशतत्रयदिनैर्वर्षम् तत्र क्षयमासात्पूर्वोऽधिमासः
संसर्पसंज्ञः सर्वकर्मार्हःशुभकर्मणि न त्याज्यः अंहस्पतिसंज्ञः क्षयमासस्तदुत्तरभाव्यधिकमासश्च सर्वकर्मसु वर्ज्यः
एवं त्रिवत्सरांतरस्थः केवलोधिकसोपि वर्ज्यः