व्रतखण्डम्

पुराण चिततिओन्स्

अग्निपुराण २२७, ३३२, ९९६, ११३८,

आग्नेयपुराण ९९३,

आदित्यपुराण १६, ४७, ४९, ५१, १०३, ३२३, ३२६, ७४०, ८०४, ८७५, ८७६, ११४७,

कालिकापुराण २२, २३७, ४४४, ७८८, ८३१, ८३२, १००१,

कालोत्तर ६१, ४५३, ५९०, ८६४, ८६५, ८६६,

कूर्मपुराण १३, २१, ३२२, ५२४, ५३०, ८६२, ९९३, ९९९, १०००, १००८, १०१०, ११५८ (२),

गरुडपुराण ४३, ४४, ३२१, ३२२, ३३१, ३४१, ३८९, ४७१, ४८३, ५५२, ६२४, ७७०, ८८०, ९४१, ९६५, ९९३, १००१,

देवीपुराण २९, ६३, ६५, ६९, ९०, ३०९, ४८५, ५२६, ८६२, ९००, ९०३, ९०६, ९५५, ११७७,

नरसिंहपुराण ५१२,

नान्दीपुराण ९९९, १००२, १००३,

नारदीयपुराण ९९३, ९९६, १००२,

पद्मपुराण ५८, ६७, ३०६, ३३१, ३३३, ३५७, ३५९, ३८९, ४२६, ४६५, ४७४, ४८३, ४८४, ४९७, ५००, ५३२, ५५६, ६४०, ६४२, ६४३, ६५०, ६५२, ७४४, ७८६, ७८७, ७८८, ८८१, ९५८, १०००, १०१०, १०४९, १०५९, १०७५, १०७८, ११६१, १२०२,

पुराणान्तर १०३८ (२),

ब्रह्मपुराण ३४, ४५, ४७, ५३, ६५, २२६, ५३१, ६२७ (२), ७८९, ९०७, ९८४, ९९१, १००६, १००७ (३), १००९,

ब्रह्मवैवर्त ७, १२, ९८५, १००३, १००६ (२), ११५५, ११६३,

ब्रह्माण्डपुराण १३७, ३६५, ४९८, ५७२,

भविष्यत्पुराण ४–५, १०, १९ (२), २३, २७, ३१, ३४, ४२, ४७, ४८, ५०, ५७, ५८, ८४, २२९, ३३०, ३३१, ३३८, ३४८, ३५५, ३७१, ३७६, ३७७, ३८२, ४७७, ४७८, ४७९, ४९८, ५१०, ५१३, ५१४, ५२०, ५४३, ५६०, ५६४, ५७३, ६०६, ६१७, ६६०, ६६३, ६६४, ६६७, ६६९ (२), ६७४, ६७६, ६७९, ६८५, ६८७, ६९०, ६९६, ६९७, ७०१, ७०२, ७०५, ७२४, ७२६ (३), ७२८, ७३०, ७३१, ७३४, ७३६, ७३८, ७४१ (२), ७४२, ७४३, ७४६, ७४७, ७५३, ७५६, ७६०, ७६३, ७६८, ७८४, ७८७, ७८८, ८२३, ८३९, ८४१, ८४४, ८७५, ८८२, ८८६, ९२८, ९३३, ९३७ (२), ९३९, ९४८, ९५४, ९५५, ९५६, ९५७, ९९३, १०००, १००१, १००६, १०१०, १०८४, ११४५, ११७७, ११८०, १२००, १२०२, १२०४ (२),

भविष्योत्तर ४८, १०९, ३३२, ३५१, ३५३, ३५४, ३७१, ३७३, ३८०, ३८६, ४००, ४०२, ४०५, ४१६, ४१७, ४२२, ४३०, ४३५, ४३९, ५२९, ५३२, ५४६, ५६३, ५६७ (२), ५६८, ५७४, ६००, ६०२, ६०४, ६०५, ६०८, ६१५, ६२०, ६२६, ६३२, ६३८, ६४८, ६५६, ६५९, ६७१, ७१७, ७२०, ७५४, ७५७, ८१४, ८१९, ८३६ (२), ८३७, ८७३, ८८८, ८९४, ८९६, ९५२, ९५९, ९७६, ९८१, ९८२, १०२१, १०७९, १०८९, १०९४, १११२, १११४, १११७, ११४५, ११६४, ११७१, ११९०, ११९४,

भागवत ७,

मत्स्यपुराण १६, २०, २१, ४८, ५३, ६८ (२), ८८, १४९ (२), १५०, २२२, ३०८ (२), ३३१, ३७६, ४२२, ४४७, ४५०, ५१०, ७८६, ८२९, ८७१, ९९३, ९९९, १०००, १००८, १०५९, १०६०, ११९८,

महाभारत ६, ७, १२, १४, १५, १६, २४, ३१, ३२५, ३२६, १०९१,

मार्कण्डेयपुराण २६, ३४, ३७, ४९, ५२, ८७, ३२६, १०१०, १२२२,

लिङ्गपुराण ४३, ६७, ६९, २३६, ३०७, ८६२, ८६३ (२), ९०६, ९०७,

वराहपुराण ११, ५७, ३२१, ३५६, ३७९, ४८०, ५२५, ५५७, ६१६, ७३५, ७४८, ८७६, ९५८, ९८३, ९८५, १००४, १०१३, १०४४, ११०३, ११६२, ११७२,

वह्निपुराण ३०, ८११, १०७२, ११५८,

वामनपुराण ८५३, ११०५,

वायुपुराण ३४, ३८, १४०, ५७५,

विष्णुधर्म ४९९, ५७४, ७७७, ७९०, ७९१, ८४५, ९९५, १०१०, १०८१, १०८३, १०९५, १११०, ११५०, ११५९, ११७२, ११७३ (२), १२०४,

विष्णुधर्मोत्तर ८, २५, ४४, ४७, ५३, ७६, ७९, ८७, १०३, १०८, ११०, ११५, १२३, १२९, १३७, १४०, १४३, १४७, १५० (२), १९१, २४२, ३१८, ३४३, ३४४, ३४५, ३८१, ३९१, ३९२, ३९३, ४३३, ४५४, ४५६, ४५७, ४५९, ४९८, ५००, ५०३, ५०६, ५०७, ५०८, ५४१, ५५३, ५७४, ५७५ (३), ५७६ (२), ६१७, ६२८ (३), ६२९, ६३२, ६७४, ७७४, ७७८, ७७९, ७८०, ७९० (३), ७९१ (४), ७९२ (४), ८११, ८१७, ८२१, ८४७, ८४८, ८४९, ९४६, ९५९, ९६०, ९६१, ९६२, ९६६ (२), ९६७, ९६८, ९९३, १०००, १००८, १००९, १०२९, १०३५, १०६३, १११९, ११३१, ११४७, ११४८, ११५० (?), ११५१ (२), ११६२, ११७५, १२०४,

विष्णुपुराण १८, २०, २७, ३५, ५३०, ६१६, ११६१,

विष्णुरहस्य ३७३, ९९३, ९९६ (३), १००३, १००९, १०९६, १०९७, ११०१, ११६४, १२०१,

वेदव्यास १३,

शिवधार्म २३५,

सौरपुराण ५२३, ८९९,

स्कन्दपुराण १३, १४, ३१, ४३, ४४, ४५, २२२, ३१८, ३१९, ३२५, ३३३, ३५८, ४६१, ४८३, ५०५, ५२९, ५३० (२), ५३१, ५३६, ५६४, ५६५, ५६६, ५८७, ५८८, ५९६, ६२७, ८३५, ८३६, ८५५, ९०३, ९७३, ९९३, ९९५, ९९६ (२), ९९९, १००१, १००२, १००८, ११०८, ११३५, ११५६,

हरिवंश ३२७,

प्रथमो ऽध्यायः

[१]

अथ ग्रन्थकर्तुः प्रशस्तिः

पादप्रान्तविनिःसृतस्युसरितो देवस्य लक्ष्मीपतेर्

व्यक्ताम्भोरुहसम्भवा त्रिजगतीबन्ध्या जयन्ति द्विजाः ।

रागद्वेषमदादिदोषविरहाद् अन्तस्फुरज्ज्योतिषाम्

तेषाम् एव शिरोमणिर् विजयते विश्वाभिधानो मुनिः ॥ १ ॥

गोत्रे तस्य बभूव निर्मलगुणश्रेणीभृताम् अग्रणीर्

विद्याचारविवेकविकरमनिधिः नीवासुदेवः कृतौ ।

यत्कीर्त्या धवलीकृते त्रिभुवने श्रीकण्ठवैकुण्ठयोः

कैलासाचलदुग्धसिन्धुविषये नशीन् निवासो गृहे ॥ २ ॥

नानादानप्रीणितप्राणिलोको

[२] लोकालोकप्रान्तविश्रान्तकीर्तिः ।

तस्माद् आसीन् नामतः कामदेवः

पुण्याचारैर् मूर्तिमान् धर्म एव ॥ ३ ॥

विमलगुणमणीनाम् आकरः कामदेवा

दभवद् अतुलतेजा नाम हेमाद्रिसूरिः ।

सकलकलिकलङ्कातङ्कपङ्कापहारी

सुरसरित इवौघः शार्ङ्गपाणेः पदाञ्जात् ॥ ४ ॥

पुरापि यत् पुण्यम् अगण्यरूपम्

श्रीकामदेवेन कृतं तु विद्मः ।

येनादरिद्रां जगतीं विधातुम्

हेमाद्रिर् अप्य् अस्य गृहे ऽवतीर्णः ॥ ५ ॥

चरितं तस्य हेमाद्रेर् अद्भुतं केन वर्ण्यते ।

उपैति प्रार्थितो यस्य सन्तानः कल्पवृक्षताम् ॥ ६ ॥

दृष्ट्वैव भावीति यशांसि यस्य

जगत्त्रयी मण्डलपण्डितानि ।

तथाविधं शिल्पम् अनल्पम् इन्दोर्

धाता विधातुं शिथिलादरो ऽभूत् ॥ ७ ॥

असौ विसीमा महिमा हिमाद्रिम्

हेमाद्रिसूरेर् अधरी करोति ।

दूराद् अगम्यं मृगलोचनानाम्

येनाजडं मानसम् एव धत्ते ॥ ८ ॥

कलाकलापं सकलं बिभर्ति

गवां सहस्राणि सदा ददाति ।

[३] जगत्प्रसिद्धद्विजराजभावस्

तथापि यस् तारकतां दधाति ॥ ९ ॥

विध्वस्ता खिल वैरिणः किल महादेवस्य पृथ्वीपतेर्

आज्यक्षीरसमुद्रवर्धनशशी हेमादिसूरिः परः ।

येन श्रीकरणाधिपत्यपदवीम् आसाद्य विद्याम् अपि

न्यस्ता श्रीश् च सरस्वती च विदुषां गेहेषु देहेषु च ॥ १० ॥

जिज्ञासाम् इह कुर्वते कतिपये धर्मस्य तेभ्यो परे

जानन्त्य् एव समस्तशास्त्ररचनाद् अस्माभिर् एवं पुनः ।

निःशेषैर् अभिधीयते क्षितितले हेमाद्रिसूरेः परो

जातुं वा चरितुं क्षमो न हि पुरा भूतो न भावी पुरः ॥ ११ ॥

स सम्प्रति निरालोकलोकशाङ्कापनुत्तये ।

विदधाति चतुर्वर्गचिन्तामणिम् उदारधीः ॥ १२ ॥

यं पूर्वं चारुचिन्तामणिम् अमितगुणं मन्द्राद्रिः समुद्रम्

निर्मथ्य प्रायशो ऽयं वितरति बहुशः प्रार्थनाद् अर्थम् एव ।

सम्प्रत्य् आलोच्य सर्वस्मृतिनिगमपुराणेतिहासाम्बुराशीन्

हेमादिर्ः स्पर्धयैव प्रकटयति चतुर्वर्गचिन्तामणिं सः ॥ १३ ॥

रुन्धानमन्धानि तमांसि दूरे विचिन्त्य चिन्तामणिम् एतम् एव ।

मनोरथानां परिपूरणाय नान्यत्र सन्तः श्रमम् आचरन्तु ॥ १४ ॥

अनन्यमनसा सो ऽयं चिन्तामणिर् उपासितः ।

विदधातु सदाशेषम् अनीषितकलानि वः ॥ १५ ॥

खण्डानि चास्मिन् व्रतदानतीर्थ-

मोक्षाभिधानि क्रमशो भवन्ति ।

[४] यत् पञ्चमं तत् परिशेषखण्डम्

अखण्दितो यत्र विभाति धर्मः ॥ १६ ॥

धर्मो जयत्य् अभ्युदयैकहेतुर्

यस्य प्रकारान् षड् उदाहरन्ति ।

अवान्तरान् एकविशेषयोगाद्

अन्ये ऽपि यस्मिन् बहवो भवन्ति ॥ १७ ॥

अमुष्य भेदान् अखिलान् प्रवक्तुम्

वाचस्पतेर् अप्य् असमर्थभावः ।

महानुभावा मुनयो ऽपि शास्त्रे

तद् एकदेशं प्रतिपादयन्ति ॥ १८ ॥

तेनेह हेमाद्रिसुधीः स्वशास्त्रे

साधारणं धर्मविशेषम् आह ।

कलाभिलाषन् अभिलाषभेदात्

काम्यं च नित्यं च यम् आमनन्ति ॥ १९ ॥

यद् आह हारीतः ।

काम्यैर् एतैः क्रियमाणैस् तपोभिः

स्वर्गाल् लोकात् पुनर् आयान्ति जन्म

कामैर् मुक्ताः सत्यलोकाः स यज्ञास्

तपोनिष्ठान् अक्षयान् यान्ति लोकान् ॥ इति ॥ २० ॥

अथ के ते धर्मस्य षट् प्रकाराः कतमश् चासाव् अस्मिन् शास्त्रे प्रतिपादयिष्यमाणः साधारणाख्यो धर्मविशेष इत्य् उच्यते । तत्र धर्म इत्य् अनुवृत्तौ भविष्यत्पुराणे ।

[५] वर्णधर्मः स्मृतस् त्व् एक आश्रमाणाम् अतः परम् ।

वर्णाश्रमस् तृतीयस् तु गौणी नैमित्तिकस् तथा ॥

वर्णत्वम् एकम् आश्रित्य यो धर्मः सम्प्रवर्तते ।

वर्णधर्मः स उक्तस् तु यथोपनयनं नृप ॥

आश्रमं च समाश्रित्य (?) यो धर्मः सम्प्रवर्तते ।

स खल्व् आश्रमधर्मस् तु भिक्षादण्डादिको यथा ॥

वर्णत्वम् आश्रमतं च यो ऽधिकृत्य प्रवर्तते ।

स वर्णाश्रमधर्मस् तु स्यान् मौञ्जी मेखला यथा ॥

यो गुणेन प्रवर्तेत गुणधर्मः स उच्यते ।

यथामूर्धाभिषिक्तस्य प्रजानां परिपालनम् ॥

निमित्तम् एकम् आश्रित्य यो धर्मः सम्प्रवर्तते ।

नैमित्तिकः स विज्ञेयः प्रायश्चित्तविधिर् यथा ॥

वर्णत्वमेकम् आश्रियेति एकशब्दो वक्ष्यमानोभयनिमित्तव्यावृत्तिपरः, वक्षमाणधर्मस्य वर्णधर्मत्वात् अयं त्व् आश्रमत्वम् अनपेक्ष्य वर्णत्वनिमित्तको ऽतः सत्याम् अप्य् उपनयनस्याष्टवर्षत्वाद्यपेक्षायां नैकशब्दविरोध इति । अथ वा वीप्सायाम् एकशब्दः ततश् चैकैकं वर्णत्वम् उद्दिश्य यो विधीयते स वर्णधर्म इति अत एवाष्टवर्षादिवाक्यैर् अनेकवर्णत्वोद्देशेन विधीयमानम् उपनयनं दृष्टान्तीकृतम् । निमित्तम् एकम् आश्रित्येत्य् अत्र प्रायश्चित्तस्य नित्यकाम्यवैधर्म्यमात्रेण नैमित्तिकत्वं न तु राहुदर्शननिमित्तस्नानादिवद् अकरणजनितदोषपरिहारार्थतया निषिद्धकर्मकृताधर्म-परिहारार्थतयैव तद्विधा**[६]**नोपपत्तेः न च जातेष्टिवद् उभयार्थत्वम्, तत्र फलनिमित्तयोर् उभयीरूपात् तत्त्वान् न त्व् इह तथेति ।

साधारणधर्मस् तु महाभारते ।

श्राद्धकर्म तपश् चैव सत्यम् अक्रोध एव च ।

स्वेषु दारेषु सन्तोषः शौचं नित्यानसूयिता ।

आत्मज्ञानं तितिक्षा च धर्मः साधारणो नृप ॥

चातुर्वर्ण्यस्येति शेषः । तपश् चान्द्रायणादि । यद् आह देवलः ।

व्रतोपवासनियमैः शरीरोत्तापनं नृप ।

व्रतशब्दो ऽत्र स्नानदानजपहोमपूजोपवासादिपरः, एतेन व्रतखण्डप्रतिपाद्यानां धर्माणाम् अपि साधारणत्वं सूचितम्, आत्मज्ञानम् इत्य् अनेन मोक्षखण्डप्रतिपाद्यानाम् अपि धर्माणां साधारणत्वम्, न चापि शूद्राधिकरणन्यायेन शूद्राणां विद्यायाम् अनधिकार इति कथं मोक्षधर्माणां साधारणत्वम् इति वाच्यम् । तेषाम् उपनयनाभावेनाध्ययनासं-भवाद् वेदवाक्यविचार एवानधिकारः । न पुनर् अवैदिके श्रावयेच् चतुरो वर्णान् इति शूद्राणाम् अपि पञ्चयज्ञादिवत् पुराण्स्मृतिप्रतिपाद्यविद्योपदेशदर्शनात् ।

ननु तथापि कथं वेदान्तवाक्यविचारजनितज्ञानाभावे शूद्राणां मोक्षधर्माधिकार इति चेत्, मैवम् । मोक्षसाधनस्य ज्ञानस्य तदेकसाधनत्वसिद्धेः । तथा च श्रुतिः- “तरति शोकम् आत्मविद् ब्रह्मवेद (विद्?) ब्रह्मैव [७] भवति ब्रह्मविद् आप्नोति परं विद्ययामृतत्वम् अश्णुते” इति मोक्षस्यात्मज्ञानसाध्यतां वदति । आत्मज्ञानस्य च पुराणादिवचनXअयविचारपरिचयाद् अप्य् उपपत्तेः श्रीतव्य इत्यादि वाक्यानां तु विचारनियमविधित्वानङ्गीकारात् अङ्गीकारे वा, तस्य द्विजातिनियततया श्रावयेच् चतुरो वर्णान् इत्याद्पुराणवचनविषयविधेर् अप्य् अध्ययनविधिवद् विचारपर्यन्ततास् तु । ततश् च यथा द्रव्यसाध्यत्वाविशेषे ऽपि क्रतूनां तत्तद्वर्णविहितोपायनियमार्जितद्रव्यासाध्यत्वम् एवम् आत्मज्ञानसाध्यत्वाविशेषे ऽपि मोक्षस्य तदुपायविशेषजनितज्ञानसाध्यत्वम् इति सर्वम् अनवद्यम् ।

अथा चोक्तं भागवते ।

स्त्रीशुद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा ।

इति भारतम् आख्यानं मुनिना कृपया कृतम् ॥

महाभारते ऽपि ।

माम् उपाश्रित्य कौन्तेय य ऽपि स्युः पापयोनयः ।

स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति परां गतिम् ॥

विष्णुः ।

क्षमा सत्यं दमः शौचं दानम् इन्द्रियसंयमः ।

अहिंसा गुरुशुश्रूषा तीर्थानुसरणं दया ॥

आर्जवं लोभशून्यत्वं देवब्राह्मणपूजनम् ।

अनभ्यसूया च तथा धर्मः सामान्य उच्यते इति ॥

ब्रह्मवैवर्ते ।

विद्या दया दमः शौचं सत्यम् अस्तेयता तपः ।

जितेन्द्रियत्वम् अक्रोधो लज्जा धर्म इति स्मृतः ॥

[८] विष्णुधर्मोत्तरे ।

तस्य द्वाराणि यजनं तपो दानं दया क्षमा ।

ब्रह्मचर्यं तथा सत्यं तीर्थानुसरणं शुभम् ॥

स्वाध्यायसेवा साधूनां सहवासः सुरार्चनम् ।

गुरूणां चैव शुश्रूषा ब्राह्मणानां च पूजनम् ॥

इन्द्रियाणां यमश् चैव ब्रह्मचर्यम् अमत्सरम् ।

गङ्गास्नानं शिवो देवो विप्रपूजात्मचिन्तनम् ।

द्यानं नारायणस्यैतत् सङ्क्षेपाद् धर्मलक्षणम् ॥

दानम् इत्य् अनेन दानखण्डप्रतिपाद्यानाम् तीर्थानुसरणम् इत्य् अनेनापि तीर्थखण्डप्रतिपाद्यानाम् देवब्राह्मणपूजनम् इत्य् अनेनापि परिशेषखण्डप्रतिपाद्यानाम् देवतापूजनादिहर्माणां साधारणत्वम् ।

बृहस्पतिः ।

दया क्षमानसूया च शौचानायासम्मङ्गलम् ।

अकार्पण्यम् अस्पृहत्वं सर्वसाधारणानि च ॥

परे वा बन्धुवर्गे वा मित्रे द्वेष्टति वा सदा ।

आपन्ने रक्षितव्यं तु दयैषा परिकीर्तिता ॥

बाह्ये वाध्यात्मके चैव दुःखे चौत्पातिके क्वचित् ।

न कुप्यति न वा हन्ति सा क्षमा परिकीर्तिता ॥

न गुणान् गुणिनो हन्ति स्तौति मन्दगुणान् अपि ।

नान्यदोषेषु रमते सानसूया प्रकीर्तिता ॥

अभक्ष्यपरिहारश् च संसर्गश् चाप्य् अनिन्दितैः ।

[९] स्वधर्मेण व्यवस्थानं शौचम् एतत् प्रकीर्तितम् ॥

शरीरं पीड्यते येन सुशुभेनापि कर्मणा ।

अत्यन्तं तन् न कुर्वीत अनायासः स उच्यते ॥

प्रशस्ताचरणं नित्यम् अप्रशस्तविवर्जनम् ।

एतद् धि मङ्गलं प्रोक्तम् ऋषिभिस् तत्त्वदर्शिभिः ॥

स्तोकाद् अप्य् उपकर्तव्यम् अदीनेनान्तरात्मना ।

अहन्य् अहनि यत् किञ्चित् अकार्पण्यं हि तत् स्मृतम् ॥

यथोपपन्ने सन्तोषः कर्तव्यो ऽत्यल्पवस्तुनि ।

परस्य चिन्तयण्न् अर्थं सास्पृहा परिकीर्तिता ॥

तद् एवं निरूपिताः । षट्प्रकारा धर्माख्याः । अथ क्रमेण प्रतिपाद्यम् उच्यते ।

प्रथमे व्रतखण्डे ऽसिन्न् आदौ धर्मनिरूपणम् ।

परिभाषा व्रतानां च प्रशंसा तदनन्तरम् ॥

व्रतानि प्रतिपन्मुख्यतिथीनां क्रमशस् तथा ।

नानातिथिव्रतव्रातवारताराव्रतानि च ॥

ततश् च योगकरणसङ्क्रान्तिव्रतसङ्ग्रहः ।

मासेषु नानामासर्तुवत्सरेषु व्रतान्य् अतः ॥

प्रकीर्णकव्रतानीह ततः शान्तिकपौष्टिकम् ॥ इति ।

इति प्रतिपाद्यसङ्ग्रहः ।

अथ श्रोतृप्रवृत्तिसाधनधर्मनिरूपणम् । तत्र भवतीश्रुतिः ।

[१०] धर्मो निश्वस्य जगतः प्रतिष्ठा, लोके धर्मिष्ठं प्रजा उपसर्पन्ति, धर्मेण

    पापम् अपनुदन्ति धर्मे सर्वं प्रतिष्ठितम्, तस्माद् धर्मं परमं वदन्ति ।

भविष्तत्पुराणे ।

धर्मः श्रेयः समुद्दिष्टं श्रेयो ऽभ्युदयलक्षणम् ॥

प्रथमश्रेयःशब्देनात्र श्रेयःसाधनं लक्ष्यते, श्रेयो ऽभ्युदयलक्षणम् इति श्रेयःशब्दस्याभ्युदयार्थत्वात् । मनुः ।

विद्वद्भिः सेवितः सद्भिर् नित्यम् अद्वेषरागिभिः ।

हृदयेनाभ्यनुज्ञातो यो धर्मस् तं निबोधत ॥

अद्वेषरागिभिः अविहतरागद्वेषशून्यैः । हृदयेन निर्विचिकित्सिततया अभ्यनुज्ञातः प्रतिपन्नो हृदयाभ्यनुज्ञातः । आपस्तम्बः ।

    न धर्माधर्मौ चरत आवां स्वत इति, न देवा न गन्धर्वा न पितर इत्य् आचक्षते, अयं धर्मो अयम् अधर्म इति, यं त्व् आर्याः क्रियमाणं प्रशंसन्ति स धर्मो यं विगर्हन्ति सो ऽधर्मः ।

विश्वामित्रः ।

यथार्थं क्रियमाणं हि शंसन्त्य् आगमवेदिनः ।

स धर्मो यं विगर्हन्ति तम् अधर्मं प्रचक्षते ॥

भृगुः ।

प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ।

स्वर्गादौ सृजता सृष्टं ब्रह्मणा वेदरूपिणा ॥

प्रवृत्तसञ्ज्ञको धर्मो गुणतस् त्रिविधो भवेत् ।

[११] सात्विको राजसश् चैव मामसश् चेति भेदतः ॥

माक्यबुद्ध्या च यत् कर्म मोकेषे ऽपि फलवर्जितम् ।

क्रियते द्विज कर्मेह तत् शात्विकम् उदाहृतम् ॥

मोक्षायेदं करोमीति सङ्कल्प्य क्रियते तु यत् ।

तत् कर्म राजसं ज्ञेयं न साक्षान् मोक्षकृद् भवेत् ॥

कार्यबुद्ध्यनपेक्षं यत् कर्मविध्यनपेक्षया ।

क्रियते द्विजवर्येह तत् तामसम् उदाहृतम् ॥

वराहपुराणे ।

महातपा उवाच ।

अथोत्पत्तिं प्रवक्ष्यामि धर्मस्य महतीं नृप ।

माहात्म्येन समायुक्तं विस्तरेण नराधिप ॥

पूर्वं ब्रह्माव्ययः शुद्धः पराद् अपरसञ्ज्ञितः ।

स सिसृक्षुः प्रजास् त्व् आदौ पालनं तासु चिन्तयन् ॥

तस्य चिन्तयतस् त्व् अङ्गाद् दक्षिणाङ्गात् सकुण्डलः ।

प्रादुर् बभूव पुरुषः श्वेतमाल्यानुलेपनः ॥

तं दृष्ट्वोवाच भगवांश् चतुष्पादं वृषाकृतिम् ।

पालयेमाः प्रजाः पुत्र त्वं ज्येष्ठो जगतो भव ॥

इत्य् उक्तः स समुत्तस्थौ चतुष्पादः कृते युगे ।

त्रेतायां स त्रिभिः पादैर् द्वाभ्यां वै द्वापरे ऽभवत् ॥

कलाव् एकेन पादेन प्रजाः पालयते विभुः ।

षड्भेदा ब्राह्मणानां स त्रेधा क्षत्रे व्यवस्थितः ॥

द्वेधा वैश्येषु शूद्रेषु त्व् एकधा जगतः प्रभुः ।

रसातलेषु सर्वेषु द्वापरेषु स्वयम्भुवः ॥

[१२] चतुःशृङ्गस् त्रिपाच् चैव द्विशिराः सप्तहस्तवान् ।

त्रिधैव बद्धो विप्राणां मुखगः पालयन् प्रजाः ॥

ब्रह्मवैवर्ते ।

गोषु विप्रेषु वेदेषु वह्निष्व् अथ च साधुषु ।

सुहृत्सु श्रीनिवासेषु तथा चासौ विशेषतः ॥

सतीषु सत्येषु च तथा दानशीलेषु तिष्ठति ।

शुद्धसत्त्वमयः श्रीमान् सप्तलोकसमाश्रयः ।

भविष्यति मनुष्येषु नातिरिक्तः कदाचन ॥

अथ फलतो धर्मनिरूपणम् ।

प्रवृत्तसञ्ज्ञके धर्मे फलम् अभ्युदयो मतः ।

निवृत्तसञ्ज्ञके धर्मे पह्लं निःश्रेयसं मतम् ॥

महाभारते ।

विद्या वित्तं वपुः शौर्यं कुले जन्म विरोगिता ।

संसारोच्छित्तिहेतुश् च धर्माद् एव प्रकीर्तितः ॥

शब्दे स्पर्शे च रूपे च रसे गन्धे च भारत ।

प्रभुत्वं लभते जन्तुर् धर्माद् एतत् फलं विदुः ॥

तथा ।

अर्थसिद्धिं पराम् इच्छन् धर्मम् एवादितश् चरेत् ।

न हि धर्माद् विनैश्वर्यं स्वर्गलोकादि वा मृतम् ॥

[१३] धर्मं चिन्तयमानो ऽपि यदि प्राणैर् विमुच्यते ।

ततः स्वर्गम् अवाप्नोति धर्मस्यैतत् फलं विदुः ॥

यथा धर्मेण ते सत्या ये ऽधर्मेण धिग् अस्तु तान् ।

धर्मं हि शाश्वते लोके न जह्याद् धनकाङ्क्षया ॥

ऊर्ध्वबाहुर् विरौत्य् एष न च कश्चिद् वृणोति मे ।

धर्माद् अर्थश् च कामश् च स किमर्थं न सेव्यते ॥

उत्सवाद् उत्सवं यान्ति स्वर्गात् स्वर्गं सुखात् सुखम् ।

श्रद्दधानाश् च शान्ताश् च धनाढ्याः शुभकारिणः ॥

धर्मः प्रज्ञां वर्धयति क्रियमाणः पुनः पुनः ।

वृद्धप्रजास् ततो नित्यं पुण्यम् आरभते नरः ॥

स्कन्दपुराणे ।

धर्मात् सुखं च ज्ञानं च यस्माद् उभयम् आप्नुयात् ।

तस्मात् सर्वं परित्यज्य विद्वान् धर्मं समाचरेत् ॥

कूर्मपुराणे ।

धर्मात् सञ्जायते ह्य् अर्थो धर्मात् कामो ऽभिजायते ।

धर्माद् एव परं ब्रह्म तस्माद् धर्मं समाश्रयेत् ॥

आह वेदव्यासः ।

कामार्थी लिप्समानस् तु धर्मम् एवादितश् चरेत् ।

न हि धर्माद् ऋते किञ्चिद् दुष्प्रापम् इति मे मतिः ॥

निपानम् इव मण्डूका रसपूर्णम् इवाण्डजाः ।

शुभकर्मा च मायान्ति विवशाः सर्वसम्पदः ॥

[१४] स्कन्दपुराणे ।

धर्माद् राज्यं धनं सौख्यम् अधर्माद् दुःखसम्भवः ।

तस्माद् धर्मं सुखार्थाय कुर्यात् पापं च वर्जयेत् ॥

लोकद्वये ऽपि यत् सौख्यं तद् धर्मात् प्राप्यते यतः ।

धर्मम् एकम् अतः कुर्यात् सर्वकामार्थसिद्धये ॥

यः कर्म धर्मसंयुक्तं मनसापि विचिन्तयेत् ।

स वर्धते यथा वातः शुक्लपक्ष इवोडुराट् ॥

दीर्घकालेन तपसा सेवितेन तपोवने ।

धर्मनिर्धूतपापानां संसिध्यन्ति मनोरथाः ॥

धर्मवृद्धौ च वर्धन्ते सर्वभूतानि सर्वदा ।

तस्मिन्न् असति हीयेत तस्माद् धर्मं विवर्धयेत् ॥

मनुः ।

श्रुतिस्मृत्युदितं धर्मम् अनुतिष्ठन् हि मानवः ।

इह कीर्तिम् अवाप्नोति प्रेत्य चानुत्तमं सुखम् ॥

एक एव सुहृद् धर्मो निधने ऽपि अनुयाति यः ।

शरीरेण समं नाशं सर्वम् अन्यद् धि गच्छति ॥

तस्माद् धर्मं सहायार्थं नित्यं सञ्चिनुयाच् छनैः ।

धर्मेण हि सहायेन तमस् तरति दुस्तरम् ॥

महाभारते ।

धर्मो माता पिता चैव धर्मो बन्धुः सुहृत् तथा ।

धर्मो भ्राता सखा चैव धर्मः स्वामी परन्तप ॥

नास्ति धर्मसमो बन्धुर् नास्ति धर्मसमः सुहृत् ।

नास्ति धर्मसमो लाभो नाश्ति धर्मसमा गतिः ॥

[१५] तस्माद् धर्मः सहायत्वे सेवितव्यः सदा नृभिः ।

धर्मः सतां गतिः पुंसां धर्मश् चैवाश्रयः सताम् ।

धर्मो लोकाश्रयश् चातः प्रवृत्तः सचराचरम् ॥

याज्ञवल्क्यः ।

कर्मणा मनसा वाचा यस्माद् धर्मं समाचरेत् ।

मनुः ।

धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ।

तस्माद् धर्मो न हन्तव्यो मा नो धर्मो हतो ऽवधीत् ॥

महाभारते ।

बाल एव चरेद् धर्मम् अनित्यं जीवितं यतः ।

फलानाम् इव पक्वानां शश्वत् पतनतोभयम् ॥

न कामान् न च संरम्भान् नोद्वेगाद् धर्मम् उत्सृजेत् ।

धर्म एव परे लोक इह चैवाश्रयः सताम् ॥

तथा ।

इदं च त्वाम् अपरं ब्रवीमि

पुण्यप्रदं तात महाविशिष्टम् ।

न जातु कामान् न भयान् न लोभाद्

धर्मं जह्याज् जीवितस्यापि हेतोः ॥

व्यासः ।

धर्माद् अपेतं यत् कर्म यद्य् अपि स्यान् महाफलम् ।

न तत् सेवेत मेधावी शुचिः कुशतिलं यथा ॥

सुदुर्लभम् इदं प्राप्य मानुष्यं लोकम् अध्रुवम् ।

न कुर्याद् आत्मनः श्रेयस् तेनास्माद् वञ्चितश् चिरम् ॥

तृणपत्राग्रमाम्यम्बुबिन्दुवच् चपले यतः ।

जीवितं वा धनं (?) विप्रास् तस्माद् धर्मं समाचरेत् ॥

[१६] महाभारते ।

एकस्मिन्न् अप्य् अतिक्रान्ते दिवसे धर्मवर्जिते ।

दस्युभिर् मुषितस्येव युक्तम् आक्रन्दितुं चिरम् ॥

अजरामरवत् प्राज्ञो विद्याम् अर्थं च चिन्तयेत् ।

गृहीत इव केशेषु मृत्युना धर्मम् आचरेत् ॥

यस्य त्रिवर्गशून्यस्य दिनान्य् आयान्ति यान्ति च ।

स लोहकारभस्त्रेव स सन्न् अपि न जीवति ॥

तस्मात् सर्वात्मना धर्मं नित्यम् एव समाचरेत् ।

मा धर्मविमुखः प्रेत्य तमस्य् अन्धे पतिष्यति ॥

नावसीदति चेद् धर्मः कपालेनापि जीवता ।

आढ्यो ऽस्मीत्य् एव मन्तव्यं धर्मवित्ता हि साधवः ॥

मत्स्यपुराणे ।

अनित्यं जीवितं यस्माद् वसु चातीव चञ्चलम् ।

केशेष्व् इव गृहीतस् तु मृत्युना धर्मम् आचरेत् ॥

आदित्यपुराणे ।

मानुष्यं यः समासाद्य स्वर्गमोक्षप्रदायकम् ।

द्वयोर् न साधयत्य् एकं स मृतस् तप्यते चिरम् ॥

यावत् स्वास्थशरीरत्वं तावद् धर्मं समाचरेत् ।

अस्वास्थश् चोदितो नान्यत् किञ्चित् कर्तुं समुत्सहेत् ॥

विष्णुः ।

युवैव धर्मम् अन्विच्छेद् अनित्यं जीवितं यतः ।

कृते धर्मे भवेत् कीर्तिर् इह प्रेत्य च वै सुखम् ॥

[१७] यथेक्षुहेतोर् अपि सेवितं पयस्

तृणानि वल्लीर् अपि च प्रसिञ्चति ।

तथा नरो धर्मपथेन सञ्चरन्

सुखं च कामांश् च वसूनि चाश्नुते ॥

अथ प्रमाणतो धर्मनिरूपणम् । तत्र मनुः ।

वेदो ऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।

आचारश् चैव साधूनाम् आत्मनस् तुष्टिर् एव च ॥

विधिर् विधेयस् तर्कश् च वेदषडक्गानि चेति । विधिर् अज्ञातज्ञापको वेदभागः । विधेयो मन्त्रः । तर्को मीमांसा । अङ्गान्य् आह देवलः ।

    शिक्षाव्याकरणनिरुक्तछन्दःकल्पज्योतींषीति वेदाङ्गानि । 

शुचौ तु चरिते शीलम् इत्य् आचारसैव शीलत्वाभिधानात् कथं पृथगुपादानम् । न, आचार्यानुष्ठानलक्षण-क्रियारूपत्वाद् आचारस्य स्वरूपविशेषत्वाच् छीलस्य व्यक्त एव भेदः । शुचौ तु चरिते शीलम् इति शीलस्य चरितविशेषहेतुत्वाद् उपचारेण चरितत्वाभिदानम् । अथ शीलं कस्य धर्मतां प्रमापयति । आत्मन एव पुरुषविशेषस्वभावो ऽन्यथानुपपद्यमानः स्वस्य श्रेयःसाधनतां बोधयति । तथा च ब्राह्मण्यतेत्यादिहारीतवचने भावप्रत्ययान्ततयाभिधानं शीलस्य क्रियाव्यतिरेकिता बोधयन् स्वभावताम् एव ज्ञापयति यद् आह हारीतः । ब्रह्मण्यता, देवपितृ**[१८]**भक्तता, सौम्यता अपरोपतापिता, अनश्लीलता मृदुता, अपारुष्यं मित्रता, प्रियवादित्वम् कारुण्यं कृतज्ञता शरण्यता प्रशाण्तिश् चेति त्रयोदशविधं शीलम्, आचारे विवाहादौ कङ्कणबन्धनाद्यनुष्ठानाद् आत्मतुष्टिर् अत्र धर्मसन्देहे वैदिकसंस्कारवासितान्तःकरणानां साधूनाम् एकत्र पक्षे मनपरितोषः ।

याज्ञवल्क्यः ।

श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियम् आत्मनः ।

सम्यक् सङ्कल्पजः कामो धर्ममूलम् इदं स्मृतम् ॥

पुराणं न्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः ।

वेदा स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥

विष्णुपुराणे ।

अङ्गानि वेदा चत्वारो मीमांसा न्यायविस्तरः ।

धर्मशास्त्रं पुराणं च विद्या ह्य् एताश् चतुर्दश ॥

आयुर्वदो धनुर्वेदो गान्धर्वश् चेति ते त्रयः ।

अर्थशास्त्रं चतुर्थं च विद्या ह्य् अष्टादशैव ताः ॥

दृष्टार्थानाम् अपि चतसृणा क्वचिद् अलौकिकार्थप्रतिपादनाद् धर्मे प्रमाणभावः । शङ्खलिखितौ ।

    स्मृतयो धर्मशास्त्राणि । तेषां प्रणेतारो मनुविष्णुयमदक्षाङ्गिरसोऽत्रि-बृहस्पत्युशनआपस्तम्बवशिष्ठकात्यायनपराशरव्यासशङ्खलिखित-संवर्तगौतमशातातपहारीतयाज्ञवल्क्यप्राचेतसादयः ।

[१९] यमः ।

मनुर् यमो वसिष्ठो ऽत्रिः दक्षो विष्णुस् तथाङ्गिराः ।

उशना वाक्पतिर् व्यास आपस्तम्बो ऽथ गौतमः ॥

कात्ययनो नारदश् च याज्ञवल्क्यः पराशरः ।

संवर्तश् चैव शङ्खश् च हारीतो लिखितस् तथा ॥

एतैर् यानि प्रणीतानि धर्मशास्त्राणि वै पुरा ।

तान्य् एवातिप्रमाणानि न हन्तव्यानि हेतुभिः ॥

आदिशब्दाश् च बुधदेवलसोमजमदग्निप्रजापतिविश्वामित्रवृद्धशातातपपैठीनसि-पितामहबोधायनछागलेयजाबालिच्यवनमरीचिकश्यपाः । तथा हि भवित्ष्यत्पुराणे ।

अष्टादशपुराणेषु यानि वाक्यानि पुत्रक ।

तान्य् आलोच्य महाबाहो तथा स्मृत्यन्तरेषु च ॥

मन्वादिस्मृतयो याश् च षड्विंशत् परिकीर्तिताः ।

तासां वाक्यानि क्रमशः समालोक्य ब्रवीमि ते ॥ इति ।

मन्वादिस्मृतीनां षड्विंशत्वम् उक्तम् । तच् चानन्तरोक्ताभिर् एव पूर्यते । यानि पुनर् महाभारतरामायणविष्णुधर्मशिवधर्मप्रभृतीनि गृह्यपरिशिष्टानि च तानि च स्मृत्यन्तरेषु चेत्य् अनेनैवोक्तानि । तथा चोक्तं भविष्यत्पुराणे ।

अष्टादश पुराणानि रामस्य चरितं तथा ।

विष्णुधर्माणि शास्त्राणि शिवधर्माश् च भारत ॥

[२०] कार्ष्ण्यं च पञ्चमो वेदो यन् महाभारतं स्मृतम् ।

सौराश् च धर्मा राजेन्द्र मानवोक्ता महीपते ॥

जयेति नाम वै तेषां प्रवदन्ति मनीषिणः ॥ इति ।

तद् अपि स्मृत्यन्तरेषु चैवेत्य् अनेनैव परिगृहीतं वेदितव्यम् एवं यच् चान्यद् अप्य् अविगीतमहाजनपरिगृहीतं यद् अपि स्मृत्यन्तरेषु चेत्य् अनेनैव परिगृहीतं वेदितव्यम् ।

वशिष्ठः ।

श्रुतिस्मृतिविहितो धर्मस् तसलाभे शिष्टाचारः प्रमाणम् । तथा ।

पारम्पर्यागतो येषां वेदः स परिबृंहणः ।

विशिष्टा ब्राह्मणा ज्ञेया श्रुतिप्रत्यक्षहेतवः ॥

पुराणलक्षणम् उच्यते । मत्स्यपुराणे ।

सर्गश् च प्रतिसर्गश् च वंशो मन्वन्तराणि च ।

वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥

विष्णुपुराणे ।

अष्टादश पुराणानि पुराणज्ञाः प्रचक्षते ।

ब्राह्मम्पाद्यं वैष्णवं शैवं भागवतं तथा ॥

तथान्यं नारदीयं च मार्कण्डेयं च सप्तमम् ।

आग्नेयम् अष्टमं चैव भविष्यं नवमं स्मृतम् ॥

दशमं ब्रह्मवैवर्तं लैङ्गम् एकादशं स्मृतम् ।

वाराहं द्वादशं चैव स्कान्दं चैव त्रयोदशम् ॥

[२१] चतुर्दशं वामनं च कौर्मं पञ्चदशं स्मृतम् ।

मात्स्यं च गारुडं चैव ब्रह्माण्डं च ततः परम् ॥

कूर्मपुराणे ।

अन्यान्य् उपपुराणानि मुनिभिः कथितानि तु ।

आद्यं सनत्कुमारोक्तं नारसिंहम् अतः पर्म् ॥

तृतीयं नान्दम् उद्दिष्टं कुमारेण तु भाषितम् ।

चतुर्थं शिवधर्माख्यं साक्षान् नन्दीशभाषीतम् ॥

दुर्वाससोक्तम् आश्चर्यं नारदोक्तम् अतः परम् ।

कापिलं मानवं चैव तथैवोशनसेरितम् ॥

ब्रह्माण्डं वारुणं चैव कापिलाह्वयम् एव च ।

माहेश्वरं तहा शाम्बं सौरं सर्वार्थसञ्चयम् ॥

पराशरोक्तं प्रथमं तथा बागवतद्वयम् ।

इदम् अष्टादश प्रोक्तं पुराणं कौर्मम् उत्तमम् ॥

वेदार्थवित्तमैः कार्यं यः स्मृतं मुनिभिः पुरा ।

स ज्ञेयः परमो धर्मो नान्यशास्त्रेषु संस्थितः ॥

या वेदवाह्याः स्मृतयो याश् च काश् च कुदृष्टयः ।

सर्वास् ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ॥

मत्स्यपुराणे ।

पाद्मे पुराणे यत् प्रोक्तं नरसिंहोपवर्णनम् ।

तत्राष्टादशसाहस्रं नारसिंहम् इहोच्यते ॥

[२२] नन्दया यत्र माहात्म्यं कार्तिकेयेन वर्ण्यते ।

नन्दीपुराणं तल्लोके नन्दाख्यम् इति कीर्त्यते ॥

यत्र साम्बं पुरस्कृत्य भविष्यति कथानकम् ।

प्रोच्यते तत् पुनर् लोके साम्बम् एव शुचिव्रताः ॥

एवम् आदित्यसञ्ज्ञं च तत्रैव परिगद्यते ॥

अष्टादशभ्यस् तु पृथक् पुराणे यत् तु दृश्यते ।

विजानीध्वं द्विजश्रेष्ठास् तद् एतेभ्यो विनिर्गतम् ॥

कालिकापुराणे ।

शैवं यद् वायुना प्रोक्तं वैरिञ्चं सौरम् एव च ।

यद् इदं कालिकाख्यं यत् मूलं भाअगवतं स्मृतम् ॥

देवलः ।

आर्षाः पूर्ववृत्तान्ताश्रयाः प्रवृत्तिफला इतिहासः ।

मनुः ।

प्रत्यक्षम् अनुमानं च शाब्दं च विविधागमम् ।

त्रयं सुविदितं कार्यं धर्मशुद्धिम् अभीप्सता ॥

मनुः ।

आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना ।

यस् तर्केण तु सन्धत्ते स धर्मं वेद नेतरः ॥

तर्केण मीमांसादिना । व्यासः ।

धर्मशुद्धिम् अभीप्सद्भिर् न वेदाद् अन्यद् इष्यते ।

धर्मस्य कारणं शुद्धं मिश्रम् अन्यत् प्रकीर्तितम् ॥

अतः स परमो धर्मो यो वेदाद् अवगम्यते ।

अवरः स तु विज्ञेयो यः पुराणादिषु संस्थितः ॥

एतेभ्यो ऽपि यद् अन्यस्मात् किञ्चिद् धर्माभिधायकम् ।

तच् च दूरतरं विद्धि मोहस् तस्याश्रयो मतः ॥

[२३] शङ्खलिखितौ ।

रागद्वेषाग्निदग्धानां मग्नानां विषयाम्भसि ।

चिकित्सा सर्वशास्त्राणि व्याधीनाम् इव भेषजम् ॥

भविष्यत्पुराणे ।

सुमन्तुर् उवाच ।

शृणुष्वेदं महाबाहो भविष्यत् पञ्चलक्षणम् ।

यत् श्रुत्वा मुच्यते राजन् पुरुषो ब्रह्महत्यया ॥

यान्य् अनेकत्र वै पञ्च कीर्तितानि स्वयम्भुवा ।

प्रथमं कथ्यते ब्राह्मं द्वितीयं वैष्णवं स्मृतम् ॥

तृतीयं त्वाष्ट्रं व्याख्यातं चतुर्थं भाव्यम् उच्यते ।

पञ्चमं प्रतिभाव्यं च सर्वलोकेषु पूजितम् ॥

हारीतः ।

अज्ञानतमसान्धानां भ्रामितानां तु दृष्टिभिः ।

धर्मशास्त्रप्रदीपो ऽयं धर्मो मार्गानुदेशकः ॥

शातातपः ।

श्रुतिः स्मृतिस् तु विप्राणां चक्षुषी द्वे प्रकीर्तिते ।

काणस् तत्रैकहीनस् तु द्वाभ्याम् अन्धः प्रकीर्तितः ॥

यमपुराणे ।

[२४] बहुत्वाद् इह शास्त्राणां धर्ममूलं श्रुतिस्मृती ।

इतिहासपुराणानि तस्मात् तेषु मनः कृथाः ॥

शङ्खलिखितौ ।

वेदा वै विप्रकीर्णत्वाद् दुर्ज्ञेया धर्मसाधनम् ।

सुबोधात् तत्समर्था हि ब्रह्मणा विहिता श्रुतिः ॥

श्रुतिस्मृत्युदितान् धर्मान् मानवास् तान् पृथक् पृथक् ।

कुर्वतः प्राप्नुयुर् धर्मम् अन्यथा नरके गतिः ॥

श्रौतं स्मार्तं क्रियावाक्यं हेतुभिर् यो विघातयेत् ।

असच्छास्त्रम् उपाश्रित्य स ज्ञेयः शिष्टनिन्दितः ॥

महाभारते ।

इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।

बिभेत्य् अल्पश्रुताद् वेदो माम् अयं प्रतरिष्यति ॥

धर्मशास्त्राणि वेदाश् च षडङ्गानि नराधिप ।

श्रयो ऽर्थं विधीयन्ते नरस्याक्लिष्टकर्मणः ॥

व्यासः ।

श्रुतिस्मृती द्विजातीनां पुरुषार्थप्रसाधिके ।

इतिहासपुराणं च प्रमाणं धर्मनिश्चयः ॥

यमः ।

वेदाः प्रमाणं स्मृतयः प्रमाणं

धर्मार्थयुक्तं वचनं प्रमाणम् ।

यस्य प्रमाणं न भवेत् प्रमाणं

कस् तस्य कुर्याद् वचनं प्रमाणम् ॥

[२५] न यस्य वेदा न च धर्मशास्त्रं

न वृद्धवाक्यं च भवे प्रमाणम् ।

स धर्मकार्यान् निहतो दुरात्मा

न सो ऽपि तस्येह भवेत् प्रमाणम् ॥

विष्णुधर्मोत्तरे ।

शाङ्ख्यं योगं पञ्चरात्रं वेदाः पाशुपतं तथा ।

कृतान्तं पञ्चमं विद्धि ब्रह्मणः परिमार्गणे ॥

संसारक्षयदः स्वर्गभावोपकरणेषु च ।

सेतुर् आ वैष्णवाद् धर्मा सारम् एतत् प्रकीर्तितम् ॥

एतावान् एव सकलो वेदमार्ग उदीरितः ।

आभ्यः प्रशस्ताश् चैवान्याः शतशो ऽथ सहस्रशः ॥

अथ निमित्ततो धर्मनिरूपणम् । शङ्खलिखितौ ।

    तत्र धर्मलक्षणानि । देशः काल उपायो द्रव्यं श्रद्धा पात्रं त्याग इति । समस्तेषु धर्मोदयः सास्हारणो ऽन्यथा विपरीतः श्रद्धापात्रसम्पन्नो धर्मः कालः सङ्क्रान्त्यादिः श्रद्धा द्रव्योत्पत्तिर् इति कालस् तन्मूलो देशः देशो ब्रह्मावर्तादिः । 

