मंगलकृत्येषु सर्वसंक्रातिष्वविशेशेण पूर्वतः परतश्चषोडशषोडशघटिकास्त्याज्याः चन्द्रादिसंक्रान्तिषु तु पूर्वत्र परत्र च मिलित्वा क्रमेण द्वेनवद्वेचतुरशीतिःषट्सार्धशतं च घटिकास्त्याज्याःरात्रौ संक्रमणे ग्रहणवद्रात्रावेव स्नानदानादिकं कर्तव्यमिति केचित् रात्रौ संक्रमणेपि दिवैव स्नानादिकं न तु रात्राविति तु सर्वसंमत बहुदेशाचारश्चैवम् यस्य जन्मर्क्षेरविसंक्रमस्तस्य
धनक्षयादिपिडातत्परिहारार्थपद्मपत्रादियुक्तजलेन स्नानम् विषुवायनयोरह्निसंक्रमे पूर्वापररात्रौ तदन्हिचाध्यापनाध्यायने वर्जयेत्
रात्रिसंक्रमे पूर्वापरदिनयोस्तद्रात्रौ च वर्जयेत् एवं पक्षिणि संक्रान्तिः द्वादशप्रहरपर्यन्तमनध्यायादिकमिति तात्पर्यम्
अन्योपि विशेषोऽयनसंक्रान्तौ वक्ष्यते इति संक्रांत्युद्देशो द्वितीयः