०७ मलमासः

अथमलमासः सद्विविधः अधिमासः क्षयमासश्च संक्रान्तिरहितोमासोऽधिमासः संक्रांतिद्वययुक्तोमासः क्षयमासः

पूर्वाधिमासादुत्तरोधिमासस्त्रिंशत्तममासमारभ्याष्टसुनवसुवामासेष्वन्यतमोभवति

क्षयमासस्तु एकचत्वारिंशदधिकशतसंख्यैर्वर्षैरेकोनविंशतिसंख्यैर्वावर्षैर्भवति नत्वधिकमासवदल्पकालेन

क्षयमासः कार्तिकमार्गशीर्षपौषेष्वन्यतमोभवतिनेतरःयस्मिन्वर्षे क्षयमासस्त स्मिन्वर्षेऽधिकमासद्वयम्

क्षयमासात्पूर्वमेकोऽधिमासःक्षयमासानंतरमेकोऽधिमास इति