उपाय इति कर्तव्यता, द्रव्यं स्ववृत्त्युपार्जितम्, श्रद्धा आस्तिक्यबुद्धिः, पात्रं विद्यात्रयो[प]सम्पन्नम् (?) । एषु साधारणधर्मोत्पत्तिः । [२६] अन्य्था धर्मानुदयः । श्रद्धाद्रव्योत्पत्तिर् काल इति अयम् अपि सङ्क्रान्त्यादिवद् दानादौ धर्मकालः । तन्मूलो देश इति । एवम्भूतकालसम्पन्नो देशो ऽपि धर्मस्य सम्पादयितेत्य् अर्थः ।

अथ देशनिरूपणं तावत् प्रस्तूयते । तत्र मार्कण्डेयपुराणे ।

भगवन् कथितस् त्व् एष जम्बुद्वीपः समासतः ।

यद् एतद् भवता प्रोक्तं कर्म नान्यत्र पुण्यदम् ॥

पापदम्बा महाराज वर्जयित्वा तु भारतम् ।

इतः स्वर्गश् च मोक्षश् च मध्यश् चान्तश् च गम्यते ॥

न खल्व् अत्र मनुष्याणां भूमौ कर्म विधीयते ।

योजनानां सहस्रं वै द्वीपो ऽयं दक्षिणोत्तरात् ॥

पूर्वे किराता यस्यान्ते पश्चिमे यवनाः स्मृताः ।

दक्षिणे मलयो यस्य हिमवान् उत्तरे तथा ॥

तद् एतद् भारतं वर्षं सर्वबीजं द्विजोत्तम ।

ब्रह्मत्वम् अमरेशत्वं देवत्वम् अपि दुर्लभम् ॥

मृगपक्ष्यौषधिचरायोनिस् तद्ददतो ऽश्नुते ।

स्थावराणां च सर्वेषाम् अतो ब्रह्मन् शुभाशुभे ॥

प्रयान्ति कर्मभूर् ब्रह्मन् नान्यलोकेषु विद्यते ।

स्वर्गापवर्गप्राप्तिश् च पुण्यं पापं च वै तथा ॥

[२७] देवानाम् अपि विप्रर्षे सदेवैष मनोरथः ।

अपि मानुष्यम् आप्स्यामो देवत्वात् प्रच्युताः क्षितौ ।

मनुष्यः कुरुते यद् यत् तन् न शक्यं सुरासुरैः ॥

विष्णुपुराणे ।

उत्तरं च समुद्रस्य हिमाद्रेश् चैव दक्षिणम् ।

वर्षं यद् भारतं नाम भारती यत्र सन्ततिः ॥

अत्र जन्म सहस्राणां सहस्रैर् अपि सत्तम ।

कदाचिल् लभते जन्तुर् मानुष्यं पुण्यसञ्चरात् ॥

गायन्ति देवाः किल गीतकानि

धान्यास् तु ये भारतभूमिभागे ।

स्वर्गापवर्गास्पदमार्गभूते

भवन्ति भूयः पुरुषः सुरत्वात् ॥

कर्माण्य् असङ्कल्पिततत्फलानि

सन्न्यस्य विष्णौ परमात्मरूपे ।

अवाप्य तां कर्ममहीम् अनन्ते

तस्मिन् लयं ये त्व् अमलाः प्रयान्ति ॥

भविष्यत्पुराणे ।

ब्रह्मावर्तात् परो देशः ऋषिदेशस् त्व् अनन्तरम् ।

मध्यदेशस् ततो न्यून आर्यावर्तस् त्व् अनन्तरम् ॥

नञ् ईषदर्थे अनन्तरः ईषन्न्यून इत्य् अर्थः । मनुः ।

सरस्वतीदृषद्वत्योर् देवनद्योर् यद् अन्तरम् ।

तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ॥

[२८] कुरुक्षेत्रं च मत्स्याश् च पाञ्चालाः शूरसेनिकाः ।

एष ब्रह्मर्षिदेशो वै ब्रह्मावर्ताद् अनन्तरः ।

मत्स्यो विराटदेशः, पञ्चालाः कान्यकुब्जादिदेशाः, शूरसेनिका मथुरादेशः ।

हिमवद्विन्ध्ययोर् मध्ये यत् प्राग् विनशनाद् अपि ।

प्रत्यग् एव प्रयागाच् च मध्यदेशः प्रकीर्तितः ॥

विनशनं कुरुक्षेत्रम् ।

आ समुद्रात् तु वै पूर्वाद् आ समुद्रात् तु पश्चिमात् ।

तयोर् एवान्तरं गिर्योर् आर्यावर्तं विदुर् बुधाः ॥

कृष्णसारस् तु चरति मृगो यत्र स्वभावतः ।

स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस् ततः परः ॥

एतान् द्विजातयो देशान् संश्रयेरन् प्रयत्नतः ।

शूद्रस् तु यस्मिन् कस्मिन् वा निवसेद् वृत्तिकर्षितः ॥

एष धर्मस्य वो योनिर् समामात् कथितः किल ।

सर्वपापहरः पुण्यः साधनं सर्वकर्मणाम् ॥

वसिष्ठः ।

    धर्म आर्यावर्ते प्राग् आदर्शात् प्रत्यग् आलोकाचलाद् उदक् कुमारिकाया दक्षिणेन हिमवतः, उत्तरेण विन्धाद्रेर् ये धर्मा ये चाचारास् ते सर्वे प्रत्येतव्याः न त्व् अन्ये प्रतिलोमकधर्माः एनम् आर्यावर्तम् इत्य् आचक्षते गङ्गायमुनयोर् अन्तरालम् अप्य् एके यावद् वा कृष्णमृगो विचरति तावद् ब्रह्मवर्चसम् ।

[२९] पैठीनसिः ।

    आहिमवत आकुमार्याः सिन्धुवैतरणी नदी सूर्यस्योदगयनं पुनः यावद् वा कृष्णमृगो विचरति तत्र धर्मश् चतुष्पादो भवति ।

संवर्तः ।

स्वभावाद् यत्र चरति कृष्णसारः सदा मृगः ।

धर्मदेशः स विज्ञेयो द्विजानां धर्मसाधनम् ॥

व्यासः ।

सर्वे शिलोच्चयाः पुण्याः सागराः सरितस् तथा ।

अरण्यानि च पुण्यानि विशेषान् नैमिषं तथा ॥

देवीपुराणे ।

देशो नदा गया शैलगङ्गानर्मदपुष्करम् ।

वाराणसी कुरुक्षेत्रं प्रयागो जम्बुकेश्वरः ॥

केदारं भीमनादं च कुण्डकं पुष्कराह्वयम् ।

सोमेश्वरं महापुण्यं तथा चामरकण्टकम् ॥

कालिञ्जरं तथा विन्ध्यं यत्र वामीगुहस्य च ।

सर्वे शिवाश्रमाः पुण्याः सर्वा नद्यः शुभप्रदाः ॥

दानस्नानोपवासा वै फलदाः सततं नृणाम् ॥

विष्णुः ।

चातुर्वर्ण्यव्यवस्थानं यस्मिन् देशे न दिव्यते ।

तं म्लेच्छदेशं जानीयाद् अर्यावर्तस् ततः परम् ॥

बौधायनः ।

आनर्तकाङ्गमगधाः सुराष्ट्रा दक्षिणापथः ।

तथा च सिन्धुसौवीरा एते सङ्कीर्णयोनयः ॥

[३०] आनर्तकः यस्मिन् देशे यास्काः ।

तथा ।

पद्भ्यां स कुरुते पापं यः कलिङ्गान् प्रपद्यते ।

ऋषयो निष्कृतिं तस्य प्राहुर् नैश्वानरं हविः ॥

अथ श्राद्धनिरूपणम् । आह बगवतीश्रुतिः ।

श्रद्धयाग्निः समिध्यते श्रद्धया हूयते हविः ।

श्रद्धा भग्स्य मूर्धनि वचसा वेदयामसीत्यादिः ।

मनुः ।

श्रद्धापूतं वदान्यस्य हतम् अश्रद्धयैतरत् ।

श्रद्धयेष्टं च पूर्तं च नित्यं कुर्यात् प्रयत्नतः ॥

वह्निपुराणे ।

श्रद्धापूर्वाः सर्वधर्माः श्रद्धामध्यान्तसंस्थिताः ।

श्रद्धानिष्ठाः प्रतिष्ठाश् च धर्माः श्रद्धैव कीर्तिताः ॥

श्रुतिमात्ररसाः सूक्ष्माः प्रधानपुरुषेश्वराः ।

श्रद्धामात्रेण गृह्यन्ते न करेण न चक्षुषा ॥

कायक्लेशैर् न बहुभिर् न चैवार्थस्य राशिभिः ।

धमः सम्प्राप्यते सूक्ष्मः श्रद्धाहीनैः सुरैर् अपि ॥

श्रद्धा धर्मः परः सूक्ष्मः श्रद्धा ज्ञानं परं तपः ।

श्रद्धा स्वर्गश् च मोक्षश् च श्रद्धा सर्वम् इदं जगत् ॥

[३१] सर्वस्वं जीवितं वापि दद्याद् अश्रद्धया यदि ।

नाप्नुयात् सकलं किञ्चित् श्रद्दधानस् त्व् अतो भवेत् ॥

व्यासः ।

श्रद्धा वै सात्विकी देवी सूर्यस्य दुहिता नृप ।

सावित्री प्रसवित्री च विश्वसञ्जीवनी तथा ॥

स्कन्दपुराणे ।

श्रद्धा मातेव जननी ज्ञानस्य सुकृतस्य च ।

तस्माच् छ्रद्धां समुत्पाद्य ज्ञानं सुकृतम् अर्जयेत् ॥

महाभारते ।

श्रद्धा धर्मसुता देवी पाविनी विश्वधारिणी ।

श्रद्धया साध्यते धर्मो महद्भिर् नार्थराशिभिः ॥

निष्किञ्चना हि मुनयः श्रद्धापूता दिवं गताः ।

धर्मार्थकाममोक्षाणां श्रद्धा परमकारणम् ।

पुंसाम् अश्रद्दधानानां न धर्मो नापि तत्फलम् ॥

तथा क्रिया श्रद्दधानो दाता प्राज्ञो ऽनसूयकः ।

धर्माधर्मविशेषज्ञस् तमस् तरति दुस्तरम् ॥

कालादीनि तु दानखण्डे वक्ष्यामः, तेषां तत्रोपयुक्ततमत्वात् ।

अथ परिभाषा । भवैष्यत्पुराणे ।

सम्यक् संसाधनं कर्म कर्तव्यम् अधिकारिणा ।

निष्कामेन महावीर काम्यं कामान्वितेन च ॥

[३२] आचारयुक्तः श्रद्धावान् वेदज्ञो ऽध्यात्मवित्तमः ।

कर्मणां फलम् आप्नोति न्यायार्जितधनश् च यः ॥

सम्यक् प्रथमकल्पादिना, संसाधनं यथाविहितं साद्धनम् । अधिकारिणा अर्थिना समर्थेन विदुषा च । अध्यात्मवित्तमः परलोकफलभागिन्य् आत्मनि दृढप्रत्ययवान् । न्यायार्जितधनः स्ववृत्त्यार्जितधनः । आपस्तम्बः ।

    प्रयोजयितानुमन्ता कर्ता चेति स्वर्गनरकफलेषु भागिनः । यो भूय आरभते तस्मिन् फलविशेषः ।

याज्ञवल्क्यः ।

विधिदृष्टं तु यत् कर्म करोत्य् अविधिना तु यः ।

फलं न किञ्चिद् आप्नोति क्लेशमात्रं हि तस्य तत् ॥

मनुः ।

प्रभुः प्रथमकल्पस्य यो ऽनुकल्पेन वर्तते ।

न साम्परायिकं तस्य दुर्मतेर् विद्यते फलम् ॥

छन्दोगपरिशिष्टे कात्यायनः ।

अक्रिया त्रिविधा प्रोक्ता विद्वद्भिः कामचारिणाम् ।

अक्रिया च परोक्ता या तृतीया चायथाक्रिया ॥

स्वशाखाशेषम् उत्सृज्य परशाखाश्रयं च यः ।

कर्तुम् इच्छति दुर्मेधा मोघं तस्य तु तत् फलम् ॥

यन् नाम्नातं स्वशाखायां पारक्यम् अविरोधि यत् ।

विद्वद्भिस् तद् अनुष्ठेयम् अग्निहोत्रादिकर्मवत् ॥

अग्निहोत्रं यजुर्वेदशाखासु विहितं यथा ॥

[३३] छन्दोगप्रभृतिभिर् अनुष्ठीयते । गृह्यपरिशिष्टे ।

बह्व् अल्पं वा स्वगृह्योक्तं यस् कर्म प्रकीर्तितम् ।

तस्य तावति शास्त्रार्थे कृते सर्वः कृतो भवेत् ॥

तथा ।

प्रवृत्तम् अन्यथा कुर्याद् यदि मोहात् कथञ्चन ।

यतस् तद् अन्यथा भूतं तत एव समापयेत् ॥

प्रवृत्तम् आरब्धम् अन्यथा भूतं क्रमाद्यन्यत्वेन यद् वैपरीत्यम् आपन्नम् ॥

समाप्ते यदि जानीयान् मयैतद् अन्यथा कृतम् ।

तावद् एव पुनः कुर्यान् नावृत्तिः सर्वकर्मणः ॥

एतत् तु कर्मसमाप्ताव् अन्यथाकरणज्ञानविषयम् ।

प्रधानस्याक्रिया यत्र साङ्गं तत् क्रियते पुनः ।

तदङ्गस्याक्रियायां तु नावृत्तिर् न च तत्क्रिया ॥

यत्र प्रधानस्य कर्मणो ऽकरणं तत् साङ्गम् एव पुनः कर्तव्यम्, तदङ्गाकरणे तु न साङ्गप्रधानावृत्तिर् नापि तावन्मात्रस्याङ्गस्य करणं किं तु प्रायश्चित्तम् एव कार्यम् ।

हारीतः ।

    अङ्गुष्टस्योत्तरतो रेखा ब्रह्मतीर्थम्, कनिष्ठकायाः पश्चात् प्राजापत्यम्, अग्रम् अङ्गुलीनां दैवम्, अङ्गुष्ठप्रदेशिन्योर् अन्तरा पित्रम् [पित्र्यम्?], मध्य आग्नेयम् । उपस्पर्शनं ब्राह्मेण आचमनहोमतर्पणानि प्राजा**[३४]**पत्येन कुर्यात्, मार्जनार्चनबलिकर्मभोजनानि दैवेन कुर्यात् पित्रर्थान् पित्र्येण, प्रतिग्रहम् आग्नेयेन प्रतिगृह्णीयात् ।

छागलेयः ।

हस्तमध्ये ब्रह्मतीर्थं दक्षिणाग्रहणे तु तत् ।

मार्कण्डेयपुराणे ।

नान्दीमुखानां कुर्वन्ति प्राज्ञाः पिण्डोदकक्रियाः ।

प्राजापत्येन तीर्थेन यच् च किञ्चित् प्रजायते ॥

ब्रह्मपुराणे ।

मूलरेखासु स्वाङ्गुष्ठमणिबन्धेषु मध्यमम् ।

प्राजापत्यं महातीर्थं विप्रस् तेनाचमेत् सदा ॥

धनायुर्दाररेखासु सोमतीर्थे तु मध्यमम् ।

लाजादिहवनं तेन कर्तव्यं वपनं तथा ॥

वपनं व्रीह्यादिनिर्वापः । भविष्यत्पुराणे ।

कमण्डलुस्पर्शनं यत् दधिप्राशनम् एव च ।

सोमतीर्थेन रजेन्द्र सदा कुर्याद् विचक्षणः ॥

वशिष्ठः ।

स्नातो ऽधिकारी भवति दैवे पित्र्ये च कर्मणि ।

पवित्राणां तथा जाप्ये दाने च विधिनोदिते ॥

वायुपुराणे ।

क्रियां यः कुरुते मोहाद् अनाचम्येह नास्तिकः ।

[३५] भवन्ति तु वृथा तस्य क्रियाः सर्वा न संशयः ॥

कात्यायनः ।

दानम् आचमनं होमं भोजनं देवतार्चनम् ।

प्रौढपादो न कुर्वीत स्वाध्यायं पितृतर्पणम् ॥

आसनारूढपादस्तु जान्वोर् वाञ्जलयोस् तथा ।

कृतावसक्थिको यः स्यात् प्रौढपादः स उच्यते ॥

वसिष्ठः ।

जपहोमोपवासेषु धौतवस्त्रधरो भवेत् ।

अलङ्कृतः शुचिर् मौनी श्रद्धावान् विजितेन्द्रियः ॥

बौधायनः ।

काषायवासाः कुरुते जपहोमप्रतिग्रहान् ।

न तद् देवगमं भवति हव्यं कव्यं स्वधा हविः ॥

व्यासः ।

आर्द्रवासास् तु यः कुर्याज् जपहोमप्रतिग्रहान् ।

सर्वं तद् आसुरं ज्ञेयं बहिर्जानुं च यत् कृतम् ॥

विष्णुपुराणे ।

होमदेवार्चनाद्यास् तु क्रियास्व् आचमने तथा ।

नैकवस्त्रः प्रवर्तेत द्विजवचनके जपे ॥

द्विजवाचनके द्विजस्वस्तिवाचनादौ । शातातपः ।

सव्याद् अंशात् परिभ्रष्टं कटिदेशस्थिताम्बरम् ।

[३६] एकवस्त्रं तु तद् विद्याद् दैवे पित्र्ये च वर्जयेत् ॥

याज्ञवल्क्यः ।

परिधानाद् बहिःकक्षा निबद्धा ह्य् आसुरी भवेत् ।

धर्मकर्मणि विद्वद्भिर् वर्जनीया प्रयत्नतः ॥

बहिःकक्षा बहिर्निर्गतकक्षेत्य् अर्थः । छन्दोग्परिशिष्टे कात्यायनः ।

यत्रोपदिश्यते कर्म कर्तुर् अङ्गं न सूच्यते ।

दक्षिणस् तत्र विज्ञेयः कर्मणां पारगः करः ॥

यत्र दिङ्नियमो नास्ति जपहोमादिकर्मसु ।

तिस्रस् तत्र दिशः प्रोक्ता ऐन्द्री सौम्यापराजिताः ॥

ऐन्द्री प्राची, सौम्या उत्तरा, अपराजिता ईशानदिक् ।

आसीन ऊर्ध्वः प्रह्वो वा नियमो यत्र नेदृशः ।

तदासीनेन कर्तव्यन्न प्रह्वेण न तिष्ठता ॥

प्रह्वः प्रगतजानुकः । प्रवेण नम्रेण, तिष्ठता ऊर्ध्वेन । ओङ्कार इत्य् अनुवृत्तौ, आह आपस्तम्बः ।

तस्माद् ॐ इत्य् उदाहृत्य यज्ञदानतपःक्रियाः ।

वर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥

[३७] त्रिमात्रस् तु प्रयोक्तव्यः कर्मारम्भेषु सर्वशः ।

तिस्रः सार्धास् तु कर्तव्या मात्रास् तत्त्वार्थचिन्तकैः ॥

देवताध्यानकाले तु प्लुतः कुर्यान् न संशयः ॥

कश्यपः ।

    भूतिकर्माण्य् उच्चैस् तदादीन्य् एव वाक्यानि स्युर् यथा पुण्याहं सुसमृद्धम् इति, भूतिकर्माणि सम्पत्कराणि तदानीति । ओङ्कार्दीनि स्वस्त्यादिवाचनादीनि ॥

यमः ।

पुण्याहवाचनं देवि ब्राह्मणस्य विधीयते ।

एतद् एव निरोङ्कारं कुर्यात् क्षत्रियवैश्ययोः ॥

मार्कण्डेयपुराणे ।

सूर्योदयं विना नैव स्नानदानादिकाः क्रियाः ।

अग्नेर् विहरणं चैव क्रत्वभावश् च लक्ष्यते ॥

सूर्योदयशब्देन उषः कालो गृह्यते, तेन रात्रौ न कुर्याद् इति तात्पर्त्यम् ।

दक्षः ।

देवकार्याणि पूर्वाह्ने मनुष्याणां तु मध्यमे ।

पितॄणाम् अपराह्णे च कार्याणीति निविश्चयः ॥

अङ्गिराः ।

सन्ध्ययोर् उभयोर् जप्ये भोजने दन्तधावने ।

पितृकार्ये च दैवे च तथा मूत्रपुरीषयोः ॥

गुरूणां सन्निधौ दाने यागे चैवे विशेषतः ।

एषु मौनं समतिष्ठन् स्वर्गं प्राप्नोति मानवः ॥

याज्ञवल्क्यः ।

यदि वाग्यमलोपः स्याज् जपादिषु कथञ्चन ।

[३८] व्याहरेद् वैष्णवं मन्त्रं स्मरेद् वा विष्णुम् अव्ययम् ॥

अज्ञानाद् यदि वा मोहात् प्रच्यवेताध्वरेषु यत् ।

स्मरणाद् एव तद् विष्णोः सम्पूर्णं स्याद् इति श्रुतिः ॥

तथा शपथश्रुतिः ।

    अथ यद् वाचंयमो व्याहरति तस्माद् उ हैष विसृष्टो यज्ञः पराङ्पर्यावर्तते । ततो वैष्णवीम् ऋचं यजुर् वा जपेद् इत्यादिः ।

मनुः ।

न कुर्यात् कस्यचित् पीडां कर्मणा मनसा गिरा ।

आचरन्न् अभिषेकं तु कर्माण्य् अन्यान्य् अथाचरेत् ॥

वायुपुराणे ।

दानं प्रतिग्रहो होमो भोजनं बलिर् एव च ।

साङ्गुष्ठेन सदा कार्यम् असुरेभ्यो ऽन्यथा भवेत् ॥

साङ्गुष्ठेन अङ्गुलीसङ्गताङ्गुष्ठेन ।

एतान्य् एव तु कार्याणि दानादीनि विशेषतः ।

अन्तर्जानु विधेयानि तद्वद् आचमनं नृप ॥

तद्वद् आचमनं स्मृतम् । छन्दोगपरिशिष्टे कात्यायनः ।

सदोपवीतिना भाव्यं सदा बद्धशिखेन तु ।

विशिखो ऽनुपवीतश् च यत् करोति न तत् कृतम् ॥

[३९] निगमपरिशिष्टे ।

    वामस्कन्धे यज्ञोपवीतं दैवे, प्राचीनावीतम्, इतरथा पितृयज्ञे ताभ्यां द्विकण्ठासक्तं उत्सर्गे निवीतम् । पृष्ठदेशावलम्बितं ग्राम्यधर्मेषु । ग्राम्यधर्मः स्त्रीसम्भोगः ।

बोधायनः ।

कर्मयुक्तो नाबेर् अधः स्पर्शं वर्जयेत् ।

याज्ञवल्क्यः ।

रौद्रपित्रासुरान् मन्त्रान् तथा दैवाभिचारिकान् ।

व्याहृत्यालभ्य चात्मानम् अप स्पृश्यान्यद् आचरेत् ॥

छन्दोगपरिशिष्टे कात्यायनः ।

पित्रमन्त्रप्रवरणे आत्मलम्भे अवेक्षणे ।

अधो वायुसमुत्सर्गे प्रहास्ये ऽनृतभाषणे ॥

मार्जारमूषिकस्पर्शम् आक्रुष्टे क्रोधसम्भवे ।

निमित्तेष्व् एषु सर्वत्र कर्म कुअर्वन्न् अपः स्पृशेत् ॥

आत्मालम्भे हृदि स्पर्शे यज्ञादौ विहिते । अवेक्षणम् अप् यज्ञादि विहितम् एव ग्राह्यम् ।

लघुहारीतः ।

जपे होमे तथा दाने स्वाध्याये पितृतर्पणे ।

अशून्यं तु करं कुर्यात् सुवर्णरजतैः कुशैः ॥

[४०] दर्भहीना तु या सन्ध्या यच् च दानं विनोदकम् ।

असङ्ख्यातं च यज् जप्तं तत् सर्वं निष्प्रयोजनम् ॥

तथा ।

चितौ धर्भाः पथि धर्भाः ये दर्भा यज्ञभूमिषु ।

स्तरणासनपिण्डेषु षट्कुशान् परिवर्जयेत् ॥

पिण्डार्थं ये कृता दर्भा यैः कृतं पितृतर्पणम् ।

मूत्रोच्छिष्टघृता ये च तेषां त्यागो विधीयते ॥

निवीमध्ये च ये दर्भा ब्रह्मसूत्रे च ये कृताः ।

पवित्रांस् तान् विजानीयाद् यथा कायस् तथा कुशाः ॥

गृह्यपरिशिष्टे ।

दर्भाः कृष्णाजिनं मन्त्रा ब्राह्मणा हविर् अग्नयः ।

अयातयामान्य् एतानि नियोज्यानि पुनः पुनः ॥

मरीचिः ।

मासे नभस्यमावास्पा तस्यां दर्भचयो मतः ।

अयातयामास् ते दर्भा विनियोज्याः पुनः पुनः ॥

छन्दोपरिशिष्टे कात्यायनः ।

हरिता यज्ञिया दर्भाः पीतकाः पञ्चयज्ञियाः ।

समूलाः पितृदैवत्याः कल्माषा वैश्वदेविकाः ॥

ह्रस्वाः प्रवरणीयाह् स्युः कुशा दीर्घाश् च बर्हिषः ।

[४१] पञ्चयज्ञियाः पञ्चयज्ञार्थाः, प्रवरणम् अनुष्ठानं तदर्हाः प्रवरणीयाः ।

अनन्तर्गर्भकं साग्रं कौशं द्विदलम् एव च ।

प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित् ॥

तद् एव दर्भपिञ्जल्या लक्षणं समुदाहृतम् ।

आज्यस्योत्पवनार्थं यत् तद् अप्य् एतावद् एव तु ॥

आपस्तम्बः ।

देवागारे तथा श्राद्धे गवां गोष्ठे तथाध्वरे ।

सन्ध्ययोश् च द्वयोः साध्सङ्गमे गुरुसन्निधौ ॥

अग्न्यागारे विवाहे तु स्वाध्याये भोजने तथा ।

उद्धरेद् दक्षिणं पाणिं ब्राह्मणानां क्रियापथे ॥

दक्षिणम् इति सव्यांशे वस्त्रं निधाय दक्षिणं बाहुम् उत्तरीयाद् वहेः कुर्याद् इत्य् अर्थः ।

यथोक्तवस्त्वसम्पत्तौ ग्राह्यं तदनुकारि यत् ।

यवनाम् इव गोधूमा व्रीहीणाम् इव शालयः ॥

आज्यं द्रव्यम् अनादेशे जुहोतिषु विधीयते ।

मन्त्रस्य देवतायाश् च प्रजापतिर् इति स्थितिः ॥

अनादेशे अविधाने ।

मन्त्रस्य देवतायाश् च अनादेशे प्रजापतिः ।

देवता तत्ज्ञापका, मन्त्रा समस्तव्याहृतयश् च ।

[४२] भविष्यत्पुराणे ।

अनुक्तद्रव्यसङ्ख्याश् च प्रतिमादेवता नृप ।

सौवर्णी राजती ताम्री वृक्षजा मार्तिकी तथा ॥

चित्रजा पिष्टजा ज्ञेया निजवित्तानुरूपतः ।

आमाषात् पलपर्यन्तं कर्तव्याः शाठ्यवर्जितैः ॥

पैठीनसिः ।

    काण्डमूलपर्णपुष्पफलप्ररोहेषु गन्धादीनां सादृश्येन प्रतिनिधिं कुर्यात्, सर्वालाभे यवः प्रतिनिधिर् भवति ।

मतिरायणीयपरिशिष्टे ।

    दक्षिणालाभमूलानां लक्षणं दक्षिणां ददाति । न चात्र यजेत दर्भाभावे काशः प्रतिनिधिः ।अथेध्म पालाशाश्वत्थखदिरलोहितहरितोउम्बराणां तदलाभे सर्ववनस्पतीनाम् । बिल्वनीप, निम्बराजवृक्षशाल्मलूककपित्थ-कोविदारविभीतकश्लेष्मातकसर्वकण्टकिवर्जं घृतम् अन्यार्थं प्रतिनिधिस् तदलाभे दधिपयो वा ।

छन्दोगपरिशिष्टे कात्यायनः ।

पाण्याहुतिर् द्वादशपर्वपूरिका

रसादिना चेत स्रुचिगर्तपूरिका ।

दैवेन तीर्थेन च हूयते हविः

[४३] स्वङ्गारिणि स्वर्चिषि तच् च पावके ॥

यो ऽनचिर्षि जुहोत्य् अग्नौ व्यङ्गारिणि च मानवः ।

मन्दाग्निर् आमयावी च दरिद्रश् चैव जायते ॥

तस्मात् समिद्धे होतव्यं नासमिद्धे कथञ्चन ।

आरोग्यम् इच्छतायुश् च श्रियम् आत्यन्तिकीं तथा ॥

जुहुवांश् च हुते चैव पाणिपूर्यस्रुचादिभिः ।

न कुर्याद् अग्निधमनं कुर्यात् तु व्यजनादिना ॥

मुखेनैव धमेद् अग्निं मुखाद् दोषो ऽभिजायते ।

नाग्निं मुखेनेति तु यत् लौकिके योजयन्ति तत् ॥

अथ गृह्यपरिशिष्टे ।

पृषदाज्यम् इति प्रोक्तं दधिसर्पिर् इति द्वयम् ।

क्षीरे शृतोष्णे दधिषु चामिक्षेति द्विसम्भवा ॥

स्कन्दपुराणे ।

त्वक्पत्रकेशरलवद्धैस् तु त्रिसमं मुनिभिः स्मृतम् ॥

लिङ्गपुराणे ।

आज्यं क्षीरं मधु तथा मधुरत्रयम् उच्यते ।

त्वक्पत्रकलवङ्गानि केशरं च चतुः समम् ॥

गरुडपुराणे ।

[४४] कस्तूरिकाया द्वौ भागौ चत्वारश् चन्दनस्य च ।

कुङ्कुमस्य त्रयश् चैकः शशिनः स्याच् चतुः समम् ॥

कर्पूरं चन्दनं दर्भः कुङ्कुमं च चतुः समम् ।

सर्वगन्धम् इति प्रोक्तं समस्तसुरवल्लभम् ॥

वृद्धगर्गः ।

कुङ्कुमं चन्दनो शीरं मुस्तालामज्जकेशरम् ।

कर्पूरं त्रिसुगन्धं च सर्वगन्धः प्रकीर्तितः ॥

त्वगैलापत्रकैस् तुल्यैस् त्रिसुगन्धः प्रकीर्तितः ॥

गारुडपुराणे ।

कर्पूरम् अगुरुश् चैव कस्तूरी चन्दनं तथा ।

कक्कोलं च भवेद् एभिः पञ्चभिर् यक्षकर्दमः ॥

शिवधर्मे ।

पञ्चामृतं दधिक्षीरं सिता मधु घृतं नृप ।

स्कन्दपुराणे ।

ताम्रारुणाश्वेतकृष्णानीलानाम् आहरेत् गवाम् ।

गोमूत्रं गोमयं क्षीरं दधिसर्पींषि च क्रमात् ॥

विष्णुधर्मोत्तरे ।

अपः काञ्चनवर्णाया नीलायाश् च तथा घृतम् ।

दधि वै कृष्णवर्णायाः श्वेतायाश् चैव गोमयम् ।

गोमूत्रं ताम्रवर्णायाः पञ्चगव्ये प्रयोजयेत् ॥

[४५] स्कन्दपुराणे ।

विष्णुः ।

तथा वह्नीन्द्रवाय्वर्कदैवत्यानि यथा क्रमम् ।

विद्ध्य् एतानि कुशोदं च पितृराजाधिदैवतम् ॥

प्रोक्ताभावे त्व् अथैतानि कपिलायाः प्रकल्पयेत् ।

गोमूत्रभागस् तस्यार्धं शकृत् क्षीरस्य च त्रयम् ॥

द्वयं दध्नोर् घृतस्यैकम् एकश् च कुशवारिजः ।

गायत्र्या चैव गोमूत्रं गन्धद्वारेति गोमयम् ॥

आप्यायस्वेति च क्षीरं दधिक्रावणेति वै दधि ।

तेजो ऽसि शुक्रम् इत्य् आज्यं देवस्य त्वा कुशोदकम् ॥

एभिस् तु पञ्चभिर् युक्तं पञ्चगव्यं प्रचक्षते ।

एतद् एव महापुण्यं ब्रह्मकूर्चम् इति स्मृतम् ॥

ब्रह्मकूर्चलक्षणं ब्रह्मपुराणात् ।

व्यासः ।

गोमूत्रे ताम्रवर्णायास् त्वेषमाषकसङ्ख्यया ।

पुण्यं वरुणदैवत्यं गायत्र्यर्चाभिमन्त्रितम् ॥

गोमयं श्वेतवर्णायाश् चतुर्माषकमात्रया ।

गृह्णीयाद् अग्निदैवत्यं गन्धद्वारेति वै शनैः ॥

क्षीरं काञ्चनवर्णायाः सोमदैवत्यम् एव च ।

आप्यायस्वेति मन्त्रेण माषद्वादशमम्मितम् ॥

गृह्णन्ति वायुदैवत्यं कृष्णवर्णोद्भवं दधि ।

दशमाषकमात्रं तु दधिक्राव्ण इति स्मरन् ॥

घृते तु नीलवर्णायाः पञ्चमाषकसङ्ख्यया ।

गृह्णन्ति सूर्यदैवत्यं तेजो ऽसीति जपन् क्रमात् ॥

[४६] शतत्रयं माषमानं चत्वारिंशच् च पञ्च च ।

कुशोदकस्य गृह्णीयाद् देवस्य त्वेति कीर्तयन् ॥

ताम्रपात्रे पलाशे वा पात्रे मिश्रीकृतं च यत् ।

आपोहिष्टेति चालोड्य प्रणवेन पिबन्ति च ॥

उदङ्मुखस् त्रिर् आचम्य ततो गच्छेत् स तद् गृहम् ।

तत्रापि होमे प्राग् देहं कृत्वा दद्याच् च दक्षिणम् ॥

ब्राह्मणस्य यथाशक्त्या शोभनं तु मनोहरम् ।

गवां वर्णास् तु शुक्लाद्याः सन्ति देशेषु यत्र न ॥

तत्र वर्णाविभागेन पञ्चगव्यानि चाहरेत् ।

वर्णालाभान् न दोषो ऽस्ति मात्राहीनं विवर्जयेत् ॥

त्याज्यानि दूषितानां च दधिमूत्रपयांसि च ।

प्रसक्तानां च शुक्रेण यत्वज्ञानां च शोणितम् ॥

चेलकेशास्थिभक्ष्याणाम् अभक्ष्यैः सम्पृचां तथा ।

रोगार्तानां च युकार्तिमृताण्डानाम् अमङ्गलम् ॥

मृताण्डा मृतगर्भाः ।

निष्कलत्वेन वन्ध्यानां कृत्तानां कृमिभिस् तथा ।

अमानप्रतिदत्तानि सन्धिनीप्रभवानि च ॥

शुद्धभाण्डे मनोज्ञे च भूमाव् पतितानि च ।

ग्रहीतव्यानि विविधं खेदं तासां न कारयेत् ॥

ब्रह्मकूर्चव्रतम् इदं सर्वपापप्रणाशनम् ।

सर्वकामप्रदं पुंसां रूपारोग्ययशःप्रदम् ॥

महताम् अपि पापानां नाशनं श्रीविवर्धनम् ।

[४७] ब्रह्मपुराणे ।

अश्वत्तोदुम्बरप्लक्षचूतन्यग्रोधपल्लवाः ।

पञ्चभङ्गा इति प्रोक्ताः सर्वकर्मसु शोभनाः ॥

आदित्यपुराणे ।

सवर्णं रजतं मुक्ता राजावर्तं प्रवालकम् ।

रत्नपञ्चकम् आख्यातं शेषं वस्तु ब्रवीम्य् अहम् ॥

विष्णुधर्मोत्तरे ।

मुक्ताफलं हिरण्यं च वैदूर्यं पद्मरागकम् ।

पुष्परागं च गोमद्ं नीलं गारुत्मतं तथा ॥

प्रवालमुक्तादीन्य् उक्तानि । भविष्यत्पुराणे ।

मधुरो ऽम्लश् च लवणं कषायस् तिक्त एव च ।

कटुकश् चेति राजेन्द्र रसषट्कम् उदाहृतम् ॥

शाकलक्षणं तु क्षीरस्वामिनोक्तम् ।

मूलपत्रकरीराग्रफलकाण्डाधिरूढकाः ।

त्वक् पुष्पं कवकं चेति शाकं दशविधं स्मृतम् ॥

करीरः वंशाङ्कुरः, अग्रं पल्लवाः, काण्डं नालम्, कवकं छत्राकम् ।

[४८] षट्त्रिंशन्मते च ।

यवगोधूमधान्यानि तिलाः कङ्गुस् तथैव च ।

श्यामाकं चीनकं चैव सप्तधान्यम् उदाहृतम् ॥

भविष्यत्पुराणे ।

सुवर्णं रजतं ताम्रम् आरकूटं तथैव च ।

लोहं त्रपु तथा सीसं धातवः सप्त कीर्तिताः ॥

अपः क्षीरं कुशाग्राणि दध्यक्षततिलास् तथा ।

यवाः सिद्धार्थकाश् चैवम् अर्घो ऽष्टआङ्गः प्रकीर्तितः ॥

भविष्योत्तरात् ।

पुष्पं फलं यवाः क्षीरं दधि दुग्धकुशास् तिलाः ।

तण्डुलाश् च तिलैर् मिश्रा अर्धो ऽष्टाङ्गः स उच्यते ॥

मत्स्यपुराणे ।

तथा दग्धेषु लोकेषु भूर् भुवः स्वर् महादिषु ।

सौभाग्यं सर्वलोकानाम् एकस्थम् अभवत् तदा ॥

द्याम् आप्नोति वसुधातलम् ।

उत्क्षिप्तम् अन्तरिक्षस्थं ब्रह्मपुत्रेण धीमता ।

दक्षेण पीतमात्रं तु रूपलावण्यकारकम् ॥

बलं तेजो हविर्जातं दक्षस्य परमेष्ठिनः ।

शेषं तद् अपतद् भूमाव् अष्टधा तद् अजायते ॥

इक्षवस् तरुराजं च नीष्पावा यजि धान्यकम् ।

विकारो यवगोक्षीरं कुसुम्भं कुङ्कुमं तथा ॥

[४९] लवणं चाष्टमं तत्र सौभाग्याष्टकम् उच्यते ॥

वातुलागम ।

घृतं दधि मधु क्षीरं तरुराजश् च धान्यकम् ।

अजावी चैव निष्पावा मङ्गलाष्टक उच्यते ॥

आदित्यपुराणे ।

मध्याह्नः खड्गपात्रं तत् तथा नेपालकम्बलः ।

रूप्यं दर्भास् तिला गावी दौहित्रः कुतपाष्टकम् ॥

तथा ।

दूर्वा यवाङ्कुराश् चैव वालकं चूतपल्लवाः ।

हरिद्राद्वयसिद्धार्थं शिखिपत्रोरगत्वचः ॥

कङ्कणौषधयश् चैताः कौतुकाख्या नव स्मृताः ॥

छन्दोगपरिशिष्टे ।

कुष्ठं मांसी हरिद्रे द्वे मुराशैलेयचन्दनम् ।

वचा चम्पकमुस्ते च सर्वौषध्यो दश स्मृताः ॥

मार्कण्डेयः ।

जग्मुर् एतानि बीजानि ग्राम्यारण्याभिधानि च ।

ओषध्यः फलपाकान्ताः शतं सप्तदश् स्मृताः ॥

व्रीहयश् च यवाश् चैव गोधूमाः कङ्गुसर्षपाः ।

प्रियङ्गवः कोविदाराः कोरदूषाः सचीनकाः ॥

माषा मुद्गा मसूराश् च निष्पावाः सकुलत्थकाः ।

आढक्यश् चणकाश् चैव ग्राम्यारण्याश्च षोडशम् ॥

[५०] इत्य् एता ओषधीनां तु ग्राम्याणां जातयः स्मृताः ।

ओषध्यो यज्ञिया ज्ञेया ग्राम्यारण्याश् चतुर्दश ॥

व्रीहयश् च यवाश् चैव गोधूमाः कङ्गुसर्षपाः ।

माषा मुद्गाः सप्तमाश् च अष्टमाश् च कुलत्थकाः ॥

श्यामाकाश् चैव नीवारा जर्तिलाः सगवेधुकाः ।

कोविदारसमायुक्तास् तथा वेणुयवाश् च ये ।

ग्राम्यारण्याश् चता ह्य् एता ओषध्यश् च चतुर्दश ॥

भविष्यत्पुराणे ।

अगुरुं चन्दनं मुस्ता सिह्लकं वृषणम् तथा ।

समभागं तु कर्तव्यं धूपो ऽयम् अमृताह्वयः ॥

तथा ।

श्रीखण्डं ग्रन्थिसहितम् अगुरुं सिह्लकं तथा ।

मुस्ता तथेन्दुभूतेष शर्करां च दहेत् त्र्यहम् ।

इत्य् एषो ऽनन्तधूपश् च कथितो देवसत्तम ॥

तथा ।

कृष्णागुरुं सिह्लकं च वालकं वृषणं तथा ।

चन्दनं तगरं मुस्ता प्रबोधः शर्करान्वितः ॥

कर्पूरं चन्दनं कुष्ठम् उशीरं सिह्लकं तथा ॥

ग्रन्थकं वृषणं बीम कुङ्कुमं गृञ्जनं तथा ।

हरीतकी तथोशीरं यक्षधूप उदाहृतः ॥

तथा।

षड्भागकुष्ठं द्विगुणो गुडस्य

लाक्षात्रयं पञ्चनखस्य भागाः ।

हरीतकी सर्जरसः समांसी

भागैकम् एकं त्रिलवं शिलाजम् ॥

[५१] धनस्य चत्वारि पुरस्य चैको

धूपो दशाङ्गः कथितो मुनीन्द्रैः ॥

तथा ।

वृषणं सिह्लकं विप्र श्रीखण्डम अगुरूं तथा ।

कर्पूरं च तथा मुस्तां शर्करां सत्वचं द्विज ॥

इत्य् एष विजयो धूपः स्वयं देवेन निर्मितः ।

कर्पूरं चन्दनं मांसी त्वक् पत्रैलालवङ्गकम् ॥

अगुरुं सिह्लकं धूपं प्राजापत्यं प्रचक्षते ॥

अथ मानकथनम् । अथ नामानि । आदित्यपुराणे ।

जालान्तरगते भानौ यत् सूक्ष्मन्दृश्यते रजः ।

प्रथमं तत् प्रमाणानां त्रसरेणुं प्रचक्षते ॥

त्रसरेणुश् च विज्ञेय अष्टौ तु परमाणवः ।

त्रसरेणवस् तु ते ह्य् अष्टौ रथरेणुस् तु सम्मतः ॥

रथरेणवस् तु ते ह्य् अष्टौ वालाग्रं तत् स्मृतं बुधैः ।

अष्टौ यूका यवं प्राहुर् अङ्गुलं तु यवाष्टकम् ॥

द्वादशाक्गुलमात्रो वै वितस्तिश् च प्रकीर्तितः ।

अङ्गुष्ठस्य प्रदेशिन्या व्यासाः प्रादेश उच्यते ॥

तालः स्मृतो मध्यमया गोकर्णश् चाप्य् अनामया ।

कनिष्ठया वितस्तिस् तु द्वादशाङ्गुलिकः स्मृतः ॥

रत्निस् त्व् अङ्गुलिपर्वाणि विज्ञेयश् चैकविंशतिः ।

[५२] चत्वारि विंशतिश् चैव हस्तपादाङ्गुलानि तु ॥

किष्कुः स्मृतोच्छितः स्रिस्रः द्विचत्वारिंशद् अङ्गुलः ।

षण्णवत्यङ्गुलैश् चैव धनुर् दण्डः प्रकीर्तितः ॥

धनुर् दण्डयुगं नालिर् ज्ञेया ह्य् एता यवाक्गुलैः ।

धनुषां त्रिंशतार्नल्वम् आहुः सङ्ख्याविदो जनाः ॥

धनुः सहस्रे द्वे वापि गव्यूतिर् उपदिश्यते ।

अष्टौ धनुःसहस्राणि योजनं तु प्रकीर्तितम् ॥

मार्कण्डेयपुराणे ।

परमाणुः परं सूक्ष्मं त्रसरेणुर् महीरजः ।

वालाग्रं चैव लिक्षा च युका चाथ यवाङ्गुलम् ॥

क्रमाद् अष्टगुणान् प्राहुर् यवाश् चाष्ट ततो ऽङ्गुलम् ।

षडङ्गुलं पदं प्राहुर् वितस्तिर् द्विगुणः स्मृतः ॥

द्वौ वितस्तौ ततो हस्तो ब्रह्मतीर्थं द्विवेष्टनैः ।

चतुर्हस्तो धनुर् दण्डो नालिका तद्युगेन तु ॥

क्रोशो धनुःसहस्रे द्वे गव्यूतिश् च चतुर्गुणा ।

द्विगुणं योजनं तस्मात् प्रोक्तं सङ्ख्यानकोविदैः ॥

बृहस्पतिः ।

दशहस्तेन दण्डेन त्रिंशदण्डा निवर्तनम् ।

दश तान्य् एव गोचर्म ब्राह्मण्ēभ्यो ददाति यः ॥

वसिष्ठः ।

दशहस्तेन वंशेन दशवंशात्मम् अन्ततः ।

[५३] पञ्च चाप्य् अधिकान् दद्याद् एतद् गोचर्म चोच्यते ॥

विष्णुधर्मोत्तरे ।

यद् उत्पन्नम् अथाश्नाति नरः संवत्सरं द्विजाः ।

एतद् गोचर्ममात्रं तु भुवः प्रोक्तं विचक्षणैः ॥

मत्स्यपुराणे ।

दण्डेन सप्तहस्तेन त्रिंशद् दण्डा निवर्तनम् ।

त्रिभागहीनं गोचर्ममानम् आह प्रजापतिः ॥

वृद्धवशिष्टः ।

गवां शतं वृषश् चैको यत्र तिष्ठेद् अयन्त्रितः ।

एतद् गोचर्ममात्रं तु प्राहुर् वेदविदो जनाः ॥

ब्रह्मपुराणे ।

धर्मशास्त्रेषु मानार्थं याः सञ्ज्ञा मुनिभिः स्मृताः ।

ताः सर्वाः व्यवहारार्थं बोद्धव्याः सम्प्रदायतः ॥

मनुः ।

लोकसंव्यवहारार्थं याः सञ्ज्ञाः प्रथिता भुवि ।

ताम्ररूप्यसुवर्णानां ताः प्रव्क्ष्याम्य् अशेषतः ॥

जानान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः ।

परं तत् पर्माणानां त्रसरेणुं प्रचक्षते ॥

त्रसरेण्वष्टकं लिक्षा ज्ञेयाइका परिमाणतः ।

ता राजसर्षपस् तिस्रस् ते त्रयो गौरसर्षपः ॥

[५४] सर्षपाः षट् यो मध्यः त्रियवं त्व् एककृष्णलम् ।

पञ्चकृष्णलको माषस् ते सुवर्णस् तु षोडश ॥

पलं सुवर्णाश् चत्वारः पलानि धरणं दश ।

द्वे कृष्णले समधृते विज्जेयो रौप्यमाषकः ॥

ते षोडश स्यान् धरणं पुराणश् चैव राजतः ।

कार्षापणस् तु विज्ञेयस् ताम्रिकः कार्षिकः पणः ॥

धरणानि दश ज्ञेयः शतमानस् तु राजतः ।

चतुःसौवर्णिको निष्को विज्ञेयस् तु प्रमाणतः ॥

याज्ञवल्क्यः ।

जालसूर्यमरीचस्थं त्रसरेणु रजः स्मृतः ।

ते ऽष्टौ लिष्का (?) तु तास् तिस्रो राजसर्षप उच्यते ॥

गौरस् तु ते त्रयः षट् ते यवा मध्यास् तु ते त्रयः ।

कृष्णलः पञ्च ते माषस् ते सुवर्णस् तु षोडश ॥

पलं सुवर्णाश् चत्वारः पञ्च वापि प्रकीर्तितम् ।

द्वे कृष्णले रूप्यमाषो धरणं षोडशैव ते ॥

शतमानं तु दशभिर् धरणैः पलम् एव च ।

निष्कः सुवर्णाश् चत्वारः कार्षिकस् ताम्रिकः पणः ॥

विष्णुः ।

    जालस्थानमरीचिगतं रजस् त्रसरेणुसञ्ज्ञकं तदष्टकं लिक्षा तत्त्रयं राजसर्षपः तत्त्रयं गौरसर्षपः ते षट् यवः तत्त्रयं कृष्णलं तत्पञ्चकं माषः तद्द्वादशकम् अक्षार्धं स चतुर्माषकं सुवर्णः तच्चतुःसौवर्णिको निष्कः द्वे कृष्णले रूप्यमाषः ते षोडश् धरणं ताम्रिकः कार्षापणः ।

[५५] कात्यायनः ।

माषो विंशतिभागस् तु ज्ञेयः कार्षापणस्य तु ।

काकिनी तु चतुर्भागो माषकस्य पणस्य च ॥

पञ्चनद्याः प्रदेशे तु सञ्ज्ञेयं व्यावहारिकी ।

कार्षापणप्रमाणं तु तन्निबद्धम् इहैकया ॥

कार्षापणस्यैका ज्ञेया ताश् चतस्रस् तु धानकः ॥

अगस्तिप्रोक्ते ऽपि ।

यवः स्यात् सर्षपैः षड्भिर् गुञ्जा च स्यात् त्रिभिर् यवैः ।

गुञ्जाभिः पञ्चभिश् चैको माषकः परिकीर्तितः ॥

भवेत् षोडशभिर् माषैः सुवर्णस् तैः पुनः स्मृतः ।

चतुर्भिः पलम् एकस्य दशांशो धरणं विदुः ॥

अष्टभिर् भवति व्यक्तैः तण्डुलो गौरसर्षपैः ।

सवैणवो यवः प्रोक्तो गोधूमं चापरे जगुः ॥

विष्णुगुप्तः ।

पञ्चगुञ्जो भवेन् माषः सएषपैश् च चतुर्गुणैः ।

कवयो धरणं प्राहुर् मणिमानविशारदाः ॥

मज्जाटिका कणजविशेषस् तौल्ये गुञ्जाद्वयं विदुः ।

मज्जाटिकाविंशतिस् तु धरणं तद्विदां मतम् ॥

स्थूलमध्यातिसूक्ष्माणां सुसूक्ष्माणाम् अपि स्मृतम् ।

[५६] माषकैः पद्मरागः स्याद् इन्द्रनीलादिषु स्मृतः ॥

हस्तत्रयं प्रयोक्तव्यं न यस्मिन् मानम् ईरितम् ।

दीनारो रौप्यकैर् अष्टाविंशत्या परिकीर्तितः ॥

सुवर्णस्य सप्ततिमो माषो रौप्यक इष्यते ॥

प्रकारान्तरम् आह स एव ।

    सुक्षेत्रे यथावत् मध्यपाककाले निष्पन्ना धान्यमाषा दश् सुवर्णं माषः पञ्च वा गुञ्जाः सुवर्णमाषकः ते षोडश सुवर्णः । एवं प्रमाणसिद्धस्य द्वितीया सञ्ज्ञा कर्ष इति चतुःकर्षं पलं पलानां शतेन तुल विंशतितौलिको भारः । अस्यैव भारस्य उदतौलिक इति द्वितीया सञ्ज्ञा ।

ब्रह्मप्रोक्ते ।

पलानां विंशतिर् वीशः पञ्चवीशास् तुला मता ।

उदतौलिकः स एव स्याद् भारो विंशतितौलिकः ॥

विष्णुगुप्तः ।

रूप्यस्य सुवर्णाद् भिन्नं मानम् अभिधीयते ।

    अष्टाविंशतिगौरसर्षपा रूप्यमाषकः ते षोडश धरणं निष्पावा विंशतिर् वा रूप्यमाषकः पलं च दश धरणकं तत्पलानां शतं तुला तत्तुलाविंशतिर् भार इति ।


    विंशत्या व्रीहितण्डुलैस् तुलायां विधृतैर् वज्राण्य् अस्य रत्नस्य 


    धरणं भवति ।

[५७] अष्टभिः गौरसर्षपैस् तण्डुलं कल्पयेत् ।

इति कपर्दिभाष्यकारः निघण्टौ ।

तथा ।

मानं तुलाङ्गुलिप्रस्थैर् गुञ्जाः पञ्चाद्यमाषकः ।

ते षोडशाक्षः कर्षो ऽस्त्रौ पलं कर्षचतुष्टयम् ॥

सुवर्णविस्तौ हेम्नोक्षे कुरुविस्तस् तु तत्पले ।

तुला स्त्रियां पलशतं भारः स्याद् विंशतिस् तुला ॥

आचितो दश भाराः स्युः शाकटो भार आचितः ।

कार्षापणः कार्षिकः स्यात् कार्षिकस् ताम्रिकः पणः ॥

भविष्यत्पुराणे ।

पलद्वयं तु प्रसृतिर् द्विगुणं कुडवं मतम् ।

चतुर्भिः कुडवैः प्रस्थः प्रस्थाश् चत्वार आढकः ॥

आढकैस् तैश् चतुर्भिश् च द्रोणस् तु कथितो बुधैः ।

कुम्बो द्रोणद्वयं शूर्पः खारी द्रोणास् तु षोडश ॥

वराहपुराणे ।

पलद्वयं तु प्रसृतं मुष्टिर् एकं पलं स्मृतम् ।

अष्टमुष्टिर् भवेत् कुञ्चिः कुञ्चयो ऽष्टौ तु पुष्कलम् ॥

पुष्कलानि च चत्वारि आढकः परिकीर्तितः ।

चतुराढको भवेद् द्रोण इत्य् एतन् मानलक्षणम् ॥

चतुर्भिः सेतिकाभिस् तु प्रस्थ एकः प्रकीर्तितः ॥

सेतिका कुषवः । मुष्टिर् यजमानस्येति केचित् ।

मुष्टिर् एकं पलं स्मृतम् ।

इति प्रोक्तम् [५८] पाद्मे (?) ।

पलद्वयेन प्रसृतं द्विगुणम् कुडवं मतम् ।

चतुर्भिः कुडवैः प्रस्थः प्रस्थैश् चतुर्भिर् आढकः ।

चतुराढको भवेद् द्रोण इत्य् एतद् द्रोणमानकम् ॥

गोपथब्राह्मणे ।

पञ्चकृष्णलको माषस् तैश् चतुःषष्टिभिः पलम् ।

द्वात्रिंशद्भिः पलैः प्रस्थो मागधेषु प्रकीर्तितः ॥

आढकस् तैश् चतुर्भिश् च द्रोणः स्याच् चतुराढकः ॥

अथ मण्डपादिलक्षणम् । भविष्यत्पुराणे ।

घनो घोषो विराजश् च काञ्चनः कामरामकौ ।

सुघोषो घर्घरो दक्षो मण्डपा नवमा मताः ॥

चतस्रो धारिकाः कोणे द्वे द्वे द्वारेषु पार्श्वयोः ।

विस्तारे तु यथा शोभे अपरा अपि धारिकाः ॥

प्लक्षो दुम्बरिका श्वत्था वटाः प्रागादितोरणाः ।

पञ्चषट्सप्तहस्ताः स्युः कनीयः स्यात् ततः परम् ॥

वस्त्रे वेदाङ्गुलावृद्धिः सार्धम् अष्टकरं परम् ।

शूलं नवाङ्गुलं चाद्यं विद्ध्य् अक्षाद् द्व्यङ्गुलं ततः ॥

विस्तारं शृङ्गयोश् चास्य प्रवेशो द्व्यङ्गुलायतः ॥

अत्र यद् उक्तं पिङ्गलामते ।

हस्तद्वयं बहिस् त्यक्त्वा तोरणानि निवेशयेत् ।

[५९] शूले नवाङ्गुलं दैर्घ्यं तत् तुरीयांशेन विस्तृतिः ॥

ऋजु वै मध्यशृङ्गं स्यात् किञ्चिद् वक्रं तु पार्श्वयोः ।

प्रथमं तत् समाख्यातं द्व्यङ्गुलं रोपयेद् अथ ॥

शेषाणां द्व्यङ्गुला वृद्धिर् वेशश् चाङ्गुलवृद्धितः ।

शल्यं वस्वङ्गुलानाहम् परं वै षोडशाङ्गुलात् ॥

ललाटे पार्श्वयोश् चैव पृथुत्वं षड्भिर् अङ्गुलैः ।

अन्यम् एतत् समाख्यातं शेषे ऽष्टाङ्गुलवृद्धितः ॥

स्वस्तिकः श्रीकजाकं वा सर्वतोरणम् इष्टदम् ।

उच्छ्रयेण तदर्धार्धात् तोरणानां प्रविस्तरः ॥

धारिका तोरणैस् तुल्या वेदीस्तम्भाः षडुन्नताः ।

खातं पञ्चांशतस् तेषां भूमिभागवशेन वा ॥

वेदी चतुष्करा मध्ये कोणे स्तम्भचतुष्टयं ।

अष्टाङ्गुलोच्छिर्तान् येषां कराङ्गुष्ठैकवृद्धितः ॥

विस्ताराद् उच्छ्रयाद् वापि नान्तरे ग्रन्थिबन्धनम् ।

पीता महोत्का देवी तु लिङ्गायामद्विविस्तरा ॥

विस्तारं नवधा कृत्वा मण्डपानां क्वचिन् मते ।

मध्ये पदेन वेदी स्यात् कुण्डानां सैष विस्तरः ॥

हस्ताद् ऊर्ध्वं क्वचिद् वेदी षडङ्गुलवृद्धितः ।

वेदीपादोत्तरं त्यक्त्वा कुण्डानि नव पञ्च च ॥

वेदास् तान्य् एव तानि स्युर् वर्तुलान्य् अथ वा क्वचित् ॥

उक्तं च शौचाचारपद्धतौ ।

[६०] शस्तानि तानि वृत्तानि चतुरस्राणि वा सदा ।

दाहायाग्नौ भगाकारं द्वेषे स्वं दक्षिनोत्तरे ॥

अस्रं क्षयाय नैरृत्यां षडस्रं वायवे मतम् ।

वृत्तं कुण्डम् इह प्रोक्तं वारुण्यां शान्तिके हितम् ॥

कुण्डं कुशेशयाकारम् उत्तरे पुष्टिवर्धनम् ।

रौद्र्यां भयदम् अष्टास्रम् इति वृद्धिशिवागमः ।

ऐन्द्र्यां कुण्डं चतुष्कोणम् उच्यते स्तम्भकर्मणि ॥

तथा प्रतिष्ठासारसङ्ग्रहे ।

सर्वदिक्षु क्षये कुण्डं वेदास्रं स्थापने विधौ ।

तद् एव वृत्तं वा कार्यं काम्ये कल्पोदितं तथा ॥

चतुरस्रं भवेत् प्राच्यां सर्वकामप्रदं शुभम् ।

आग्नेय्यां बोधिपत्राभं सदा सन्तानवर्धनम् ॥

अर्धचन्द्रनिभं कुण्डं याम्ये विद्वेषणं नृणाम् ।

त्रिकोणं नैरृताशायां मारणार्थं प्रकल्पयेत् ॥

नित्यम् आप्यायने वृत्तं(?) पश्चिमे कुण्डम् उत्तमम् ।

षट्कोणं वायुकोणस्थं कुण्डम् उच्चाटने मतम् ॥

पद्माकारं भवेत् कुण्डम् उत्तरे पुष्टिसाधनम् ।

अष्टकोणम् अथेशान्याम् अत्यन्तं च भयप्रदम् ।

काम्यम् एतत् सदा कुण्डं स्थापनादौ विवर्जयेत् ॥

स्वायम्भुवे ।

चतुरस्रं भवेत् कुण्डं वृत्तं वा हस्त्सन्नितम् ।

[६१] नित्ये नैमित्तिके चैव काम्यं वा कल्पचोदितम् ॥

चतुरस्रं भवेत् प्राच्याम् आग्नेय्यां तु भयाकृति ।

याम्यायाम् अर्धचन्द्रं तु नैरृत्यां च विकोणकम् ॥

वृत्तं कुण्डं तु वारुण्यां वायव्यां पञ्चकोणकम् ।

पद्माकारं तु सौम्यायाम् ऐशन्याम् अष्टकोणकम् ॥

अस्राणां वारुणानां तु कुम्भाकारं विधीयते ॥

वायव्यानां पताकाभं माहेन्त्[द्?]र्याणां तु वज्रवत् ।

सप्तजिह्वाकृतिं प्रोक्तम् आग्नेय्यां गुरुसत्तमैः ॥

मध्यमोत्तमवीर्याणां चतुरस्राङ्गुलप्रदम् ।

त्रिकोणम् अल्पवीर्याणां स्त्रीरूपाणां भगाकृति ॥

अर्धचन्द्रं तु रौद्राणां सौम्यानां वृत्तम् एव हि ।

पञ्चकोणं तु दूतीनां किन्नराणां तथैव च ॥

विद्याविद्वेषकरणं पद्माकारं हितं मतम् ।

सर्वेषाम् एवम् अस्राणां वृत्तं स्यात् सार्वकामिकम् ॥

तेन वृत्तं प्रकुर्वन्ति विधिशास्त्रविदो जनाः ॥

यद् उक्तं कालोत्तरे ।

अष्टमूर्त्यात्मके न्यासे नव कुण्डानि कल्पयेत् ।

पञ्चमूर्त्यात्मके पञ्च वेदास्राण्य् एव कल्पयेत् ॥

हास्तिके हस्तमात्राणि कुण्डानि परिकल्पयेत् ।

क्रमाद् द्व्यङ्गुलया वृद्ध्या ततः शेषेषु षण्मुख ॥

अष्टादिक्ष्व् अष्टकुण्डानि वेदीपादोक्तकानि तु ।

नवमं कारयेत् कुण्डं वेदास्रं कुण्डमध्यमम् ॥

[६२] चतुर्दिक्षु च चत्वारि पञ्चमं त्व् ईशकोणकम् ॥

तथा ।

अवि वेदाङ्गुलं कुण्डदिगादिस् तु यथाक्रमम् ।

ज्येष्ठादिकन्यसान्तानां वेदीपादाद् बहिः कृतम् ॥

वेदयुग्माश्रितं कृत्वा अङ्गुलं भागसम्मितम् ।

तावद्भिर् अङ्गुलैर् हस्तं कुण्डानां परिकल्पयेत् ॥

हस्तमात्रं खनेत् तिर्यक् ऊर्ध्वं मेखलया सह ।

खाताद् बाह्ये ऽङ्गुलः कण्ठः सर्वकुण्डेष्व् अयं विधिः ॥

मेखला त्रितयं कार्यं कोणैर् आमयमाङ्गुलैः ।

दैर्घ्यात् सूर्याङ्गुला नाभिस् त्र्यङ्गो नाविस्तरेण तु ॥

एकाङ्गुलोच्छ्रिता सा च प्रतिष्ठाभ्यन्तरे तथा ।

कुम्भद्वयसमायुक्ता चाश्वत्थदलवन् मता ॥

अङ्गुष्ठमेखला युक्ता मध्ये त्व् आज्यधृतिस् तथा ।

दक्षस्था पूर्वयाम्ये तु जलस्था पश्चिमोत्तरे ॥

इतरस्यापि कुण्डस्य योनिर् दक्षदलस्थिता ।

दिक्षु वेदाप्रवृत्तानि पञ्चमं त्व् ईशगोचरे ॥

तस्य नाभिदले दक्षे यद् इष्टं तद् विधीयते ।

कुण्डानां पञ्चकं वाप्य कर्तव्यं पूर्वतःस्थितम् ॥ इति ।

तद् यथा प्रथमे च ।

कुण्डं जिनाङ्गुलं तिर्यग् ऊर्ध्वमेखलया सह ।

परेषां द्व्यङ्गुला वृद्धिर् अङ्गजातसमन्विता ॥

[६३] विनामानाङ्गुलाद् ऊर्ध्वं चतुर्विंशतिमांसकम् ।

अङ्गुलं तेन कुण्डानाम् अङ्गजातं विधीयते ॥

कण्ठाङ्गुलाद् बहिः कार्या मेखलैका षडङ्गुला ।

चतुस्त्रिद्व्यङ्गुला यद् वा तिस्रः सर्वत्र शोभनाः ॥

मेखला मध्यतो योनिः कुण्डार्धात् त्र्यंशविस्तृता ।

अङ्गुष्ठमानोष्ठकं वा कार्याश्वत्थदलाकृतिः ॥

प्रागग्नियाम्यकुण्डानां प्रोक्ता योनिर् उदङ्मुखी ।

पूर्वामुखाः स्मृताः शेषा यथाशोभं समन्विता ॥

देवीपुराणे ।

हस्तादिलिखिते कुण्डे समाख्यातं समीक्षते ।

ओष्ठ एकाङ्गुलं कार्यं भागो द्वादशम् आयतः ॥

ओष्ठं विस्तरसामान्या गजोष्ठसदृशी शुभा ।

चतुर्ङ्गुलमानेन प्रथमा मेखला भवेत् ॥

एकोना द्व्यङ्गुलीया तु एवं कुण्डं सुभावहम् ।

चतुरस्रं तु पूर्वादि अश्वत्थदलसम्मितम् ॥

ऊर्ध्वे कुण्डं गजाकारं वृत्तं पञ्चक्म् अष्ट वा ।

पद्माकारं प्रकर्तव्यं कुण्डं चेशानगोचरम् ॥

यद् उक्तं प्रतिष्ठासारसङ्ग्रहे ।

प्रतिष्ठास्थापनादीनां मुखम् आस्थापनं यतः ।

मण्डपोत्तरम् उत्सृज्य कर्तव्यं मण्डपद्वयम् ॥

धाम्नो धामान्तरं त्यक्त्वा धामाग्रे यज्ञमण्डपः ।

दशद्वादशहस्तो वा द्विद्विवृद्ध्या ततः क्रमात् ॥

[६४] तन्मध्ये नवधा कृत्वा मध्यभागेन वेदिका ।

विकारार्काष्तभिः कार्या प्राग्भूता वा नवाङ्गुलैः ॥

तद्वद् उत्तरम् उत्सृज्य दशहस्तप्रमाणतः ।

पूर्वभागे ऽथ वा सौम्ये कर्तव्यः शान्तिमण्डपः ॥

तन्मध्ये वेदिकापद्मे कर्तव्यं ग्रहपूजनम् ।

तत्रापि शान्तिहोमार्थं नव कुण्डानि कल्पयेत् ॥

यज्ञमण्डपमध्ये तु वेदीपादाद् बहिः क्रमात् ।

सर्वदिक्षु च यत् कुण्डं वेदास्रं स्थापने विधौ ॥

तद् एव वृत्तं वा कार्यम् अन्यथाकारनिर्मितम् ।

चतुर्विंशाङ्गुलाद् ऊर्ध्वे द्वाङ्गुलादिविवृद्धितः ॥

व्यासात् खातः करः प्रोक्तो निम्नस् तिथ्यङ्गुलेन तु ।

खाताद् बाह्ये ऽङ्गुलः कण्ठः तद्बाह्ये मेखला क्रमात् ॥

प्रथमाद् वाङ्गुला व्यासाद् उन्नतासा नवाङ्गुलैः ।

मध्यमाद् द्व्यङ्गुला बाह्ये तृतीया तु यमाङ्गुला ॥

मेखलाः पञ्च वा कार्या षट्पञ्चद्वित्रिपक्षकैः (?) ।

पञ्चत्रिमेखलोच्छ्रायं ज्ञात्वा शेषम् अधः खनेत् ॥

खाताधिके भवेद् रोगी हीने धेनुधनक्षयः ।

चक्रकुण्डे तु सन्तापो मरणं भिन्नमेखले ॥

मेखलारहिते शोको ऽभ्यधिके वित्तसङ्क्षयः ।

भार्याविनाशनं प्रोक्तं कुण्डं योन्या विना कृतम् ॥

अपत्यध्वंसनं प्रोक्तं कुण्डं यत् कण्ठवर्जितम् ।

[६५] स्थापने सर्वकुण्डानां ध्वजाग्रं सर्वसिद्धिदम् ॥ इति ।

प्रतिकुण्डं पताकाद्याः प्रोक्ताः कालोत्तरे तथा ।

सप्तहस्ताः पताकाः स्युः सप्तमांशेन विस्तृताः ॥

लोकपालाः सुवर्णेन नवमी तुहिनप्रभाः ।

पीतरक्तादिवर्णाश् च पञ्चहस्ता ध्वजाः स्मृताः ॥

द्विपञ्चहतैर् दण्डैस् तैर् वंशजैः संयुता मताः ।

सप्तविंशतिभिः काण्डो विष्टरा बहुमात्रकाः ॥

हस्तार्धाः समिधः शस्ता इह वै चोत्तरे पुनः ।

पञ्चहस्ताः द्वजाः कार्या वैपुल्येन द्विहस्तकाः ॥

सप्तहस्ताः पताकाः स्युर् विंशत्यङ्गुलविस्तृताः ।

पञ्चहस्तध्वजानां तु पञ्चमांशप्रवेशिताः ॥

दशहस्तपताकानां दण्डाः पञ्च प्रवेशिताः ।

सिन्दूराः कर्बुरा धूम्रा धूसरा मेघसन्निभाः ॥

हरिताः पाण्डुवर्णाश् च शुभ्राः पूर्वादितः क्रमात् ।

एवं वर्णा ध्वजाः कार्याः पताकाः पाकशासन ॥

कलशोत्पत्तिकलशलक्षणम् । देवीपुराणे ।

कलशान् सुदृढान् कुर्याल् लक्षणानि वदामि ते ।

उत्पत्तिलक्षणं मानं कथयामि यथा मुने ॥

वारकाः कलशाश् चैव येन लोके प्रकीर्तिताः ।

अमृते मथ्यमाने तु सर्वदेवैः समन्वितैः ॥

[६६] मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ।

उत्पन्नम् अमृतं तत्र महावीर्यपराक्रमम् ॥

तस्यायं धारणायैव कलशः परिकीर्तितः ।

कलां कलां गृहीत्वा वै देवानां विश्वकर्मणा ॥

निर्मितो ऽयं सुरैर् यस्मात् कलशस् तेन कथ्यते ।

वारयन्ति ग्रहान् यस्मान् मानवा विविधांस् तथा ॥

दुर्हृदश् च तथाद्योरांस् तेन ते वारकाः स्मृताः ।

कलशस्य मुखे ब्रह्मा ग्रीवायां तु महेश्वरः ॥

मूले तु संस्थितो विष्णुर् मध्ये मातृगणाः स्थिताः ।

शिखासु देवताः सर्वा वेष्टयन्ति चतुर्दिशम् ॥

पृथिव्यां यानि तीर्थानि कलशे निवसन्ति हि ।

गृहे शान्तिश् च पुष्टिश् च प्रीतिर् गोतृप्तिर् एव च ॥

ऋग्वेदो ऽथ यजुर्वेदः सामवेदस् तथैव च ।

अथर्ववेदसहिताः सर्वे कलशसंस्थिताः ॥

पूर्णामृतेन तोयेन श्रितास् त्व् एकान्ततो घृताः ।

सरित्सरःखातजेन तडागेन जलेन वा ॥

वापीकूपोददिव्येन सामुद्रेण सुखावहाः ।

सर्वमङ्गलमाङ्गल्याः सर्वकिल्बिषनाशकाः ॥

अभिषेके सदा ग्राह्याः कलशा ईदृशाः शुभाः ।

यात्राविवाहकाले वा प्रतिष्ठा यज्ञकर्मणि ॥

योजनीया विशेषेण सर्वकर्मप्रसाधकाः ।

पञ्चाशाङ्गुलवैपुल्या उत्सेधः षोडशाङ्गुलः ॥

कलशानां प्रमाणं तु मुखम् अष्टाङ्गुलं भवेत् ।

[६७]

अथ ऋत्विग्वरणम् । तत्र ब्रह्माण्डदानम् अधिकृत्योक्तम् पद्मपुराणे ।

बालाग्निहोत्रिणं विप्रं सुरूपं च गुणान्वितम् ।

सपत्नीकं च सम्पूज्य भूषयित्वा विभूषणैः ॥

पुरोहितं मुख्यतमं कृत्वान्यांश्च तथा द्विजान् ।

चतुर्विंशद्गुणोपेतान् सपत्नीकान् निमन्त्रितान् ॥

अहताम्बरसञ्छन्नान् स्रग्विणस् तु विभूषितान् ।

अङ्गुलीयकानि तथा कर्णवेष्टांश् च दापयेत् ॥

एवं विश्वास्य सम्पूज्य तेषाम् अग्रे स्वयं स्थितः ।

अष्टाङ्गप्रणिपातेन प्रणम्य च पुनः पुनः ॥

पुरोहिताय पुनः कृत्वा कृत्वा वै करसम्पुटम् ।

यूयं वै ब्राह्मणा धात्रा मैत्रत्वे चानुगृह्णता ॥

सौमुख्येनेह भवतां भवेत् पूतो नरः स्वयम् ।

भवतां प्रीतियोगेन स्वयं प्रीतः पितामहः ॥

तुला पुरुषम् अधिकृत्योक्तम् । लिङ्गपुराणे ।

शतनिष्काधिकं श्रेष्ठं तदर्धं मध्यमं स्मृतम् ।

तस्याप्य् अर्धं कनिष्ठं स्यात् त्रिविधं तत्र कल्पितम् ॥

वस्त्रयुग्ममयोष्णीषं कुण्डलं कण्ठभूषणम् ।

अङ्गुलीभूषणं चैव मणिबन्धस्य भूषणम् ॥

[६८] एतानि चैव सर्वाणि प्रारम्भे सर्वकर्मणि ।

पुरोहिताय दत्वाथ ऋत्विग्भ्यः सम्प्रदापयेत् ॥

पूर्वोक्तं भूषणं सर्वं सोष्णीषं वस्त्रसंयुतम् ।

दद्याद् एतत् प्रयोक्तृभ्य आच्छादनपटं बुधः ॥

अन्यांश् चतुर्विंश ऋत्विजः ।

कृत्वेतिवचनात् पञ्चविंशतिर् ब्राह्मणा निमन्त्रणीयाः । ते च प्रतिष्ठाम् अधिकृत्य मत्स्यपुराणे भेदेनोक्ताः ।

शुभास् तत्राष्ट होतारो द्वारपालास् तथाष्ट वै ।

अष्टौ तु जापकाः कार्याः ब्राह्मणा वेदपारगाः ॥

सर्वे लक्षणसम्पन्ना मन्त्रवन्तो जितेन्द्रियाः ।

कुलशीलसमायुक्ताः जापकाः स्युर् द्विजोत्तमाः ॥

हेमालङ्कारिणः कार्याः पञ्चविंशतिर् ऋत्विजः ।

दीक्षयेच् च समं सर्वान् आचार्यो द्विगुणं लभेत् ॥ इति ।

निष्कादीन् आरभ्य शतं पञ्चविंशतिर् वा वस्त्रालङ्कारम् ऊह्यम् । एतत् प्रयोक्तृभ्यो वरणवाक्यम्, ॐ अद्य अमुकयज्ञेनाहं यक्ष्ये यदङ्गभूतम् अमुककर्मार्थम् अमुकगोत्रम् अमुकशर्माणम् अमुकदेवाध्यायिनम् अमुकं त्वाम् अहं वृणोमि, वृतो ऽस्मीति प्रतिवचनम् ।

कर्मभेदश् चोक्तो मत्स्यपुराणे ।

गन्धपुष्पैर् अलङ्कृत्य द्वारपालान् समन्ततः ।

पटध्वम् इति तान् ब्रूयाद् आचर्यं त्व् अभिपूजयेत् ॥

[६९] यजध्वम् इति तान् ब्रूयाद् धोतृकान् पुर एव तु ।

उत्कृष्टमन्त्रजाप्येन तिष्ठध्वम् इति जापकान् ॥ इति ।

प्रारम्भे सर्वकर्मणीति लिङ्गपुराणे वचनाद् अस्य सर्वव्रतादीनां ऋत्विक्साध्यधर्मसाधारणम् ।

अथ मधुपर्कः । आह जाबालिः ।

ब्राह्मणम् ऋत्विजं चैव श्रोत्रियं गृहम् आगतम् ।

अर्चयेन् मधुपर्केण स्नातकं प्रियम् एव च ॥

विश्वामित्रः ।

सम्पूज्य मधुपर्केण ऋत्विजः कर्म कारयेत् ।

अपूज्य (?) कारयन् कर्म किल्बिषेणैव य्ज्यते ॥

अथ होमविधिः । देवीपुराणे ।

    	परिसमुह्योपलिप्योल्लिख्योद्वृत्याग्निम् उपसमाधाय दक्षिणतो ब्रह्मासनम् आस्त्रीर्य प्रणीय परिस्तीर्यार्थवद् आसाद्य पवित्रे कृत्वा प्रोक्षणीश् च संस्कृत्यार्थवत् प्रोक्षणीश् च संस्कृत्यार्थ्वत् प्रोक्षणी निरूप्याज्याव् अधिश्रित्य (?) पर्याग्निं कुर्यात् स्रुवं प्रतप्य दर्भैश् च सम्मृज्याभ्युक्ष्य पुनः प्रतप्याभ्युक्ष्य दध्याद् आज्यम् उद्वास्योत्थाप्य उत्पूयावेक्ष्य प्रोक्षणीश् च पूर्ववद् उपयमन् कुशान् आदाय समिधोप्याधाय पर्युक्ष्य जुहुयात् । एष एव विधिर् यत्र क्वचिद् धोमतः, परिसमूहनं मानस्तोकेत्य् उपलेपनम् ।

[७०] त्वां वृतेच्छिद्रम् इति उल्लिख्य, व्रजं गच्छेत्य् उद्धृत्य देवस्य त्वेत्य्

    अभ्युक्ष्य अग्निम् ऊर्द्धेति अग्निम् उपसमाधाय सम्हिधाग्निं देवस्य त्वेति समिधम् आदध्यात्, अपि गृह्णामीत्य् अग्नेर् अभ्युक्षणं कृत्वा हिरण्यगर्भेर् दक्षिणतो ब्रह्मा आपोहिष्टेति उत्तरतः प्रणीता कयानश् चित्र इति प्रणीताप्रस्तारणम् । पवित्रेस्थो वैष्णव्यौ सवित्रे द्वेष्टृनित्याज्यनिरूपणम् । त्रातारम् इति स्रुचम् प्रतप्य अनिशितो ऽसि स पत्रक्षिद् इति सम्मार्जनम् । प्रत्युष्टरक्षः इति प्रतपनम् । सवितुर् वः प्रसव उत्पुनामीति पुनः प्रतपनम् । तद् एवाग्निर् इत्य् उत्पवनम् । धूसरो ऽसीति पर्युक्षणम् । प्रजापतये स्वाहा मूलहोमाहुतयः एवं वैदिको ऽग्निः संस्कृतो भवति ।

एवं लक्षणसंयुक्तं सर्वयज्ञेषु याज्ञिकम् ।

विधानं विहितं तत्र ब्रह्मणा मिततेजसा ॥

अन्यथा ये प्रकुर्वन्ति सूत्रम् आश्रित्य केवलम् ।

निराशास् तत्र गच्छन्ति सर्वे देवा न संशयः ॥

अथातः परिस्तरणदेवताः कथ्यन्ते ।

    	परिसमूहने करपयः, उपलेपने विश्वेदेवाः, उल्लेखने मित्रावरुणौ, उद्धरणे पृथिवी, अभ्युक्षणे गन्धर्वाः, अग्न्यासादने सर्वः, दक्षिणासादने ब्रह्मा, उत्तरतः प्रणीतायां सागरः, अर्थावसादने शतक्रतुः, पवित्रबन्धने पितरः, प्रोक्षणीसंस्कारे मातरः, जुहुस्रुक्स्रुवे तथा ब्रह्मविष्णुमहेश्वराः, आज्यतापने वसवः, **[७१]** अधिश्रयणे वैवस्वतः, पर्यग्निकरणे मरुतः, उद्वासने स्कन्दः, उत्पवने प्रत्युत्पवने च चन्द्रादित्यो, आज्यावेक्षणे दिशः सर्वाः पवित्राधाने, प्रणीतायाम् उमा देवी, इध्मे लक्ष्मीः, विश्वस्य भूतानि ।

पूर्वोक्तानां तु वह्नीनाम् एकम् आदाय पावकम् ।

होमकर्मप्रकर्तव्यं विधिं ज्ञात्वा महामुने ॥

एता वै देवताः प्रोक्ता ब्राह्मणानां हिताय वै ।

यज्ञेषु पशुबन्धि तु तथा सर्वक्रियासु च ॥

ब्रह्मोवाच ।

वह्नेर् विधानं परमं सर्वकर्मसुखावहम् ।

कथयामि नृपश्रेष्ठ नामभेदक्रियादिभिः ॥

अग्नेः परिग्रहः कार्यः सर्वशास्त्रार्थवेदकैः ।

वामदक्षिणसिद्धान्ते स्वगृह्यपारगैस् तथा ॥

कार्यः परिग्रहो वह्नेः सर्वसम्पत्तिवेदिभिः ।

अन्यथा अन्तरायास् ते भवन्ति धनआयुषोः ॥

नित्यव्याधिर् अधन्यो वा सर्वलोकतिरस्कृतः ।

अविदित्वा यथावच् च तज्ज्ञः सर्वसुखायते ॥

तस्मात् सर्वप्रयत्नेन अग्न्याधेये क्रिया मता ।

कुण्डाष्टकं समाख्यातं त्रिभेदं तु मया तव ॥

बहुविधिविधानं तु एकस्मै वोपचारतः ।

स्त्रीबालशूद्रैस् तु होतव्यं होतव्यं प्रत्ययंयथा ॥

सभ्ये महानसे वापि न कुण्डे च कदाचन ।

संस्कृतैर् नामभेदैस् तु रक्षयित्वा हुताशनम् ॥

[७१] महाविद्यार्थकुशलैर् होतव्यं कर्मकाङ्क्षिभिः ।

श्रूयते च पुरा वत्स अविदित्वा च तत् सुत ॥

संस्कृतबहमानस् तु राज्यभ्रंशम अवाप्नुयात् ।

तथा वारणिहोता च चिरान् मृत्युम् अवाप्तवान् ॥

तस्माद् अस्थिरवह्नौ तु न होतव्यम् अवेदिना ।

वेदनं ते प्रवक्ष्यामि येन सिद्धिः प्रजायते ॥

चतुष्कोणोत्थकुण्डे च मण्डले मधुसूदन ।

धनुषाकृतिके रुद्रः सर्वदेवनमस्कृतः ॥

चतुरस्रे भवेद् अग्निर् मण्डले तु हुताशनः ।

अर्धचन्द्रे ऽनलो ह्य् अग्निर् अग्निर् एवं प्रतिष्ठितः ॥

द्विजानां देवताः सप्त आचार्यो योगदैवतः ।

उदको वरुणो देवो दर्भेषु च महोरगाः ॥

स्रुवायां तु महादेवी स्रुचो देवस् त्रिलोचनः ।

तत्संयोगे परः सर्वः सर्वदेवनमस्कृतः ॥

प्रणीता पृथिवी ज्ञेया स्वाधिकारे महामखाः ।

पुण्येषु क्रतवो विद्धि पात्रेषु च महोदधिः ॥

वेदीमध्ये तु गयत्री सामस्कृत्युक्षणे स्थितः ।

इन्धने मणिभद्रस् तु शिखावज्रधरस् तथा ॥

होतारस् तु विजानीयात् चमसादिषु पर्वतान् ।

ऊषायां देवता रुद्रस् तालवृन्ते च वाय्वः ॥

मन्त्रेषु चरणे सर्वे भस्मभूयो ऽपि शङ्कर ।

लोकपालस् तु कोणेषु ओङ्कारे सर्वदेवताः ॥

मातरो होमभागे तु पुतनादिस्फुलिङ्गकाः ।

[७३] आदित्यो ऽधिष्ठितस् तेजो लये देवः परः शिवः ॥

प्रातर्होमस् तु देवानां प्रहरार्धेन भूतिदः ।

मध्याह्ने तु मनुष्याणां मोक्षहेतोस् त्रियामिकः ॥

अपराह्णे पितॄणां च सन्ध्यायां चाङ्गभौतिका ।

रात्रौ पापविनाशार्थं दिवासिद्धिप्रसाधने ॥

प्रहरार्धे तु होतव्यम् अर्धरात्रे तथा गुदम् ।

प्रत्यूषे पुत्रदं वत्स गुदाय सर्वकामिकम् ॥

क्षणादौ सर्मकार्येषु सर्वप्राप्तिप्रदायकम् ।

क्षणादिदेवता देया प्रथमा त्र्यवराहुतिः ॥

अन्यथा विफलं विप्र भवते हवनं तदा ।

वार्क्षमृण्मयतां प्रीत्यै गौर्ये होमो नृपुङ्गव ॥

दशधा पुण्यवृद्धिश् च हवनस्नानभोजनैः ।

देवाकैः शूलपद्माङ्कैः शङ्खचक्रशुभाननैः ॥

घृतक्षीररसादीनि गृह्णीयात् तानि बुद्धिमान् ।

देव्याः स्थापनयज्ञीयो वसोद्धारैः प्रभावितैः ॥

द्रव्यैर् होमः प्रकर्तव्यो अन्यथा ह्य् अविधानतः ।

आत्मवेलासु ते तृप्तिं पुष्टं यच्छन्ति देवताः ॥

वेलामन्त्रगणानां च अस्ति दैवतगे फलम् ।

एतत् ते कथितं वत्स सर्वलोकसुखावहम् ॥

होता चेन् मन्त्रहीनस् तु अशुचिर् भवते सदा ।

तस्मात् तु संस्कृते वह्नौ त्व् अहोतव्यम् अवैदिकैः ॥

मन्त्राकदकहोतारो ह्य् अथायजन्ति देवताः ।

अवैदिकास् तु होतारो नैव प्रीणन्ति वै सुरान् ॥

[७४] होमात् सर्वफलावाप्तिः सर्वेषाम् अप् जायते ।

तस्मान् मन्त्रविधानेन प्रातर् एव शुभप्रदः ॥

पूर्वे ऽग्निर् देवता विष्णुर् दक्षिणेन हरः स्मृतः ।

पश्चिमेन स्थितो ब्रह्मा एता वै अग्निदेवताः ॥

रुद्रं तेजसे जानीयात् जलार्था वापि चर्चका ।

क्रियायुषे तु विप्राणां लक्ष्मीस् तत्राधिदेवता ॥

एवं प्रतिष्ठिते होमे अग्नयश् च त्रयस् तथा ।

त्रयो देवास् त्रयः कालास् त्रिर् अग्निस् त्रिगुणस्थिताः ॥

गार्हपत्यो दक्षिणाग्निर् आहवनीयश् च ते त्रयः ।

एकस्यैव समुत्पन्नो बहुभेदा द्विजोत्तम ॥

शाखाश् चतस्रः श्रीपर्णशुचिवैकङ्कती तथा ।

खादिराशनबिल्वाद्यैस्रुचोहस्तादिदीर्घतः ॥

अङ्गुष्ठपरिनाहाढ्यं कुण्डं कुम्भकभूषितम् ।

पुष्करं पुष्करौ द्वौ तु मध्यरेखास्थितौ किल ॥

स्रुक्कशार्धक्रिया (?) कार्या दण्डवृत्तसुशोभनन् ।

षदङ्गुलपरीणाहं भूमियन्त्रविनिर्मितम् ॥

द्व्यङ्गुलं मूलदेशे तु कुम्भपुष्करमूलगम् ।

गुढिकां तद् विजानीयात् त्रिभागेन तु पुष्करम् ॥

वेदी सप्ताङ्गुला कार्या पञ्चवर्णं प्रकल्पयेत् ।

त्रिनिखातं समं कार्यम् अग्रं कुशात् षडङ्गुलम् ॥

गोकर्णाकृतिशोभाढ्यं कनिष्ठाङ्गुलिरन्ध्रगम् ।

[७५] घृतनिःक्रमणं कार्यं यवत्रयसुरेषितम् ॥

एवं स्रुवं स्रुचं कृत्वा ताभ्यां होमः सुखावहः ।

शमीगर्भो ऽरणी कार्या देव्या हस्तप्रमाणतः ॥

वितस्तिपाणिनाहाढ्या मध्यं वै षोडशाङ्गुलम् ।

वृत्तं करद्वयोपेतं दशाङ्गुलसुवृत्तिदम् ॥

आपीडं सुसमं कार्यं मध्यमायसवेधनम् ।

घटिकाङ्कुरयागार्थं वालरज्वा प्रमा शमा ॥

सुदृढां वह्निमन्त्रेण पूजयित्वा तु पातयेत् ।

अभावे सूर्यकान्तैर् वा तदभावे करीषजा ॥

सामान्यायतनागारे आनयेत् ताम्रभाजने ।

शरावे मृण्मये पात्रे कुण्डे पूजान्विते न्यसेत् ॥

अग्निचक्रं विधाने तु सर्वकर्मणि करयेत् ।

हेमराजतताम्राणि काष्ठशैलमृदो ऽपि वा ॥

रत्नादीनि च पात्राणि शुभवेदाङ्कितानि च ।

अर्घनैवेद्यपूजार्थं बलिदानं च कल्पयेत् ।

पश्चाद् एव विधानेन होमं कुर्याद् यथाविधि ॥

मरीचिः ।

प्रागग्राः समिधो ग्राह्याः अखर्वाणो ह्य् अपाटिताः ।

काम्येषु वशकर्मादौ विपरीता जिघांसतः ॥

विशीर्णा विदला द्रूस्वा (?) वक्रा बहुशिरः कृशाः ।

दीर्घाः स्थूला घुणैर् जुष्टाः कर्मसिद्धिविनाशकाः ॥

समिद् इत्य् अनुवृत्तौ ब्रह्मपुराणे ।

[७६] शमीपलाशन्यग्रोधप्लक्षवैकङ्कतोद्भवाः ।

अश्वत्थोदुबरौ बिल्वः चन्दनः सरलस् तथा ।

शालश् च देवदारुश् च खदिरश् चेति याज्ञिकाः ॥

छन्दोपरिशिष्टे कात्यायनः ।

नाङ्गुष्ठाद् अधिका कार्या समित्स्थूलतया क्वचित् ।

न विमुक्तत्वचा चैव न सकीटा न पाटिता ॥

प्रादेशान् नाधिका न्यूना न तथा स्याद् द्विशाखिका ।

न सपर्णा समित् कार्या होमकर्मसु जानता ॥

छन्दोगपरिशिष्टे कात्यायनः ।

पाण्याहुतिर् द्वादशपर्वपूरिका

स्वङ्गारिणि स्वर्चिषि तच् च पावके ।

यो ऽनर्चिषि जुहोत्य् अग्नौ व्यङ्गारिणि च मानवः ।

मन्दाग्निर् आमयावी च दरिद्रश् चैव जायते ॥

तस्मात् समिद्धे होतव्यं न समिद्धे कथञ्चन ।

आरोग्यम् इच्छातायुश् च श्रियम् आत्यन्तिकीं तथा ॥

जुहुवांश् च हुते चैव पाणिशूर्पस्रुवादिभिः ।

अथ वक्ष्यमाणेषु तिथ्यादिव्रतेषु देवतामूर्तीनां पूज्यत्वात् देवतामूर्तय उच्यन्ते ।

विष्णुधर्मोत्तरे ।

विनायकस् तु कर्तव्यो गजवक्त्रश् चतुर्भुजः ।

[७७] स्थलकं चाक्षमाला च तस्य दक्षिणहस्तयोः ॥

पात्रं चोदकपूर्णं च परशुश् चैव वामतः ।

दन्तश् चास्य न कर्तव्यो वामे रिपुनिसूदन ॥

पादपीठकृतः पाद एक आसनगो भवेत् ।

पूर्णे चोदकपात्रे च कराग्रं तस्य कारयेत् ॥

लम्बोदरस् तथा कार्यस् तच् च कर्णश् च यादव ।

व्याघ्रचर्माम्बरधरः सर्पयज्ञोपवीतवान् ॥

स्थलकं गजदन्ताकारम् गणेशस्य ।

देवी सरस्वती कार्या सर्वाभरणभूषिता ।

चतुर्भुजा सा कर्तव्या तथैव च समुत्थिता ॥

समुत्थिता ऊर्द्धा ।

पुस्तकं चाक्षमाला च तस्या दक्षिणहस्तयोः ।

वामयोश् च तथा कार्या वैणवी च कमण्डलुः ॥

वैणवी वीणा ।

समपादप्रतिष्ठा च कार्या सौम्यमुखी तथा ।

सरस्वती ।

हरेः समीपे कर्तव्या लक्ष्मीस् तु द्विभुजा नृप ।

दिव्यरूपाम्बरधरा सर्वाभरणभूषिता ॥

[७८] गौरी शुक्लाम्बरा देवी रूपेणाप्रतिमा भुवि ।

पृथक् चतुर्भुजा कार्या देवी सिंहासना शुभा ॥

सिंहासनस्था कर्तव्यं कमलं चारुकर्णिकम् ।

अष्टपत्रं महाभाग कर्णिकायां तु सा स्थिता ॥

विनायकवद् आसीना देवी कार्या महाभुजा ।

बृहन्नालं करे कार्यं तस्याश् च कमलं शुभम् ॥

दक्षिणे यादवश्रेष्ठ केयूरं प्रान्तसंस्थितम् ।

वामे ऽमृतघटः कार्यस् तथा राजन् मनहोरः ॥

तस्याश् च द्वौ करौ कार्यौ बिल्वशङ्खधरौ द्विज ।

आवर्जितघटं कार्यं तत्पृष्ठे कुञ्जरद्वयं ॥

देव्याश् च मस्तके पद्मं तथा कार्यं मनोहरम् ॥

लक्ष्मीः । पयसङ्ग्रहे ।

पद्मस्था पद्महस्ता च गजोक्षिप्तघटप्लुता ।

श्रीः पद्ममालिनी चैव कालिकाकृतिर् एव च ॥

श्रीः । विश्वकर्मशास्त्रे ।

क्षेत्रे कोला पुरादन्ये महालक्ष्मीर् यदोच्यते ।

लक्ष्मीवत् सा तदा कार्या रूपाभरणभूषिता ॥

दक्षिणाधः करे पात्रम् ऊर्ध्वे कौमोदकी ततः ।

[७९] वामोर्ध्वे खेटकं धत्ते श्रीफलं तदधःकरे ॥

बिभ्रती मस्तके लिङ्गं पूजनीया विभूतये ॥

महालक्ष्मीः । विष्णुधर्मोत्तरे ।

अष्टादश भुजा कार्या भद्रकाली मनोहरा ।

आलीढस्वासनस्था च चतुःसिंहे रथे स्थिता ॥

अक्षमाला त्रिशूलं च खड्गश् चन्द्रश् च यादव ।

वाणचापे च कर्तव्ये शङ्खपद्मौ तथैव च ॥

स्रुक्स्रुवौ च तथा कार्यौ तथोदककमण्डलू ।

दण्डशक्ती कर्तव्ये कृष्णाजिनहुताशनौ ॥

हस्तानां भद्रकाल्यास् तु भवेत् कान्तिकरः करः ।

एकश् चैव महाभाग रत्नपात्रधरो भवेत् ॥

भद्रकाली । विश्वकर्मशास्त्रात् ।

निगद्यते ह्य् अथो चण्डी हेमाभा सा सुरूपिणी ।

त्रिनेत्रा यौवनस्था च क्रुद्धा चोर्ध्वस्थिता मता ॥

कृशमध्या विशालाक्षी चारुपीनपयोधरा ।

एकवक्त्रा तु सुग्रीवा बाहुविंशतिसंयुता ॥

शूलासिशङ्खचक्राणि वाणशक्तिपवीन् अपि ।

अभयण्डमरुं चैव छत्रिकां दक्षिणे करे ॥

ऊर्ध्वादिक्रमयोगेन बिभ्रती सा सदा शुभा ।

[८०] नागपाशं तथा खेटं कुठाराङ्कुशकार्मुकम् ॥

घण्टाध्वजगदादर्शं मुद्गरं वाम एव च ।

तदधो महिषश् छिन्नमूर्द्धा पतितमस्तकः ॥

शस्त्रोद्यतकरस्तब्धः तद्ग्रीवासम्भवः पुमान् ।

शूलभिन्नो वमद्रक्तो रक्तभ्रूमूर्धजेक्षणः ॥

सिंहेन खाद्यमानश् च पाशबद्धो गले भृशम् ।

याम्याङ्घ्र्याकान्तसिंहा (?) च सव्याङ्घ्र्यालोढगासुर ॥

चण्डोचोद्यतशस्त्रेयं चाशेषरिपुनाशिनई ॥

पविर् वज्रं । असुरे महिषे ।

चण्डिका ।

शक्तिं वाणं तथा शूलं खड्गं चक्रं च दक्षिणे ।

चन्द्रबिम्बम् अधो वामे खेटमूर्द्धे कपालकम् ॥

शूलं चक्रं च बिभ्राणा सिंहारूढा च दिग्भुजा ।

एषा देवी समुद्दिष्टा दुर्गा दुर्गापराहिणी ॥

दिग्भुजा दशभुजा ।

दुर्गा ।

नन्दा बहवती देवी भारद्वाजाभिनन्दजा ।

वरपाशाङ्कुशाञ्जानि बिभ्रती च चतुर्भुजा ॥

[८१] गौरवर्णा गजस्था वा खड्गखेटवराभया ।

नन्दा ।

अम्बा कुमुदवर्णाभा पाशाञ्जाभीतिपात्रिणी ॥

अम्बा ।

चतुर्बाहुः प्रकर्तव्या सिंहस्था सर्वमङ्गला ।

अक्षसूत्रं कजं दक्षे शूलकुण्डीधरोत्तरे ॥

सर्वमङ्गला ।

एकवीणा जया कर्णपूरा नग्ना खरस्थिता ।

वङ्गोत्था कर्णिकाकर्णी तैलाभ्यक्तशरीरिणी ॥

वामपादे लसल्लोहकृत्यकण्टकभूषणा ।

वर्धयन् मूर्धजाकृष्टा कालरात्रिर् भयङ्करी ॥

कालरात्रिः ।

शङ्खमूर्धकराधर्शं बिभ्रती वामपार्श्वतः ।

याम्ये फलाञ्जनीहस्ता ललितोर्धा सुभूषणा ॥

ललिता ।

तुङ्गनासा च लम्बोष्ठी लम्बमानस्तनोदरी ।

आलोहिता स्मृता ह्य् एषा ज्येष्ठा लक्ष्मीर् इति श्रिये ॥

उत्पलाभयहस्तेयं द्विभुजा वीरवन्दिता ॥

ज्येष्ठा ।

रक्तज्येष्ठा च नीला च भूतलान्वितपादिका (?) ।

भूतलं स्पृशते दोर्भ्यां द्विभुजा वीरवन्दिता ॥

नीलज्येष्ठा ।

गौरी कुमारिका रूपा ध्यायमाना महेश्वरैः ।

[८२] वरदाभयहस्ता सा द्विभुजा श्रेयसे सदा ॥

अक्षसूत्राभये पद्मं तस्याधश् च कमण्डलुः ।

गौर्य् वा मूर्तिश् चतुर्बाहुः कर्तव्या कमलासना ॥

गौरी ।

श्यामवर्णा विशालाक्षी क्षीरारुणनिभानना ।

द्विभुजा बिभ्रती लिङ्गं वर्म शस्त्रं तु दक्षिणे ॥

सिंहासनोपविष्टेयं मुक्ताभरणमूर्धजा ।

भूतप्रेतपिशाचाद्यैः सेविता तु विशेषतः ॥

इन्द्ररक्षैश् च गन्धर्वैः सिद्धविद्याधरादिभिः ।

श्वत्थस्याप्य् अधो देवी भूतमातेति विश्रुता ॥

भूतमाता ।

सुरभिर् गोमुखा देवी सुरूपा सर्वभूषणा ।

घासमुष्टिं तथा कुण्डीं बिभ्राणा भूतिपुष्टिदा ॥

सुरभिः ।

निद्रा तु शयनारूढा सुसौम्या मुकुलेक्षणा ।

पानपात्रधरा ज्ञेयं द्विभुजा परिकीर्तिता ॥

योगनिन्द्रा ।

अथातः सम्प्रवक्ष्यामि मातृरूपाणि ते जय ।

तत्र ब्राह्मी चतुर्वक्त्रा षड्भुजा हंससंस्थिता ॥

पिङ्गला भूषणोपेता मृगचर्मोत्तरीयका ।

[८३] वरं सूत्रं स्रुवं धत्ते दक्षबाहुत्रये क्रमात् ॥

वामे तु पुस्तकं कुण्डीं बिभ्रती चाभयप्रदा ।

माहेश्वरी वृषारूढा पञ्चवक्त्रा त्रिलोचना ॥

शौक्लेन्दुम्बृज् जटाजूटा शुक्ला सर्वसुखप्रदा ।

षड्भुजा वरदा दक्षे सूत्रं डमरुकं तथा ॥

शूलघण्टाभयं वामे सैव धत्ते महाभुजा ।

कौमारी रक्तवर्णा स्यात् षड्वक्त्रा सार्कलोचना ॥

रविबाहुर् मयूरस्था वरदा शक्तिधारिणी ।

पताकां बिभ्रती दण्डं चापं बाणं च दक्षिणे ॥

वामे चापम् अथो घण्ठां कमलं कुक्कुटं त्व् अधः ।

परशुं बिभ्रती तीक्ष्णं तदधस् त्व् अभयान्विता ॥

वैष्णवी तार्क्ष्यगा श्यामा षड्भुजा वनमालिनी ।

वरदा गदिनी दक्षे बिभ्रती चाम्बुजस्रजम् ॥

शङ्खचक्राभया वामे सा चेयं विलसद्भुजा ।

कृष्णवर्णा तु वाराही शूकरास्या महोदरी ॥

वरदा दण्डिनी खड्गं बिभ्रती दक्षिणे सदा ।

खेटपाशाभया वामे सैव चापि लसद्भुजा ॥

ऐन्द्री सहस्रदृक् सौम्या हेमाभा गजसंस्थिता ।

वरदा सूत्रिणी वज्रं बिभ्रत्य् ऊर्ध्वं तु दक्षिणे ॥

वामे तु कलशं पात्रं त्व् अभयं तद् अधः करे ।

चामुण्डा प्रेतगा रक्ता विकृतास्याहिभूषणा ॥

दंष्ट्राग्रा क्षीणदेहा च गर्ताक्षी भीमरूपिणी ।

दिग्बाहुः क्षामकुक्षिश् च मुशलं कवचं शरम् ॥

[८४] अङ्कुशं बिभ्रती खड्गं दक्षिणे त्व् अथ वामतः ।

खेटं पाशं धनुर् दण्डं कुठारं चेति बिभ्रती ॥

चण्डीका श्वेतवर्णा स्यात् शवारूढा च षड्भुजा ।

जटिका वर्तुलत्र्यक्षा वरदा शूलधारिणी ॥

कर्णिकां बिभ्रती दक्षे पानपात्राभयान्य् अतः ।

इत्य् एवं मातरं प्रोक्ता रूपभेदव्यवस्थया ॥

इति ब्राह्म्यादिमातृरूपम् ।

गौर्यादिमातरस् तु भविष्यत्पुराणे निरूपिताः ।

गौरी पद्मा शची मेधा सावित्री विजया जया ।

देवमाता स्वधा स्वाहा तथान्या लोकमातृकाः ॥

धृतिः पुष्टिस् तथा तुष्टिर् आत्मदेवतया सह ।

पूज्याश् चित्रे ऽथ वार्चायां वरदाभयपाणयः ॥

नान्दीमुखमातरः ।

नवपद्मान्विते स्थाने पूज्या दुर्गा स्वमूर्तितः ।

आदौ मध्ये तथेन्द्रौ नवतत्वाक्षरैः क्रमात् ॥

अष्टादश भुजैका तु पीनवक्षोरुहोरुका ।

सर्वालङ्कारसंयुक्ता सर्वसिद्धिप्रदायिनी ॥

मूर्धजं खेटकं घण्ठाम् आदर्शं तर्जनीधनुः ।

ध्वजं डमरुकं पाशं बिभ्रति वामपाणिभिः ॥

शक्तिमुद्गरशूलानि वज्रं शङ्खम् अथाङ्कुशम् ।

[८५] शलाकां मार्गणं चक्रं दधाना दक्षिणैः करैः ॥

जयम् इच्छद्भिर् इत्य् एताः पूजनीया महात्मभिः ।

शेषाः षोडशहस्ताश् च शलाका मार्गणं विना ॥

रुद्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ।

चण्डा चण्डवती चैव चण्डरूपातिचण्डिका ॥

नवमी चोग्रदण्डा च मध्यस्था वह्निसन्निभा ।

रोचना वारुणा कृष्णा नीला शुक्ला च धूम्रिका ॥

पीता च पाण्डुरा ज्ञेया आनीडस्वा हरिस्थिता ।

महिषस्था सशस्त्रीका दैत्यमूर्धजमुष्टिका

पद्माकृती रथस्थाप्या इत्य् उक्तं स्कन्दयामले ।

इति नवदुर्गायाः ।

वृत्तस्था जटिला आक्षाः वह्निज्वालासमप्रभा ।

कपालाभयहस्तोग्रा वामा वामफलप्रदा ।

द्विबाहुर् एकवक्त्रैषा विधातव्या विपश्चिता ॥

वामा ।

पाटलाभा भवेद् अष्टाकपालवरधारिणी ।

उग्रा महाब्राला (?) भूत्यै शत्रुघ्नी शेषपूर्वजा ॥

ज्येष्ठा ।

रक्तवस्त्रा तथा रौद्री कपालचमरीकरा ।

शेषपूर्वा तु विज्ञेया कृष्णवक्त्रा सुभोषणा ॥

रौद्री ।

घनश्यामा ततः काली ताम्ररक्तनिभानना ।

कपालकर्णिकाहस्ता विज्ञेया भयनाशिनी ॥

[८६] काली ।

नीलशुभ्रा महादेवी विकर्णी कलपूर्विका ।

कपालशक्तिहस्तेयं भयहृच् च शुभप्रदा ॥

कलविकर्णी ।

बभ्रुवर्णा विशालाक्षी कपालजपमालिका ।

बिभ्राणा शान्तिदा भूत्यै बलपूर्णा विकर्णिका ॥

बलविकर्णिका ।

ताम्राभा श्वेतवर्णा स्यात् बलप्रमथनी शुभा ।

कपालपाशिनी चेयं सर्वशत्रुक्षयङ्करी ॥

बलप्रमथनी ।

जया कुसुमवर्णाभा दंष्ट्रिणी च महोदरी ।

कपालवज्रिणी भूतदमनी सर्वपूर्विका ॥

सर्वभूतदमनी ।

नीलताम्रारुणाभासा पृथुवक्त्रा मनोन्मनी ।

कपालखड्गिनी भूत्यै शत्रूणां भयवर्धनी ॥

मनोन्मनी विश्वकर्मशास्त्रात् ।

अक्षसूत्रं च कुण्डीं च हृदयाग्रे पुटाञ्जलिम् ।

पञ्चाग्निकुण्डमध्यस्था कृष्णान्ताम् अनुधारयेत् ॥

कृष्णा ।

अक्षसूत्रं च कमलं दर्पणं च कमण्डलुम् ।

उमा बिभर्ति हस्ते तु पूजिता त्रिदशैर् अपि ॥

उमा ।

अक्षसूत्रं शिवं देवगणाध्यक्षं कमण्डलुम् ।

[८७] अस्निकुण्डद्वयं पार्श्वे पार्वती पर्वतोद्भवा ॥

पार्वती मार्कण्डेयपुराणे ।

सा भिन्नाञ्जनसङ्काशा दंष्ट्राङ्कितवरानना ।

विशाललोचना नारी बभूव तनुमध्यमा ॥

खड्गपात्रशिरःखेटैर् अलङ्कृत्य चतुर्भुजा ।

कबन्धहारशिरसा बिभ्राणां हि शिरःस्रजम् ॥

महाकाली । सैव शिवरात्रिः विष्णुधर्मोत्तरात् ।

लम्बोदरी तु कर्तव्या रक्ताम्बरपयोधरा ।

शूलहस्ता महाभागा भुजप्रहरणा तथा ॥

कार्पासकलुषा देवी वारुणी चातिसुन्दरी ।

बृहन्नखा च कर्तव्या बहुबाहुस् तथैव च ॥

चामुण्डा कथिता चैव सर्वसत्ववशङ्करी ॥

वारुणी चामुण्डा ।

तथैवार्तमुखी शुष्का शुष्ककाया विशेषतः ।

बहुबाहुयुता देवी भुजगैः प्रिवेष्टिता ॥

कपालमालिनी भीमा तथा खत्वाङ्गधारिणी ।

[८८] शिवदूती तु कर्तव्या शृगालवदना शुभा ॥

आलीढासनसंस्थाना तथा राजंश् चतुर्भुजा ।

असृक्पात्रधरा देवी खड्गशूलधरा तथा ॥

चतुर्थस् तु करस् तस्यास् तथा कार्यस् तु सामिषः ।

शिवदूती मत्स्यपुराणे ।

कात्यायन्याः प्रवक्ष्यामि रूपं दशभुजं तथा ।

त्रयाणाम् अपि देवानाम् अनुकारानुकारिणी ॥

जटाजूटसमायुक्ताम् अर्धेन्दुकृतलक्षणाम् ।

लोचनत्रयसंयुक्तां पूर्णेन्दुसदृशाननाम् ॥

अतसीपुष्पसङ्काशां सुप्रतिष्ठां सुलोचनाम् ।

नवयौवनसम्पन्नां सर्वाभरणभूषिताम् ॥

सुचारुदर्शणां तद्वत् पीन्ōन्नतपयोधराम् ।

त्रिभागस्थानसंस्थानां महिषासुरमर्दिनीम् ॥

त्रुशूलं दक्षिणे दध्यात् खड्गं चक्रं तथैव च ।

तीक्ष्णं बाणं तथा शक्तिर् वामतो विनिबोधत ॥

खेटकं पूर्णपात्रं च पाशम् अङ्कुशम् एव च ।

घण्टां च परशुं चापि चामरं सन्निवेशयेत् ॥

अधस्थान् महिषं विन्द्याद् विशिरस्कं प्रदर्शयेत् ।

शिरश्छेदोद्भवं तद्वद् दानवं खड्गपाणिनम् ॥

हृदिशूलेन निर्बिन्नं तिर्यग्वृत्तिविभूशणम् ।

[८९] रक्तरक्तीकृताङ्गं च रक्तविस्तारितेक्षणम् ॥

वेष्टितं नागपाशेन भ्रूकुटीभीषणाननम् (?) ।

वमद्रुधिरवक्त्रं च देव्याः सिंहं प्रदर्शयेत् ॥

इति कात्यायन्याः ।

मयदीपिकायाम् ।

    सिंहारूढाम्बिका त्र्यक्षा भूषिता दर्पणोद्वहा ।

वामभुजे दर्पणोद्वहा दक्षिणवरयुक्ता । तद् अयुक्तम् ।

निशा युद्धे करे प्रोक्तो वरः साधारणः सदा ।

अभयं चेति ।

खड्गखेटधरा द्वाभ्यां कर्तव्या च चतुर्भुजा ।

अम्बिकायाः लक्षणसमुच्चये ।

दशबाहुस् त्रिनेत्रा च शस्त्रशक्यसिडामरुम् ।

बिभ्रती दक्षिणे हस्ते वामे घण्टां च खेटकम् ।

खट्वाङ्गं च त्रिशूलं च देवी योगेश्वरी मता ॥

योगेश्वर्याः ।

एवंरूपा भवेद् अन्या पाशाङ्कुशयुतारुणा ।

भैरव्याख्या यदीष्टा तु भुजैर् द्वादशभिर् युता ॥

भैरव्या विश्वकर्मशास्त्रात् ।

[९०] कमण्डल्वक्षसूत्रे च बिभ्रती वज्रम् अङ्कुशम् ।

गजासनस्थिता रम्भा सुरूपा सर्वकामदा ॥

रम्भायाः देवीपुराणे ।

शिवा वृषासना कार्या त्रिनेत्रा वरपाणिका ।

उभरूरगधारी च त्रिशूलाभयदायिका ॥

शिवायाः ।

सुमध्यां कारयेत् कीर्तिं नीलोत्पलव्यवस्थिताम् ।

सर्वाभरणभूषाङ्गीं कलशोत्पलधारिणी ।

मदिरोदनगन्धा या महार्घमणिभूषणा ॥

तुष्टिः ।

सिद्धिर् देवी प्रकर्तव्या सिद्धार्थकवरप्रदा ।

सितचन्दनगन्धा या सितप्ङ्कजभूषिता ॥

सितासनस्थिता देवी प्रतिहारोपशोभिता ।

सिद्धिः ।

सुन्दरीं कारयेद् ऋद्धिं पर्यङ्कासनसंस्थिताम् ।

दर्पणालोकसुमनां तिलकालकभूषिताम् ।

मालाचामरशोभाढ्यां वेणुवीणासदाप्रियम् ॥

ऋद्धिः ।

क्षमा तु सुमुखी कार्या योगपट्टोत्तरीयका ।

पद्मासनकृताधारा वरदोद्यतपाणिका ॥

शूलमेखलसंयुक्ता प्रशान्ता योगसंस्थिता ॥

क्षमा ।

सुसिद्धा वैष्णवी कार्या खङ्कचक्रगदाम्बुजा ।

वनमालाकृतापीडा पीतवस्त्रा सुशोभिता ॥

[९१] वैष्णवी ।

ऐन्द्री सुरवराध्यक्षा गजराजोपरिस्थिता ।

वज्राङ्कुशधरा देवी हारकेयूरभूषिता ॥

ऐन्द्री ।

वैवस्वती प्रकर्तव्या दुर्धरा महिषोपरि ।

शूकरास्या कपाले ऽसृक्पिबन्ती दण्डधारिणी ॥

याम्या ।

तेजोधिका प्रकर्तव्या दीप्तिश् चन्द्रासनस्थिता ॥

दीप्तिः ।

कमनीया रतिः कार्या वसन्तोज्वलभूषणा ।

नृत्यमाना शुभा देवी समस्ताभरणैर् युता ॥

वीणावादनशीला च मदकर्पूरचर्चिता ।

दण्डाक्षसूत्रधरा च व्रतस्थायोगसं स्थिता ॥

रतिः ।

श्वेता पूर्णेन्दुसदृशा श्वेतपङ्कजसंस्थिता ॥

श्वेता ।

भद्रा सुभद्रा कर्तव्या भद्रासनव्यवस्थिता ।

नीलोत्पलफलहस्ता शूलसूत्राक्षधारिणी ॥

भद्रा ।

सिंहासनस्थिता देवी जटामुकुटमण्डिता ।

शूलाक्षसूत्रधरा च वरदा भयचापधृक् ॥

दर्पणं शरखेटं च खड्गचन्द्रधरा शिवा ।

सुरूपा लक्षणोपेता सुस्तनी चारुभाषिणी ।

सर्वाभरणभूषाङ्गी सर्वशोभासनान्विता ॥

मङ्गला ।

जयां च विजयां कुर्यात् शूलपद्माक्षधारिणीम् ।

वरोद्यतां च सिंहस्थां सर्वकर्मप्रसाधिणीम्॥

विजया ।

काली करासरूपा च चण्डपाशोद्यता भवेत् ।

[९२] काली ॥

घण्टाकर्णी प्रकर्तव्या घण्टात्रिशूलधारिणी ।

घण्टाकर्णी ।

जयन्ती सुन्दरी कर्या कुन्त्शूलासिधारिणी ।

खेटकव्यग्रहस्ता च पूजनीया सुभान्वितैः ॥

जयन्ती ।

दितिर् दैत्यनुता देवी यदा पूज्या महामुने ।

दण्डासनस्थिता भद्रा सर्वाभरणभूषिता ॥

फलनीलोत्पलकरा चोत्सङ्गशिशुभूषिता ॥

दितिः ।

अक्रोधा रुन्धती देवी सितवस्त्रा वर्तस्थिता ।

पत्रपुष्पोदककरा चन्दनेन सुचर्चिता ॥

अरुन्धती ।

अपराजिता च कर्तव्या सिंहारूढा महाबला ।

पिनाकेषु करा चैव खड्गखेटकधारिणी ।

त्रिनेत्रेन्दुजटाभारा कृतवासुकिकङ्कणा ॥

अपराजिता ।

कौमारी चैव कर्तव्या मयूरासनशक्तिभृत् ।

त्रिदण्डी कालरूपा च रक्तमाल्या सकुक्कुटा ॥

कौमारी मयदीपिकायाम् चतुःषष्टिरोगिनीरूपाणि ।

[९३] वज्रस्थाभयभृद् याम्ये कारयेत् खेटकभृत् ततः ।

हेमभूषणभूषा स्याद् अक्षोभ्या करिसंस्थिता ॥

अक्षोभ्या (१) ।

अक्षकर्णी तु गौराङ्गी कम्बुवाणाभयावहा ।

धनुःकपालभृत् सौम्ये ऋक्षस्था तर्जनीस्थिता ॥

ऋक्षकर्णी (२) ।

राक्षसी हेमवर्णा स्याच् चारुगात्री वृषस्थिता ।

कुटाराशनिभृद् याम्ये वामे पाशाङ्कुशान्विता ॥

राक्षसी (३) ।

क्षपणा चम्पकछाया दक्षिणे मुद्गराङ्कुशा ।

कपालं च फलं सव्ये धत्ते कुञ्जास्थिसंस्थिता ॥

क्षपणा (४) ।

क्षया कूर्मस्थिता गौरी जपस्था सा घटान्विता ।

वामे कपालपिण्डाभृत् सर्वालङ्कारभूषिता ॥ ५ ॥

पिङ्गाक्षी स्याद् बभ्रुवर्णा त्रिनेत्रा च हयस्थिता ।

कौशेयपाशभृद् याम्ये वामे वाङ्कुशखेटिनौ ॥

पिङ्गाक्षी (६) ।

अक्षया हेमवर्णा स्याच् चारुगात्री वृकस्थिता ।

कुठारखड्गभृद् याम्ये वामे पाशाङ्कुशान्विता ॥

[९४] अक्षया (७) ।

क्षया तु शवगा पीता शक्तिभिन्दिधनुःकरा ।

याम्ये डमरुशूलेषु वस्तभृत् मृगसंस्थिता ॥

क्षया (८) ।

शक्तिखड्गधरा त्र्यक्षा खेटपाशकपालिनी ।

रक्ता बहिःस्थिता वाला क्रीडन्ती दहनैः सह ॥

वाला (९) ।

लीला लीलावती रक्ता दक्षपाणिजयान्विता ।

बिभ्राणा पट्टिसम्पाशं वामे मस्तार्धम् अम्बुजम् ॥

लीला (१०) ।

वृषारूढा जया रक्ता याम्ये दण्डासिधारिणी ।

कर्तरीकार्धभृद् वामे तर्जन्यासक्तसिक्थका ॥

लया (११) ।

कर्तरी मार्जनी याम्ये सम्ये पिडनकङ्करे ।

शूलं रुरुयुतं द्वाभ्यां धत्ते लोला तु सारदा ॥

लोला (१२) ॥

वामे लुलापमुण्डं च तत् पिबन्त्य् असृक् रक्तिका ।

लङ्के शोरस्थिता लङ्का खादन्ती पिशितं धनम् ॥

[९५] लङ्का (१३) ।

त्रिफला शाकखोटादामोदकाशी च दक्षिणे ।

शोणालङ्केश्वरी कुम्भे डिम्भाभूर्वोस् तु बिभ्रती ॥

लङ्केश्वरी (१४) ।

दक्षिणे वरदं चक्रे वामे कङ्कणकङ्करे ।

बिभ्राणकोलगा रक्ता लालाऋग्लालसा मता ॥

लालसा (१५) ।

द्वीपिस्था विमला रक्ता त्र्यक्षालङ्कारभूषिता ।

कर्तरीकुम्भभृद् याम्ये वामे पाशकपालिनी ॥

विमला (१६) ।

कृष्णा हुताशनाञ्जस्था ज्वालिनी दक्षिणे शुभा ।

वामे त्व् अभयहस्ता स्याद् विष्टराज्यघटान्विता ॥

हुताशना (१७) ।

शूकरास्या विशालाक्षी त्रिसन्धस्थापितेतरा ।

घण्टावाद्यकरा सौम्ये याम्ये कर्तरिकाभया ॥

विशालाक्षी (१८) ।

हुङ्कारा मीनवक्त्रा स्यात् मीनगा साक्षमालिनी ।

मुशलं बिभ्रती वामे सौम्ये तु फलपल्लवौ ॥

हुङ्कारा (१९) ।

अङ्गाभ्यां बिभ्रती वालौ पर्यङ्के वडवामुखी ।

[९६] समत्स्यकूर्मभृद् याम्ये कृष्णा नीलधरान् यतः ॥

वडवामुखी (२०) ।

तर्जन्यभयभृत् सौम्ये याम्ये दण्डकपालिनी ।

कृष्णा हाहारवा क्रूरा रासभस्था खरस्थिता ॥

हाहारवा (२१) ।

लुलापास्या लुलापस्था महाक्रूरा सितेतरा ।

वामे ऽस्याः पाशमेलाञ्जं दक्षिणे दण्डलेखनी ॥

महाक्रूरा (२२) ।

असिता क्रोधना याम्ये खादन्ती मांसमण्डकम् ।

वामे विद्युज्जिह्वा क्रूरा सव्ये सीरकपालिनी ।

चक्रस्था कर्णे मदिरं बिभ्रती जम्बुकस्थिता ॥

क्रोधना (२३) ।

कृष्णा भयानना गृध्री दंष्ट्रोग्रास्थिविभूषणा ।

याम्ये स्यात् शिखरं शूलं घर्घरं लेलिहान्यतः ॥

भयानना (२४) ।

त्रिशूलपृष्ठभृद् वामे मुण्डं डमरुकं शवम् ।

बिभाणा भाजनं द्वाभ्यां सर्वज्ञा प्रेतगा सिता ॥

सर्वज्ञा (२५) ।

जानुक्षिप्तौ करौ कृत्वा उद्यन्ती तरलायते ।

शूलडमरुहस्ता च गोधाङ्गा तरला सिता ॥

[९७] तरला (२६) ।

तारा तारगुणैर् युक्ता कौशिकस्था सितेतरा ।

धत्ते शवार्धके सौम्ये शूलमुद्गरम् अन्यतः ॥

तारा (२७) ।

कृष्णा पद्मस्थिता दक्षे ज्ञानमुद्राक्षमालिनी ।

ऋग्वेदं वामतो धत्ते पुस्तकं च कमण्डलुम् ॥

कृष्णा (२८) ।

रौद्रा कृष्णा तुरङ्गास्या कबन्धस्था हयानना ।

मुण्डशूर्पधरा याम्ये सम्ये संहारिकाङ्कभृत् ॥

हयानना (२९) ।

छिन्नहस्ता शवाकृष्टा सारा स्थूला जटाधरा ।

खट्वाङ्गं डमरुं सौम्ये शूलौल्के बिभ्रती ततः ॥

शवस्था रससङ्ग्राही नृत्यन्ती जटिला सिता ।

कुशूलान् चक्रकङ्कालान् बिभ्रती चर्मवासिनी ॥

रससङ्ग्राही (३०) ।

सदेवकद्विजासक्ता कनिष्ठा शबरालिभा ।

वामे करोपधानासिधरा उल्काधरान् यतः ॥

[९८] शबरा (३१) ।

स्फटिकाभा गरुत्मस्था सुकान्ता तालुजिह्विका ।

शङ्खखेटकहस्ताग्रा याम्ये स्वस्तिकखड्गभृत् ॥

तालुजिह्विका (३२) ।

रक्ताक्षी वाहनारूढा रक्तपाना शशिप्रभा ।

गदाखड्गधरा याम्ये वामे पाशकपालभृत् ॥

रक्ताक्षी (३३) ।

विद्युज्जिह्वा सिता क्रूरा सव्ये सीरकपालिनी ।

चक्रस्वरचक्रकर्तरि धारिणी दक्षिणे करे ॥

विद्युज्जिह्वा (३४) ।

ग्राहस्था चामरछत्रभृद् दृतिद्वयसंयुता ।

कुम्भपाशधरा श्वेता क्रोधपुत्रा करङ्किनी ॥

करङ्किनी (३५) ।

मेघनादा तु चन्द्राभा खड्गखेटकधारिणी ।

जालैर् वृता घनारूढा तडिन्मण्डलसन्निभा ॥

मेघनादा (३६) ।

प्रचण्डोग्रा तु नक्रस्था याम्ये स्याः कर्तरीफलम् ।

कपालं मुण्डम् अन्यत्र शत्रुघ्ना स्फटिकप्रभा ॥

प्रचण्डोग्रा (३७) ।

शुक्लवृषासना रौद्रा बिभ्रत्य् अञ्जाक्षसूत्रकम् ।

[९९] कालकर्णी जगत्ख्याता कर्णिकालविभूषणा ॥

कालकर्णी (३८) ।

कर्तरीम् अभयं याम्ये धत्ते श्वेता वरप्रदा ।

वृषदंशसमारूढा पूर्णपात्रधरान् यतः ॥

वरदा (३९) ।

चन्द्रहासा स्थिता गौरी वेदास्या दोर्द्वयोः क्रमात् ।

कमण्डल्वङ्कुशव्यग्रा मन्त्रमाला श्रुचान्विता ॥

चन्द्रहासा (४०) ।

चन्द्रवली तु हेमाभा हेमसिंहासनस्थिता ।

याम्ये ऽक्षमाला मालाभृत् शेषे ऽञ्जध्वजधारिणी ॥

चन्द्रावली (४१) ।

फलस्रगन्विता याम्ये कुन्तकुण्डीधरान् यतः ।

रौक्ममाला प्रपञ्चास्या गौरी विश्वप्रपञ्चिका ॥ ४२ ॥\

मर्कटस्था प्रशाख्याख्यां बिभ्रतीं करयोर् द्वयोः ।

खादन्त्य् आम्रफलं हृष्टा गौराङ्गी वानरानना ॥

प्रपञ्चिका (४३) ।

पिचुवक्त्रा मृगव्याली पिङ्गाक्षी याम्यसौम्ययोः ।

भिन्दिपालकखेटाभ्यां पाशासिभ्यां च संयुता ॥

[१००] पिचुवक्त्रा (४४) ।

काकास्या श्येनगा गौरी पिशाची रक्तमण्डिता ।

कङ्कालकर्तरी खड्गं बिभ्रती याम्यसौम्ययोः ॥

पिशाची (४५) ।

फलतूलधरा वामे सौम्ये शस्त्रासिधारिणी ।

खड्गस्था बभ्रुवर्णा स्यात् पिशिताशातिदुर्बला ॥

पिशिताशा (४६) ।

नृत्यन्ती लोलुपा पीना खरस्था याम्यसौम्ययोः ।

खड्गडमरुकर्तरौ (?) पाशं चैव तु बिभ्रती ॥

लोलुपा (४७) ।

वमनी पुष्पकस्था स्यात् गौरी यक्षगणान्विता ।

गदापट्टिशभृत् सौम्ये स्थूलतोमरिणी ततः ॥

वमनी (४८) ।

तपनी सर्पगा गौरी वराङ्गी पन्नगानना ।

स्वकर्णे यानयोर् भोगे न्यस्तहस्तोग्ररूपिणी ॥

तपनी (४९) ।

पीता महाखुगा या स्यात् वामनी बिभ्रती करे ।

कुठारं लगुडं वामे ऽक्षमालां पनसं ततः ॥

[१०१] वामनी (५०) ।

शूलभिन्नलुलापाश्या सिंहाकृष्टशरीरिणी ।

जिह्वे द्वे बिभ्रती चैव चतुर्धा विकृतानना ॥ ५१ ॥

शङ्खपूरणिका द्वाभ्यां वृकाभयधरा द्वयोः ।

द्विसिंहरथसंस्था स्यात् तालाभा वायुवेगिका ॥ ५२ ॥

भासस्थिता बृहत्कुक्षिः सौम्ये मुण्डकपालभृत् ।

गौरी महातनुः शौर्ये कररीपट्टिकादनी ॥

बृहत्कुक्षिः (५३) ।

उष्ट्रस्था विकृता गौरी भकृद् विकृतानना ।

तूणं च् डमरुं याम्ये सौम्ये खड्गाङ्गमस्तकम् ॥

विकृता (५४) ।

खेटकं खड्गभृद् वामे गदाचक्रासिभृत् ततः ।

वनमालावती पीता तार्क्ष्यस्था विश्वरूपिका ॥

विश्वरूपिका (५५) ।

मुशलं मुद्ग्रं याम्ये परशुं बन्धनं ततः ।

बिभ्रती यमजिह्वा स्यात् कराला महिषस्थिता ॥

यमजिह्वा (५६) ।

नृत्यन्ती खरगा श्वेता याम्ये डमरुतूलभृत् ।

सदैत्य शैले मुण्डोग्रा जयन्ती वामहस्तयोः ॥

[१०२] जयन्ती (५७) ।

श्वारूढा दुर्जया श्वेता रौद्री भूतगणावृता ।

खड्गकुन्तोद्यतकरा दुर्गकाननवामिनी ॥

दुर्जया (५८) ।

असकृत् खेटिनीदोर्भ्यां चतुर्द्योर् याम्यसौम्ययोः ।

शूलबाणधरा याम्ये धनुःशक्तिकरोन्यतः ॥

यमाङ्किका (५९) ।

शकटस्थातिघोरास्या क्षीरवर्णा यमान्तिका ।

मार्जारस्था बिडाली च बिडालाक्षी भवेत् सिता ॥

बिडाली (६०) ।

वामे तूणं च खट्वाङ्गं शूलण्टङ्कञ्चबिभ्रती ।

कृशा पिशाचवक्रोग्रा कपालस्था च रेवती ॥

रेवती (६१) ।

कुशूल्यष्टिभृद् वामे भिन्दिमालाकपालभृत् ।

कुण्डाभा पूतना त्र्यक्षा विकृतास्या शवस्थिता ॥

पूतना (६२) ।

कर्तरीशूलभृद् याम्ये वामे मुण्डकपालिनी ।

श्वेतवर्णा वृषारूढा विजया विजयप्रदा ॥

विजयन्तिका (६३) ।

[१०३] विष्णुधर्मोत्तरात् ।

ब्रह्माणं कारयेद् विद्वान् देवं सौम्यं चतुर्भुजम् ।

बद्धपद्मासनं तुष्टं तथा कृष्णाजिनाम्बरम् ॥

जटाधरं चतुर्बाहुं सप्तहंसरथस्थितम् ।

वामे न्यस्तेतरकरं तस्यैकं दोर्युगं भवेत् ॥

एतस्मिन् दक्षिणे पाणाव् अक्षमाला तथा शुभा ।

कमण्डलुं द्वितीये च सर्वाभरणधारिणम् ॥

सर्वलक्षणयुक्तास्यं शान्तिरूपस्य पार्थिव ।

पद्मपत्रदलाग्राभं ध्यान्सम्मीलितेक्षणम् ।

अर्चायां कारयेद् देवं चित्रे वा वास्तुकर्मणि ॥

ब्रह्मा ।

पद्मपत्रासनस्थश् च ब्रह्मा कार्यश् चतुर्मुखः ।

सावित्री तस्य कर्तव्या वामोत्सङ्गगता तथा ॥

आदित्यपुराणे ।

आदित्यवर्णा धर्मज्ञा साक्षमालकरा तथा ।

रूपं पूर्वोदितं कार्यं रूपम् अन्यज् जगत्पतेः ॥

प्रजापतिः ।

हंसयाने क कर्तव्यो न कार्यश् च चतुर्मुखः ।

ब्रह्माख्यम् अपरं रूपं सर्वं कार्यं प्रजापतेः ॥

अक्षसूत्रं पुस्तकं च धत्ते पद्मं कमण्डलुम् ।

चतुर्षक्ता तु सावित्री श्रोत्रियाणां गृहे हिता ॥

[१०४] लोकपालब्रह्मा ।

विश्वकर्मा तु कर्तव्यः सुररूपधरः प्रभुः ।

सन्दंशपाणिर् द्विभुजस् तेजोमूर्तिधरो महान् ॥

विश्वकर्मा ।

चतुर्वक्रश् चतुष्पादश् चतुर्बाहुः सिताम्बरः ।

सर्वाभरणवान् श्वेतो धर्मः कार्यो विजानता ॥

दक्षिणे चाक्षमाल च तस्य वामे च पुस्तकम् ।

मूर्तिमान् व्यवसायस् तु कार्यो दक्षिणभागतः ॥

वामभागे ततः कार्यो वृषः परमरूपवान् ।

कार्यो पद्मकरौ मूर्ध्नि विन्यस्तौ तु तथा तयोः ॥

धर्मः विश्वकर्मशास्त्रात् ।

ऋग्वेदः श्वेतवर्णः स्याद् द्विभुजो रासभाननः ।

अक्षमालामयः सौम्यः प्रीतश् चाध्ययनोद्यतः ॥

ऋग्वेदः ।

नीलोत्पलदलाभासः सामवेदो हयाननः ।

अक्षमालान्वितो दक्षे वामे कम्बुधरः स्मृतः ॥

सामवेदः ।

अजास्यः पीतवर्णः स्याद् यजुर्वेदो ऽक्षसूत्रधृक् ।

[१०५] वामे कुलिशपाणिस तु भूतिदो मङ्गलप्रदः ॥

यजुर्वेदः ।

अथर्वआण्भिधो वेदो धवलो मर्कटाननः ।

अक्षसूत्रं च खट्वाङ्गं बिभ्राणो ऽयं जयप्रियः ॥

अथर्ववेदः ।

शिक्षा शुभ्राभयकरा ज्ञानमुद्रान्विता शुभा ।

अक्षसूत्रा सकुण्डीका द्विभुजा दण्डपङ्कजा ॥

शिक्षा ।

कल्पस् तु कुमुदाभासो वायसास्यो महोदरः ।

दण्डी कुण्डीधरो ऽब्जस्थो मेखलाकुण्डलान्वितः ॥

कल्पः ।

सितं व्याकरणं ज्ञेयं मयूरास्यं कटोदरम् ।

वीणाकजान्वितं दिव्यं दिव्यवस्त्रविभूषितम् ॥

व्याकरणम् ।

इन्दुवन् निर्मलं शान्तं बकवक्त्रं कृशोदरम् ।

पाशपङ्कजहस्तं स्याच् चाक्षसूत्रं सपुस्तकम् ।

निरुक्तम् इति निर्णीतं छन्दोनिर्णीयते ऽधुना ॥

निरुक्तम् ।

जवाकुसुमसङ्काशं छन्दो ज्ञेयं विपश्चिता ।

[१०६] चकोरास्यं जपाकं तु शक्तिं बिभ्रच् छिकान्वितम् ।

लोहकुण्डलकोपेतं प्रवालकृतकुण्डलम् ॥

छन्दः ।

ज्योतिषं तु बिडालास्यम् इन्द्रगोपनिभं शुभम् ।

अक्षसूत्रं कजं बिभ्रद् धस्तयोर् दक्षवामयोः ॥

ज्योतिषम् ।

सोमकान्तिसमाभासं मीमांसाशास्त्रम् उत्तमम् ।

अक्षसूत्रं दधद् दक्षे सुधापूर्णघटं करे ॥

मीमांसा।

अतसीपुष्पसङ्काशो न्यायो ज्ञ्येओ विपश्चिता ।

सिंहास्यो दक्षिणे सूत्रं ध्वजं वामकरे दधत् ॥

न्यायः ।

धर्मशास्त्रं सितं शाण्=न्तं चाषवक्त्रं कजासनम् ।

मुक्ताजपाङ्कधृग् दक्षे तुलाहस्तं तु वामतः ॥

धर्मशास्त्रम् ।

पुराणं चम्पकाभासं शुकवक्त्रं चतुर्दलम् ।

अक्षसूत्रत्रये ज्ञेयं नानाभरणभूषितम् ॥

इतिहासः कजाभासः शूकरास्यो महोदरः ।

अक्षसूत्रं घटं विभ्रत् पङ्कजाभरणान्वितः ॥

[१०७] इतिहासः ।

पीतवर्णो धर्नुर्वेदः पिकवक्त्रो महातनुः ।

रत्नमालावलिं धत्ते मन्त्रके भूषिता जटाः ॥

धनुर्वेदः ।

आयुर्वेदो हरिद्राभो वानरास्यो विशालदृक् ।

अक्षसूत्रं सुधाकुम्भं बिभ्रद् आरोग्यदो भृशम् ॥

आयुर्वेदः ।

नृत्यशास्त्रं सितं रम्यं मृगवक्त्रं जटाधरम् ।

अक्षसूत्रं त्रिशूलं च बिभाणश् च त्रिलोचनम् ॥

नृत्यशास्त्रम् ।

पञ्चशास्त्राभिधं शास्त्रं धवलं वृषभाननम् ।

अक्षसूत्रं हलं धत्ते वनमालाविभूषितम् ॥

पञ्चशास्त्रम् ।

शास्त्रं पाशुपतं शुभ्रं व्यालवक्त्रं कृशोदरम् ।

सूत्रपात्रधरं भीमं व्याघ्रचर्माम्बरावृतम् ॥

पाशुपतम् ।

पातञ्जलाभिधं रक्तं सर्पवक्त्रं सुतेजसम् ।

अक्षसूत्रं पृडाकुं च दारयन् कुण्डलान्वितम् ॥

[१०८] पृदाकुः सर्पः । पातञ्जलम् ।

साङ्ख्यं तत् कपिलं बभ्रुवक्रम् उज्वलतुन्दिलम् ।

जाप्यदण्डधरं दीर्घं नखलोमजटाधरम् ॥

साङ्ख्यम् ।

अर्थशास्त्रं भवेद् गौरं सारिकाचन्दनं शुभम् ।

अक्षसूत्रं फलं बिभ्रद् अन्नहारं कमण्डलुम् ॥

अर्थशास्त्रम् ।

विद्या ॥ ३३ ॥

विष्णुधर्मोत्तरात् ।

ऋग्वेदस् तु स्मृतो ब्रह्मा यजुर्वेदस् तु वसवः ।

सामवेद्स् तथा विष्णुः शम्भुश् चाथर्वणो भवेत् ॥

शिक्षा प्रजापतेर् ज्ञेयः कल्पो ब्रह्मा प्रकीर्तितः ।

सरस्वती व्याकरणं निरुक्तं वरुणः प्रभुः ॥

छन्दो विष्णुस् तथैवाग्निर् ज्योतिषं भगवान् रविः ।

मीमांसा भगवा सोमो न्यायमार्गो समीरणः ॥

धर्मश् च धर्मशास्त्राणि पुराणं च तथा मनुः ।

इतिहासः प्रजाध्यक्षो धनुर्वेदः शतक्रतुः ॥

आयुर्वेदस् तथा साक्षाद् देवओ धन्वन्तरिः प्रभुः ।

कलावेदं मही देवी नृत्यशास्त्रं महेश्वरः ॥

सङ्कर्षणः पञ्चरात्रं रुद्रः पाशुपतं तथा ।

पातञ्जलम् अनन्तश् च साङ्गां च कपितो मुनिः ॥

[१०९] अर्थशास्त्राणि सर्वाणि धनाध्वज्ञः प्रकीर्तितः ।

कलाशास्त्राणि सर्वाणि कामदेवो जगद्गुरुः ॥

अन्यानि यानि शास्त्राणि यत् कर्माणि प्रचक्षते ।

स एव देवता तस्य शास्त्रं कार्यं च देववत् ॥

अधिदेवता ।अथ मुनिरूपाणि नयसङ्ग्रहे ।

उदासीनाः सोपवीताः कमण्डल्वक्षसूत्रिणः ।

जटिलाः श्वश्रुलाः शान्ताः आसीना ध्यानतत्पराः ॥

सप्तर्षयो वसिष्ठश् च कर्यो भार्यासमन्वितः ।

गौतमश् च भरद्वाजो विश्वामित्रश् च कश्यपः ।

जमदग्निर् वसिष्ठो ऽत्रिः वैवस्वते ऽन्तरे ॥

ऋषयः ।

मरीचिर् अत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।

प्रचेताश् च वसिष्ठश् च भृगुर् नारद एव च ॥

जटिलाः श्मशुलाः शान्ताह् कृशा भ्रमनिसन्तताः ।

कुसुम्भाक्षधराः कार्या मुनयो द्विभुजा दश ॥

नारदो देवगन्धर्वः साक्षसूत्रकमण्डलुः ।

सेव्यो वै वीणया वामभुजमूलोपगूढया ॥

नारदस्य । मुनयो भविष्योत्तरात् ।

अगस्त्यः ।

प्रकृत्या काञ्चनं कारयित्वा शक्त्या तु शोभितम् ।

[११०] पुरुषाकृतिं प्रशान्तं च जटामञ्जुलधारिणम् ॥

कमण्डलुकरं शिष्यैर् मृगैश् च परिवारितम् ।

मृत्युध्रुग् विषहन्तारं दर्भहस्तं वरं मुनिम् ॥

अगस्त्यस्य ।

कर्तव्याः शक्ररूपेण भृगवो नाम देवताः ।

भुवनो भावनश् चैव सुजन्यः सुजनस् तथा ॥

क्रतुः सुवः स्वसुर् नाम व्यजश् च व्यमुनस् तथा ।

प्रसवश् चाव्ययश् चैव दक्षो द्वादशकस् तथा ॥

भृगवो नाम निर्दिष्टा देवा द्वादश यज्ञियाः ॥

बृगवः ।

जीवरूपेण कर्तव्या देवाश् चाङ्गिरसस् तथा ।

आत्मा भ्य् आयुर् मनो दक्षः पदप्राणस् तथैव च ।

हविष्यश् च गविष्ठश् च ऋतः सत्यश् च तेजसः ॥

अङ्गिरसः । विष्णुधर्मोत्तरात् ।

देवदेवं तथा विष्णुं कारयेद् गरूपस्थितम् (?) ।

कौस्तभोद्भासितोरस्कं सर्वाभरणधारिणम् ॥

सजलाम्बुद (?) सछायं पीतदिव्याम्बरं तथा ।

मुखाश् च कार्याश् चत्वारो बाहवो द्विगुणास् तथा ॥

सौम्येन्दवदनं पूर्णं नारसिंहं तु दक्षिणम् ।

कपिलं पश्चिमं वक्त्रं तथा वाराहम् उत्तमम् ॥

[१११] तस्य दक्षिणहस्तेषु बालार्कमुशलाभयाः ।

चर्मसीरवराबिन्दु वामे च वनमालिनः ॥

कार्याणि विष्णोर् धर्मज्ञ वामहस्तेष्व् अनुक्रमात् ॥

अर्कः चक्रं इन्दुः शङ्खः ।

विष्णुः ।

एकवक्त्रो द्विबाहुश् च गदाचक्रधरः प्रभुः ।

लोकपालविष्णुः ।

एकवक्त्रश् चतुर्बाहुः सौम्यरूपः सुदर्शनः ।

पीताम्बरश् च मेघाभः सर्वाभरणभूषितः ॥

कण्ठेन शुभदेशेन कम्बुतुल्येन राजता ।

वराभरणयुक्तेन कुण्डलोत्तरभूषिणा ॥

अङ्गदी बद्धकेयूरो वनमालाविभूषणः ।

उरसा कौस्तुभं बिभ्रत् किरीटं शिरसा तथा ॥

शिरः पद्मस् तथैवास्य कर्तव्यश् चारुकर्णिकः ।

पुष्टिश्लिष्टायतभुजस् तनुस् ताम्रनखाङ्गुलिः ॥

मध्येन त्रिवलीभङ्गशोभितेन सुचारुणा ।

स्त्रीरूपधारिणी क्षौणी कर्या तत्पादम्मध्यगा ॥

तत्करस्थाङ्ग्रियुगलो देवः कार्यो जनार्दनः ।

तालान्तरपदन्यासः किञ्चिन् निष्क्रान्तदक्षिणः ॥

अनुदृश्या मही कर्या देवदर्शितविस्मिता ।

देवश् च कटिवासेन कार्यो जान्ववलम्बिना ॥

[११२] वनमाला च कर्तव्या देवजान्ववलम्बिनी ।

यज्ञोपवीतं कर्तव्यं नाभिदेश्म् उपागतम् ॥

उत्फुल्लकमलं पाणौ कुर्याद् देवस्य दक्षिणे ।

वामपाणिगतं शङ्खं शङ्खाकारं तु कारयेत् ॥

दक्षिणे तु गदा देवी तनुमध्या सुलोचना ।

स्त्रीरूपधारिणी मुग्धा सर्वाभरणभूषिता ॥

पश्यन्ती देवदेवेशं कर्या चामरधारिणी ।

कार्यं तं मूर्ध्नि विन्यस्तं देवहस्तं तु दक्षिणम् ॥

वामभागगतश् चक्रः कार्यो लम्बोदरस् तथा ।

सर्वाभरणसंयुक्तो वृत्तविष्फारितेक्षणः ॥

कर्तव्यश् चामरकरो देववीक्षणतत्परः ।

कार्यं देवकरं रामं विन्यस्तं तस्य मूर्धनि ॥

वसुदेवः ।

वासुदेवस्वरूपेण कार्यः सङ्कर्षणः प्रभुः ।

स तु शुक्लवपुः कार्यो नीलवासा यदूत्तमः ॥

गदास्थाने च मुशलं चक्रस्थाने च लाङ्गलम् ।

कर्तव्यो तनुमधौ तु नृरूपौ रूपसंयुतौ ॥

सङ्कर्षणः ।

वासुदेवस्वरूपेण प्रद्युम्नश् च तथा भवेत् ।

स तु दूर्वाङ्कुरश्यामः सितवासा विधीयते ॥

चक्रस्थाने भवेच् चाप गदास्थाने तथा शरम् ।

[११३] तथाविधौ तौ कर्तव्यौ यथा मुशललाङ्गलौ ॥

प्रद्युम्नः ।

एतद् एव तथा रूपम् अनिरुद्धस्य कारयेत् ।

पद्मपत्राभवपुषो रकाम्बरधरस्य तु ॥

चक्रस्थाने भवेच् चर्म गदास्थाने ऽसिर् एव च ।

चर्म स्याच् चक्ररूपेण प्रांशुः खड्गो विधीयते ॥

चक्रादीनां स्वरूपाणि किञ्चित् पूर्वं सुदर्शयेत् ।

रम्याण्य् आयुधरूपाणि चक्रादीन्य् एव यादव ॥

वामपार्श्वगताः कार्या देवानां प्रवराध्वजाः ।

सुपताकायुता राजन् यष्टिस्थाश् ते यथेरितम् ॥

अनिरुद्धः । विश्वकर्मशास्त्रात् ।

लक्ष्मीरारायणौ कार्यौ संयुक्तौ दिव्यरूपिणौ ।

दक्षिणस्था विभोर् मूर्तिर् लक्ष्मीमूर्तिस् तु वामतः ॥

दक्षिणः कण्ठलग्नो ऽस्या वामो हस्तः सरोजभृत् ।

विभोर् वामकरो लक्ष्म्याः कुक्षिभागस्थितः सदा ॥

सर्वावयवसम्पूर्णा सर्वालङ्कारभूषिता ।

सुष्ठुनेत्रकपोलास्या रूपयौवनसंयुता ॥

सिद्धिः कार्या समीपस्था चामरग्राहिणी शुभा ।

कर्तव्यं वाहनं सव्ये देवाधोभागगं सदा ॥

शङ्खचक्रधरौ तस्य द्वौ कार्यौ पुरुषौ पुरः ।

वामनौ हारकेयूरकीरीटमणिभूषणौ ॥

[११४] उपासकौ समीपस्थौ प्रभोर् ब्रह्मशिवात्मकौ ।

रसनां योगपट्टं च शिखाम् अञ्जलिम् आस्थितौ ॥

लक्ष्मीनारायणौ ।

पद्मासनसमासीनः किञ्चिन् मौलितलोचनः ।

घोणाग्रे दत्तवृत्तिश् च श्वेतपद्मोपरिस्थितः ॥

वामदक्षिणगौ हस्तौ उत्तानाव् एकभागगौ ।

तत्करद्वयपार्श्वस्थे पङ्केरुहमहागदे ॥

ऊर्ध्वे करद्वये तस्य पाञ्चजन्यः सुदर्शनः ।

योगस्वामी स विज्ञेयः पूज्यो मोक्षार्थियोगिभिः ॥

योगेश्वरः । सिद्धार्थसंहितायाम् ।

वासुदेवो गदाशङ्खचक्रपद्मधरो मतः ।

पद्मं शङ्खं गदां चक्रं धत्ते नारायणः क्रमात् ॥

गदां चक्रं तथा शङ्खं पद्मं वहति माधवः ।

चक्रं पद्मं तथा शङ्खं गदां च पुरुषोत्तमः ॥

पद्मं कौमोदकीं शङ्खं चक्रं धत्ते त्व् अधोक्षजः ।

शङ्कर्षणो गदाशङ्खपद्मचकरधरः स्मृतः ॥

चक्रं गदां पद्मशङ्खौ गोविन्दो धरते भुजैः ।

गदां पद्मं तथा शङ्खं चक्रं विष्णुर् बिभर्ति यः ॥

चक्रं शङ्खं तथा पद्मं गदां च मधुसूदनः ।

गदां सरोजं चक्रं च शङ्खं धत्ते ऽच्युतः सदा ॥

[११५] पद्मं कौमोदकीं चक्रम् उप्रेन्द्रः शङ्खम् उद्वहेत् ।

चक्रशङ्खगदापद्मधरः प्रद्युम्न उच्यते ॥

पद्मं कौमोदकीं शङ्खं चक्रं धत्ते त्रिविक्रमः ।

शङ्खं चक्रं गदां पद्मं वामनो वहते सदा ॥

पद्मचक्रं गदां शङ्खं श्रीधरो धरते भुजैः ।

चक्रं पद्मं तथा शङ्खं नरसिंहो बिभर्ति यः ॥

पद्मं सुदर्शनं शङ्खं गदां धत्ते जनार्दनः ।

अनिरुद्धश् चक्रगदाशङ्खपद्मलसद्भुजः ॥

हृषीकेशो गदां चक्रं पद्मं शङ्खं च धारयेत् ।

पद्मनाभो वहेच् छङ्खं पद्मं चक्रं गदां तथा ॥

पद्मच् चक्रं गदां शङ्खं धत्ते दामोदरस् तथा ।

शङ्खं चक्रं सरोजं च गदां वहति यो हरिः ॥

शङ्खं कौमोदकीं पद्मं चक्रं विष्णुर् बिभर्ति यः ।

एताश् च मूर्तयो ज्ञेया दक्षिणाधः करक्रमात् ॥

वासुदेवादिवर्णाः स्युः षट्षड् एते तथाश्रयाः ।

चतुर्विंशतिमूरीनाम् । विष्णुधर्मोत्तरे ।

हंसो मत्स्यस् तथा कूर्मः कर्यास् तद्रूपधारिणः ।

शृङ्गि मत्स्यस् तु कर्तव्यो देवदेवो जनार्दनः ॥

मत्स्यकूर्मौ ।

ऐश्वर्यम् अनिरुद्धश् च वराहो भगवान् हरिः ।

ऐश्वर्यशक्त्या दंष्ट्राग्रसमुद्धृतवसुन्धरः ॥

[११६] नृवराहो ऽथ वा कार्यः शेषोपरिगतः प्रभुः ।

शेषश् चतुर्भुजः कार्यः चारुरत्नफणान्वितः ॥

आश्चर्योत्फुल्लनयनो देववीक्षणतत्परः ।

कर्तव्यौ सीरमुशलौ करयोस् तस्य यादव ॥

सर्पभोगश् च कर्तव्यस् तथैव रचिताञ्जलिः ।

आलीढस्थानसंस्थानस् तत्पृष्ठे भगवान् भवेत् ॥

वामारत्निगता तस्य योषिद्रूपा वसुन्धरा ।

नमस्कारपरा तस्य कर्तव्या द्विभुजा शुभा ॥

यस्मिन् भुजे धरा देवी तत्र शङ्खकई भवेत् ।

अन्ये तस्य कराः कार्याः पद्मचक्रगदाधराः ॥

हिरण्याक्षशिरश्छेदचक्रोद्वृतकरो ऽथ वा ।

मृतोद्धृतहिरण्याक्षः सुमुखो भगवान् भवेत् ॥

मूर्तिमन्तम् अनैश्वर्यं हिरण्याक्षं विदुर् बुधाः ।

ऐश्वर्येणाविनाशेन स निरस्तो ऽरिमर्दनः ॥

नृवराहो ऽथ वा कार्यो ध्याने कलिलवत् स्थितः ।

द्विभुजस् त्व् अथ वा कार्यः पिण्डनिर्वपनोद्यतः ॥

समग्रक्रोडरूपेण बहुदानवमध्यगः ।

नृवराहो वराहश् च कर्तव्यः क्ष्माविदारणः ॥

वराहस्य ।

य एवं भगवान् विष्णुर् नरसिंहवपुर्धरः ।

ध्यानविधिः स एवोक्तः परमज्ञानवर्धनः ॥

पीनस्कन्धकटिग्रीवः कृशमध्यः कृशोदरः ।

[११७] सिंहाननो नृदेहश् च नीलवासाः प्रभान्वितः ॥

आलीढस्थानसंस्थानः सर्वाभरणभूषितः ।

ज्वालामालाकुलमुखो ज्वालाकेसरमण्डलः ॥

हिरण्यकशिपीर् वक्षः पाटी यन् न खरैः खरैः ।

नीलोत्पलाभः कर्तव्यो देवजानुमतस् तथा ॥

हिरण्यकशिपुर् दैत्यस् तम् अज्ञानं विदुर् बुधाः ॥

नरसिंहः ।

कर्तव्यो वामनो देवः शङ्कटैर् गात्रपर्वभिः ।

पीनगात्रश् च कर्तव्यो दण्डी वाध्ययनोद्यतः ॥

दूर्वाश्यामश् च कर्तव्यः कृष्णाजिनधरस् तथा ॥

वामनस्य ।

सजलाम्बुदसङ्काशस् तथा कार्यस् त्रिविक्रमः ।

दण्डपाशधरः कार्यः शङ्खचक्रगदाधरः ॥

शङ्खचक्रगदापद्माः कार्यास् तस्य सुरूपिणः ।

निर्देहास् ते न कर्तव्याः शेषं कार्यं तु पूर्वतः ॥

एकोर्ध्ववदनः कार्यो देवो विस्फारितेक्षणः ॥

त्रिविक्रमः ।

कार्यस् तु भार्गवो रामो जटामण्डलदुर्दृशः ।

हस्ते ऽस्य परशुः कार्यः कृष्णाजिनधरस्य तु ॥

परशुरामः ।

[११८] रामो दाशरथिः कार्यो राजलक्षणपालितः ।

भरतो लक्ष्मणश् चैव शत्रुघ्नश् च महायशाः ।

तथैव सर्वे कर्तव्याः किं तु मौलिविवर्जिताः ॥

रामादयः ।

कृष्णश् चक्रधरः कार्यो नीलोत्पलदलच्छविः ।

इन्दीवरधरा कार्या तस्य साक्षाच् च रूपिणी ॥

कृष्णः ।

सीरपाणिर् बलः कार्यो मुशली चैव कुण्डली ।

श्वेतो ऽतिनीलवसनो मदाद् अञ्चितलोचनः ॥

बलभद्रः ।

चापबाणधरः कार्यः प्रद्युम्नश् च सुदर्शनः ।

राजन्न् इन्द्रमणिश्यामः स्वेतवासा मदोत्कटः ॥

प्रद्युम्नः ।

कामदेवस् तु कर्तव्यो रूपेणाप्रतिमो भुवि ।

अष्टबाहुः प्रकर्तव्यः शङ्खपद्मविभूषणः ॥

चापबाणकरश् चैव मदाद् अञ्जितलोचनः ।

रतिः प्रीतिस् तथा शक्तिर् मदशक्तिस् तथोज्वला ॥

चतस्रस् तस्य कर्तव्याः पत्न्यो रूपमनोहराः ।

चत्वारश् च शरास् तस्य कार्या भाऋयाः स्तनोपगाः ॥

[११९] केतुश् च मकरः कार्यः पञ्चबाणमुखो महान् ।

कामः ।

कर्तव्यश् चानिरुद्धो ऽपि खड्गचर्मधरः प्रभुः ।

साम्बः कार्यो गदाहस्तः सुरूपश् च विशेषतः ।

साम्बानिरुद्धौ कर्तव्यौ पद्माभौ रक्तवाससी ॥

अनिरुद्धसाम्बयोः ।

पद्मपत्राग्रगौराभा कर्तव्या देवकी तथा ॥

देवकी ।

मधूकपौष्पम्च्छाया यशोदापि सदा भवेत् ॥

यशोदा ।

गोपालप्रतिमां कुर्याद् वेणुवादनतत्पराम् ।

वर्हापीडां घनश्यामां द्विभुजाम् ऊर्ध्वसंस्तिताम् ॥

गोपालस्य ।

काषायवस्त्रसंवीतः स्कन्धसंसक्तचीवरः ।

पद्मासुनस्थो द्विभुजो ध्यायी बुद्धः प्रकीर्तितः ॥

बुद्धः ।

खड्गोद्यतकरः क्रुद्धो हयारूढो महाबलः ।

म्लेच्छोच्छेदकरः कल्की द्विभुजः परिकीर्तितः ॥

कल्की ।

दूर्वाश्यामो नरः कार्यो द्विभुजश् च महाबलः ।

[१२०] नारायणश् चतुर्बाहुर् नीलोत्पलदलच्छविः ॥

तयोर् मध्ये तु वदरी कार्या फलविभूषणा ।

वदर्याम् अवनौ कार्याव् अक्षमालाधराव् उभौ ॥

अष्टचक्रे स्थितौ याने भूतयुक्त मनोरमे ।

कृष्णाजिनधरौ दान्तौ जटामण्डलधारिणौ ॥

पादेन चैकेन रथस्थितेन

पादेन चैकेन च जानुनेन ।

कार्यो हरिश् चात्र नरेण तुल्यः

कृष्णो ऽपि नारायणतुल्यमूर्तिः ॥

नरनारायणहरिकृष्णाः ।

मूर्तिमान् पृथिवीहस्तन्यस्तपादः सितच्छविः ।

नीलाम्बरधरः कार्यो देवो हयशिरोधरः ॥

विन्द्यात् सङ्कर्षणांशेन देवो हयशिरोधरः ।

कर्तव्यो ऽष्टभुजो देवः तत्करेषु चतुर्थतः ॥

शङ्खं चक्रं गमां पद्मं स्वाकारं कारयेद् बुधः ।

चत्वारश् च कराः कार्या वेदानां देहधारिणः ॥

देवेन मूर्ध्नि विन्यस्ताः सर्वाभरणधारिणः ॥

हयग्रीवः ।

प्रद्युम्नं विद्धि वैराग्यात् कापिलं तनुम् आश्रितः ।

मध्ये तु करकः कार्यस् तस्योत्सङ्गगतः परः ॥

[१२१] दोर्युगं चापरं तस्य शङ्खचक्रधरं भवेत् ।

पद्मासनोपविष्टश् च ध्यानसम्मीलितेक्षणः ॥

कर्तव्यः कपिलो देवो जटामण्डलमन्त्रितः ।

वायुसंरोधपीनांसः पद्माङ्कचरणद्वयः ॥

मृगाजिनधरो राजन् श्मश्रुयज्ञोपवीतवान् ।

विभुर् मन्त्रमहापद्मकलिकासंस्थितः प्रभुः ॥

वैराग्यभावेन महानुभावो

ध्यानस्थितः स्वम् परमं पदं तत् ।

ध्यायंस् तथास्ते भुवनस्य गोप्ता

साङ्ख्यप्रवक्ता पुरुषः पुराणः ॥

कपिलः ।

कृशः कृष्णतनुर् व्यासः पिङ्गलो ऽतिजटाधरः ।

सुमन्तुर् जैमिनिः पैलो वैशम्पायन एव च ।

तस्य शिष्याश् च कर्तव्याश् चत्वारः पारिपार्श्विकाः ॥

व्यासः ।

गौरस् तु कार्यो वाल्मीकिस् तेजोमण्डलदुर्दृशः ।

तपस्य् अभिरतः शान्तो न कृशो न च पीवरः ॥

वाल्मीकिः ।

वाल्मीकिरूपं सकलं दत्तात्रेयस्य धारयेत् ।

धन्वन्तरिः सुकर्तव्यः सुरूपः प्रियदर्शनः ॥

करद्वयगतश् चास्य सामृतः कलशो भवेत् ।

[१२२] धन्वन्तरिः ।

जलमध्यगतः कार्यः शेषपन्नगदर्शनः ।

फणापुञ्जमहारत्नदुर्निरीक्ष्यशिरोधरः ॥

देवदेवस् तु कर्तव्यस् तत्र गुप्तश् चतुर्भुजः ।

तथापरश् च कर्तव्यः शेषभोगाङ्कसंस्थितः ॥

एकपादो ऽस्य कर्तव्यो लक्ष्म्युत्सङ्गगतः प्रभोः ।

तथापरश् च कर्तव्यस् तत्र जानौ प्रसाधितः ॥

कर्तव्यो नाभिदेशस्थस् तथा तस्यापरः करः ।

तथैवान्यः करः कार्यो देवस्य तु शिरोधरः ॥

सन्तानमञ्जरीधारी तथैवास्यापरो भवेत् ।

नाभिसरसि सम्भूते कमले तस्य यादव ॥

सर्वपृथ्वीमयो देवः प्राग्वत् कार्यः पितामहः ।

नाललग्नौ च कर्तव्यौ पद्मस्य मधुकैटभौ ॥

नृरूपधारीणि भुजङ्गम् अस्य

कार्यान्न्य् अथास्त्राणि तथा समीपे ।

एतत् तवाग्रे यदुपुङ्गवाग्यं

देवस्य रूपं परमस्य तस्य ॥

जलशायिनः ।

तार्क्ष्यो मरकतपण्यः कौशिकाकारनासिकः ।

चतुर्भुजस् तु कर्तव्यो वृत्तनेत्रमुखस् तथा ॥

गृध्रोरुजानुचरणः पक्षद्वयविभूषितः ।

[१२३] प्रभासंस्थानसौवर्णकलापेन विराजितः ॥

छत्रं तु पूर्णकुम्भं तु करयोस् तस्य कारयेत् ।

करद्वयं तु कर्तव्यं तथा विरचिताञ्जलि ॥

यदास्य भगवान् पृष्ठे छत्रकुम्भधरौ करौ ।

न कर्तव्यौ तु कर्तव्यौ देवपादधरौ शुभौ ॥

किञ्चिल्लम्बोदरः कार्यः सर्वाभरणभूषितः ॥

गरुडः । विष्णुधर्मोत्तरात् ।

देवदेवं महादेवं वृषारूढं तु कारयेत् ।

तस्य वक्त्राणि कार्याणि पञ्च यादवनन्दन ॥

सर्वाणि सोम्यरूपाणि दक्षिणं विकटं मुखम् ।

कपालमालिनं भीमं जगत्संहारकारकम् ॥

त्रिनेत्राणि तु सर्वाणि वदनं तूत्तरं विना ।

जटाकलापे महति तस्य चन्द्रकला भवेत् ॥

तस्योपरिष्टाद् वदनं पञ्चमं तु विधीयते ।

यज्ञोपवीतं च तथा वासुकिं तस्य कारयेत् ॥

दशबाहुस् तथा कार्यो देवदेवो महेश्वरः ।

अक्षमालात्रिशूलं च चर्मदण्डमयोत्पलम् ॥

तस्य दक्षिणहस्तेषु कर्तव्यानि महाभुज ।

वामे च मातुलाङ्गं च चापादर्शं कमण्डलुम् ॥

तथा चर्म च कर्तव्यं देवदेवस्य शूलिनः ।

वर्णस् तथास्य कर्तव्यश् चन्द्रांशुसदृशप्रभः ॥

[१२४] रुद्रः ।

ईशस् तत्पुरुषा घोरा वामजातक्रमेण तु ।

सितपीतकृष्णरक्ताश् चतुर्वर्णाः प्रकीर्तिताः ॥

पञ्चवक्त्राः स्मृताः सर्वे दशदोर्दण्डभूषिताः ।

खड्गखेटधनुर्बाणकमण्डल्वक्षसूत्रिणः ॥

वराभयकरोपेताः शूलपङ्कजपाणयः ॥

वामो वामदेवः । जातः सद्योजातः ईशानादिपञ्चमूर्तयः ।

सर्वो भीमो महादेवः रुद्रः पशुपतिर् भवः ।

उग्र ईशान इत्य् अष्टौ मूर्तिर् या शिवसन्निभा ॥

मृगाङ्कचूडामणयो जटामण्दलमण्डिताः ।

त्रिनेत्रा वरखट्वाङ्गत्रिशूलवरपाणयः ॥

मूर्तीयाष्टकम् ।

अर्धं देवस्य नारी तु कर्तव्या शुभलक्षणा ।

अर्धं तु पुरुषः कार्यः सर्वलक्षणभूषितः ॥

ईश्वरार्धे जटाजूटं कर्तव्यं चन्द्रभूषितम् ।

उमार्धे तिलकं कार्यं श्रीमन्तमलकं तथा ॥

भस्मोद्वलितम् अर्धं तु अर्धं कुङ्कुमभूषितम् ।

नागोपवीतिनं चार्धम् अर्धं हारविभूषितम् ॥

वामार्धे तु स्तनं कुर्याद् घनं पीनं सुवत्तुलम् ।

उमार्धे तु प्रकर्तव्यं सुवस्त्रेण च वेष्टितम् ॥

[१२५] मेखलां दापयेत् तत्र वज्रवैदूर्यभूषिताम् ।

ऊर्द्ध्वलिङ्गं महेशार्धं सर्पमेखलमण्डितम् ॥

पादं च देवदेवस्य समपद्मोपरिस्थितम् ।

सालक्तं स्मृतं रामम् अञ्जनेन विभूषितम् ॥

त्रिशूलम् अक्षसूत्रं च भुजयोः सव्ययोः स्मृतम् ।

दर्पणं चोत्पलं कार्यं भुजयोर् अपसव्ययोः ॥

अर्धनारीश्वरः । एवम् एव दिक्पालेशानः ।

दक्षिणमुद्रां प्रतिपादयन्तं

सिताक्षसूत्रं च तथोर्ध्वभागे ।

वामे च पुस्तामखिलागमाद्यां

बिभ्राणमूर्धेन सुधाधरं च ॥

सिताम्बुजस्थं सितवर्णम् ईशं

सिताम्बरालेपनम् इन्दौमौलिम् ।

ज्ञानं मुनिभ्यः प्रतिपादयन्तं

तं दक्षिणामूर्तिम् उदाहरन्तम् ॥

दक्षिणामूर्तिः ।

युग्मं स्त्रीपुरुषं कार्यं उमेशौ दिव्यरूपिणौ ।

अष्टवक्रं तु देवेशं जटाचन्द्रार्धभूषितम् ॥

द्विपाणिं द्विभुजां देवीं सुमध्यां सुपयोधराम् ।

वामपाणिं तु देवस्य देव्याः स्कन्धे नियोजयेत् ॥

दक्षिणं तु करं शम्बोर् उत्पलेन विभूषितम् ।

[१२६] देव्यास् तु दक्षिणं पाणिं स्कन्धे देवस्य कल्पयेत् ।

वापपाणौ तथा देव्या दर्पणं दापयेन्दुभम् ॥ इति ।

उमामहेश्वरौ ।

कार्यं हरिहरस्यापि दक्षिणार्धं सदाशिवः ।

वामम् अर्धं हृषीकेशः श्वेतनीलाकृतिः क्रमात् ॥

वरं त्रिशूलं चक्राञ्जधारिणो बाहवः क्रमात् ।

दक्षिणे वृषभः पार्श्वे वामभागे विहङ्गराड् ॥ इति ।

हरिहरमूर्तिः ।

दिग्वर्णा जटिलाः त्र्यक्षाः पुर (?) त्रिशूलधारिणः ।

पुटाञ्जलिकराः सर्वे विश्वेशाश् चैकवक्त्रकाः ॥

अनन्तश् च त्रिमूर्तिश् च सूक्ष्मः श्रीकण्ठ एव च ।

शिवः शिखण्ड्य् एकनेत्र एकरुद्रश् च ते क्रमात् ॥

विद्येश्वराः । विश्वकर्मशास्त्रात् ।

अथ रुद्रान् प्रवक्ष्यामि बाहुषोडशकान्वितान् ।

अजो नामा महारुद्रो धत्ते शूलम् अथाङ्कुशम् ॥

कपालं डमरुं सर्पं मुद्गरं च सुदर्शनम् ।

अक्षसूत्रमयो दक्षे तथा वामे कराष्टके ॥

तर्जनी मूर्ध्नतस् तत्र खट्वाङ्गं तदधः करे ।

गदां च पट्टिशं घण्टां शक्तिं परशुकुण्डिकाः ॥

[१२७] अजेकपदः ॥ १ ॥

एकपादाभिधो बिभ्रत् द्वादशार्धाद् बहिः शरम् ।

चक्रं डमरुकं शूलं मुद्गरं तदधो वरम् ॥

अक्षसूत्रम् अधो वामे खट्वाङ्गं चोर्ध्वहस्तके ।

धनुर् घण्ट्ःआं कपालं च कौमुदीं तर्जनीघटम् ॥

परशुं च क्रमाद् धत्ते धत्ते बाह्वष्टके त्व् इति ।

अनेकबोगसम्पत्तिं कुरुते यजनात् सदा ॥

एकपादः ॥ २ ॥

अहिर्बुध्नो गदां चक्रं चण्डौ डमरुमुद्गरौ ।

शूलाङ्कुशाक्षमालां च दक्षोर् बाधः करः (?) क्रमात् ॥

तोमरं पट्टिशं चर्म कपालं तर्जनीघटम् ।

शक्तिः परशुकं वामे दक्षवद् धारयत्य् असौ ॥

अहिर्बुध्नः ॥ ३ ॥

विरूपाक्षस् ततः खड्गशूलं डमरुकाङ्कुशम् ।

सर्पं चक्रं गदाम् अक्षसूत्रं बिभ्रत् कराष्टके ॥

खेटं खट्वाङ्गकं शक्तिं परशुं तर्जनी घटम् ।

घण्टाकपोलकौ चेति वामार्द्धादिकराष्टके ॥

विरूपाकः ॥ ४ ॥

रेवतो दक्षिणे चापं खड्गशूलं गदां महीम् ।

[१२८] चक्राङ्कुशाक्षमालास् तु धारयन्न् ऊर्ध्वम् आदितः ॥

धनुः खेटं च खट्वाङ्गं घण्टातर्जनिकां ततः ।

परशुं पट्टिशं पात्रं वाम्बाह्वके ऽर्कवत् ॥

सर्वसंस्पत् करोत्य् एष जायते वार्चनाद् भृशम् ॥

रेवतः ॥ ५ ॥

हराख्ये मुद्गरं चैव डमरुं शूलम् अङ्कुशम् ।

गदासर्पाक्षसूत्राणि दारयन् दक्षिणोर्ध्वतः ॥

पट्टिशं तोमरं शक्तिं परशुं तर्जनीघटम् ।

खट्वाङ्गं पात्रकं चेति वामोर्द्धादिक्रमेण तु ॥

हरः ॥ ६ ॥

बहुरूपो दधद् दक्षे डमरुं च सुदर्शनम् ।

सूर्प्शूलाङ्कुशेयस् तु कौमुदीं जपमालिकाम् ॥

घण्टाकपालखट्वाङ्गं तर्जनीं कुण्डिकां धनुः ।

परशुं पट्टिशं चैव वामार्द्धादि कराष्टके ॥

बहुरूपः ॥ ७ ॥

अम्बको ऽपि दधच् चक्रं डमरुं मुद्गरं शरम् ।

शूलाङ्कुशाहिजाप्यं च दक्षोर्द्धादिक्रमेण हि ॥

गदाखट्वाङ्गपात्राणि कामुकं तर्जनीं घटौ ।

परशुं पट्टिशं चेति वामार्धादिकराष्टके ॥

अम्बकः ॥ ८ ॥

सुरेश्वरं हि डमरुं चक्रं शूलाङ्कुशाव् अपि ।

शरं च मुद्गरं चापं दक्षबाह्वष्टके त्व् इति ॥

[१२९] पङ्कज्ं परशुं घण्टां पट्टिशं तर्जनीं धनुः ।

खत्वाङ्गं कारयेत् पात्रं वामे ऽष्टकपल्लवे ॥

सुरेश्वरः ॥ ९ ॥

जयन्तो दशमो रुद्रो ऽप्य् अङ्कुशं चक्रमुद्गरम् ।

शूला हि डमरुं वाणम् अक्षसूत्रं यमेत्व् इति ॥

गदाखट्वाङ्गपरशुं कपालं शक्तितर्जनीम् ।

धनुः कुण्डी स्रुचोर्द्धादि वामव्बाह्वष्टके दधत् ॥

जयन्तः ॥ १० ॥

अथापराजितो दक्षे तोमरं खड्गम् अङ्कुशम् ।

शूलाहिचक्रडमरुम् अक्षमालां दधत् क्रमात् ॥

शक्तिं खेटं गदां पात्रं तर्जनीं पट्टिशङ्खजम् ।

घण्टाम् उत्तरतश् चाथ धारयन्न् ऊर्ध्वम् आदितः ॥

अपराजितः ॥ ११ ॥

अजैकपाद् अहिर्ब्रध्नः विरूपाक्षश् च रैवतः ।

हरश् च बहुरूपश् च त्र्यम्बकश् च सुरेश्वरः ।

रुद्रा एकादश प्रोक्ता जयन्तश् चापराजितः ॥

विष्णुधर्मोत्तरात् ।

कुमारः षण्मुखः कर्यः शिखण्डिकविभूषणः ।

रक्ताम्बरधरः कार्यो मयूरवरवाहनः ॥

कुक्कुटश् च तथा घण्टा तस्य दक्षिणहस्तयोः ।

पताका वैजयन्ती च शक्तिः कार्या च वामयोः ॥

[१३०] स्कन्दः ।

अथातो रूपनिर्माणं वक्ष्ये ऽहं भैरवस्य तु ।

लम्बोदरं तु कर्तव्यं वृत्तपिङ्गललोचनम् ॥

दंष्ट्राकरालवदनं फुल्लनासापुटं तथा ।

कपालमालिनं रौद्रं सर्वतः सर्पभूषणम् ॥

व्यालेन त्रासयन्तं च देवीं पर्वतनन्दिनीम् ।

सजलाम्बुदसङ्काशं गजचर्मोत्तरछदम् ॥

बहुभिर् बाहुभिर् व्याप्तं सर्वायुधविभूषणम् ।

बृहत्शालप्रतीकाशैस् तथा तीक्ष्णनखैः शुभैः ।

साचीकृतम् इदं रूपं भैरवस्य प्रकीर्तितम् ॥

भैरवः ।

महाकालस्य कथितम् एतद् वै भैरवं मुखम् ।

देवीत्रासनकश् चास्य करे कार्यश् च पन्नगः ।

न चास्य पुरतः कार्या देवी पर्वतनन्दिनी ॥

शुक्ला न कार्यास्य तथा न रक्ता

समीपतो मातृगणप्रधाने ।

कार्यं तथा या परिवर्हम् अस्य

गणाश् च कार्या बहुरूपरूपकाः ॥

महाकालः ।

नन्दी कार्यस् त्रिनेत्रस् तु चतुर्बाहुर् महाभुजः ।

[१३१] सिन्दूरारुणसङ्काशो व्याघ्रचर्मपरिछदः ॥

त्रिशूलभिन्दिपाले च करयोस् तस्य कारयेत् ।

शिरोगतं तृतीयं तु तर्जयन्तं तथापरम् ॥

आलोकयानं कर्तव्यं दूराद् आगमिकं जनम् ॥

नन्दी ।

अनेनैव तु रूपेण वीरभद्रं विदुर् बुधाः ॥

वीरभद्रः ।

ज्वरस् त्रिपादः कर्तव्यस् त्रिनेत्रैर् व्दनैस् त्रिभिः ।

भस्मप्रहरणो रुद्रस् त्रिबाहुर् व्याकुलेक्षणः ॥

ज्वरः ।

विश्वकर्मशास्त्रात् ।

अथातः सम्प्रवक्ष्यामि वसुरूपाणि ते जय ।

पद्माक्षमालिके तस्य दक्षवामकरद्वये ॥

सीरशक्ती दधानो ऽयं धराख्यो वसुरादिमः ।

मालां पुष्करवीजोत्थां चक्रं शक्तिं कमण्डलुम् ॥

दक्षाधरादिसव्येन यस्य स्युः स ध्रुवो मतः ।

मुक्ताफलकृता माला पङ्कजं शक्तिर् अङ्कुशः ॥

स वसुः कीर्तितो वत्स सोमनामेति वै बुधैः ।

सव्यवामोर्ध्वगौ यस्य करौ स्तः शक्तिसंयुतौ ॥

सीराङ्कुशान्वितौ चाधः स भवेद् आपसञ्ज्ञकः ।

[१३२] अक्षमालोपवीत्य् ऊर्ध्वे शृणिशक्तिकराव् अधः ॥

यस्य स्तः सो ऽनिलाख्यः स्याच् छुभदः पञ्चमो वसुः ।

स्रुवाक्षमालिको दक्षे वामे शक्तिकपालभृत् ॥

सव्योर्ध्वादिक्रमाद् यो ऽसौ नलाख्यस् तु वसुः स्मृतः ।

खट्वाङ्कुशधरः सव्ये शक्तिखेटकरो ऽन्यतः ॥

प्रत्यूषाख्यो वसुश् चायं सप्तमः परिकीर्तितः ।

सव्ये दण्डकपालो ऽसौ वामे तु शृणिशक्तिकः ॥

शुभदः कीर्तितश् चायं प्रभासो वसुर् अष्टमः ।

एते सर्वे समाख्याता नवकाञ्चनसन्निभाः ॥

धरोध्रुवश् च सोमः स्याद् आपश् चैवानिलो ऽनलः ।

प्रत्यूषश् च प्रभासश् च वसवो ऽष्टौ प्रकीर्तिताः ॥

इति वसुरूपनिर्माणम् ।

शृणु वत्स प्रवक्ष्यामि सूर्यभेदांस् तु ते जय ।

यावत् प्रकाशकः सूर्यो जायते मूर्तिभिर् यथा ॥

दक्षिणे पौष्करी माला करे वामे कमण्डलुः ।

पद्माभ्यां शोभितकरा सा धात्री प्रथमा स्मृता ॥

शूलं वामकरे चास्याः दक्षिणे सोम एव च ।

मित्रा नाम त्रिनयना कुशेशयविभूषिता ॥

प्रथमे तु करे चक्रं तथा वामे च कौमुदी ।

मूर्तिर् मणिमयी ज्ञेया सपद्मैः पाणिपल्लवैः ॥

[१३३] अक्षमाला करे सव्ये चक्रं वामे प्रतिष्ठितम् ।

सा मूर्ती रौद्री ज्ञातव्या प्रधाना पद्मभूषिता ॥

चक्रं तु दक्षिणे यस्या वामे पाशः सुशोभनः ।

सा वारुणी भवेन् मूर्तिः पद्मव्यग्रकरद्वया ॥

कमण्डलुर् दक्षिणतो माला चाक्षमयी भवेत् ।

सा भवेत् सन्मता सूर्यमूर्तिः पद्मविभूषिता ॥

यस्या दक्षिणतः शूलं वामहस्ते सुदर्शनः ।

भग्मूर्तिः समाख्याता पद्महस्ता शुभा जय ॥

अथ वामकरे माला त्रिशूलं दक्षिणे स्मृतम् ।

विवस्वन्मूर्तिर् एवास्याः पद्मलाञ्छनलक्षिता ॥

पूषाख्यस्य भवेन् मूर्तिर् द्विभुजा पद्मलाञ्छिता ।

सर्वपापहरा ज्ञेया सर्वलक्षणलक्षिता ॥

दक्षिणे तु गदा वामे चैव सुदर्शनः ।

पद्मव्यग्रा तु सावित्री मूर्तिः सर्वार्थसाधनी ॥

स्रुचं च दक्षिणे हस्ते वामे होमजकीलकम् ।

मूर्तिस् त्वाष्ट्री भवेद् अस्य पद्मरुद्धकरद्वया ॥

सुदर्शनकरा सव्ये पद्महस्ता तु राभतः ।

एषा स्याद् द्वादशी मूर्तिर् विष्णोर् अमिततेजसः ॥

धाता मित्रोर् यमारुद्रो वरुणः सूर्य एव च ।

भगो विवस्वान् पूषा च सविता दशमः स्मृतः ॥

[१३४] एकादशस् तथा त्व्ष्ट्रा विष्णुर् द्वादश उच्यते ।

इति द्वादशादित्यरूपनिर्माणम् ।

अथातः सम्प्रवक्ष्यामि रूपाणि मरुतां तव ।

अक्षमालाम्बुजे दक्षे वामे कुण्डीध्वजान्वितः ॥

श्वसनाख्यो भवेद् एवं साधकानां सुसिद्धिदः ।

चक्षाक्षमालिका पात्रध्वजयुक् स्पर्शनाभिधः ॥

कपालध्वजापाशाब्जधारको वायुनामकः ।

माररिश्वा कपालाब्जध्वजपात्रकरो मतः ॥

ध्वजाक्षसूत्रपात्राब्जं बिभ्राणः स्यात् सदा गतिः ।

ध्वजासिखेटपात्राणि धारयंस् तु महाबलः ॥

ध्वजपाशकपालाहिसंयुतो बलवर्धनः ।

पात्राक्षसूत्रपाशाब्जधारकः पृषदश्वकः ॥

अक्षसूत्रगदाकम्बुध्वजी गन्धवहाभिधः ।

कपालध्वजपात्राब्जहस्तको गन्धवाहकः ॥

ज्ञानमुद्राक्षसूत्राब्जध्वजहस्तो निलो मतः ।

अक्षमालासुनीलाब्जध्वजकम्बुधराशुगः ॥

ध्वजवाणधनुः कुण्डीकरयुक् सुमुखो भवेत् ।

ध्वजाब्जपात्रमुद्राणि धारयेत् कर्कराभिधः ॥

अब्जाक्षमालिकापात्रध्वजहस्तः समीरणः ।

ध्वजपात्रघनाब्जानि बिभ्राणस् तु समीरकः ॥

अक्षसूत्रध्वजाब्जानि मुण्डं बिभ्रत्य् अनुत्तमः ।

[१३५] अक्षमालाध्वजाब्जानि धारयन् मारुताभिधः ॥

कं शिरः ।

पव्यक्षसूत्रपाशाब्जसंयुतो नागयोनिजः ।

ध्वजमुण्डाक्षपात्री स्याज् जगत्प्राणाभिधः स्मृतः ॥

ध्वजसूत्रसपाशाब्जसंयुतः पावनाभिधः ।

खट्वाङ्गध्वजखेतानि बिभ्राणो वातसञ्ज्ञकः ॥

ध्वजाक्षकृतपात्राणि धार्यंस् तु प्रभञ्जनः ।

अक्षसूत्रध्वजाब्जाहिपाणियुक्यवनामकः ॥

शूलाभध्वजपात्राणि नभस्वान् इति धारयन् ।

ध्वजाङ्कुशाक्षमुण्डानि बिभ्राणो ऽतिबलो मतः ॥

सध्वजाम्बुजपात्राङ्कस् तरस्वीनाम कीर्तितः ।

दण्डमुण्डध्वजाब्जानि धारयन् द्रावणो मतः ॥

ध्वजाक्षतर्जनीपात्रपाणियुग् देवयक्षकः ।

अक्षमाला कुठराब्जध्वजयुग्मात्रजाहकः ॥

घण्टाक्षध्वजमुण्डानि धारयन्न् अधराभिधः ।

वोधिपल्लवसूत्राब्जध्वजहस्तः सदोर्द्ध्वदृक् (?) ॥

अक्षसूत्रध्वजाशोकपात्रयुक् मतिरोधनः ।

पाणिको नाम विज्ञेयो वलाक्षध्वजमुण्डयुक् ॥

ध्वजाक्षघटपात्राणि धारयन् साधको मतः ।

बीजपूरध्वजाब्जाक्षसंयुतो विश्वपूरकः ॥

घण्टाक्षध्वजमालाभिः संयुतो जगदाश्रयः ।

[१३६] विश्वातिरिक्तको नाम ध्वजलाञ्छनपाशयुक् ॥

अक्षमालाकजे घण्टाध्वजौ बिभ्रत् कजागरः ।

विश्वोदरो भवेद् एष शङ्खशूलघटध्वजी ॥

अग्रजो नाम विज्ञेयो यक्षबाणधनुर्धटी ।

श्रीफलाब्जाक्षपात्राणि धारयंस् तीव्रको मतः ॥

शुक्तिमुण्डध्वजपाशी सुवहो ऽयं प्रकीर्तितः ।

अक्षसूत्रध्वजपाशपात्रयुक् बीजवर्धनः ॥

ध्वजपाशकपालाब्जैर् जुतो भद्रजवो मतः ।

टङ्कपाशध्वजाब्जानि धारयन् पुष्करोद्भवः ॥

पलाशपत्रपाशाब्जध्वजहस्तो ऽब्जिनी पतिः ।

जम्बुवीजध्वजाब्जाक्षपाणियुक् व्यक्तमूर्तिमान् ॥

परिघाक्षध्वजाब्जानि धारयन् विश्वगो मतः ।

सर्वे चतुर्भुजा ज्ञेया युवानः कुटिलभ्रुवः ॥

सर्वोर्द्धाद्युत्तरोर्द्धान्तक्रमेणायुधधारिणः ।

रक्ताक्षाश् च महावीर्याः सर्वभूषणभूषिताः ॥

धूम्रवर्णा मृगारूढाः सर्वे ते शवलांशुकाः ।

इति ते ऽत्र समाख्याता शुभदास् तु मरुद्गणाः ॥

सङ्ख्ययैकोनपञ्चाशत् सर्वरोगापनुत्तये ।

एकोनपञ्चाशन् मरुता ।

स्कान्दे ।

साध्याः पद्मासनगताः कमण्डल्वक्षसूत्रिणः ।

धर्मपुत्रा महात्मानो द्वादशामरपूजिताः ॥

[१३७] ब्रह्माण्डपुराणे ।

मनोऽनुमन्ता प्राणश् च नरयानश् च वीर्यवान् ।

वित्तिर् हर्यो नयश् चैव हंसो नारायणस् तथा ।

प्रभवो विष्णुर् विश्वश् च साध्या द्वादश जम्भिरे (?) ॥

साध्यानां । विष्णुधर्मोत्तरे ।

पद्मपत्रस्वर्णाभौ पद्मपत्रसमाम्बरौ ।

द्विभुजौ देवभिषजौ कर्तव्यौ देहसंयुतौ ॥

सर्वाभरणसम्पन्नौ विशेषाच् चारुलोचनौ ।

तयोर् औषधयः कार्या दिव्या दक्षिणहस्तयोः ॥

वामयोः पुस्तके कार्ये दर्शनीये तथा द्विज ।

एकस्य दक्षिणे पार्श्वे वामे वान्यस्य यादव ॥

नारीयुगं प्रकर्तव्यं सुरूपं चारुदर्शनम् ।

तयोश् च नामनी प्रोक्ते रूपसम्पत् तथाकृतिः ॥

मधूकपुष्पसङ्काशा राउपसम्पत् प्रकीर्तिता ।

आकृतिः कथिता लोके शरकाण्डनिभा तथा ।

रत्नभाण्डकरे कार्ये चन्द्रशुक्लाम्बरे तथा ॥

अश्विनौ ।

पृष्ठस्थः सूर्यवत् कार्यो रेवन्तश् च तथा प्रभुः ।

रेवन्तस्य ।

[१३८] मयसङ्ग्रहे । यक्षरूपाणि ।

तुन्दिला द्विभुजा कार्या निधिहस्ता मदोत्कटाः ।

गदी वैश्रवणः प्रेष्ठो नृपालस् त्व् अष्टमो वरः ॥

सिद्धार्थो मणिभद्रश् च सुमना नन्दनो यशाः ।

कण्डूतिः पाञ्चकः शङ्खो मणिमान् पद्मरामकौ ॥

सर्वत्र भोजी पिङ्गाक्षश् चतुरो मन्दराश्रयः ।

शुभद्रचन्द्रप्रद्योतमेघवर्णजयावहाः ॥

द्युतिमान् केतुमान् श्वेतो मौलिमान् विजयाकृतिः ।

पद्मवर्णमहाघासपुष्पदन्ताः सुदर्शनाः ॥

पूर्णमासहिरण्याक्षशतजिह्वबलाहकाः ।

वलाकविपुलौ पद्मनाभः कुमुदवीरकौ ॥

सुगन्ध इत्य् अमी यक्षास् तेषां राजा धनाधिपः ॥

यक्षरूपनिर्माणम् । राक्षसरूपं मयदीपिकायाम् ।

रक्तवस्त्रधराः कृष्णा नखदीर्घाः सदंष्ट्रिकाः ।

कार्त्तीखड्गाङ्गहस्ताश् च राक्षसा घोररूपिणः ॥

हेति प्रहेति यज्ञघ्न शङ्कुश् च सनबन्धनाः ।

विद्युत्सर्जमनुष्यादपौरुषेयसुकेशिनः ॥

उग्रमालीत्य् अमी प्रोक्ताः प्रधाना राक्षसाः किल ।

भूतास् तथैव दानाश् च दीर्घवक्त्राः पिशाचकाः ॥

[१३९] इति राक्षसभूतपिशाचरूपनिर्माणम् ।

वरदो भक्तलोकानां किरीटी कुण्डली गदी ।

कार्यस् तु रूपी गन्धर्वो वीणावाद्यरतस् तथा ॥

गन्धर्वाः । नागरूपाण्य् आह विश्वकर्मा ।

अनन्तो रक्तकायश् च शितपङ्कजमालिकः ।

शतसाहस्रभोगो ऽहिः शिरःकुवलयान्वितः ॥

वासुकिः ।

श्वेतदेहश् च कर्तव्यः स्फुरन्मौक्तिकसन्निभः ।

रक्ताङ्गः स्वस्तिकोपेतः सुतेजास् तक्षको महान् ॥

कृष्णः कर्कोटकः कण्ठे शुक्लरेखात्रयान्वितः ।

रक्तपद्वनिभः पद्मशिराः शुक्लेषु विद्रुमान् ॥

शङ्खवर्णो महापद्मो मस्तके कृष्णशूलधृक् ।

हेमाभः शङ्खपालः स्यात् सितरेखाधरो गले ॥

कुलिको रक्तदेहस् तु चन्द्रार्धकृतमस्तकः ।

द्विजिह्वो बाहवः सप्त फणामणिसमन्वितः ॥

अक्षसूत्रधराः सर्वे कुण्डिकापुच्छसंयुताः ।

एकभोगास् त्रिभोगा वा ह्य् एतज् जायासुतादयः ॥

इति नागरूपनिर्माणम् । आह मयः ।

[१४०] कुशपद्मविष्टरस्याः पितरः पिण्डपात्रिणः ।

विष्णुधर्मोत्तरे ।

प्रभाकरा बर्हिषदो अग्निष्वात्तास् तथैव च ।

क्रव्यादाश् चीपहूताश् च आज्यपाश् च सुकालिणः ॥

पितरः । वायुपुराणात् ।

ऋतुर् दक्षो वसुः सत्यः कालको धुरिलोचनौ ।

पुरूरवा माद्रवाश् च विश्वेदेवा दश स्मृताः ॥

विदेहास् तु प्रकर्तव्या दक्षिणे वानपाणयः ।

कर्तव्या वामभागे तु शरासनपरायणाः ॥

विश्वेदेवाः । विश्वकार्मा ।

षड्त्रिंशदङ्गुले खड्ग शक्ती तालाधिकौ मतौ ।

शूलपाशौ पद्मशङ्खौ तालमात्रौ प्रकीर्तितौ ¦¦

गदा द्वितालपाशश् च गीलकाष्ठप्रमाणतः ।

वाणो द्वितालको दण्डो द्विगुणो द्वादशाकुशः ॥

कपालं पङ्कजं चर्म पाञ्चखड्गाङ्कुलो मतः ।

**[१४१] **डमरुं सुस्वना घण्टा छुरिका षोडशाङ्गुला ॥

वज्रं तत् पुरुषस्थूलं कर्कशो ऽतिदृढो बली ।

शक्तिस् तु योषिताकारा लोहिताङ्गी वृकाश्रिता ॥

दण्डो ऽपि पुरुषः घोरो लोहितलोचनः ।

खड्गश् च पुरुषः श्यामश्रीरः क्रुद्धलोचनः ॥

पाशः सप्तफणः सर्पपुरुषः पुच्छसंयुतः ।

ध्वजस् तु पुरुषः पीतो व्यावृतास्यो महाबलः ॥

गदा पीतप्रभा कन्या सुपीनजघनस्यला ।

त्रिशूलं पुरुषो दिव्याः सुभ्रूः श्यामकलेवरः ॥

शङ्खो ऽपि पुरुषो दिव्यः शुक्लाङ्गः शुभलोचनः ।

हेतिर् बहुतिथी शास्त्रे भीमः दिव्यलोचनः ॥

शरः स्यात् पुरुषो दिव्यो रक्ताङ्गो दिव्यलोचनः ।

धनुः स्त्री पद्मरक्ताभा मूर्ध्नि पूरितचापभृत् ॥

एवम् अस्त्राणि पूतानि जानीयात् परमेश्वरे ।

उक्तानां चैव सर्वेषां मूर्ध्नि स्वायुधलाञ्छनम् ॥

भुजौ द्वौ तु प्रकर्तव्यौ स्कन्धलग्नौ सदा बुधैः ॥

इत्य् अस्त्रनामप्रक्रमः ।

धर्मं ज्ञानं च वैराग्यम् ऐश्वर्यं च तथैव हि ।

सितरक्तपीतकृष्णसिंहरूपाः प्रकीर्तिताः ॥

धर्मज्ञानवैराग्यैश्वर्याणि ।

शुक्लवर्णा मही कार्या दिव्याभरणभूषिता ।

चतुर्भुजा सौम्यवपुश् चन्द्रांशुसदृशाम्बराः ॥

[१४२] रत्नपात्रं सस्यपात्रं पात्रम् औषधिसंयुतम् ।

पद्मं करे च कर्तव्यं भुवो यादवनन्दन ॥

दिग्गजानां चतुर्णां च कार्या पृष्ठगता तथा ।

सर्वौषधियुता देवी शुक्लवर्णा ततः स्मृता ॥

पृथ्वी ।

लवणोदः पर्कर्तव्यो द्विभुजः सर्वविद्धये ।

धत्ते ऽब्जमालिकां दक्षे वामे पात्रं तु रत्नभृत् ॥

सोत्तरीयोपवीती (?) च पाटलाभः सुवस्त्रधृक् ।

बहिःपवित्रपाणिस् तु लाभदो भूतिमण्डितः ॥

लवणोदः ।

क्षीरोदः श्वेतवर्णस् तु द्विभुजो रत्नकुण्डलः ।

मकरस्थो ऽम्बुजं दक्षे वामे तु कलशं दधत् ॥

क्षीरोदः ।

दधिमण्डोद एवात्र विज्ञेयो वारिजासनः ।

दण्डं शङ्खं च बिभ्राणो द्विभुजो ऽसौ जटायुतः ॥

दधिमण्डोदः ।

घृतोदः कपिलो ज्ञेयः कुलीरस्थो जटाधरः ।

कशेरुपीतं पात्रं च घटं बिभ्रत् तु दीर्द्वये ॥

घृतोदः ।

इक्षूदो ऽत्र प्रकर्तव्यो गोमूत्रसदृशच्छविः ।

[१४३] दुर्दुरस्थो घटं दण्डं बिभ्राणो नीलकुण्डलः ॥

इक्षूदः ।

सुरोदो गण्टकान्तस्थो ज्ञेयो गोमेदसन्निभः ।

मुद्गरं कुण्डिकां बिभ्रद् द्विभुजो भूतिवर्धनः ॥

सुरोदः ।

स्वादूदो मौक्तिकाभासो दर्दुरस्थो सुवेशाधृक् ।

मुक्तासूत्रार्धपात्रे च धारयन् सर्पभूषणः ॥

वैडूर्यसदृशाः सर्वे द्विभुजाः कलशान्विताः ।

पङ्कजस्थाः प्रकर्तव्याः देवतास्वपनाय तु ॥

समुद्रः ।

द्वीपवर्षनगाः सर्वे कामरूपधरा यतः ।

प्रेष्ठायुधान्विताः कार्याः स्वस्वचिह्नधरा नराः ॥

विष्णुधर्मोत्तरात् ।

पूर्वा गजगता वाला रक्तवर्णा तु दिग् भवेत् ।

पङ्कजस्था प्रतिज्ञेया करेणुकृतहस्तका ॥

बृहद्वक्ता बृहत्काया पद्माभा पूर्व्दक्षिणा ।

रथस्था दक्षिणा पीता तथा स्यात् प्राप्तयोवना ॥

उष्ट्रगा कृष्णपीता च तरुणी याम्यपश्चिमा ।

यौवनाद् विच्युता कृष्णा पश्चिमा तुरगास्थिता ॥

आसन्नपलिता नीला मृगगा तदनन्तरा ।

[१४४] श्वेता नरपक्ता वृद्धा च तथा भवति चात्तरा ॥

अतिवृद्धा वृषस्था च शुक्ला पूर्वोत्तरा भवेत् ।

अधस्तात् पृथिवी तुल्या चोर्द्धा गगनसंस्थिताः ॥

चतुर्दन्ते गजे शक्तः श्वेतः कार्यः सुरेश्वरः ।

वामोत्सङ्गगता कार्या तस्य भार्या शची नृप ॥

नीलवस्त्रा सुवर्णाभः सर्वाभरणवांस् तथा ।

तिर्यग् ललाटके तार्क्षः कर्तव्यश् च विभूषितः ॥

शक्रश् चतुर्भुजः कार्यो द्विभुजा च तथा शची ।

पद्माङ्कुशौ च कर्तव्यौ वामदक्षिणहस्तयोः ॥

वामं शचीपृष्ठगतं द्वितीयं वज्रसंयुतम् ।

वामे शव्याः करे कार्या रच्याः सन्तानमञ्जरी ॥

दक्षिणं पृष्ठविन्यस्तं देवराजस्य कारयेत् ॥

इन्द्रः ।

रक्तं जटाधरं वह्निं कारयेद् धूम्रवाससम् ।

ज्वालामालाकुलं सौम्यं त्रिनेत्रं श्मश्रुधारिणम् ॥

चतुर्बाहुं चतुर्दंष्ट्रं देवेशं वायुसारथिम् ।

चतुर्भिश् च शुकैर् युक्ते धूमचिह्नरथे स्थितम् ॥

वामोत्सङ्गगता स्वाहा शक्रस्येव शची भवेत् ।

रत्नपात्रकरा देवी वह्नेर् दक्षिणहस्तयोः ॥

ज्वालत्रिशूले कर्तव्ये त्व् अक्षमाल्यं (?) च वामके ॥

अग्निः ।

सजलाम्बुदसच्छायः तप्तचामरीकराम्बरः ।

[१४५] महिषस्थश् च कर्तव्यः सर्वाभरणवान् यमः ॥

नीलोत्पलाभां धूम्रोर्णां वामोत्सङ्गे च कारयेत् ।

धूम्रोर्णा द्विभुजा कार्या यमः कार्यश् चतुर्भुजः ॥

दण्डखङ्गाव् उभौ कार्यौ यमदक्षिणहस्तयोः ।

ज्वाला त्रिशुला कर्तव्या त्व् अक्षमाला च वामके ॥

दण्डोपरि मुखं कार्यं ज्वालामालाविभूषणम् ।

धूम्रोर्ण दक्षिणे हस्ते यमपृष्ठगतो भवेत् ॥

वामे तस्याः करे कार्यं मातुलाङ्गं सुदर्शनः ।

पार्श्वे तु दक्षिणे तस्य चित्रगुप्तं तु कारयेत् ॥

उदीच्यावेषं स्वाकारं द्विभुजं सौम्यदर्शनम् ।

दक्षिणे लेखनी तस्य वामे पत्रं तु कारयेत् ॥

वामे पाशधरः कार्यः कालो विकटदर्शनः ॥

यमः ।

विरूपाक्षो विवृतास्यः (?) प्रांशुदंष्ट्रोज्वलाननः ।

ऊर्ध्वकेशो हरित्श्मश्रुः द्विभाहुर् भीषणाननः ॥

वर्णेन कृष्णरक्ताङ्गः कृष्णाम्बरधरस् तथा ।

सर्वाभरणवान् उष्ट्रदण्डरश्मिकरस् तथा ॥

भार्याश् चतस्रः कर्तव्या देवी च निरृतिस् तथा ।

कृष्णाङ्गी कृष्णवदना पाशहस्ता तु वामनः ॥

निरृतिः ।

सप्तहंसे रथे कर्यो वरुणी यादसाम्पतिः ।

स्निग्धवैदर्यसङ्काशः श्वेताम्बरधरस् तथा ॥

[१४६] किञ्चित्प्रलम्बजठरो मुक्ताहारविभूषितः ।

सर्वाभरणवान् राजन् महादेवश् चतुर्भुजः ॥

वामभागगतं केतुं मकरं तस्य कारयेत् ।

छत्रं तु सुशितं मूर्ध्नि भार्या सर्वाङ्गसुन्दरी ॥

वामोत्सङ्गगता कार्या मध्ये तु द्विभुजा नृप ।

उत्पलं कारयेद् वामे दक्षिणं देवपृष्ठगम् ॥

पद्मपाशौ करे कार्यौ देवदक्षिणहस्तयोः ।

शङ्खं च रत्नपात्रं वामयोस् तस्य कारयेत् ॥

भागे तु दक्षिणे गङ्गा मकरस्था सचामरा ।

देवी पद्मकरा कार्या चन्द्रगौरी वरानना ॥

वामे तु यमुना कार्या कूर्मसंस्था सचामरा ।

नीलोत्पलकरा सौम्या नीलनीरजसन्निभा ॥

वरुणः ।

वायुर् अम्बरवर्णस् तु तदाकाराम्बरो भवेत् ।

कोष्ठपूरितचक्रस् तु द्विभुजो रूपसंस्थितः ॥

गमनेच्छा शिवा भार्या तस्य कार्या च वामतः ।

कार्यो गृहीतवक्त्रान्तः कराभ्यां पवनो द्विजः ॥

तथैव देवी कर्तव्या शिवा परमसुन्दरी ।

व्यावृतास्यस् तथा कार्यो देवीव्याकुलमूर्धजः ॥

वायुः ।

कर्तव्यः पद्मपत्राभो वरदो नरवाहनः ।

चामीकराभो वरदः सर्वाभरणभूषितः ॥

[१४७] लम्बोदरश् चतुर्बाहुर् व्यामपिङ्गललोचनः ।

उदीच्यवेषः कवची हारभारार्दितो हरः ॥

द्वे च दंष्ट्रे मुखे तस्य कर्तव्ये श्मश्रुधारिणः ।

वामेन विभवा कार्या मौलिस् तस्यारिमर्दन ॥

वामोत्सङ्गगता कार्या बुद्धिर् देवी वरप्रदा ।

देवपृष्ठगतं पाणिर् द्विभुजायास् तु दक्षिणम् ॥

रत्नपात्रधरं कार्यं वामं रिपुनिसूदन ।

गदाशक्ती च कर्तव्ये तस्य दक्षिणहस्तयोः ॥

सिंहार्कलक्षणं केतुं शिविकाम् अपि पादयोः ।

शङ्खपद्मनिधी कार्यौ सुरूपौ निधिसंस्थितौ ।

शङ्खपद्माञ्जलिक्रान्तं वदनं तस्य पार्श्वयोः ॥

धनदः । विष्णुधर्मोत्तरात् ।

नीलोत्पलाभं गगनं तद्वर्णां वरधारि च ।

चन्द्रार्कहस्तं कर्तव्यं द्विभुजं सौम्य दर्शनः ॥

आकाशम् ।

चतुरस्रं भवेन् मूलं ततो वृत्तं महाभुज ।

तत्तुल्यचतुरस्रं च मेरुवत् संस्थितं शुभम् ॥

भद्रपीठमयः प्रोक्तो व्य्ōमभागस् त्रितीयकः ।

स्तम्भवच् चतुरस्रश् च मध्यभागः प्रकीर्तितः ॥

[१४८] भद्रपीठवद् अन्यच् च तत्र पद्मं न्यवेदयेत् ।

शुभाष्टपत्रं तन्मध्ये कर्णिकायां दिवाकरः ॥

पत्राष्टके न्यसेत् तस्य दिक्पालान् सर्वतो दिशः ।

व्योम ।

विष्णुरूपधरः कार्यो ध्रुवो ग्रहगणेश्वरः ।

चक्ररश्मिकरः श्रीमान् द्विभुजः सौम्यदर्शनः ॥

ध्रुवः ।

रविः कार्यः शुभश्मश्रुः सिन्दूरारुणसुप्रभः ।

उदीच्यवेषः स्वाकारः सर्वाभरणभूषितः ॥

चतुर्बाहुर् महातेजा कवचेनाभिसंवृतः ।

कर्तव्या रसना चास्य पातीयाङ्गेति सञ्ज्ञिताः ॥

रश्मयस् तस्य कर्तव्या वामदक्षिणहस्तयोः ।

ऊर्ध्वे स्रग्दामसंस्थाना सर्वपुष्पचिता शुभा ॥

स्वरूपरूपः स्वाकारो दण्डः कार्यो ऽस्य वामतः ।

दक्षिणे पिङ्गले भागे कर्तव्याश् (?) चातिपिङ्गलः ॥

उदीच्यवेषौ कर्तव्यौ ताव् उभाव् अपि यादव ।

तयोर् मूर्ध्नि (?) च विन्यस्तौ करो कार्यौ विभावसोः ॥

लेखनौ पत्रकौ कार्यौ पिङ्गलश् चातिपिङ्गलः ।

चर्मशूलधरो देवस् तथा यत्नाद् विधीयते ॥

सिंहो ज्वजश् च कर्तव्यस् तथा सूर्यस्य वामतः ।

[१४९] चत्वारश् चास्य कर्तव्यास् तनया तस्य पार्श्वयोः (?) ॥

रेवन्तश् च यमश् चैव मनुद्वितयम् एव च ।

ग्रहराजो रविः कार्यो ग्रहैर् वा परिवारितः ॥

राज्ञी सवर्णा छाया च तथा देवी सुवर्चसा ।

चतस्रश् चास्य कर्तव्या पत्राश् च परिपार्श्वयोः ॥

एकचक्रे च सप्ताश्वे षडश्वे वा रथोत्तरे ।

उपविष्टस् तु कर्तव्यो देवो ह्य् अरुणसारथिः ॥

मत्स्यपुराणात् ।

पद्मासनः पद्मकरः पद्मगर्भदलद्युतिः ।

सप्ताश्वरथसंस्थश् च द्विभुजश् च सदागतिः ॥

सूर्यः ।

चन्द्रः श्वेतवपुः कार्यः श्वेताम्बरधरः प्रभुः ।

चतुर्बाहुर् महातेजाः सर्वाभरणभूषितः ॥

कुमुदौ च सितौ कार्यौ तस्य देवस्य हस्तयोः ।

कान्तिर् मूर्तिमती कार्या तस्य पार्श्वे तु दक्षिणे ॥

वामे शोभा तथा कार्या रूपेणाप्रतिमा भुवि ।

चिह्नं तथास्य सिंहाङ्कं वामपार्श्वे ऽर्कवद् भवेत् ॥

दशाश्वे च रथे कार्यौ द्वे (?) चक्रे वरमारथौ (?) ॥

मत्स्यपुराणे ।

श्वेतः श्वेताम्बरधरः श्वेताश्वः श्वेतभूषणः ।

[१५०] गदापाणिर् द्विबाहुश् च कर्तव्यो वरदः शशी ॥

चन्द्रः । विष्णुधर्मोत्तरात् ।

भौमो ऽग्नितुल्यः कर्तव्यस् त्वष्टा स्वे काञ्चने रथे ।

मत्स्यपुराणात् ।

रक्तमाल्याम्बरधरः शक्तिशूलगदाधरः ।

चतुर्भुजो मेषगमो वरदः स्याद् वरासुतः ॥

भौमः । विष्णुधर्मोत्तरात् ।

विष्णुतुल्यो बुधः कार्यो भौमतुले तथा रथे ॥

बुधः ।

तप्तजाम्बूनदाकारो द्विभुजश् च बृहस्पतिः ।

पुस्तकं चाक्षमालां च करयोस् तस्य कारयेत् ।

सर्वाभरणयुक्तश् च तथा पीताम्बरो गुरुः ॥

गुरुः ।

अष्टाश्वे काञ्चने दिव्ये रथे दृष्टिमनोरमे ।

शुक्रः श्वेतवपुः कार्यः श्वेताम्बरधरस् तथा ॥

द्वौ करौ कथितौ तस्य निधिपुस्तकसंयुतौ ।

दशाश्वे च रथे (?) कार्यो राजते भृगुनन्दनः ॥

[१५१] शुक्रः ।

कृष्णवासास् तथा कृष्णः शनिः कार्यः शिताननः ।

दण्डाक्षमालासंयुक्तः करद्वितयभूषणः ॥

कार्ष्णायसे रथे कार्यस् तथैवाष्टतुरङ्गमे ॥

शनिः ।

रौप्ये रथे तथाष्टाश्वे राहुः कार्यो विचक्षणिः ।

कम्बलं पुस्तकं कार्यं भुजेनैकेन संयुतः ।

करम् एकं तु कर्तव्यं शस्यं शून्य्ं तु दक्षिणम् ॥

राहुः ।

भौमवच् च तथा रूपं केतोः कार्यं विजानता ।

केवलं चास्य कर्तव्याः दशराजंस् तुरङ्गमाः ॥

केतुः । विश्वकर्मशास्त्रात् ।

तिथयो ह्य् अधुनोच्यन्ते प्रतिपद्विभुजारुणा (?) ।

मेषगा शक्तिपात्रा सा सितपक्षादिमा मता ॥

प्रतिपदः ।

द्वितीया हंसगा शुभ्रा पात्रपुस्तकधारिणौ ।

द्वितीयायाः ।

तृतीया वृषगा गौरी शूलपात्रधरा मता ।

[१५२] तृतीयायाः ।

नीलोत्पलदलाभासा चतुर्थी भूषकस्थिता ।

परशुं बिभ्रती पात्रं पीतवस्त्रा हि संयुता ॥

चतुर्थ्याः ।

पङ्कजस्था प्रवालाभा फणामस्तकभूषणा ।

शङ्खं मुद्रां तथा पाशं बिभ्राणा पञ्चमी मता ॥

पञ्चम्याः ।

मयूरगारुणा षष्ठी पात्रकुक्कुटधारिणी ।

षष्ट्याः ।

ताम्रवर्णाब्जपात्रा सा हयस्था सप्तमी मता ।

सप्तम्याः ।

घण्टापात्रधरा गोस्था गोक्षीरधवलाष्टमी ।

अष्टम्याः ।

नवमी हिंसगा शुभ्रा पात्रधरा शुभा ।

नवम्याः ।

कृष्णवर्णा लुलापस्था दशमी दण्डपात्रिणी ।

लुलापो महिषः । दशम्याः ।

[१५३] एकादशी मृगाब्जस्था तुलाकर्तरिकायुता ।

सिंहाननारुणगला तुन्दिला लासिनी परा ॥

एकादश्याः ।

द्वादशी गरुडरूढा मेघवर्णारपात्रिणी ॥

अरं चक्रम् । द्वादश्याः ।

चापवाणधरा गौरी मकरस्था त्रयोदशी ।

त्रयोदश्याः ।

अब्जस्था पाटलाभा सा पलपात्रसुरा भृता ।

नीलकण्ठेन्द्रगोपाभलोचनेयं चतुर्दशी ॥

चतुर्दश्याः ।

शशगा पौर्णिमा शुभ्रा मौक्तिकाभरणान्विता ।

सुधापूर्णघटा धीर वामदक्षिणबाहुका ॥

पौर्णमास्याः ।

धूमरा कृष्णपक्षाद्या मारसंस्था चतुर्मुखा ।

अक्षसूत्रं स्रुवं पुस्तीपात्रं धत्ते चतुर्भुजा ॥

कृष्णप्रतिपदः ।

द्वितीया कुमुदाभासा वृक्षस्था साक्षकुण्डिकाः ।

[१५४] कृष्णद्वितीयायाः ।

तृतीया तार्क्ष्यगा नीला शङ्खपात्रधरा द्विदोः ।

कृष्णतृतीयायाः ।

चतुर्थी कज्जलाभा सा महिषस्था चतुर्भुजा ।

धत्ते क्षमालिकां दण्डं पाशं पात्रं च दंष्ट्रिणी ॥

कृष्णचतुर्थ्याः ।

ग्राहस्था चन्द्रगौराभा पञ्चमी साक्षकुण्डिका ।

कृष्णपञ्चम्याः।

त्र्यक्षा मयूरगा रक्ता शक्तिकुक्कुटधारिणी ।

एकास्या द्विभुजा षष्टी रक्तवस्त्रा सुभूषणा ।

नीलकुन्तलकण्ठा सा जटाखण्डेन्दुभूषिता ॥

कृष्णषष्ट्याः ।

इभस्था सप्तमी गौरा द्विभुजा वज्रपात्रिणी ।

कृष्णसप्तम्याः ।

प्रेतगा वाष्टमी रक्ता कृष्णग्रीवा शितांशुका ।

अक्षं खड्गं तथा खेटं पात्रं धत्ते चतुर्भुजा ॥

कृष्णाष्टम्याः ।

सर्पगा नवमी नीला दंष्ट्रिणी पात्रतर्जनी ।

[१५५] कृष्णनवम्याः ।

सिंहासनस्थिता शुभ्रा दशमी पीतकुण्डला ।

ज्ञानमद्राक्षपात्रेयं पीतवस्त्राब्जमालिनी ॥

कृष्णदश्म्याः ।

एकादशी वृषस्थाब्जनीलशुभ्रारशूलिनी ।

कृष्णैकादश्याः ।

ताम्रवर्णा रथारूढा पात्रखेटासिपङ्कजा ।

द्वादशी शुभवस्त्रेयं नीलकुण्डलभूषिता ॥

कृष्णद्वादश्याः ।

अशोककलिका वाणचापपात्रा त्रयोदशी ।

मेचकाब्जासना श्यामा हरिद्वस्त्रा मदालसा ।

गदापात्रधरा गौरा निधिस्था वा त्रयोदशी ॥

कृष्णत्रयोदश्याः ।

द्विभुजा तुरगारूढा कृष्णवर्णा चतुर्दशी ।

खड्गभल्लधरा नीलकुण्डला शुकभूषणा ॥

कृष्णचतुर्दश्याः ।

[१५६] अमावास्या विधातव्या द्विर्दोर्मरकतप्रभा ।

दर्भासनस्थिता चेयं दर्भपिण्डधरा कृशा ॥

अमावास्यायाः ।

अथ नक्षत्ररूपाणि कथयामि समासतः ।

तत्रादाव् अश्विनी ज्ञेया पद्मपत्रनिभा शुभा ॥

अश्ववक्त्राम्बुजारूढा द्विभुजा च सिताम्बरा ।

दक्षे दिव्यौषधीपात्रं बिभ्रती पुस्तकं करे ॥

अश्विन्याः ।

भरणी महिषारूढा गजवक्त्राञ्जनप्रभा ।

दण्डपाशधरात्युग्रा रक्तदृक् परिकीर्तिता ॥

भरण्याः ।

छागस्था छागवक्त्रास्या पिङ्ग्भ्रूकेशलोचना ।

सूत्रं शक्तिं च बिभ्राणा पीनाङ्गजठरारुणा ।

कीत्तिका कीर्तिता चेयं स्वर्णमालाविभूषणा ॥

कृत्तिका ।

रोहिणी तुहिनाभासा सर्पवक्त्रा तु हंसगा ।

सूत्रकुण्डीधरा देवी कीर्तिता हारभूषणा ॥

रोहिण्याः ।

मृगानना हयास्या वा नागवक्त्राग्रहायिणी ।

[१५७] घृध्रस्था चन्द्रगौराभकुण्डिका जयमालिनी ॥

मृगशीर्षायाः ।

श्वमुखी कृष्णवर्णा तु रक्तार्द्रा शूलपाणिनी ।

नीलवस्त्रा वृषारूढा वास्थिमाला विभूषणा ॥

आर्द्रायाः ।

शूकरास्यो विडालस्थो गौरवर्णः पुनर्वसुः ।

सूत्रवज्राङ्कुशाभीतीर् बिभ्राणः परिकीर्तितः ॥

पुनर्वसोः ।

छागारूडश् च मेघाभः पुष्येयं मधुपिङ्गभाक् ।

अक्षचण्डासणी कुण्डीं दधानो ऽत्र चतुर्भुजः ॥

पुष्यस्य ।

कपिवक्त्रा मघा श्यामा कृशाङ्गी च महोदरा ।

दर्भपिण्डधराब्जस्था द्विभुजेयम् (?) उदीरिता ॥

मघायाः ।

पूर्वा हस्तिमुखा स्फस्था शुकहस्तद्वयारुणा ।

[१५८] स्कः (स्फः?) चक्रम् ।

पूर्व्यायाः ।

व्याघ्राननोत्तरा गोस्था शुभवर्णा चतुर्भुजा ।

द्व्यक्षिणी सूत्रखट्टाङ्गधारिणी परिकीर्तिता ॥

उत्तरायाः ।

गौरारुणो लुलापास्यो हस्तनामा हयस्थितः ।

अक्षवज्रभुजद्वन्द्वो भूतिदः परिकीर्तितः ॥

हस्तस्य ।

व्याघ्रास्या महिषारूढा चित्रा गौरा चतुर्भुजा ।

अक्षकुण्डी सपुस्ती च सुधापूर्णघटान्विता ॥

चित्रायाः ।

महिषस्था मृगारूढा गौरा श्यामाथ वा मता ।

पीना चतुर्भुजा स्वात्यक्षकुशध्वजपात्रिणी ॥

स्वात्याः ।

हर्यक्षवदना रक्ता नाभिपादान्तहेमभा ।

मेषच्छागस्थिता सेयं विशाखाङ्कुशवज्रिणौ ।

वामे शक्तिम् अधः पात्रं बिभ्राणा हेमभूषणा ॥

विशाखायाः ।

[१५९] हरिस्था च विडालास्या द्विभुजाम्बुजवज्रिणी ।

मूर्धादिनाभिपादान्तश्यामगौरा क्रमेण तु ।

अनुराधा परिज्ञेया पद्मरागविभूषणा ॥

अनुराधायाः ।

पीतवर्णा गजारूढा भल्लास्या वा मृगानना ।

अक्षसूत्रं पविन्धत्ते वामे ज्येष्ठाङ्कुशं शये ॥

ज्येष्ठायाः ।

मूलरूपं विधातव्यं श्यामं कुणपवाहनम् ।

खड्गखेटधरं चोग्रं द्विभुजं च वृकाननम् ॥

मूलस्य ।

कुम्भीरव्दना नीला मर्कटस्था चतुर्भुजा ।

अक्षसूत्रं कजं पाशं पात्रं या बिभ्रती सदा ।

पूर्वाषाढा समुद्दिष्टा पीतवस्त्राब्जभूषणा ॥

पूर्वाषाढायाः ।

सर्पगा चोत्तराषाढा गोरवर्णा सुरूपिणी ।

नागबन्धजटाजूटस्वर्णकुण्डलभूषिता ॥

अक्षनागधरा दक्षे वामे पुस्ती सकुण्डिका ॥

उत्तराषाढायाः ।

अभिजित् कुमुदाभा सा नक्रवक्त्रा तु हंसगा ।

[१६०] वरश्रुक्पुस्तकाभीतिसंयुतेयं चतुर्भुजा ॥

अभिजितः ।

नीररुक् तुरगारूढा श्रवणी मर्कटाननः ।

शङ्खचक्रगदाब्जानि बिभ्राणः स्वर्णभूषणः ॥

श्रवणस्य ।

तप्तचामीकराभा सा निधिस्था पङ्कजासना ।

पक्वबिम्बाधरा तन्वी पीनोन्नतपयोधरा ॥

दीर्घवेणी सपुष्पा सा मौक्तिकाभरणान्विता ।

चारुनेत्रा सुवेषाठ्या द्विभुजा वसनारुणा ॥

वरालयान्विता सौम्या धनिष्ठा परिकीर्तिता ।

धनिष्ठायाः ।

शुभ्रा मकरगाश्वाश्या द्विभुजा पाशपात्रिणी ।

पाटला वस्त्र्संयुक्ता कीर्तिता शततारका ॥

शतताराः ।

पूर्वा भाद्रपदा शुभ्रगोवक्त्रा छागगामिनी ।

मेषशीर्षधरा सेयं सीधुपात्रं च बिभ्रती ॥

पूर्वभाद्रपदायाः ।

गर्धभास्या वृषारूढा सिता भाद्रपदोत्तरा ।

पात्रं च डमरुं धत्ते द्विभुजेयम् उदीरिता ॥

[१६१] उत्तरभाद्रपदायाः ।

रेवती करभास्यास्या द्विभुजा हस्तिगामिनी ।

कमलं कुण्डिकां धत्ते श्वेतवर्णा महास्वना ॥

रेवत्याः ।

अथ योगानां ।

विष्कुम्भः प्रथमो ज्ञेयः पीतवर्णस् तु षड्भुजः ।

रक्तास्यो नीलकण्ठस् तु वृत्तनेत्रः सुभीषणः ॥

विशालभालो दीर्घाङ्गस् तङ्गनासो जटाधरः ।

लम्बकर्णेन्द्रनीलोत्थस्वर्णरत्नजकुण्डलः ॥

शुभ्रनीलेन्द्रगोपालाभवसनः स्वर्णभूषणः ।

मुद्गरं प्रथमे दक्षे द्वितीये कर्तरीम् इह ॥

तृतीये कुलिशं पाणौ वामाद्ये टङ्कम् एव च ।

श्वेनपुच्छं द्वितीये च तृतीये चामृतं धटम् ॥

बिभ्राणः पूजनीयो ऽयं पीतपुष्पैः सुगन्धिभिः ।

कार्यनिष्पत्तये नूनम् अन्यथा विघनदायकः ॥

विष्कुम्भस्य ।

प्रीतिनामा द्वितीयस् तु जवाकुसुमसन्निभः ।

श्वेतवक्त्रो विशालाक्षो लम्बकर्णेन्दुकुण्डलः ॥

भालालितिलकोपेतः सौम्यो मुक्ताविभूषणः ।

श्वेतवस्त्रो जटामौलिर् अष्टबाहुर् वृकोदरः ॥

बन्धुपुष्पाङ्कजीवोत्थमल्लिकामादिमे यमे ।

[१६२] द्वितीये मोदकं पाणौ तृतीये कदलीफलम् ॥

चतुर्थे पङ्कजं चैव वामाद्ये चामृतं घटम् ।

द्वितीये चात्र वै पात्रं सोमपूर्णं मनोहरम् ॥

तृतीये कुलिशं हस्ते चतुर्थे चात्र वै ध्वजाम् ।

दधानो भूतये प्रीत्यै सर्वतापनिवृत्तये ॥

प्रीतेः ।

आयुष्मांस् तु तृतीयो ऽयं मौक्तिकाभो ऽरुणोदरः ।

क्षौमवस्त्रान्वितश् चैव मुक्तासौवर्णभूषणः ॥

द्विभुजः प्रथमे दक्षे चाक्षसूत्रं च मौक्तिकम् ।

दूर्वाम् अत्र द्वितीये वै तृतीये चूतपल्लवम् ॥

चतुर्थे पङ्कजं चैव पञ्चमे चातपत्रकम् ।

सुधाकुम्भं तु वामाद्ये बीजपूरपिधानकम् ॥

पात्रं दध्यक्षतोपेतं द्वितीये करपल्लवे ।

तृतीये श्रीफलं हस्ते चतुर्थे पविम् एव च ॥

पञ्चमे चामरं हस्ते स्वर्णदण्डं सितं शुभम् ।

धारयेन्न् एष वै पूज्यो भोगायुष्यविवृद्धये ॥

आयुष्मतः ।

सौभाग्याख्यश् चतुर्थो ऽत्र स्फाटिकाभस् त्रिलोचनः ।

स्कन्धारुणो महासत्वः सुन्दरः कुमुदाम्बरः ॥

दशबाहुरयश् चार्के प्रथमे श्रीफलं करे ।

अक्षसूत्रं प्रवालोत्थं द्वितीये करपल्लवे ॥

तृतीये (?) कमलं हस्ते चतुर्थे वारवालकम् ।

[१६३] पञ्चमे शक्तिम् अत्रैव वामाद्ये पात्रम् एव च ॥

द्वितीये चामृते कुम्भं तृतीये तु प्रकीर्णकम् ।

चतुर्थं दर्पणं हस्ते वेक्षुदण्डं च पञ्चमे ॥

बिभ्राणः सौम्यः सौभाग्यो वृद्धये चायुषे श्रिये ।

सौभाग्यस्य ।

शोभनः पञ्चमो योगः श्वेतावक्त्रो वशी बली ।

शेषोरुणकृशश् चाङ्गः प्रवालक्र्तकुण्डलः ॥

शोणशुकलाम्बरश् चैव मुक्ताविद्रुमभूषणः ।

अक्षसूत्रं सुहेमोत्थं प्रथमे दक्षिणे करे ॥

द्वितीये पङ्कजं हस्ते तृतीये श्रीफलं शये ।

तूर्ये शक्तिं कराम्भोजे वामाद्ये वै कमण्डलुम् ॥

द्वितीये स्वर्णजं पात्रं तृतीये चैव दर्पणम् ।

चतुर्थे चामरं पाणौ दारयन्न् अष्टदोर् इति ॥

पूजनीयो महाभक्त्या सौख्यसौभाग्यवृद्धये ।

शोभनस्य ।

अतिगण्डाभिधश् चाथ षष्ठो योगः प्रतीयते ।

गण्डारुणसितः क्रूरः कृष्णवक्त्रो ऽर्कभूषणः ॥

स्थूलो वृद्धश्रुतिस् तुङ्गनासिको ऽरुणभूषणः ।

पिङ्गश्मस्त्रुजटामौलिः षड्भुजः कटिसूत्रवान् ॥

अक्षसूत्रं यम् आदित्ये लोहजं करपल्लवे ।

एणं मृगं द्वितीये च तृतीये चैव वारिजम् ॥

[१६४] पात्रं वामाद् इमे पाणौ द्वितीये शक्तिम् एव च ।

पताकां तु तृतीये वै दधानः कृष्णलोहितैः ॥

पूजनीयो महाभक्त्या दुष्टभीतिनिवृत्तये ॥

अतिगण्डस्य ।

चतुर्भुजः सुकर्मा वै श्वेतबाहूदरश्रुतिः ।

नीलशुभ्रांशुकोपेतः स्वर्णनीलविभूषणः ॥

रुद्राक्षमालिकाम् अर्के प्रथमे करपल्लवे ।

द्वितीये कमलं पाणौ वामादौ दण्डम् एव च ॥

पताकाम् अत्र वै हस्ते द्वितीये सुमनोहरे ।

भ्भ्रत् सुवृद्धये नॄणां कर्मारम्भशुभप्रदः ॥

सुकर्मणः ।

धृत्याख्यश् चाष्टमो योगः कथ्यते वसुवाहुकः ।

भालारुणस् तु सर्वाङ्गे श्वेतवर्णारुणाम्बरः ॥

स्वर्णमुक्तेन्द्रनीलाढ्यो विद्रुमान्वितभूषणः ।

मुक्ताक्षमालिकां दक्षे प्रथमे रत्नमुद्रिके ॥

द्वितीये श्रीफलं पाणौ तृतीये ऽशोकपल्लवम् ।

चतुर्थे हेमजं दण्डं वामाद्ये वै कमण्डलुम् ॥

द्वितीये चामृतं पात्रं तृतीये चाम्बुजं करे ।

पताकाम् अत्र वै तुर्ये बिभ्राणः श्रीविवृद्धये ॥

धृतेः ।

नवमः शूलनामाथ कथ्यते व्यक्तभागतः ।

[१६५] ताम्रारुणगलश् चैव श्वेतवर्णः कृशोदरः ॥

भालरेखात्रयश् चैव त्रिजटी नीलकुन्तलः ।

अर्कहस्ते यमादिस्थे त्रिशूलं चातिभीषणम् ॥

द्वितीये मुद्गरं पाणौ तृतीये चाक्षसूत्रकम् ।

चतुर्थे शृङ्खलाम् अत्र पञ्चमे दण्डम् एव च ॥

षष्ठे चैवाम्बुजं पाणौ कपालं चोत्तराद् इमे ।

टङ्कं द्वितीयके चैव तृतीये वै कमण्डलुम् ॥

सन्दंशं तु करे तुर्यं पञ्चमे चैव दर्पणम् ।

पताकाम् अत्र वै षष्ठे धारयन्न् एष पूजितः ॥

भवेद् अनिष्टनाशाय वैरिविध्वस्तये नृणाम् ॥

शूलस्य ।

गण्डाख्यः कथ्यते योगो दशमः सो ऽयम् अत्र हि ।

गण्डः शुभ्रारुणाङ्गस् तु षड्भुजो मेचकाम्बरः ॥

हरिन्मणिविभूषाढ्यो नीलविद्रुमकुण्डलः ।

अक्षसूत्रं यमादिस्थे द्वितीये चन्द्रहासकम् ॥

तृतीये वारिजं नीलं वामाद्ये वै कमण्डलुम् ।

द्वितीये खेटकं हस्ते पताकां च तृतीयके ॥

विधानो यज्वनस् तुष्ट्यै रोगानिष्टनिवृत्तये ॥

गण्डस्य ।

एकादशस् तु वृद्ध्याख्यः कथ्यते रसचन्ददोः ।

पादारुणापरश्वेतो भालविस् तीर्णमण्डलः ॥

विचित्रवसनोपेतो मुक्तासौवर्णभूषण्ः

[१६६] अक्षसुत्रं यमादिस्थे द्वितीये चामृतं घटम् ॥

तृतीये नन्दकं पाणौ चतुर्थे वाणम् एव च ।

पञ्चमे मुग्दरं चैव षष्ठे सन्दंशम् एव च ॥

सप्तमे कम्बुम् अत्रैव पङ्कजं चाष्टमे शये ।

कुण्डिकाम् आदिमे वामे द्वितीये पत्रम् एव च ॥

तृतीय खेटकं हस्ते चतुर्थे चैव कार्मुकम् ।

पञ्चमे टङ्कमत्रैव षष्ठे वैणं विषाणकम् ॥

सप्तमे चापम् अत्रैव पताकाम् अष्टमे करे ।

बिभ्राणः स्रेय्सो व्र्द्ध्यै चान्युगोरधनस्य च \

वृद्धेः ।

द्वादशो ध्रूवनामा वै योगश् चात्रैव कथ्यते ।

दक्षस्थालारुणश् चैव श्वेतसर्वाङ्ग एव च ॥

माञ्जिष्ठवसनोपेता हेममुकाविभूषणः ।

चतुर्दशभुजोपेतो दक्षिणाद्ये ऽक्षसूत्रकम् ॥

द्वितीये तु कजं खड्गं तृतीय चैव मुद्गरम् ।

चतुर्थे सायकं हस्ते पञ्चमे चैव पङ्कजम् ॥

षष्ठे मनोहरंशङ्खं सप्तमे चामरं शये ।

पात्रं सौम्यादिमे पाणौ द्वितीये चैव खेटकम् ॥

टङ्कं तृतीयके हस्ते चतुर्थे चैव कार्मुकम् ।

पताकाम् अत्र वै हस्ते पञ्चमे वरलक्षणे ॥

षष्ठे मनोहरादर्शो सप्तमे च क्रमाद् दधत् ।

पूजनीयो महाभक्त्या लक्ष्मी स्थैर्यादिहेतवे ॥

[१६७] ध्रुवस्य ।

कथ्यते चाधुना योगो व्याघाताख्यस् त्रयोदशः ।

नाभ्यूर्ध्वं (?) लोहितश् चायं श्वेतपूर्वस् त्रिलोचनः ॥

अन्तःश्वेतारुणप्रान्तवसनः सूर्यकुण्डलः ।

गले स्फटिकमालो ऽसौ शेषरुद्राक्षभूषणः ॥

मणिबन्धालिवर्णस् तु षड्भुजः कुटिलाननः ।

पङ्कजं प्रथमे दक्षे द्वितीये परशुंशये ॥

तृतीय चात्र वै पाशं वामे पात्रम् इहादिमे ।

द्वितीये चामृतं कुम्भं तृतीये चाङ्कुशं शये ॥

बिभ्राणो ऽयं महापूज्यः कार्यभ्रंशतिवृत्तये ॥

व्याघातस्य ।

अधुना कथ्यते योगो हर्षणाख्यश् चतुर्दशः ।

जानूर्द्धे लोहितश् चायं तत्पूर्वं श्वेत एव च ॥

पाटलाभांशुकोपेतो मुक्तावैदूर्यभूषणः ।

भुजद्वादशकोपेतो लम्बकर्णो विशालदृक् ॥

कौस्तुभं प्रथमे दक्षे द्वितीये चाक्षसूत्रकम् ।

तृतीये पङ्कजं हस्ते चतुर्थे बाणम् एव च ॥

पञ्चमे शङ्खम् अत्रैव षष्ठे पाशं कराम्बुजे ।

वामादिमे करे पात्रं द्वितीये चामृतं घटम् ॥

तृतीये परशुं हस्ते चतुर्थे चैव कार्मुकम् ।

पञ्चमे तु करे चक्रं षष्ठे चैवाङ्कुशं शये ॥

बिभ्राणः श्रेयसे भूत्यै मानोन्नत्यै सुखाय च ।

[१६८] हर्षणस्य ।

अथ पञ्चदशी योगः कथ्यते वज्रसञ्ज्ञकः ।

श्वेताहिकाञ्चीं बिभ्राणः कृष्णग्रीवारुणाननः ॥

रोचनावसनोपेतो विद्धकर्णस् त्रिलोचनः ।

वज्रवैदूर्यभूषाढ्यः कटिसूत्रसमन्वितः ॥

जटां त्रिवलयं बिभ्रत् दिग्भुजः परितो बली ।

अक्षसूत्रं यमादित्ये द्वितीये बाणम् एव च ॥

तृतीये पङ्कजं हस्ते चतुर्थे कुलिशं शये ।

पञ्चमे परशुं पाणौ वामाद्ये चामृतं घटम् ॥

द्वितीये कार्मुकं चैव तृतीये पात्रम् उत्तमम् ।

चतुर्थे कुलिशं चैव पञ्चमे पाशम् एव च ॥

बिभ्रद्विजयसौख्याय लक्ष्मीसन्तानवृद्धये ।

वज्रस्य ।

कथ्यते चाधुना योगः सिद्धिनामा तु षोडशः ।

पादजङ्घारुणश् चोर्द्ध्वे श्वेतवर्णः शुभाननः ॥

दिग्भुजो लोहितग्रीवो लोहितानिहिताम्बरः ।

मुक्ताहारमणिस्वर्णभूषणः सोमकुण्डालः ॥

श्रीफलं प्रथमे दक्षे द्वितीये चैव पङ्कजम् ।

तृतीय पुस्तकं हस्ते चतुर्थे बाणम् एव च ॥

पञ्चमे तु ध्वजं हस्ते वामे पात्रम् इहादिमे ।

द्वितीये चामृतं कुम्भं तृतीये चैवे चामरम् ॥

चतुर्थे चैवे कोदण्डं पताकाम् इह पञ्चमे ।

[१६९] दधानः सिद्धये नॄणां वाञ्छितार्थस्य सिद्धिदः ॥

सिद्धेः ।

व्यतीपाताभिधश् चैव योगः सप्तदशस् त्व् इह ।

कण्ठेन लोहितश् चायं श्वेतग्रीवो ऽलिमाननः ॥

शुभ्रमाञ्जिष्टवसनो नीलस्वर्णजभूषणः ।

अष्टादशभुजो देवो भ्रुकुटीकुटिलाननः ॥

दात्रमर्कादिमे हस्ते द्वितीये लोष्ठभेदनम् ।

अक्षसूत्रं तृतीये तु तुर्ये बाणं मनोहरम् ॥

पञ्चमे शृङ्खलां लौहीं षष्टे कवचम् एव च ।

सप्तमे मुद्गरं हस्ते पङ्कजं चाष्टमे करे ॥

कुद्दालं नवमे हस्ते शृङ्गिकाम् आदिमोत्तरे ।

पात्रं द्वितीयके चैवे स्वर्णकुम्भं तृतीयके ॥

चतुर्थे कार्मुकं पाणौ पञ्चमे कर्तिकाम् इह ।

मुशलं तु षष्ठे सप्तमे टङ्कम् एव च ॥

अष्टमे च ध्वजं हस्ते नवमे प्राङ्कुटं शये ।

दधानो वैरिवर्गस्य ध्वस्तये चैव मृत्यवे ॥

यज्वनः पुत्रसन्तत्यै लक्ष्मीभोगसुखाय च ॥

व्यतीपातस्य ।

अष्टादशो वरीयांश् च कथ्यते योग उत्तमः ।

आकण्ठशुभ्रवर्णस् तु लोहितग्रीव एव च ॥

श्वेतवक्त्रो विशालाक्षो लम्बकर्णो ऽर्ककुण्डलः ।

[१७०] स्वर्णाभरणभूषाढ्यो लक्षणानेकसंयुतः ॥

सिताम्बरो ऽरुणप्रान्तो द्वात्रिंशद्भुजसंयुतः ।

अक्षसूत्रं यमादित्ये द्वितीये बीजपूरकम् ॥

चन्द्रहासं तृतीये तु तुर्ये बाणं कराम्बुजे ।

पञ्चमे शङ्खम् अत्रैव षष्ठे परशुम् एव च ॥

सप्तमे मुद्गरं हस्ते चाष्टमे दात्रम् एव च ।

नवमे चात्र वै शृङ्गं दशमे कमलं करे ॥

एकादशे पविं चात्र द्वादशे हलम् एव च ।

दण्डं त्रयोदशे हस्ते शक्तिम् अस्त्रं चतुर्दशे ॥

कजं पञ्चदशे हस्ते षोडशे ऽथ त्रिशूलकम् ।

घठं वामादिमे पाणौ पत्रम् अत्र द्वितीयके ॥

तृतीये खेटकं चैव तुर्ये कार्मुकम् एव च ।

चक्रं तु पञ्चमे हस्ते षष्ठे चैव कुठारकम् ॥

सप्तमे टङ्कम् अत्रैव चामरं चाष्टमे शये ।

नवमे डमरुं चैव दशमे चात्र वल्लकीम् ॥

एकादशे शृणिं चैव द्वादशे मुशलं शये ।

त्रयोदशे तु वै पाशं गदाम् अत्र चतुर्दशे ॥

दर्पणं तिथिजे हस्ते ध्वजम् अत्रैव षोडशे ।

दधानः श्रेयसे भूत्यै सर्वभोगसुखाय च ॥

वरीयसः ।

एकोनविंशकश् चात्र कथ्यते परिघासनः ।

[१७१] पादजान्वन्तशुभ्रो ऽसौ श्वेतवक्त्रो जटाधरः ॥

मध्यारुणोदरे नीलरेखासंयुत एव च ।

नीलाम्बरो महासत्वो हेमरत्नजकुण्डलः ॥

सुवर्णभूषणोपेतो षड्भुजः क्रूरदर्शनः ।

गदाम् अर्कादिमे हस्ते द्वितीये परिघं शये ॥

तृतीये कमलं पाणौ वामाद्ये पात्रम् एव च ।

द्वितीये पट्टिशं हस्ते तृतीये चात्र वै ध्वजम् ॥

बिभ्राणः शत्रुनाशाय दुष्टभीतिनिवृत्तये ॥

परिघस्य ।

अथ विंशतिमो (?) योगः शिवाख्यश् चात्र कथ्यते ।

शुभ्रवर्णस् त्रिनेत्रस् तु मौक्तिकाभरणान्वितः ॥

दक्षिणे प्रथमे हस्ते वीजपूरं मनोहरम् ।

अक्षसूत्रं द्वितीये च तृतीये कम्बुम् एव च ॥

चतुर्थे सायकं हस्ते पञ्चमे चन्द्रहासकम् ।

मुद्गरं च करे षष्ठे सप्तमे परशुं शये ॥

कुद्दालम् अष्टमे पाणौ नवमे दात्रम् एव च ।

दशमे चात्र वै शृङ्गं पविम् एकादशे त्व् इह ॥

द्वादशे पञ्चशाखां वै लोष्टभेदनम् एव च ।

त्रयोदशे हलं चैव शक्तिम् अस्त्रं चतुर्दशे ॥

करे पञ्चदशे दण्डं षोडशे चाम्बुजं त्व् इह ।

त्रिशूलं मुनिचन्द्रे च वसुचन्द्रे च तोमरम् ॥

वामादिमे शये पात्रं द्वितीये चामृतं घटम् ।

[१७२] तृतीये चक्रम् अत्रैव चतुर्थे वै शरासनम् ॥

पञ्चमे खेटकं हस्ते षष्ठे टङ्कं कराम्बुजे ।

कुठारं सप्तमे पाणौ प्राङ्कुटं चाष्टमे त्व् इह ॥

नवमे चामरं शुभ्रं दशमे डमरुं त्व् इह ।

शृणिम् एकादशे हस्ते द्वादशे चैव दर्पणम् ॥

अष्टादशे शये कुन्तं बिभ्राणः शान्तिवृद्धये ॥

शोभनस्य ।

एकविंशो ऽधुना योगः सिद्धिनामाभिधीयते (?) ।

जवाकुसुमसङ्काशः शुभ्ररेखात्रयोदरः ॥

जटाभिर् अष्टभिस् तस्य मुकुटः खण्डचन्द्रयुक् ।

शोणशुभ्रांशुकोपेतः स्फाटिकाभरणान्वितः ॥

वसुपक्षभुजः सौम्यस् तुन्दिलः सर्वलक्षणः ।

तोमरं चादिमे दक्षे द्वितीये ऽत्र त्रिशूलकम् ॥

तृतीये पङ्कजं पाणौ तुर्ये दण्डं सुवर्णजम् ।

पञ्चमे तु करे शक्तिं षष्ठे वै लाङ्गलं शये ॥

सप्तमे कुलिशं हस्ते शृङ्गम् अत्रैव चाष्टमे ।

नवमे दात्रम् अत्रैव दशमे तु परस्वधम् ॥

मुद्गरं रुद्रहस्ते वै द्वादशे चन्द्रहासकम् ।

त्रयोदशे शये बाणं शङ्खम् अत्र चतुर्दशे ॥

[१७३] कुम्भम् इद्रादिमे हस्ते द्वितीये डमरुं शये ।

पात्रं तु नवेमे हस्ते दशमे वै कुठारकम् ॥

टङ्कम् एकादशे हस्ते द्वदशे चैव खेटकम् ।

त्रयोदशे शये चापं चक्रम् अत्र चतुर्दशे ॥

दारयन् पूजनीयो ऽसौ भोगसौख्यश्रिये जये ॥

सिद्धेः ।

साध्यो द्वाविंसकश् चैव कथ्यते योग एव सः ।

शुभ्रवर्णो विशालाक्षो वह्निरेखागलाननः ॥

कौसुम्भवसनोपेतो वज्रवैदूर्यकुण्डलः ।

देववह्निभुजोपेतो मेखलानेकरत्नयुक् ॥

अक्षसूत्रं यमादित्ये द्वितीये बीजपूरकम् ।

तृतीये शक्तिम् अत्रैव तुर्ये चैव त्रिशूलकम् ॥

पञ्चमे सायकं हस्ते षष्ठे वज्रं कराम्बुजे ।

सप्तमे पङ्कजं पाणौ दण्डम् अत्रैव चाष्टमे ॥

नवमे तोमरं पाणौ दशमे शक्तिम् एव च ।

एकादशे हलं हस्ते द्वादशे शृङ्गम् एव च ॥

त्रयोदशे शये खड्गं परशुं तु चतुर्दशे ।

करे पञ्चदशे रम्ये मुद्गरं कठिनाङ्गुलौ ॥

षडशे दात्रम् अत्रैव शङ्खं सप्तदशे त्व् इह ।

वामादिमे करे कुण्डीं द्वितीये पात्रम् एव च ॥

तृतीये चाभयं हस्ते तुर्ये डमरुम् एव च ।

[१७४] पञ्चमे कार्मुकं पाणौ षष्ठे चैवाङ्कुशं शये ॥

सप्तमे तु ध्वजं दिव्यम् अष्टमे पाशम् एव च ।

नवमे कुन्तम् अत्रैव दशमे तु गदाम् इह ॥

मुशलं रुद्रहस्ते वै द्वादशे चैव चामरम् ।

त्रयोदशे करे खेटं कुठारं तु चतुर्दशे ॥

टङ्कं पञ्चदशे पाणौ षोडशे चैव दर्पणम् ।

चक्रं सप्तदशे हस्ते दधानः श्रीविवृद्धये ॥

साध्यस्य ।

शुभनामा त्रयोविंशो योगश् चात्रैव कथ्यते ।

नीलकालिकशोणस् तु मौक्तिकाभस् त्रिलोचनः ॥

शोणरेखाङ्कितग्रीवः शोणशुभ्रांसुकावृतः ।

मुक्ताविद्रुममाणिक्यभूषणः स्वर्णकुण्डलः ॥

दात्रिंशद्बाहुसंयुक्तो जटाकपिलमण्डलः ।

वरं यमादिमे पाणौ द्वितीये चाक्षसूत्रकम् ॥

तृतीये च त्रिशूलं वै तुर्ये बाणं कराम्बुजे ।

पञ्चमे पङ्कजं चैव षष्ठे कुलिशम् एव च ॥

सप्तमे शक्तिम् अत्रैव दण्डं वै चाष्टमे करे ।

नवमे तोमरं हस्ते दशमे शृङ्गिकाम् इह ॥

हलम् एकादशे चैव द्वादशे खड्गम् अत्र हि ।

दत्रं त्र्योदशे हस्ते मुद्गरं च चतुर्दशे ॥

शङ्खं पञ्चदशे पाणौ षोडशे तु परस्वधम् ।

अभयं चादिमे वामे द्वितीये वै कमण्डलुम् ॥

[१७५] तृतीये पात्रम् अत्रैव तुर्ये कार्मुकम् एव च ।

पञ्चमे डमरुं पाणौ षष्ठे चाङ्कुशम् एव च ॥

सप्तमे वीजपूरं वै ध्वजं वै चाष्टमे करे ।

नवमे पानपात्रं च दशमे कुन्तम् एव च ॥

गदाम् एकादशे हस्ते द्वादशे चैव खेटिकम् ।

चामरं मन्मथे पाणौ ऋअङ्कम् अत्र चतुर्दशे ॥

चक्रं पञ्चदशे चैव षोडशे तु कुठारकम् ।

बिभ्राणो भुक्तये पूज्यः सौन्दर्याय सुखाय च ॥

शुभस्य ।

चतुर्विंशतिम् अथात्र शुक्लाख्यः कथ्यते ऽधुना ।

चिबुके लोहितश् चायं चन्द्रगौरस् त्रिलोचनः ॥

जटामुकुटखण्डेन्दुनीलरेखास् त्रिलोचनः ।

सिन्दरवदनोपेतो भालालितिलकाङ्कितः ॥

प्रवालमौक्तिकस्वर्णभूषणः कण्ठकौस्तुभः ।

खवह्निवाहुसंयुक्तो रत्नमुद्रासमन्वितः ॥

शूर्पाक्षमालिकां याम्ये प्रथमे करपल्लवे ।

द्वितीये च त्रिशूलं वै तृतीये बाणम् एव च ॥

परम् वधं करे तुर्ये पञ्चमे शङ्खम् एव च ।

मुद्गरं चात्र वै षष्ठे सप्तमे दात्रम् एव च ॥

अष्टमे तु करे खड्गं नवमे चैव लाङ्गलम् ।

दशमे शृङ्गम् अत्रैव तोमरं रुद्रसम्मिते ॥

[१७६] द्वादशे तु करे दण्डं शक्तिम् अत्र त्रयोदशे ।

चतुर्दशे शये वज्रं करे पञ्चदशे कजम् ॥

वीजपूरं तु वामाद्ये द्वितीये पात्रम् एव च ।

तृतीये कार्मुकं पाणौ तुर्ये चैव कुठारकम् ॥

पञ्चमे चक्रम् अत्रैव षष्ठे टङ्कं कराम्बुजे ।

सप्तमे चामरं पाणौ खेटकं चाष्टमे शये ॥

नवमे तु गदाम् अत्र दशमे वामृतं घटम् ।

कुन्तम् एकादशे हस्ते द्वादशे पात्रम् एव च ॥

त्रयोदशे शृणिं चैव दर्पणं च चतुर्दशे ।

ध्वजं पञ्चदशे हस्ते दधानस् तु महाय च ॥

शुक्लस्य ।

पञ्चविंशतिमो योगो ब्रह्मनामा प्रतीयते ।

शोणोरूपाण्डुराशेषो चन्द्रगौरस् त्रिलोचनः ॥

नीलकालिकशोणस् तु ग्रीवास्वर्णस् त्रिरेखिकः ।

जटात्रयप्रलम्बो ऽसौ सौम्यः प्रहसितानन ॥

ताम्रवर्णांसुकोपेतः कण्ठरुद्राक्षमालिकः ।

सुक्तामाणिक्यहेमोत्थभूषणः सोमकुण्डलः ॥

वियद्वाण्दभुजोपेतः किङ्कणीजालमेखलः ।

सौम्याक्षमालिकां दक्षे प्रथमे तलशोभने ॥

द्वितीये तु वरं पाणौ धड्गम् अत्र त्रयोदशे ।

हलं चतुर्दशे हस्ते शृङ्गं पञ्चदशे त्व् इह ॥

षोडशे चैव लोहासिं मुनिरन्ध्रे च तोमरम् ।

[१७७] अष्टादशे शये दण्डं शक्तिम् एकोनविंशके ॥

करे विंशतिमे चक्रं त्व् एकविंशे शये कजम् ।

द्वाविंशे चमसं हस्ते त्रयोविंशे शये ऽर्बुदम् ॥

चतुर्विंशतिमे पाणौ सुदृष्टं लोहभेदनम् ।

पञ्चविंशे तु रक्षास्त्रं वामाद्ये वै कमण्दलुम् ॥

द्वितीये चाभयं हस्ते तृतीये चात्र वै ध्रुवम् ।

तुर्ये खट्वाङ्गम् एवेह कुद्दालं चैव पञ्चमे ॥

षष्ठे शरासनं पाणौ सप्तमे कवचं शये ।

अष्टमे पट्टिशं हस्ते नवमे वै सुदर्शनम् ॥

दशमे बीजपूरं वै पाशम् एकादशे करे ।

द्वादशे चात्र वै टङ्कं खेटम् अत्र त्रयोदशे ॥

चतुर्दशे कुठाराख्यं डमरुं तिथिसञ्ज्ञिते ।

षोडशे चामरं हस्ते कुम्भं सप्तदशे त्व् इह ॥

अष्टादशे गदाम् अत्र मुशलं नन्दचन्द्रमे ।

अङ्कुशम् विंशके हस्ते पाशं चैवैकविंशके ॥

द्वाविंशके ध्वजं शुभ्रं वीरभद्रं त्रिपक्षजे ।

जिने सुनिर्मलादर्शं पञ्च विंशे ऽजिनं शये ॥

दधानो यज्वनो गोत्रपरमायुर्विवृद्धये ॥

ब्रह्मणः ।

ऐन्द्रः षड्विंशकं चात्र कथ्यते तव साम्प्रतम् ।

[१७८] हस्तपादारुणश् चायं शेषः शुभ्रायते ऽक्षणः ॥

धर्मिल्लमल्लिकामाल्यचन्दनाद्यनुलेपनः ।

भालालितिलकश् चैव कर्णकुण्डलमेचकः ॥

मुक्ताहारोज्वलोरस्कः सर्वरत्नविभूषणः ।

शुभ्रशोचेन्द्रनीलाभव्सनः सर्वलकणः ॥

युग्मबाणभुजोपेतो मनागरुणलोचनः ।

शक्तिमर्कादिमे हस्ते द्वितीये मौक्तिकस्रजम् ॥

तृतीये कमलं पाणौ चतुर्थे शुक्तिकाम् इह ।

स्रुवन्तु पञ्चमे पाणौ षष्ठे चात्र त्रिशूलकम् ॥

सप्तमे चैव योधासिं कुद्दालं चाष्टमे करे ।

नवमे पत्रिकां चैव दशमे चन्द्रहासकम् ॥

एकादशे हलं हस्ते द्वादशे शृङ्गम् एव च ।

तोमरं मन्मथे पाणौ दण्डं चैव चतुर्दशे ॥

करे पञ्चदशे शक्तिं षोडशे कुलिशं शये ।

चक्रं च मुनिचन्द्रार्के वसुचन्द्रे परस्वधम् ॥

एकोनविंशके कन्दुं विंशके पुस्तकं त्व् इह ।

विष्टरे त्व् एकविंशे वै द्वाविंशे चैव मुद्गरम् ॥

चमसं तु त्रयोविंशे चतुर्विंशे त्व् इहार्बुदम् ।

पञ्चविंशतिमे हस्ते लोष्टभेदनम् एव च ॥

षड्विंशे च तुरुष्कास्रं वामाद्ये वाभयं शये ।

द्वितीये कुण्डिकाम् अत्र तृतीये बीजपूरकम् ॥

[१७९] तुर्यवामे घृतं पात्रं पञ्चमे स्रुवम् एव हि ।

षष्ठे खट्वाङ्गम् एवेह सप्तमे डमरुं शये ॥

अष्टमे प्राङ्कुटं पाणौ नवमे चैव कार्मुकम् ।

दशमे खेटकं हस्ते रुद्रे चैव कुटारकम् ॥

द्वादशे चामरं हस्ते कुन्तम् अत्र त्रयोदशे ।

गदां चतुर्दशे चैव मुशलं तिथिसम्मिते ॥

अङ्कुशं षोडशे हस्ते पाशं सप्तदशे करे ।

पट्टिशं वसुचन्द्राके चक्रं त्व् एकोनविंशके ॥

कवचं विंशके चैव दात्रं चैवैकविंशके ।

द्वाविंशके तु वै टङ्कं त्रयोविंशे धव्जं त्व् इह ॥

वीरभद्रं चतुर्विंशे पञ्चविंशे तु दर्पणम् ।

अजिनं चात्र षड्विंशे बिभ्राणः श्रीविवृद्धये ॥

ऐन्द्रस्य ।

वैधृत्याख्यस् तु वै योगः सप्तविंशतिमस् त्व् इह ।

शुभ्रवर्णो महारौद्रो ग्रीवाशोणः सिताननः ॥

जटापञ्चप्रलम्बस् तु मेचकारुणकुण्डलः ।

नीलशोणसुवर्णोत्थभूषणो मेचकाम्बरः ॥

वेदवाणभुजोपेतो बृहत्कुक्षिसुमन्थरः ।

अक्षसूत्रं यमादित्ये द्वितीये वरम् एव च ॥

तृतीये चैव सन्दंशं तुर्ये शुक्तिं समुद्रजाम् ।

[१८०] पञ्चमे पङ्कजं पाणौ षष्ठे चात्र श्रुवं तथा ॥

सप्तमे सायकं पाणौ ज्ञानं खड्गम् इहाष्टमे ।

नवमे चैव कुद्दालं दशमे च त्रिशूलकम् ॥

शृङ्गम् एकादशे हस्ते द्वादशे हलम् एव च ।

त्रयोदशे तु वै खड्गं तोमरं तु चतुर्दशे ॥

करे पञ्चदशे दण्डं षोडशे शक्तिम् एव च ।

वज्रं सप्तदशे पाणौ कवचं वसुचन्द्रजे ॥

परशुं नन्दचन्द्रोत्थे विंशके चार्बुदं करे ।

एकविंशे शये चैव लोष्टभेदनम् एव च ॥

द्वाविंशे वै तुरुष्कास्त्रं त्रयोविंशे तु शङ्खकम् ।

पुस्तकं तु चतुर्विंशे पञ्चविंशे तु विष्टरम् ॥

षड्विंशे मुद्गरं पाणौ चमसं सप्तविंशके ।

वामादिमे करे कुण्डीम् अभयं तु द्वितीयके ॥

मीनं तृतीयके हस्ते चतुर्थे बीजपूरणम् ।

पञ्चमे पात्रम् अत्रैव षष्ठे चैव श्रुवङ्करे ॥

सप्तमे कार्मुकं पाणौ डमरुं चाष्टमे करे ।

नवमे प्राङ्कुटं हस्ते खट्वाङ्गं चैव दिक्करे ॥

चामरं रुद्रजे चैव द्वादशे ऽत्र कुठारकम् ।

खेटं त्रयोदशे चैव कुन्तम् अत्र चतुर्दशे ॥

गदां पञ्चदशे पाणौ षोडशे मुशलं त्व् इह ।

शृणिं सप्तदशे हस्ते पाशम् अष्टादशे करे ॥

पट्टिशं नन्दचन्द्रोत्थे वीरभद्रं तु विंशके ।

एकविंशे शये टङ्कं द्वाविंशे चाजिनं करे ॥

[१८१] त्रयोविंशे तु वै चक्रं कवचं जिनहस्तके ।

पञ्चविंशे तु वै पात्रं षड्विंशे दर्पणं शुभम् ॥

सप्तविंशे ध्वजं हस्ते धारयन् दुष्टघातकृत् ॥

वैधृतेः ।

इति योगानां रूपाणि ।

करणानाम् अथो वक्ष्ये रूपसम्बन्धिलक्षणम् ।

ववाभिधं तु वै पीतं जटिलं रत्नकुण्डलम् ॥

नीलवस्त्रं तु रुद्राक्षभूषणं कण्ठपाण्डुरम् ।

चतुर्दशभुजोपेतं पिङ्गभ्रूलोचनत्रयम् ॥

वरं यमादिमे हस्ते द्वितीये बाणम् एव च ।

तृतीये कुलिशं पाणौ चतुर्थे चैव पङ्कजम् ॥

मुद्गरं पञ्चमे चैव षष्ठे सन्दंशम् एव च ।

सप्तमे वाङ्कुशं दिव्यं पञ्चशाखे महोदरे ॥

प्रथमे वाभयं वामे द्वितीये तु शरासनम् ।

तृतीये पुस्तकं हस्ते चतुर्थे मुकुरं शये ॥

टङ्कं तु पञ्चमे पाणौ षष्ठे कर्तरिकाम् इह ।

करे तु सप्तमे चात्र नागपाशं दधच्छ्रिये ॥

बवस्य ।

वालवाख्यं तु वै रक्तं नीलग्रीवं महोदरम् ।

[१८२] श्वेतवस्त्रं जटाभारं पिङ्गलं तुङ्गनासिकम् ॥

कण्ठरुद्राक्षमालं तद्भूतिमत्कालपाण्डुरम् ।

रसचन्द्रकरोपेतं कक्षालग्नकरण्डकम् ॥

प्रथमे मोदकं हस्ते दक्षिणे सुमनोहरे ।

द्वितीये केतकीपत्रं तृतीये शक्तिम् एव च ॥

चतुर्थे पङ्कजं पाणौ पञ्चमे वै सुदर्शनम् ।

षष्ठे सर्वायसं बाणं सप्तमे कुलिशं करे ॥

सन्दंशम् अष्टमे हस्ते पात्रं वामादिमे त्व् इह ।

द्वितीये कुण्डिकाम् अत्र तृतीये चैव पट्टिशम् ॥

बीजपूरं करे तुर्ये पञ्चमे शङ्खम् एव च ।

कोदण्डम् अत्र वै षष्ठे सप्तमे कुलिशं करे ॥

अष्टमे पुस्तकं बिभ्रद् वश्याय विजयाय च ॥

वालवस्य

श्वेताब्जकर्णिकाभासं तृतीयं कौलवाभिदम् ।

रक्तकण्ठं पिकास्यं वै नीलश्वेतारुणाम्बरम् ॥

मुक्तारुद्राक्षसौवर्णभूषणं चेन्द्रनीलकम् ।

अष्टादशभुजोपेतं किङ्किणी कटिसूत्रकम् ॥

वरं यमादिमे हस्ते द्वितीये चाक्षसूत्रकम् ।

तृतीये स्वर्णजं दण्डं चतुर्थे चैव पुस्तकम् ॥

पञ्चमे मोदकं हस्ते षष्ठे सन्दंशम् एव च ।

सप्तमे डमरुं पाणौ वज्रम् अत्रैव चाष्टमे ॥

[१८३] नवमे शृङ्गिकाम् अत्र शोणगुञ्जाद्यनाम् इमाम् ।

अभयं चादिमे वामे द्वितीये वै कमण्डलुम् ॥

तृतीये वासवं पात्रं तुर्ये चाम्भोजम् उत्तमम् ।

पञ्चमे चामरं शुभ्रं षष्ठे दात्रं कराम्बुजे ॥

सप्तमे वल्लकीम् अत्र शृणिं चैवाष्टमे करे ।

नवमे कदलीपत्रं दधत् सम्पद् सुखाय च ॥

कौलवस्य ।

चतुर्थं तैतिलं नाम श्यामवर्णं कृशोदरम् ।

शोणवस्त्रं जवापुष्पमालिकं तैत्तिराननम् ॥

वियत्पक्षभुजोपेतं घण्टावद् वनितम्बकम् ।

प्रथमे दक्षिणे हस्ते श्रीफलं सुमनोहरम् ॥

खड्गम् अत्र द्वितीये वै तृतीये चैव पुस्तकम् ।

अक्षसूत्रं करे तुर्ये पञ्चमे बाणम् एव च ॥

षष्ठे सुदर्शनं दिव्यं सप्तमे कुलिशं त्व् इह ।

अष्टमे तु स्रुवं पाणौ नवमे चैव मुद्गरम् ॥

दशमे चाङ्कुशं हस्ते पात्रं वामादिमे करे ।

द्वितीये खेटकं चैव तृतीये वारिजं शुभम् ॥

चतुर्थे कुण्डिकाम् अत्र पञ्चमे चैव कार्मुकम् ।

षष्ठे मनोहरं शङ्खं सप्तमे चामरं सितम् ॥

स्रुवं चैवाष्टमे हस्ते नवमे टङ्कम् अत्र हि ।

दशमे तु करे पाशं बिभ्राणं यज्वनः श्रिये ॥

[१८४] तैतिलस्य ।

पञ्चमं चात्र विज्ञेयं करणं तु गराभिधम् ।

गोमुखं चित्रितग्रीवं धूमरं लोहिताम्बरम् ॥

पक्षपक्षभुजोपेतं कृतपद्माक्षभूषणम् ।

आदिमे दक्षिणे शक्तिं द्वितीये चक्रम् एव च ॥

तृतीये श्रीफलं हस्ते चतुर्थे चैव पङ्कजम् ।

पञ्चमे पुस्तकं रम्यं षष्ठे बाणं मनोहरम् ॥

सप्तमे गोवृषं शृङ्गं कुलिशं चाष्टमे करे ।

नवमे वल्लकीम् अत्र दशमे वीरभद्रकम् ॥

एकादशे तु सन्दंशं पञ्चशाखे मनोहरे ।

अभीतिम् उत्तरादिस्थे द्वितीये शङ्खम् अत्र हि ॥

पात्रम् अत्र तृतीये वै चतुर्थे चैव चामरम् ।

पञ्चमे डमरुं हस्ते षष्ठे चैव शरासनम् ॥

सप्तमे कुण्डिकाम् अत्र चाष्टमे दशचक्रकम् ।

नवमे तु करे वंशं दशमे चैव दर्पणम् ॥

एकादशे तु रुद्रास्त्रं बिभ्रत् कीर्तिसुखश्रिये ॥

गरस्य ।

वानरास्यं वणिक् धूम्रं पीतवस्त्रं वृषासनम् ।

युगबाहुयुतं चेदं षष्ठं कनकभूषणम् ॥

वरमर्कादिमे हस्ते द्वितीये चाक्षसूत्रकम् ।

तृतीये शुक्तिकाम् अत्र मोदकं तु चतुर्थके ॥

[१८५] पञ्चमे कुलिशं हस्ते षष्ठे शक्तिं कराम्बुजे ।

सप्तमे वैणवं दण्डं खड्गम् अत्रैव चाष्टमे ॥

नवमे पाशम् अत्रैव दशमे चैव वै ध्वजम् ।

एकादशे तुरुष्कास्त्रं द्वादशे वै सुदर्शनम् ॥

सौम्यादिमे करे ऽभीतिं द्वितीये वै कमण्डलुम् ।

बीजपूरं तृतीये ऽत्र पानपत्रं चतुर्थके ॥

पञ्चमे पञ्चवक्त्राख्यं षष्ठे चैवे तु पट्टिशम् ।

सप्तमे चामरं हस्ते खेटकं चाष्टमे शये ॥

नवमे चाङ्कुशं पाणौ दशमे हलम् एव च ।

एकादशे करे रम्यं दर्पणं चातिनिर्मलम् ॥

द्वादशे धारयन् शङ्खं लक्ष्मीसौभाग्यवृद्धये ॥

वणिजः ।

व्याघचर्माम्बरा भद्रा श्वेताभा गर्दभानना ।

सप्तबाहुसमोपेता त्रिपदा लोहभूषणा ॥

कर्तिकाम् आदिमे दक्षे द्वितीये तु गदाम् इह ।

तृतीये सायकं हस्ते चतुर्थे चन्द्रहासकम् ॥

खेटम् ऊर्ध्वकरे वामे तदधश् चैव कार्मुकम् ।

पात्रम् अस्माद् अस्हो वामे धारयन्ती रिपोर् भये ॥

भद्रायाः ।

अष्टमं शकुनिप्रख्यं करणं हरितप्रभम् ।

[१८६] प्रवालभूषणोपेतं शक्रगोपनिभाम्बरम् ॥

रसपक्षभुजोपेतम् एणवक्त्रं वृकोदरम् ।

आदिमे रविजे चक्रं द्वितीये वरम् एव च ॥

अक्षसूत्रं तृतीये तु तुर्ये चैव तु पङ्कजम् ।

पञ्चमे मोदकं हस्ते षष्ठे वज्रं कराम्बुजे ॥

सप्तमे तोमरं पाणौ शक्तिम् अत्रैव चाष्टमे ।

नवमे हस्तिजं दन्तं दशमे चन्द्रहास्कम् ॥

एकादशे करे बाणं द्वादशे वाङ्कुशं शये ।

त्रयोदशे गदाम् अत्र शङ्खं वामादिमे करे ॥

अभयं तु द्वितीये ऽत्र तृतीये वै कमण्डलुम् ।

बीजपूरं करे तुर्ये पञ्चमे पात्रम् एव च ॥

षष्ठे कराम्बुजे शृङ्गं सप्तमे कुन्तम् एव च ।

परिघं वाष्टमे हस्ते दण्डं तु नवमे शये ॥

खेटकं दशमे पाणौ धनुर् एकादशे शये ।

द्वादशे पात्रम् अत्रैव त्रिशूलं तु त्रयोदशे ॥

दधानः श्रेयसे भूत्यै विजयाय सुखाय च ।

तापाय चैव शत्रूणां विशेषेण समर्चितम् ॥

शकुनिः ।

चतुष्पदाभिधं चात्र नवमं कथ्यते जय ।

[१८७] कृष्णवर्णं चतुष्पादं चतुरास्यं जटान्वितम् ॥

मनुष्यास्यं तु वै पूर्वं दक्षीणं चैव गोमुखम् ।

अजास्यं पश्चिमं तस्य चोत्तरं शूकराननम् ॥

मनुष्याकारवत् सर्वं त्रिकपुच्छविनिर्गतम् ।

पौतवस्त्रं बृहत्कुक्षि नीलमुक्ताविभूषणम् ॥

वसुपक्षभुजोपेतं दीर्घनादं महाजवम् ।

दक्षिणाद्ये करे शक्तिं द्वितीये चाक्षसूत्रकम् ॥

सुदर्शनं तृतीये तु चतुर्थे चैव पङ्कजम् ।

पञ्चमे मुद्गरं चैव षष्ठे सोदकम् एव च ॥

सप्तमे तु गदां पाणाव् अष्टमे वाङ्कुशं शये ।

नवमे तु करे बाणं दशमे खड्गम् एव च ॥

एकादशे करे दन्तं द्वादशे शक्तिम् अत्र हि ।

त्रयोदशे शये चात्र तोमरं सुदृढं शुभम् ॥

चतुर्दशे तु वै वज्रं वामाद्ये भौतिम् एव च ¦

कमण्डलुं द्वितीये वै तृतीये शङ्खम् एव च ॥

चतुर्थे बीजपूरं वै पञ्चमे टङ्कम् एव च ।

षष्ठे पात्रं सुधापूर्णं सप्तमे च त्रिशूलकम् ॥

अष्टमे पात्रम् अत्रैव नवमे धनुर् एव च ।

दशमे खेटकं हस्ते दण्डम् एकादशे करे ॥

द्वादशे पट्टिशं पाणौ कुन्तम् अत्र त्रयोदशे ।

शृङ्गं चतुर्दशे बिभ्रद् गोत्रवृद्ध्यै सुपूजितः ॥

[१८८] नागाख्यं दशमं रक्तं नीलवस्त्रं जटाधरम् ।

मनुष्याकारम् एवैतन् मस्तकं न्यस्ततत्फलम् ॥

वियद्गुणभुजोपेतं मुक्तारुद्राक्षभूषणम् ।

प्रथमे मोदकं दक्षे द्वितीये चैव पङ्कजम् ॥

अक्षसूत्रं तृतीये ऽत्र वरं तुर्ये कराम्बुजे ।

पञ्चमे तु करे चक्रं षष्ठे वज्रं तु वै शवे ॥

सप्तमे तोमरं पाणौ शक्तिम् अत्रैव चाष्टमे ।

नवमे सोज्वलं दन्तं दशमे चन्द्रहासकम् ॥

बाणम् एकादश्ē हस्ते द्वादशे चाङ्कुशं शये ।

त्रयोदशे गदाम् अत्र तुरुष्कास्त्रं चतुर्दशे ॥

करे पञ्चदशे दात्रं वामे पात्रं तु चादिमे ।

बीजपूरं द्वितीये ऽत्र तृतीये वै कमण्डलुम् ॥

चतुर्थे चाभयं हस्ते पञ्चमे शङ्खम् एव च ।

षष्ठे कराम्बुजे शृङ्गं सप्तमे कुतम् उत्तमम् ॥

पट्टिशं चाष्टमे हस्ते नवमे दण्डम् अत्र हि ।

दशमे खेटकं चैव धनुर् एकादशे करे ॥

द्वादशे पाशम् अत्रैव त्रिशूलं च त्रयोदशे ।

चतुर्दशे दशास्यं वै करे पञ्चदशे ऽर्बुदम् ॥

दधानं विजयारोग्यं कुर्वीताभयदं नृणाम् ॥

नागस्य ।

एकादशं तु किन्तुघ्नं करणं कथ्यते ऽधुना ।

[१८९] गोक्षीरधवलं चैतत् पीतवस्त्रं हयाननम् ॥

सर्वाभरणसंयुक्तं द्वात्रिंशद्बाहुसंयुतम् ।

वरं चैवादिमे दक्षे द्वितीये चाक्षसूत्रकम् ॥

तृतीये सोज्वलं चक्रं तुर्ये चाब्जं कराम्बुजे ।

पञ्चमे मोदकं हस्ते षष्ठे वै कुलिशं शये ॥

सपतमे तोमरं पाणौ शक्तिम् अत्रैव चाष्टमे ।

नवमे गजदन्दं च दशमे खड्गम् उत्तमम् ॥

एकादशे तु वै बाणं द्वादशे शृणिम् एव च ।

त्रयोदशे गदाम् अत्र डमरुं च चतुर्दशे ॥

करे पञ्चदशे पुस्तीं परशुं चैव षोडशे ।

अभयं चादिमे वामे द्वितीये वै कमण्डलुम् ॥

शङ्खम् अत्र तृतीये वै चतुर्थे बीजपूरकम् ।

पञ्चमे चासवं पात्रं षष्ठे शृङ्गं मनोरहम् ॥

सप्तमे कुन्तम् अत्रैव चाष्टमे पट्टिशं शये ।

नवमे वैणवं दण्डं दशमे खेटम् एव च ॥

चापम् एकादशे पाणौ द्वादशे पात्रम् अत्र हि ।

त्रयोदशे त्रिशूलं वै टङ्कम् अत्र चतुर्दशे ॥

वीणाम् इष्विन्दुहस्ते च ध्वजं चैव तु षोडशे ।

धरय्द् वैरिणां ध्वस्त्यै पूजनीयं विपश्चिता ॥

विद्यालाभाय सन्तुष्टिविजयादिसुखार्थिना ।

किन्तुघ्नस्य ।

इति करणरूपाणि ।

[१९०] अथ राशिरूपाणि ।

मेषवक्त्रो नरो रक्तो द्विभुजः पङ्कजासनः ।

ज्ञानमुद्राङ्करः पीतवसनः कनकाङ्गदी ॥

मेषस्य ।

वृषाननो नरः शुभ्रो रक्तव्स्त्राक्षकुण्डिकः ।

वृषस्य ।

पुमान् गदी सवीणा वा योषिच् च मिथुनं सितम् ।

मिथुनस्य ।

ककटः कपिलो श्वास्यः कूर्ममुद्राधरो नरः ।

कर्कटस्य ।

सिंहवक्त्रो ऽरुणो ऽब्जस्थो द्विभुजो ऽभयपात्रयुक् ।

सिंहस्य ।

शुक्लासिभृत् सिता कन्या द्विभुजा पङ्कजासना ।

कन्यायाः ।

तुलाधरो नरो गौरः पिङ्गनेत्रकजासनः ।

तूलस्य ।

वृश्चिकस्थो नरः पिङ्गो द्विभुजो मर्कटाननः ।

दक्षे वृश्चिकमालाधृक् वामे पात्रं सुरायुतम् ॥

[१९१] वृश्चिकस्य ।

अश्ववक्त्रो नरश् चापी ज्याकृष्टकरदक्षिणः ।

धनुः ।

अक्षकुण्डीधरो नीलो मृगवक्त्रो नरो हि सः ।

मकरस्य ।

मकरास्यो सितो ऽभस्थो रिक्तकुम्बो नरो घटः ।

कुम्बस्य ।

मत्स्ययुग्मस्थितः श्यामो मत्स्यहस्तो वृहोदरः ।

मत्सवक्त्रो नरो मौनी हरिन्मणिविभूषिणः ॥

मौनस्य । विष्णुधर्मोत्तरात् ।

कालः करालवदनो नित्यगश् च विभीषणः ।

पाशहस्तश् च कर्तव्यः सर्पवृश्चिकरोमवान् ॥

कालस्य । विश्वकर्मशास्त्रात् ।

निमेषस् तु भवेद् अत्र मेचकाभोर्धनीलदृक् ।

अक्षसूत्रं करे दक्षे ज्ञानमुद्राम् अथोत्तरे ॥

दधानो योगसंसिद्ध्यै पूजनीयो विपश्चिता ।

[१९२] निमेषस्य ।

नीलवर्णा भवेत् काष्ठा पीतवस्त्रा त्रिलोचना ।

अष्टादशभुजोपेता ज्ञानपुस्तीसमन्विता ॥

काष्ठायाः ।

शुक्लवर्णा कला ज्ञेया नीलवस्त्रा त्रिलोचना ।

व्योमवज्राङ्करुद्राक्षकण्ठलिम्बितमालिका ॥

मुक्ताक्षमालिकार्का सा वामपङ्कजसंयुता ।

पूजनीया विशेषेण ज्ञान् विज्ञानहेतवे ॥

कलायाः ।

क्षणाभिधो भवेत् पीता मुनिपक्षसुमौक्तिकः ।

जटात्रिमौक्तिकोपेतश् चन्दनालिकपाण्डुरः ॥

मुक्तासूत्रार्कहस्तीयं वामे स्वर्णकमण्डलुः ॥

क्षणस्य ।

मुहूर्तान् अधुना वच्मि नामलक्षपृथक्फलैः ।

तत्रादिम् अस्तु रौद्राक्षः श्यामश्वेतारुणछविः ॥

श्वेतवस्त्रो महातुङ्गो दक्षिणे सर्पम् आदधत् ।

वामे पात्रं सुधापूर्णं क्षुद्रकर्मप्रसिद्धये ॥

रौद्रस्य ।

सिताभिधो द्वितीयस् तु श्वेतवर्णो महोदयः ।

[१९३] श्वेतशोणाभवस्त्रो ऽयं श्वेतमुक्ताविभूषणः ॥

दक्षिणे पङ्कजं शुभ्रं वामे चैव कमण्डलुम् ।

दधानस् तु श्रियौ पूज्यो योगवृद्ध्यै सुखाय च ॥

सितस्य ।

तृतीयो ऽथाजपाख्यस् तु कृष्णः शुभ्रो महातनुः ।

दक्षिणे पङ्कजं नीलं वामे सर्पं महाफणम् ।

बिभ्रद् विपुलभोगाय पूजनीयो महाधिया ॥

अजपस्य ।

तुर्यश् चार्यभटाख्यस् तु नीलः शुभ्रो महोदरः ।

दक्षिणे पुस्तकं हस्ते वामे चैव त्रिशूलकम् ।

दधानः श्रेयसे भूत्यै विजयाय सुखाय च ॥

आर्यभटस्य ।

अधुना चैव सावित्रः पञ्चमः पथ्यते जय ।

श्वेतवर्णो ऽश्वकत्रस् तु मेचकावसनान्वितः ॥

पुस्तकं दक्षिणे हस्ते वामे कुण्डं तु निर्व्रणम् ।

दधद् रोगविनाशाय पूजनीयो ऽप्य् अहर्निशम् ॥

सावित्र्यस्य ।

वैराजश् चात्र वै षष्ठः श्यामवर्णो जटाधरः ।

दक्षिणे तु करे दण्डं वामे चैव स्रुवं करे ॥

बिभ्रद् वृद्ध्यै च सौख्याय पूजनीयो ऽतिभक्तितः ।

[१९४] वैराजस्य ।

सप्तमश् चात्र गन्धर्वस् ताम्रवर्णः कृशोदरः ।

दक्षिणे वल्लकीं पाणौ वामे शक्तिश् च धारयेत् ।

सौख्यवृद्ध्यै यशोवृद्ध्यै पूजनीयो विपश्चिता ॥

गन्धर्वस्य ।

अधुना चाभिजिन् नाम कथ्यते ह्य् अष्टमः शुभः ।

पीतवर्णो ऽतिह्रस्वस् तु ताम्रवर्णो महोदरः ।

तूलहस्तद्वयोपेतः पूजनीयः सुखाप्तये ॥

अभिजितः ।

स एव कुतपो नाम विज्ञातव्यो मनीषिभिः ।

पितॄणां सुप्रियश् चैव पिण्डहस्तो ऽथ चाप्य् अयम् ॥

कुतपस्य ।

नवमो रौहिण्येयाख्यो मुहूर्तः कथ्यते जय ।

शुभ्रवर्णो विशालाक्षो नीलवस्त्रो ऽभ्रकुण्डलः ॥

दक्षिणे पङ्कजं पाणौ वामे मोदकम् एव च ।

दधानः सुखसम्पत्त्यै विजयारोम्यवृद्धये ॥

रौहिणेयस्य ।

अधुना कथ्यते वत्स दशमस् तु वलाभिधः ।

गौरवर्णो ऽरुणश्वेतवसनः स्वर्णकुण्डलः ॥

दक्षिणे तु करे शङ्खं वामे पङ्कजम् आदधत् ॥

[१९५] वलस्य ।

हेमवर्णो बृहद्गात्रः कृष्णश्वेतारुणांशुकः ।

अक्षसूत्रं करे दक्षे वामे चैव कमण्डलुम् ॥

दधत् प्रजासुखात्यर्थं पूजनीयो विपश्चिता ।

एकादशो ऽधुना ज्ञेयो महूर्तो विजयाभिधः ॥

विजयस्य ।

नैरृताख्यो ऽधुना ज्ञेयो द्वादशस् तु मुहूर्तकः ।

नीलवर्णोत्पलमौलिः पीतवस्त्रो महाबलः ।

दक्षिणे तु करे चक्रं वामे चाभयम् आदधत् ॥

नैरृतस्य ।

त्रयोदशी भवेद् अत्र रक्तः सतमसाभिधः ।

ताम्रवस्त्रो महोजस्को रत्नहेमजकुण्डलः ।

शोणपङ्कजदक्षस् तु वामकुण्डीसमन्वितः ॥

सतमसस्य ।

मुहूर्तः कथ्यते चात्र वरुणाख्यश् चतुर्दशः ।

मुक्ताफलनिभश् चैव मुक्ताहारविभूषिणः ।

धनुर्बाणधरश् चैव पूजनीयः सुखाप्तये ॥

वरुणस्य ।

अथ पञ्चदशो ज्ञेयः सुभगस् तु हरित्प्रभः ।

[१९६] सुभगस्य ।

अथो निशचरान् ब्रूमो मुहूर्तान् तिथिसङ्ख्यकान् ।

तत्रादिमो ऽतिरौद्राख्यः कृष्णवर्णो ऽरुणांशुकः ॥

चतुर्भुजो महाक्रूरः सास्थिसङ्घटकेवलः ।

आदिमे दक्षिणे बिभ्रत् कौशिकं चातिभौषणम् ॥

द्वितीये तु करे सर्पं वामो ऽङ्गत्वे ऽथ वै करे ।

सन्दंशं तदधः पात्रं बिभ्राणः सर्वविघ्नहा ॥

अतिरौद्रस्य ।

महागन्धर्वराजाख्यो द्वितीयस् तत्र चैव हि ।

कृष्णशुभ्रारुणग्रीवो नीलवस्त्रो महाबलः ॥

चतुर्भुजो विशालाक्षो गौरवर्णो जटाधरः ।

आदिमे दक्षिणे शङ्खं द्वितीये चैव पङ्कजम् ॥

वामोर्द्ध्वगे (?) करे वीणां तदधःस्थे तु पात्रकम् ।

धारयन्न् इष्टसम्पत्त्यै पूजनीयो विचक्षणैः ॥

महागन्दर्वराजस्य ।

तृतीयः कथ्यते चाथ रात्रिजो द्रविणाभिधः ।

तप्तचामीकराभासः कृष्णनीलारुणांशुकः ॥

दक्षिणे प्रथमे पद्मं हेमजं चातिशोभनम् ।

द्वितीये तु करे वीणां वामोर्ध्वे बीजपूरकम् ॥

दधानः सर्वसम्पत्तिसुखायुः श्रीविवृद्धये ॥

[१९७] द्रविणस्य ।

श्रावणाख्यस् ततस् तुर्यो नीलवर्णो ऽर्ककुण्डलः ।

नीलारुणांशुकोपेतः कण्ठनीलाब्जमालिकः ॥

दक्षिणाद्ये करे खड्गं द्वितीये चैव पङ्कजम् ।

वल्लकीम् ऊर्द्ध्वजे वामे पात्रम् अस्माद् अधिस्थिते ।

दधानः पूजनीयो ऽयं ज्ञानविज्ञानसिद्धये ॥

श्रावणस्य ।

मुहूर्तः कथ्यते चाथो वायुसञ्ज्ञस् तु पञ्चमः ।

हरिद्वर्णो जवाकर्णः श्वेतवस्त्रो महाबलः ॥

कीरमर्कादिमे हस्ते द्वितीये तु ध्वजं शये ।

वामोर्ध्व्गे करे सीरं द्वितीये पात्रम् आदधत् ॥

वायोः ।

अग्निसञ्ज्ञ्स् ततः षष्ठो जवाकुसुमसन्निभः ।

कृष्णनीलांशुकोपेतः शिखारुद्राक्षसंयुतः ॥

दक्षिणाद्ये करे पात्रं द्वितीये शक्तिम् एव् च ।

वामादिमे करे कीरं द्वितीये सीरम् एव च ।

दधानः कीर्तये भुक्त्यै विजयायुःप्रवृद्धये ॥

अग्नेः ।

अधुना कथ्यते वत्स राक्षसाख्यस् तु सप्तमः ।

नीलवर्णोग्रदंष्ट्रस् तु नीलशुभ्रारुणांशुकः ॥

[१९८] दक्षिणाद्ये करे पद्मं द्वितीये तु त्रिशूलकम् ।

खट्वाङ्गम् उत्तरे वामे पात्रं अस्माद् अधःस्थिते ।

दधद् वैरविधाताश् च पूजनीयस् तु साधकैः ॥

राक्षसस्य ।

धाता चैवाष्टमः पीतवर्णः पाटलभांशुकः ।

कर्णस्फोटिकसौवर्णकुण्डलः कम्बुकन्धरः ॥

पुस्तीमर्कादिमे हस्ते द्वितीये चैव विष्टरम् ।

वामादिमे करे पिण्डं द्वितीये स्वर्णकुण्डलम् ।

दधानः प्रीतये भुक्त्यै विजयाय सुखाय च ॥

धातुः ।

नवमः सौम्यनामाथ शुभ्रवर्णो विशालदक् (-दृक्?) ।

पीतवस्त्रो महातेजा मुक्तासर्वाङ्गभूषणः ॥

आदिमे दक्षिणे शङ्खं द्वितीये चैव पङ्कजम् ।

वामादिमे करे पात्रं द्वितीये सीरम् एव च ।

दधानस् तुष्टये भुक्त्यै पूजनीयस् तु मुक्तिदः ॥

सौम्यस्य ।

दशमश् चात्र विज्ञेयो मुहूर्तो ब्रह्मसञ्ज्ञकः ।

पीतवर्णः शुक्लवस्त्रो जटामुकुटसंयुतः ॥

कण्ठरुद्राक्षमालो ऽयं भालपाण्डुरचन्दनः ।

सुवर्णकुण्डलोपेतः कटिसूत्रोत्तरीयवान् ॥

[१९९] अक्षसूत्रं यमादित्ये द्वितीये चैव पङ्कजम् ।

वामोर्द्ध्वे तु स्रुवं हस्ते पुस्तकं तदधःकरे ।

दधत् सौवर्णमुक्तालाभाय विजयाय च ॥

ब्रह्मणः ।

एकादशो ऽधुना ज्ञेयो वाक्पतिर् नाम नामतः ।

सुवर्णवर्ण एवायङ्कृष्णशुभ्रांशुकान्वितः ॥

कुण्डी मर्कादिहस्ते तु द्वितीये सीरम् एव च ।

वामादिमे करे कीरं द्वितीये नीरजं दधत् ।

प्रजालाभकरश् चैव कार्यनिष्पत्तिसाधकः ॥

वाक्पतिः ।

द्वादशश् चात्र विज्ञेयो पौष्णनामा सुलोहितः ।

पीतवस्त्रो जटामौलिर् मुनिपुष्पकृतश्रुतिः ॥

तुन्दिलः सोपवीती च नीलकीलकपाण्डुरः ।

अर्कादिमे करे बीजपूरकं शुभ्रवर्णकम् ॥

द्वितीये वारिजं पाणौ पात्रं वामादिमे करे ।

सन्दंशं तु द्वितीये ऽयं धारयन् वैरितापद ॥

पौष्णस्य ।

जयाधुनात्र वै कथ्यो वैकुण्ठाख्यस् त्रयोदशः ।

पादजान्वन्तशुभ्रो ऽयं कण्ठान् तारुणवर्णकः ॥

अलिवर्णस् त (?) केशान्तकुण्डलानेकरत्नजः ।

दक्षिणाद्ये करे पुस्तीम् अम्बुजं तु द्वितीयके ॥

[२००] केकीपिच्छं तु वामाद्ये द्वितीये चातपत्रकम् ।

दधानः कीर्तये भुक्त्यै पूजनीयः सिताम्बुजैः ॥

वैकुण्ठस्य ।

चतुर्दशो ऽधुना ज्ञेयो नामतस् तु समीरणः ।

जलनीलनिभश् चैव शुभमारकतद्युतिः ॥

सितनीलारुणप्रान्तवसनः स्निग्धलोचनः ।

तालपत्रं यम् आदित्ये द्वितीये नीलनीरजम् ॥

वामादिमे करे पात्रं द्वितीये नीलरुक्मजम् ।

दधानो यज्वनो भूत्यै वालवृद्ध्यै सुखाय च ॥

समीरणस्य ।

अथ पञ्चदशो ज्ञेयो मुहूर्तो नैरृतो ऽरुणः ।

मेचकाभस् त्रिनेत्रस् तु दंष्ट्रावान् वसनारुणः ॥

आदिमे दक्षिणे बाणं द्वितीये कमलं करे ।

वामादिमे धनुर् हस्ते द्वितीये चैव वारिजम् ।

दधच् छान्त्यै सुभोगाय बलाय विजयाय च ॥

नैरृतमुहूर्तस्य ।

एते निशाचरा ख्याता मुहूर्ताः सकलास् तव ।

अहोरात्राभिधश् चात्र कृष्णग्रीवादिमूर्द्धजः ॥

कण्ठपादान्तशुभ्रो ऽयं द्विभुजो दीर्घगोधिकः ।

सामचन्द्रजटामौलिः पिङ्गलश्मश्रुलोचनः ॥

[२०१] नृमुण्डमालिकोपेतः कृष्णशुभ्रांशुकान्वितः ।

इष्टापूर्तप्रसिद्ध्यर्थं पूजनीयो मनीषिभिः ॥

अहोरात्रस्य ।

शुक्लपक्षो नरः शुक्लो जटामुकुटसंयुतः ।

शोणवस्त्रो विशालाक्षो भालालितिलकान्वितः ॥

सूर्यम् अर्के दधानो यम् वामे चन्द्रजबिम्बकम् ।

पूजनीयो महाभक्त्या प्रतिपक्षं सिते सिते ॥

अस्य द्वादश् भेदाः स्युर् विज्ञेया वर्णभेदतः ।

पूजनीयो बलात्यर्थं प्रतिमासं तु भेदतः ॥

शुक्लपक्षस्य ।

श्यामाभः कृष्णपक्षस् तु सितशोणाम्बरो बली ।

सूर्यबिम्बं यमे बिभ्रद् वामे द्वीपं समुज्ज्वलम् ॥

पूजनीयो बलात्यर्थं प्रतिमासं तु भेदतः ।

इत्य् अस्यार्कप्रभेदाः स्युर् भपक्षादिजनामतः ॥

कृष्णपक्षस्य ।

स्वनामतस् तु मासः स्याद् द्विवर्णस् तु द्वितोर् इति ।

नाभ्युर्द्ध्वादः श्वेतकृष्णः पिङ्गलोचनम् ऊर्ध्वजः ॥

सूर्यचन्द्रान्वितः सो ऽयं प्रतिमासं तु पूज्यते ।

स्वनामपूर्वकैर् मन्त्रैर् होमपूजावसानकैः ॥

[२०२] मासस्य ।

ऋतुषट्कम् अथो भ्रूमो लक्ष्यनाम पृथक्फलैः ।

हेमन्ताख्यस् तु तत्राद्यः कपिलः पिङ्गकुण्डलः ।

पीतवस्त्रसमोपेतस् त्रिजटः कृष्णगोधिकः ॥

गोधिर् ललाटम् ।

धान्यम् अञ्जरिकाढ्यस् तु वामपात्रपिधानकः ।

पूजनीयो विभूत्यर्थं दान्यसम्पत्तिवृद्धये ॥

हेमन्तस्य ।

शिशिराख्यो द्वितीयस् तु हरित्पीतनिभारुणः ।

पीतकुण्डलकर्णस् तु कण्ठविद्रुममालिकः ॥

मधुद्रुमप्रसूनाङ्कपात्रम् अर्के कराम्बुजे ।

वामे धान्यशरावं तु धारयन्न् इष्टवृद्धये ॥

शिशिरस्य ।

विष्णुप्रकरणोक्तस् तु ज्ञातव्यो ऽत्र वसन्तकः ।

वसन्तस्य ।

ग्रीष्माभिधश् चतुर्थस् तु धूमरो रुक्षगात्रकः ।

अक्षसूत्रार्कहस्तस् तु वामे शुभ्रातपत्रयुक् ।

रोगसन्तापनाशाय पूजनीयो ऽरिपक्षहा ॥

ग्रीष्मस्य ।

पञ्चमस् तोदर्तुस् तु (?) हरिद्वर्णो ऽरुणेक्षणः ।

[२०३] ताम्रवर्णांशुकोपेतः कृष्णविद्रुमकुण्डलः ॥

मीनम् अर्के दधानो ऽयं तोयपूर्णघटं परे ।

मेघमालावृतश् चैव विद्युद्दहनदीप्तिमान् ।

हरितालिदलैः पूज्यो पुष्टिसन्तुष्टिवृद्धये ॥

वर्षायाः ।

शरदृतुरथो षष्ठश् चन्द्रगौरः सुलोचनः ।

कण्ठमौक्तिकमालस् तु कर्णचन्द्रजकुण्डली ॥

चन्द्रबिम्बं करे दक्षे वामे चामृतजं घटम् ।

दधानः पूजनीयो ऽयम् आयुर्वृद्ध्यै सुखाय च ॥

शरदः ।

दक्षिणायनसञ्ज्ञो ऽथ श्यामः सोमेन्द्रलोचनः ।

पीतवस्त्रो बृहत्तुण्डः कर्णिकारदलश्रुतिः ॥

बीजाङ्कुरशरावार्कः खनित्रोत्तरहस्तकः ।

पूजितः सिद्धये नित्यं धनधान्यसमृद्धये ॥

दक्षिणायनस्य ।

उत्तरायणसञ्ज्ञो ऽथ शुभवर्णो विशालदृक् ।

माञ्जिष्ठवसनोपेतः स्वर्णमुक्ताविभूषणः ॥

पुस्तकं दक्षिणे हस्ते वामे तु रविबिम्बकम् ।

दधद् भूक्त्यै (?)मुदे चैव पूजनीयस् तु कीर्तये ॥

उत्तरायणस्य ।

[२०४] अथ संवत्सरान् भ्रूमो नाम लक्षफलादितः ।

प्रभवाख्यो भवेद् आद्यः पीतवर्णो महोदरः ॥

नीलवस्त्रसमोपेतो दक्षकाञ्चनकुण्डलः ।

वामे स्फाटिकवर्णस् तु पृष्ठलम्बिजटात्रयः ॥

दक्षिणे प्रथमे शक्तिं पङ्कजं तु द्वितीयके ।

वामादिमे शरावं तु बीजपूर्णं कराम्बुजे ।

द्वितीये चैव सन्दंशं दधानः पुष्टिवृद्धये ॥

प्रभवस्य ।

विभवाख्यो द्वितीयस् तु नीलपीतारुणछविः ।

पीतशुभ्रान्तवस्त्रो ऽयं कण्ठे पद्माक्षमालिकः ॥

दक्षिणाद्ये शरं पाणौ द्वितीये नीलपङ्कजम् ।

सन्दंशम् उत्तरार्धस्थे द्वितीय चैव काऋमुकम् ।

दधद् विभूतये नित्यं पूजनीयो विपश्चिता ॥

विभवस्य ।

शुक्लनामा तृतीयस् तु श्वेतपिङ्गलसन्निभः ।

कण्ठपद्माक्षमालो ऽयं शुभ्रप्रान्तालिवस्त्रधृक् ॥

दक्षिणाद्ये शरावं तु द्वितीये बाणम् एव च ।

दर्पणश् चोत्तरादिस्थे द्वितीये चैव कार्मुकम् ।

दधानो भूतये मर्त्यैः पूजनीयः कृतात्मभिः ॥

शुक्लस्य ।

प्रमोदाख्यश् चतुर्थस् तु नीलग्रीवो महोदरः ।

[२०५] श्वेतवस्त्रो ऽब्जसङ्काशो योगपत्तोत्तरीयवान् ॥

दक्षिणाद्ये तु सन्दंशं द्वितीये सीरम् एव च ।

वामादिमे शरावं तु द्वितीये नीलपङ्कजम् ।

दधत् सौख्य्य भोगाय विजयाय महाय च ॥

प्रमोदस्य ।

प्रजापत्याख्य एवात्र पञ्चमः स्वर्णसन्निभः ।

शोणभूषणवस्त्राढ्यास् तुन्दिलो गौरपाण्डुरः ॥

अक्षसूत्रं यमादिस्थे द्वितीये परशुं करे ।

शवावम् उत्तरादिस्थे द्वितीये पुस्तकं दधत् ।

प्रजावृद्ध्यै विभूत्यै व पूजनीयो विजानता ॥

प्रजापतेः ।

अङ्गिराख्यस् ततः षष्ठो वर्णशुभ्रो ऽतिलोमशः ।

ताम्रवस्त्रो महातेजा द्वादशाङ्गः सचन्दनः ॥

पवित्रदर्भपाणिस् तु जटामण्डितमस्तकः ।

ज्ञानखड्गस् तु दक्षाद्ये द्वितीये समिधं करे ॥

वामादिमे शरावं तु ब्रह्मदण्डं द्वितीयके ।

दधत् सुपूजितो भूत्यै श्रेयसे च सुखाय च ॥

अङ्गिरसः ।

सप्तमः श्रीमुखाख्यस् तु पीतवर्णो विशालदृक् ।

पाटलावसनोपेतो दीर्घकर्णालकारुणः ॥

सुवर्णरत्नभूषाढ्यः सर्वानर्थविघातकृत् ।

[२०६] श्रीफलं दक्षिणादिस्थे द्वितीये चैव पङ्कजम् ॥

पुसकं चोर्द्ध्वगे वामे तदधस् तु शरावकम् ।

दधानः पुष्टये लक्ष्म्यै चन्दनादिभिर् अर्चितः ॥

श्रीमुखस्य ।

भावाभिधो ऽष्टमस् तत्र नीलशुभ्रारुणछविः ।

पीतकृष्णारुणप्रान्तवसनश् चित्रकुण्डलः ॥

मुक्ताविद्रुममालो ऽयं जटापिङ्गाक्ष एव च ।

दक्षिणे प्रथमे पुस्तम् अंशकं तु द्वितीयके ॥

वामोर्द्ध्वगे करे शूलं तदधः पात्रम् आसवम् ।

बिभ्रत्सम्पूजनीयस् तु धान्यलाभाय वै श्रिये ॥

भावस्य ।

नवमो ऽत्र युवाख्यस् तु पाटलाभो ऽरुणेक्षणः ।

नीलवस्त्रजटोत्तुङ्गो रत्नमेचककुण्डलः ॥

दक्षिणे प्रथमं शङ्खं द्वितीये तु सुदर्शनम् ।

वामादिमे करे पात्रं द्वितीये नीलपङ्कजम् ।

बिभ्राणः कान्तये पूज्यो लक्ष्मीसौभाग्यवृद्धये ॥

युवाख्यस्य ।

धाता चैव प्रविज्ञेयो दशमः पिङ्गलोचनः ।

हस्तशुभ्रारुणप्रान्तवसनः श्वेतकुण्डलः ॥

शरावम् आदिमे दक्षे द्वितीये बीजपूरकम् ।

वामोर्ध्वगे करे पुस्तीं नीलम् इन्दीवरं त्व् अधः ॥

[२०७] जयाय पुत्रसम्पत्त्यै पूजनीयः सुभक्तितः ॥

धात्राख्यस्य ।

ईश्वराभिध एवात्र ज्ञेय एकादशो ऽप्य् असौ ।

कैरवाभस् त्रिनेत्रस् तु जटाखण्डेन्दुमौलिकः ॥

मुक्तास्फाटिकरौद्राक्षभूषणस् तुङ्गनासिकः ।

त्रिशूलम् आदिमे दक्षे द्वितीये सीरम् एव च ॥

शरावम् आदिमे वामे द्वितीये चैव पुस्तकम् ।

बिभ्रत् सौख्याय पूज्यो ऽसौ योगवृद्ध्यै सुताप्तये ॥

ईश्वरस्य ।

द्वादशो बहुधान्याख्यः पीतनीलारुणच्छविः ।

पीतवस्त्रो विशालाक्षस् तुन्दिलो दीर्घगोधिकः ॥

जवाकुसुममालो ऽयं कवची गमकुण्डलः ।

दक्षिणाद्ये करे कुम्भं सौवर्णं सर्वधान्यकम् ॥

वीरपूर् अपिधानं तत् खचितानेकरत्नकम् ।

द्वितीये डमरुं पाणौ चोर्द्ध्वे नीलजनीरजम् ॥

द्वितीये तु करे सीरं दधानः सर्वधान्यकम् ।

सिद्धये पूजितो नित्यं स्वनामाद्यैस् तु संस्कृतः ॥

बहुधान्यस्य ।

प्रमाथिसञ्ज्ञकश् चाद्यः शुक्लवर्णो महाभुजः ।

जटात्रितयसंयुक्तो दीर्घभारो ऽर्ककुण्डलः ॥

[२०८] शोणनीलाम्बरोपेतः काञ्चनानेकमुद्रिकः ।

पिकमर्कादिमे हस्ते द्वितीय कुम्बुम् एव च ॥

पाशं वामोर्द्ध्वगे हस्ते तदधश् चाम्बुपात्रकम् ।

दधानो वैरिघाताय स्ववर्गस्यैव पुष्टये ॥

प्रमाथिनः ।

विक्रमाख्यो द्वितीयस् तु नीलशुभ्रो महोदरः ।

पीतवस्त्रो बृहद्मालः कण्ठमौक्तिकमालिकः ॥

आदिमे दक्षिणे शङ्खं द्वितीये चैव पङ्कज्म् ।

वामादिमे करे पात्रं पाशम् अत्र द्वितीयके ॥

दधानो ऽपि बलात्यर्थं पूजनीयस् तु यत्नतः ॥

विक्रमस्य ।

वृषाभिधस् तृतीयस् तु श्वेतगौरो विशालदृक् ।

स्थूलरोमातिसंहृष्टः केतकीदलकर्णयुक् ॥

पीतप्रान्तारुणोपेतवसनः कटिघण्टिकः ।

आदिमे दक्षिणे पाशं द्वितीये शङ्खम् एव च ॥

वामादिमे करे पात्रं द्वितीये मृगम् एव च ।

धनधान्यप्रवृद्ध्यर्थं पूजनीयो ऽतिसादरम् ॥

वृषस्य ।

चतुर्थश् चित्रभान्वाख्यश् चित्रग्रीवो ऽरुणांशुकः ।

मुक्तागर्भनिभश् चैव वरदः स्वर्णकुण्डलः ॥

मुक्तास्रजं तु दक्षाद्ये द्वितीये चैव पासकम् ।

[२०९] वामादिमे करे कम्बुं द्वितीये पङ्कजं शुभम् ।

बिभ्रद् आनन्दसम्पत्त्यै प्रत्यपार्थविवृद्धये ॥

चित्रभानोः ।

पञ्चमस् तु शुभान्वाख्यः शुभ्रशोणरुचिः शुभः ।

कण्ठत्रिरेखशोणस् तु जटाकाञ्चनसन्निभः ॥

आदिमे दक्षिणे पद्मं द्वितीये शङ्खम् उज्ज्वलम् ।

वामोर्द्ध्वे तु करे पाशं तदधस्थे शये ऽङ्कुशम् ।

बिभ्राणः मुखदः शान्त्यै रिपुपक्षत्रयाय च ॥

सुभानोः ।

अत्र संवत्सरः षष्ठस् तारणाख्यः सिताम्बरः ।

श्वेतनीलारुणश् चैव स्वर्णकुण्डलभूषणः ॥

प्रथमे दक्षिणे कुम्भं द्वितीये चैव पङ्कजम् ।

उत्तराद्ये करे पाशं द्वितीये शङ्खम् आदधत् ।

दुर्गत्यनेकनाशाय भूतये विजयाय च ॥

तारणस्य ।

सप्तमः पार्थिवाख्यस् तु तप्तकाञ्चनसन्निभः ।

पीतशोणाम्बरश् चैव कृष्णग्रीवो ऽतिसुन्दरः ॥

सर्वरत्नविभूषाढ्यः केतकीदलमस्तकः ।

आदिमे दक्षिणे बाणं द्वितीये चैव पङ्कजम् ॥

कार्मुखं चोत्तरादिस्थे द्वितीये शङ्खम् एव च ।

दधद् राज्यादिलाभाय पूजनीयः प्रयत्नतः ॥

[२१०] पार्थिवस्य ।

अव्ययाख्योऽष्टमश् चात्र कैरवारुणसन्निभः ।

कृष्णनीलारुणश्वेतवसनश् चित्रकुण्डलः ॥

कौरमर्कादिमे हस्ते द्वितीये सीरम् एव च ।

शङ्खं वामादिमे हस्ते द्वितीये पाशम् आदधत् ।

यज्वनो भूतये नित्यं वृद्धये चायुषे श्रिये ॥

अव्ययस्य ।

सर्वजिन् नवमो ऽप्य् अत्र श्वेतनीलो ऽसितप्रभः ।

नीलवस्त्रजटोत्तुङ्गः कृष्णनीरजकुण्डलः ॥

अर्कादिमे करे बाणं द्वितीये चैव पुस्तकम् ।

वामादिमे करे पात्रं द्वितीये पात्रम् एव च ।

दधानः पूजनीयो ऽयं विजयाय सुखाय च ॥

सर्वजितः ।

अधुना कथ्यते वत्स दशमः सर्वधारकः ।

कङ्कपत्रनिभश् चैव पाटलावसनान्वितः ॥

नीलपङ्कजवर्णस् तु मुक्ताहारविभूषणः ।

पाशम् अर्कादिमे हस्ते द्वितीये केतकीदलम् ॥

शङ्खं चैवोत्तरादिस्थे द्वितीये चैव पुस्तकम् ।

दधानो विजयारोग्यवृद्धये चैव यज्वनः ॥

सर्वधारिणः ।

एकादशो ऽधुना ज्ञेयो विरोधिर् नाम वत्सरः ।

[२११] कृष्णपाण्डुरदेहस् तु वरदो नीलकुण्डलः ॥

कृष्णप्रान्तारुणश् चैव वसनप्रान्तभूषणः ।

बिम्बीफलं तु चार्काद्ये द्वितीयं श्वेतपङ्कजम् ॥

वामादिमे करे सर्पं द्वितीये पाशम् आदधत् ।

पूजनीयो ऽरिघाताय बलवृद्ध्यै च यज्वनः ॥

विरोधिनः ।

द्वादशो विकृताख्यस् तु धूमरः पिङ्गलोचनः ।

नीलशुभ्रांशुकोपेतो मेषशृङ्गजकुण्डलः ॥

दक्षिणाद्ये करे पाशं द्वितीये मेषशृङ्गकम् ।

वामोर्ध्वगे करे शङ्खं पाशम् अस्माद् अधःकरे ।

दधानो रोगनाशाय दुष्टशत्रुविधानकृत् ॥

विकृतेः ।

खराभिधानस् तत्राद्यो रक्तवर्णो वृहोदरः ।

नीलवस्त्रो बृहद्भालो घनबर्बरमूधजः ॥

दक्षिणाद्ये करे शक्तिं द्वितीये खड्गम् एव च ।

वामादिमे करे पात्रं द्वितीये चामरं दधत् ।

शत्रुतापाय पूज्यो ऽसौ विजयायैव यज्वनः ॥

खरस्य ।

न्न्दनाख्यो द्वितीयस् तु पीतशोणाननो बली ।

शुभ्रवस्त्रो जटालम्बी दीर्घकर्णः कजासनः ॥

पङ्कजं तु यमादिस्थे द्वितीये शक्तिम् एव च ।

[२१२] वज्रम् इन्द्रादिमे पाणौ द्वितीये चाङ्कुशं शये ॥

दधानः श्रेयसे भूत्यै पूजनीयो महोदयः ॥

नन्दनस्य ।

विजयाख्यस् तृतीयस् तु श्वेतपीतारुणछविः ।

कृष्णवस्त्रः कृशोत्तुङ्गजटारुद्राक्षमालिकः ॥

अक्षसूत्रं यमादिस्थे द्वितीये कुलिशं करे ।

शक्तिं वामादिमे हस्ते द्वितीये चैव पङ्कजम् ।

दधानो विजयारोग्यवृद्धये चैव पूजितः ॥

विजयस्य ।

जयाभिधश् चतुर्थो ऽत्र पीतशोणः शुचिः सुखी ।

पीतवस्त्रो जटैकस् तु पीतरुक्वर्णवेष्टितः ॥

पुस्तकं प्रथमे दक्षे द्वितीये नीलपङ्कजम् ।

वामादिमे करे वज्रं द्वितीये शक्तिम् एव च ।

दधानः शुभमाङ्गल्यवृद्धये चैव पूजितः ॥

जयस्य ।

पञ्चमो मन्मथाख्यस् तु नीलशोणः शुचिः शुभः ।

स्वर्णकुण्डलसंयुक्तः कीरपक्षनिभांशुकः ॥

मल्लिकाधन्वबाणस् तु मूर्वापुष्पजमालिकः ।

दण्डं तु दक्षिणे हस्ते द्वितीये चैव पङ्कजम् ॥

वामादिमे करे पुस्तीं द्वितीये शक्तिम् एव च ।

दधानः सिद्धये भूत्यै योषिद्वर्गवशीकृतौ ॥

[२१३] मन्मथस्य ।

षष्ठश् चैवात्र विज्ञेयो वत्सरो दुर्मुखाभिधः ।

शुकचञ्चुनिभश् चैव नीलकुण्डलसम्बरः ॥

दक्षिणाद्ये करे शक्तिं द्वितीये वज्रम् एव च ।

शुकं वामादिमे पाणौ द्वितीये सर्पम् आदधत् ॥

पूजनीयो विधानेन भ्रूकुटीकुटिलाननः ।

दुष्टशत्रुविनाशाय सर्वरोगोपशान्तये ॥

दुर्मुखस्य ।

सप्तमो हेमलम्बाख्यो रक्तपीतनिभछविः ।

गृध्रपक्षाङ्कुशश् चैव रत्नकुण्डलभूषणः ॥

हेमजं पङ्कजं दक्षे प्रथमे करपल्लवे ।

द्वितीये कुलिशं पाणौ वमाद्ये पात्रम् उत्तमम् ।

द्वितीये तु करे शक्तिं दधानो भुक्तये जय ॥

हेमलम्बस्य ।

अष्टमस् तु विलम्बाख्यः पाटलाभः कृशोदरः ।

पीतवस्त्रो बृहद्मालो जटाखण्डेन्दुमण्डनः ॥

प्रथमे दक्षिणे सर्पं द्वितीये शक्तिम् एव च ।

वामादिमे करे पात्रं द्वितीये चैव पङ्कजम् ।

दधानः शत्रुघाताय पूजनीयो विशेषतः ॥

विलम्बस्य ।

विकारी नवमश् चाथ कृष्णनीलारुणछविः ।

[२१४] ताम्रकुण्डलवस्त्राढ्यः कण्ठशोणत्रिरेखिकः ॥

दक्षिणाद्ये करे बाणं द्वितीये चैव पुस्तकम् ।

वामादिमे धनुर् हस्ते द्वितीये शक्तिम् आदधत् ।

पूजनीयो विशेषेण सर्वरोगोपशान्तये ॥

विकारिणः ।

दशमः शार्वरिप्रख्यः कृष्णशुभ्रारुणछविः ।

शोणवस्त्रो ऽतिदीर्घाङ्गः स्थूलबर्बरमूर्धजः ॥

दक्षिणाद्ये करे सर्पं द्वितीये शाल्मलीदलम् ।

कौशिकं चोत्तरादिस्थे द्वितीये शक्तिम् एव च ।

दधानः कीर्तये पुष्ट्यै शत्रुभङ्गाय पूजितः ॥

शार्वरिणः ।

एकादशः प्लवाख्यस् तु शशकर्णनिभछविः ।

दर्दुराभाम्बरोपेतो लोहकुण्डलसंयुतः ॥

आदिमे दक्षिणे हस्ते दुर्दुरं मणिसंयुतम् ।

द्वितीये तु करे शक्तिं पात्रं वामादिमे करे ।

द्वितीये पङ्कजं बिभ्रत् पूजनीयो ऽप्य् अमित्रहा ॥

प्लवस्य ।

शुभकृत् द्वादशो ऽप्य् अत्र नागजाभः सुलोचनः ।

पाटलावसनोपेतः कृष्णकुण्डलभूषणः ॥

दक्षिणे भीषणां शक्तिं प्रथमे करपल्लवे ।

द्वितीये हेमजं पद्मं वामाद्ये चैव दर्पणम् ।

[२१५] द्वितीये कुलिशं हस्ते दधत् सौख्याय सम्पदे ॥

शुभकृतः ।

शोभकृत् पीतधूम्रस् तु प्रथमो नीलजाम्बरः ।

नीलभूषणसंयुक्तो रत्नमुद्राकराङ्गुलिः ॥

घटमर्कादिमे हस्ते द्वितीये चैव पुस्तकम् ।

वामादिमे करे पात्रं द्वितीये ध्वजम् एव च ।

दधानः श्रेयसे पुष्ट्यै पूजनीयो जयाय च ॥

शोभकृतः ।

क्रोधिसञ्ज्ञो द्वितीयस् तु नीलशुभ्रः कृशोदरः ।

मेचकाम्बरसंयुक्तस् तुङ्गनाशालिपाण्डुरः ॥

पद्मम् अर्कार्दिमे हस्ते द्वितीये ध्वजम् एव च ।

वामादिमे कजं पाणौ द्वितीये सीरम् एव च ।

दधानो वैरिनाशाय कृष्णद्रव्यैः सुपूजितः ॥

क्रोधिनः ।

विश्वावसुस् तृतीयस् तु कृष्णग्रीवः सुलोलदृक् ।

कृष्णशुभ्रारुणप्रान्तवसनश् चित्रकुण्डलः ॥

ध्वजम् अर्कादिमे पाणौ द्वितीये कुलिशं शये ।

दधानो भुक्तये प्रीत्यै नानाभोगफलाप्तये ॥

विश्वावसोः ।

पराभवश् चतुर्थस् तु धूमरो ऽरुणजाम्ब्रः ।

[२१६] नीलोत्पलश्रुतिश् चैव क्षुद्रघण्टिकमेखलः ॥

नीलोत्पलं तु दक्षाद्ये द्वितीये ध्वजम् एव च ।

वामादिमे करे पात्रं सन्दंशं तु द्वितीयके ।

धारयन्न् अरिघाताय पूजनीयो विपश्चिता ॥

पराभवस्य ।

पञ्चमस् तु प्लवङ्गाख्यो हरिणाजिनसन्निभः ।

मेषोदराभवस्त्रो ऽयं संयुतकृष्णकन्दरः ॥

दक्षिणाद्ये ध्वजं पाणौ द्वितीये मेषशृङ्गकम् ।

वामादिमे करे पात्रं द्वितीये पाशम् एव च ।

दधानो भूतये भूत्यै पूजनीयः सदा नृभिः ॥

प्लवङ्गस्य ।

किलकाख्यस् ततः षष्ठः कृष्णवर्णो ऽतिदीर्घयुक् ।

नीलवस्त्रो जटाभारः कृष्णकुण्डलभूषणः ॥

कीलकं दक्षिणादिस्थे द्वितीये ध्वजम् एव च ।

वामादिमे करे पाशं संसंशं तु द्वितीयके ।

दधानो विजयारोग्यवृद्धये चैव पूजितः ॥

किलकस्य ।

सप्तमः सौम्यनामाथ कीर्त्यते वत्सरः शुभः ।

नीलपीतजटायुक्तो रम्भादलनिभांशुकः ॥

स्वर्णपत्रश्रुतिश् चैव कण्ठपङ्कजमालिकः ।

चन्द्रम् अर्कादिमे हस्ते द्वितीये केतकीदलम् ॥

[२१७] वामादिमे ध्वजं हस्ते द्वितीये नीरजं शुभम् ।

विभ्रत् सौभाग्ययोगाय पूजनीयः सुभक्तितः ॥

सौम्यस्य ।

साधारणो ऽष्टमो ज्ञेयो नीलगौरारुणछविः ।

पीतशोणान्तवस्त्रो ऽयं स्वर्णकुण्डलरत्नयुक् ॥

चन्द्रहासं यमादिस्थे द्वितीये चैव कीलकम् ।

वामादिमे ध्वजं पाणौ संसंशं चोत्तरे दधत् ।

धनवृद्ध्यै सुखाप्त्यर्थं पूजनीयः सिताम्बुजैः ॥

साधारणस्य ।

विरोधकृच् च विज्ञेयो नवमो वत्सरो जय ।

पिकाभः शुक्लवस्त्रो ऽयं पिङ्गश्मश्रुजतेक्षणः ॥

दक्षिणाद्ये करे शङ्खं द्वितीये चैव वै ध्वजम् ।

चन्द्रहासं तु वामाद्ये द्वितीये परशुं शये ।

बिभ्राणो रोगनाशाय शत्रुसन्तापकृत् जय ॥

विरोधकृत् ।

परिधावी तु विज्ञेयो दशमश् चैव वत्सरः ।

इन्दीवरारुणश्वेतः कृष्णपीतनिभांशुकः ॥

ब्रह्मप्रसवकर्णस् तु कण्ठपङ्कजमालिकः ।

पिकम् अर्कादिमे हस्ते द्वितीये ध्वजम् एव च ॥

घण्टां वामादिमे पाणौ द्वितीये चैव मुद्गरम् ।

दधानो वृद्धये चैवे श्रेयोभूतिसुखायुषाम् ॥

[२१८] परिधाविनः ।

प्रमादी चापि विज्ञेयो रुद्रसङ्ख्यो ऽपि वत्सरः ।

अतसीपुष्पसङ्काशो हरिनीलारुणाम्बरः ॥

मदघूर्णितनेत्रस् तु तन्द्रीभूत इवालसः ।

दण्डम् अर्कादिमे हस्ते द्वितीये दण्डम् एव च ॥

वामादिमे करे पात्रं द्वितीये बिसिनीदलम् ।

दधानो रोगविच्छिक्त्यै शत्रुभङ्गाय यजव्नः ॥

पमादिनः ।

आनन्दाख्यः सितः पीतवसनो द्वादशो ऽत्र हि ।

मुक्तेन्द्रनीलसौवर्णभूषणो नीलकुण्डलः ॥

पङ्कजं दक्षिणादिस्थे द्वितीये केतकीदलम् ।

वामोर्द्ध्वं तु ध्वजं पाणौ तदधःस्थे तु मोदकम् ।

योषिद्वश्याय स पूज्यो गन्धपुष्पाक्षतादिभिः ॥

आनन्दस्य ।

तामसानां भवेद् आद्यो राक्षसो नाम वत्सरः ।

इन्दीवरदलाभासो हेमवस्त्रो ऽर्कभूषणः ॥

अर्कम् अर्कादिमे हस्ते द्वितीये शृणिम् एव च ।

नीलोत्पलं तु वामाद्ये द्वितीये कुलिशं शये ।

दधद् रोगादिनाशाय पूज्यः स्थाणुभिर् एव सः ॥

राक्षसस्य ।

अनलाख्यो द्वितीयस् तु नीलशुभारुणछविः ।

[२१९] पीतप्रान्तालिवस्त्रस् तु वज्रकुण्डलभूषणः ॥

चन्द्रहासं यमादिस्थे द्वितीये चार्ककं करे ।

पिशितं चोत्तरादिस्थे परे चैव परस्वधम् ।

दधत् सुसम्पदे ऽरीणां विजयायैव यज्वनः ॥

अनलस्य ।

पिङ्गलाख्यस् तृतीयो ऽत्र कुमुदारुणसन्निभः ।

श्वेतप्रान्तारुणानीलवसनः स्वर्णभूषणः ॥

आदिमे पिशितं याम्ये द्वितीये सीरम् एव च ।

कुलिशं चैव वामाद्ये संसंशं तु द्वितीयके ।

बिभ्राणो विजयारोग्यवृद्धये चैव पूजितः ॥

पिङ्गलस्य ।

कालयुक्ताभिधस् तुर्यो नीलकण्ठो वृकोदरः ।

पीतारुणांशुकोपेतो नीलस्वर्णजभूषणः ॥

यमादिमे करे सर्पं द्वितीये सीरम् एव च ।

सीधूपात्रं तु वामाद्ये द्वितीये कीलम् एव च ।

पूजनीयो विशेषेण यज्वनो वैरिमृत्यवे ॥

कालयुक्तस्य ।

अधुना कीर्त्यते वत्स सिद्धार्थो नाम पञ्चमः ।

तप्तकाञ्चनसङ्काशो नीलशुभ्रारुणांशुकः ॥

नीलकुण्डलसंयुक्तो मुक्ताविद्रुमभूषणः ।

[२२०] सौवर्णं कलशं याम्ये प्रथमे करपल्लवे ॥

इन्दीवरं परे चैव कुलिशं चोत्तरोर्द्ध्वगे (?) ।

बीजपूरम् अधस् तस्माद् दधानः श्रेयसे मुदे ॥

सिद्धार्थस्य ।

रौद्राभिधस् ततः षष्ठः पिङ्गलः कृष्णलोहितः ।

पाटलावसनोपेतो ह्रस्वबर्बरमूर्धजः ॥

कीरम् अर्कादिमे हस्ते द्वितीये हलम् आदधत् ।

कुण्डीम् इध्मादिमे पाणौ परे कुण्डलिनं शये ।

रोगनाशाय सम्भुक्त्यै पूज्यो ऽयं परिपन्थिषु ॥

रौद्रस्य ।

सप्तमः पथ्यते चायं मेचकाभः सुदुर्मतिः ।

शङ्खम् अर्कादिमे हस्ते स्वर्णमेखलरत्नजम् ॥

सर्पम् अत्र द्वितीये वै कुण्डीम् इन्द्रादिमे शये ।

द्वितीये पुस्तकं पाणौ दधद् विद्वेषकृद्रिपोः ॥

दुर्मतेः ।

अष्टमे दुन्दुभिप्रख्यो नीलग्रीवो विशालदृक् ।

सोमवर्णः सिताम्भोजवसनः कृष्णगोधिकः ॥

जटामुकुटभाले ऽयं स्वर्णपत्रद्युतिः शुभः ।

कदलीफलम् अर्काद्ये द्वितीये शङ्खम् एव च ॥

[२२१] बीजपूरं तु वामाद्ये द्वितीये सस्यमञ्जरीम् ।

बिभ्राणो धनधान्याय पूजनीयः सदा नृभिः ॥

दुन्दुभेः ।

नवमो रुधिरोद्गारी नीलशोणालिदेवयुक् ।

कृष्णप्रान्तारुणश्वेतवसनो नीलभूषणः ॥

लोहिताक्षो जटापिङ्गः शोणचन्दनचर्चितः ।

रक्तोत्पलं यमादिस्थे द्वितीये कुलिशं शये ॥

पिशितं चोत्तरादिस्थे द्वितीये चाङ्कुशं दधत् ।

वैरिभङ्गाय् वै पूज्यो वालवृद्ध्यै हि यज्वनः ॥

रुधिरोद्गारिणः ।

दशमश् चैव रक्ताक्षी नीलकण्ठः कृशोदरः ।

पीतनीलतनुश् चैव नीलशोणालिकाम्बरः ॥

शरम् अर्कार्दिमे पाणौ द्वितीये चैव पङ्कजम् ।

सीरम् इन्द्रादिमे हस्ते द्वितीये चैव कर्तरीम् ।

दधद् वैरिविघाताय पूजनीयः प्रयत्नतः ॥

रक्ताक्षी ।

एकादशो ऽधुना वत्स क्रोधनाख्यो निगद्यते ।

सजलाम्बुदसङ्काशः पीतशोणाम्बरान्वितः ॥

लोहभूषणसंयुक्तः केशमध्यगपङ्कजः ।

दक्षिणाद्ये करे शूलं पलशुष्काग्रसंयुतः ॥

[२२२] द्वितीये कर्तरीम् अत्र वामाद्ये पात्रम् आसवम् ।

सन्दंशं तु द्वितीये वै दधानो वैरिमृत्यवे ॥

क्रोधनस्य ।

क्षयाभिधौ भवेद् अत्र द्वादशो वत्सरो जय ।

कृष्णग्रीवः सुनीलाङ्गो रक्तनेत्रो जटाधरः ॥

मेचकारुणवस्त्रस् तु नीलकारुणगोधिकः ।

आदिमे दक्षिणे सर्पं द्वितीये चैव पाशकम् ॥

विषकुम्भं तु वामाद्ये द्वितीये चैव कैतवम् ।

कृष्णप्रसूनकं बिभ्रद् अमित्राणां विघातकृत् ॥

क्षयस्य ।

इति देवतामूर्तयः ।

अथ ग्रहस्थापनविधिः । मत्स्यपुराणे ।

मध्ये तु भास्करं विद्याल् लोहितं दक्षिणेन तु ।

उत्तरेण गुरुं विद्यात् सोमं दक्षिणपूर्वकम् ॥

पश्चिमे तु शनिं विद्याद् राहुं दक्षिणपश्चिमे ।

पश्चिमोत्तरतः केतुं स्थापयेत् शुक्लतण्डुलैः ॥

स्कन्दपुराणे ।

सूर्यस्य चोत्तरे शम्भुम् उमां सोमस्य दक्षिणे ।

स्कृन्दम् (?) अङ्गारकस्यैव दक्षिणस्यां निवेशयेत् ॥

[२२३] सौम्यपश्चिमतो विष्णुं ब्रह्माणं जीवपूर्वतः ।

इन्द्रम् ऐन्द्र्यां सिताद् विद्धि मन्दाग्रेर् अग्रतो यमम् ॥

राहोः पूर्वोत्तरे कालं सर्वभूतभयावहम् ।

केतोर् नैरृतदिग्भागे चित्रगुप्तं निधापयेत् ॥

उत्तरे शनिसूर्याभ्यां गुरुकेत्वोश् च दक्षिणे ।

गणाधिपं प्रतिष्ठाप्य सर्वदेवनमस्कृतम् ॥

स्थानाधिदेवतानां च स्थाप्य प्रत्यधिदेवताः ।

विनायकादिदुर्गाद्या नान्तरे ग्रहदेवयोः ॥

स्मृत्यन्तरे ।

इन्द्रं पूर्वे तु संस्थाप्य प्रेतेशं दक्षिणे तथा ।

वरुणं पश्चिमे भागे कुबेरं चोत्तरे तथा ॥

अग्न्यादिलोकपालांश् च कोणभागेषु विन्यसेत् ।

इन्द्रस्य दक्षिणे पार्श्वे वसून् आवाहयेद् बुधः ॥

देवेशेशानयोर् मध्ये आदित्यानां तथायनम् ।

अग्नेः पश्चिमभागे तु रुद्राणाम् अयनं विदुः ॥

प्रेतेशरक्षोमध्ये तु मातृस्थानं प्रकल्पयेत् ।

नैरृतेर् उत्तरे भागे गणेशायतनं विदुः ॥

कुबेरमरुतां स्थानम् उच्यते । अथ कलशोत्पत्तिस् तल्लक्षणं च । देवीपुराणे ।

कलशान् सुदृढान् कुर्याल् लक्षणानि वदामि ते ।

[२२४] उत्पत्तिं लक्षणं मानं कथयामि यथा मुने ॥

वारिकाः कलशाश् चैव येन लोके प्रकीर्तिताः ।

अमृते मथ्यमाने तु पानार्थं सर्वदैवतैः ॥

मन्थानं मन्दरं (?) कृत्वा नेत्रं कृत्वा तु वासुकिम् ।

उत्पन्नम् अमृतं तत्र महावीर्यपराक्रमम् ॥

तस्यायं धारणार्थाय कलशः परिकीर्तितः ।

कलां कलां गृहीत्वा वै देवानां विश्वकर्मणः ॥

निर्मितो ऽयं सुरैर् यस्मात् कलशस् तेन कथ्यते ।

वारयन्ति ग्रहान् यस्मात् मातरो विविधांस् तथा ॥

दुरितांश् च तथाघोरांस् तेन ते वारकाः स्मृताः ।

कलशस्य मुखे ब्रह्मा ग्रीवायां तु महेश्वरः ॥

मूले तु संस्थितो विष्णुर् मध्ये मातृगणाः स्थिताः ।

शाखासु देवताः सर्वा वेष्टयन्ति चतुर्दिशम् ॥

पृथिव्यां यानि तीर्थानि कलशे निविशन्ति ह ।

गृहे शान्तिश् च पुष्टिश् च प्रीतिर् गोत्रिभिर् एव च ॥

ऋग्वेदो ऽथ यजुर्वेदः सामवेदस् तथैव च ।

अथर्ववेदसंहिताः सर्वे कलशसंस्थिताः ॥

पूर्णामृतेन तोयेन सितास् ते काञ्चनोब्जलाः (?) ।

सरित्सरःकातजेन तडागादिजलेन वा ॥

वापीकूपोददिव्येन सामुद्रेण सुखावहाः ।

सर्वमङ्गलमाङ्गल्याः सर्वकिल्बिषनाशनाः ॥

अभिषेके सदा ग्राह्याः कलशा इदृशाः शुभाः ।

यात्राविवाहकाले वा प्रतिष्ठा यज्ञकर्मणि ॥

[२२५] योजनीया विशेषेण सर्वकर्मप्रसाधकाः ।

पञ्चाशाङ्गुलवैपुण्यम् उत्सेधे षोडशाङ्गुलः ।

कलशानां प्रमाणं हि मुखम् अष्टाङ्गुलं भवेत् ॥

नारदीयनृसिंहखण्डात् ।

भृगुर् उवाच ।

तुङ्गा भद्रा च बगिनी द्वे नद्यौ सह्यसम्भवे ।

तयोर् भद्रा तटे वत्स त्वं प्रतिष्ठाप्य केशवम् ॥

तम् आराध्य जगन्नाथं गन्धपुष्पादिभिः क्रमात् ।

हृदि कृत्वेन्द्रियग्रामं मनः संयम्य यत्नतः ॥

हृत्पुण्डरीके देवेशं शङ्खचक्रगदाधरम् ।

ध्यायन्न् एकमना वत्स द्वादशाक्षरम् अभ्यसेत् ॥

ॐ नमो भगवते वासुदेवाय ।

इमं मन्त्रं हि जपतो देवदेवस्य शार्ङ्गिणः ।

प्रीतो भवति विश्वात्मा मृत्युं तेनोपशाम्यति ॥

इति द्वादशाक्षरः ।

नारदीयनृसिंहखण्डात् ।

शुक उवाच ।

किं जपन् मुच्यते तात सततं विष्णुतत्परः ।

संसारदुःखात् सर्वेषां हिताय वद मे पितः ॥

[२२६] व्यास उवाच ।

अष्टाक्षरं प्रवक्ष्यामि मन्त्राणां मन्त्रम् उत्तमम् ।

यं जपन् मुच्यते जन्तुर् जन्मसंसारबन्धनात् ॥

हृत्पुण्डरीकमध्यस्थं शङ्खचक्रगदाधरम् ।

एकाग्रमनसा ध्यात्वा विष्णोः कुर्याज् जपन् नरः ॥

एकाग्रे विजने स्थाने विष्ण्वग्रे वा जलान्तिके ।

जपेद् अष्टाक्षरं मन्त्रं चित्ते विष्णुं निधाय च ॥

अष्टाक्षरस्य मन्त्रस्य ऋषिर् नारायणः स्मृतः ।

छन्दो ऽस्य देवी गायत्री परमात्मा च देवता ॥

शुक्लवर्णस् तु ओङ्कारो नकारो रक्त उच्यते ।

मोकारो वर्णतः कृष्णो नाकारो रक्त एव च ॥

राकारः कुङ्कुमाभासो यकारो पीत उच्यते ।

णाकारो मञ्जनाभस् तु यकारो बहुवर्णकः ।

ॐ नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥

ब्रह्मपुराणे ।

ब्रह्मादिस्तम्बपर्यन्तं सर्वं नारायणात्मकम् ।

नारायणात् परं किञ्चिन् नेह पश्यामि हे द्विज ॥

तेन व्याप्तम् इदं सर्वं दृश्यादृश्यं चराचरम् ।

स्मरेन् नारायणं ध्यायेद् धस्ते काये च विन्यसेत् ॥

शेषे हस्ततलं यावत् तर्जन्यादितयोर् न्यसेत् ।

ओङ्कारं वामपादे तु नकारं दक्षिणे न्यसेत् ॥

मोकारं वामकट्यां तु नाकारं दक्षिणे तथा ।

[२२७] राकारं नाभिदेशे तु यकारं वामबाहुके ॥

णाकारं दक्षिणे पाणौ यकारं मूर्ध्नि विन्यसेत् ।

अधश् चोर्ध्वं च विशये पार्श्वतः पृष्ठतो ऽग्रतः ॥

ध्यात्वा नारायणं देवं विदध्यात् कवचं पुनः ।

पूर्वे मां पातु गोविन्दो दक्षिणे मधुसूदनः ॥

पश्चिमे श्रीधरो देवः केशवश् च तथोत्तरे ।

पातु विष्णुस् तवाग्रे वै नैरृत्ये माधवो ऽव्ययः ॥

व्यायव्ये तु हृषीकेशस् तथेशाने च वामनः ।

भूतले पातु वाराहस् तथोर्ध्वे तु त्रिविक्रमः ॥

कृत्वैवं कवचं पश्चाद् आत्मानं चिन्तयेन् नरः ।

अहं नारायणो देवः शङ्खचक्रगदाधरः ।

एवं ध्यात्वा तदात्मानम् इमं मन्त्रम् उदीरयेत् ॥

इति नारायणाष्टाक्षरः ।

अग्निपुराणे ।

मुक्तिहेतुर् हरः साक्षात् सर्वज्ञो ज्ञानभावकः ।

अस्याभिधानमन्त्रो ऽयम् अभिधेयश् च संस्मृतः (?) ॥

अभिधानाभिधेयत्वान् मन्त्रात् सिद्धिप्रदो हरः ।

तस्माद् वेदे मुनिश्रेष्ठ मन्त्रः षडक्षरः परः ॥

किं तस्य बहुभिर् मन्त्रैः शास्त्रैर् वा बहुविस्तृतैः ।

यस्य नमोहरायेति मन्त्रो ऽयं हृदि संस्थितः ॥

तनाधीतं श्रुतं तेन तेन सर्वम् अनुष्ठितम् ।

धर्मस्थानानि यावन्ति विधिस्थानानि यानि च ॥

[२२८] षडक्षरस्य मन्त्रस्य भाव्यन् तानि समासतः ॥

इति षडक्षरः ।

शैवी पञ्चाक्षरी विद्या । वायुसंहितायाम् ।

अथो परमविद्यायाः स्वरूपम् अधुनोच्यते ।

आदौ नमः प्रयोक्तव्यः शिवाय च ततः परम् ॥

शैवी पञ्चाक्षरी विद्या पञ्चश्रुतिशिरोगता ।

शब्दजातस्य सर्वस्य बीजभूता समासतः ॥

प्रथमं मन्मुखोद्गीर्णा समासेनात्मवाचिकाः ।

तप्तचामीकरप्रख्या पीनोन्नतपयोधरा ॥

चतुर्भुजा त्रिनयना बालेन्दुकृतशेखरा ।

पद्मोत्पलधरा सौम्या वरदाभयपाणिका ॥

सर्वलक्षणसम्पन्ना सर्वाभरणभूषिता ।

सितपद्मासनासीना नीलकुञ्चितमूर्धजा ॥

अस्याः पञ्चविधा वर्णाः प्रस्फुरद्रश्मिमण्डला ।

पीतः कृष्णस् तथा धूम्रवर्णतोरक्त एव च ॥

पृथक् प्रयुक्ताः पञ्चैते बिन्दुनादविभूषिताः ।

अर्धचन्द्राकृतिर् बिन्दुर् नादो दीपशिखाकृतिः ॥

बीजं द्वितीयं बीजेषु मन्त्रस्यस्य वरानने ।

दीर्घं पूर्वं तुरीयस्य पञ्चमं शक्तिम् आदिशेत् ॥

वामदेवो नाम ऋषिः पङ्क्तिः छन्द उदाहृतम् ।

देवता शिव एवाहं मन्त्रस्यास्य वरानने ॥

[२२९] गौतमो ऽत्रिर् वरारोहे विश्वामित्रस् तथाङ्गिराः ।

भरद्वाजश् वर्णानां क्रमशो ऋषयः स्मृताः ॥

गायत्र्य् अनुष्टुप् त्रिष्टुप् छन्दांसि बृहती विराट् ।

इन्द्रो रुद्रो हरिर् ब्रह्मा स्कन्दस् तेषां च देवताः ॥

मम पञ्चमुखान्य् आहुः स्थानं तेषां वरानने ।

पूर्वादि चोर्ध्वपर्यन्तं नकारादि यथाक्रमम् ॥

उदात्तः प्रथमो वर्णश् चतुर्थश् च द्वितीयकः ।

पञ्चमः स्वरितश् चैव मध्यमो निहतः स्मृतः ॥

मूलं विद्या शिवः शैवं सूत्रं पञ्चाक्षरं विना ।

सामान्य् अस्यापि जानीयाच् छैवं मे हृदयं मतम् ॥

नकारः शिव उच्येत मकारस् तु शिखोच्यते ।

शिकारः कवचं तद्वद् वाकारो नेत्र उच्यते ॥

यकारो ऽस्त्रं नमः स्वाहा वषट् वौषड् इति प्लुतः (?) ।

फड् इति पञ्चवर्णानां मन्त्राङ्गत्वं यदा यदा ॥

तदापि मूलमन्त्रो ऽयं किञ्चिद् भेदसमन्वयात् ।

अत्रास्य पञ्चमो वर्णो द्वादशस्वरभूषितः ॥

तस्माद् अनेन मन्त्रेण मनोवाक्कायभेदतः ।

आवयोर् अर्चनं कुर्याज् जपहोमादिकैस् तथा ॥

इति शिवपञ्चाक्षरः ।

अथ सौरषडक्षरः । भविष्यपुराणे ।

सनत्कुमार उवाच ।

[२३०] अथार्चनाविधिं वच्मि मन्त्रोद्धारं निबोध मे ।

सर्वपापहरं पुण्यं सर्वरोगविनाशनम् ॥

ॐ खखोल्काय नमः ।

मूलमन्त्रः ।

ॐ विठिठिठठ शिरः ।

ॐ ज्वलज्वलठठ शिखा ।

ॐ सहस्त्र सूठठः कवचं ।

ॐ सर्वतेजोऽधिपतये ठठ अस्त्रम् ।

ॐ सहस्रकिरणोज्वलाय ठठ ऊर्ध्वबन्धः ।

पृथिव्यै भूभाविन्यै ठठ भूतबन्धः ।

ज्वलने प्रज्वल ठठ अग्निप्राकारः ।

आदित्याय विद्महे विश्वभावनाय धीमहि ।

तन् नः सूर्यः प्रचोदयात् ॥

गायत्री ।

सङ्कलीकरणम् इदम् ।

ॐ धर्मात्मने नमः पूर्वतः ।

यमाय नमो दक्षिणतः ।

दण्डनाथाय नमः पश्चिमतः ।

[२३१] रैवताय नमः उत्तरतः ।

ॐ श्यामपिङ्गलाय नमः ईशान्याम् ।

ॐ दीक्षिताय नमः ॐ लक्ष्म्यै वज्रधरविश्वजये

नमो नैरृत्ये ।

ॐ आदित्याय भूर् भुवः स्वर् नमः वायव्याम् ।

चन्द्राय चन्द्राधिपतये नमः पूर्वतः ।

ॐ कारकाय क्षितिसुतायनमः आग्नेय्याम् ।

ॐ बुधाय सोमपुत्राय नमः दक्षिणे ।

ॐ बृहस्पतये अङ्गिरःसुताय नमः नैरृत्याम् ।

ॐ शुक्राय महर्षये भृगुसुताय नमः पश्चिमतः ।

ॐ शनैश्वराय रविसुताय नमः वायव्याम् ।

ॐ भगवन्न् अपरिमितमयूखमालिन् सकलजगत्पते सप्ताश्ववाहन

चतुर्भुज परमसिद्धिप्रद विष्णुलिङ्ग भानो पाहि पाहि इमम्

अर्घ्यं मम शिरसि गतं गृहाण तेजोग्ररुपानन्तज्वल ठठ ।

इत्य् अर्घ्यावाहनमन्त्रः ।

ॐ नमो भगवते आदित्याय सहस्रकिरणाय गच्छ गच्छ

सुरवरपुरं पुनर् आगमनाय ॥

विसर्जनमन्त्रः ।

शृणुष्वाहो विधिं कृत्स्नं प्रवक्ष्याम्य् अनुपूर्वशः ।

[२३२]

इति सौरः षडक्षरः ।

अथ देवताभेदेन गायत्र्यः ।

तत् वरुणाय विद्महे महादेवाय धीमहि ।

तन् नो रुद्रः प्रचोदयात् ॥

गणाम्बिकायै विद्महे कर्मसिद्ध्यै धीमहि ।

तन् नो गौरी प्रचोदयात् ॥

तत् पुरुषाय विद्महे वह्निवक्त्राय् अधीमहि ।

तन् नः स्कन्दः प्रचोदयात् ॥

तत् पुरुषाय विद्महे वक्रतुण्डाय धीमहि ।

तन् नो दन्ती प्रचोदयात् ॥

हंससेनाय विद्महे वह्निवक्त्राय धीमहि ।

तन् नः स्कन्दः प्रचोदयात् ॥

तीक्ष्णशृङ्गाय विद्महे वह्निपादाय धीमहि ।

तन् नो वृषः प्रचोदयात् ॥

हरिवक्त्राय विद्महे रुद्रवह्णाय धीमहि ।

तन् नो नन्दी प्रचोदयात् ॥

नारायणाय विद्महे वासुदेवाय धीमहि

[२३३] तन् नो विष्णुः प्रचोदयात् ॥

महाम्बिकायै विद्महे कर्मसिद्ध्यै धीमहि ।

तन् नो लक्ष्मी प्रचोदयात् ॥

समुद्धृतायै विद्महे विष्णुनैकेन धीमहि ।

तन् नो धरायै प्रचोदयात् ॥

वैनतेयाय विद्महे सुपर्णपक्षाय धीमहि ।

तन् नो गरुडः प्रचोदयात् ॥

पद्मोद्भवाय विद्महे देववक्त्राय धीमहि ।

तन् नः स्रष्टा प्रचोदयात् ॥

शवास्रजायै विद्महे शिवास्रजायै धीमहि ।

तन् नो वाचः प्रचोदयात् ।

देवराजाय विद्महे वज्रहस्ताय धीमहि ।

तन् नः शक्रः प्रचोदयात् ॥

वैश्वानराय विद्महे ज्वाललीलाय धीमहि ।

तन् नो अग्निः प्रचोदयात् ॥

वैवस्वताय विद्महे दण्डहस्ताय धीमहि ।

तन् नो यमः प्रचोदयात् ॥

निशाचराय विद्महे खड्गहस्ताय धीमहि ।

[२३४] तन् नो निरृतिः प्रचोदयात् ॥

शुद्धहस्ताय विद्महे पाशहस्ताय धीमहि ।

तन् नो वरुणः प्रचोदयात् ॥

सर्वप्राणाय विद्महे सृष्टिहस्ताय धीमहि ।

तन् नो वायुः प्रचोदयात् ॥

यक्षेश्वराय विद्महे गदाहस्ताय धीमहि ।

तन् नो हस्तः प्रचोदयात् ॥

सर्वेश्वराय विद्महे शूलहस्ताय धीमहि ।

तन् नो रुद्रः प्रचोदयात् ॥

कात्यायन्यै विद्महे कन्याकुमार्यै धीमहि ।

तन् नो दुर्गिः प्रचोदयात् ॥

सुभगायै विद्महे काममालिन्यै धीमहि ।

तन् नो गौरी प्रचोदयात् ॥

देवात्मकाय विद्महे हिरण्यगर्भाय धीमहि ।

तन् नः षण्मुखः प्रचोदयात् ॥

भास्कराय विद्महे सहस्ररश्मिन् धीमहि ।

तन् नः सूर्यः प्रचोदयात् ॥

रुद्रहस्ताय विद्महे शक्तिहस्ताय धीमहि ।

[२३५] तन् नो देवी प्रचोदयात् ॥

एवं प्रभिद्य गायत्रीं तत्तद्देवानुरूपतः ।

पूजयेत् स्थापयेत् तेषाम् आसनं प्रणवं स्मृतम् ॥ इति ।

इति लैङ्गे गायत्रीभेदाः ।

शिवधार्मे ।

कल्पकोटिसहस्रैस् तु यत् पापं समुपार्जितम् ।

घृतस्नानेन तत् सर्वं दहत्य् अग्निर् इवेन्धनम् ॥

अयुतं योगवां दद्याद् दोग्ध्रीणां वेदपारगे ।

वस्त्रं हेमादियुक्तानां क्षीरस्ननस्य तत् फलम् ॥

दध्ना तु स्नापयेल् लिङ्गं सकृद् भक्त्या तु यो नरः ।

सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥

मधुना स्नापयित्वा तु सकृद् भक्त्या तु यो नरः ।

पापकङ्चुकम् उत्सृज्य वह्निलोके महीयते ॥

स्नानम् इक्षुरसेनापि यो लिङ्गे सकृद् आचरेत् ।

लभेद् विद्याधरं लोकं सर्वकामसमन्वितम् ॥

पयोदधिघृतक्षौद्रशर्कराद्यैर् अनुक्रमात् ।

इशादिमन्त्रैः सम्स्नाप्य शिवलोकम् अवाप्नुयात् ॥

यः पुमांस् तिलतैलेन करयन्त्रोद्भवेन च ।

शिवाभिषेकं कुरुते स शैवं पदम् आप्नुयात् ॥

परिमाणं तु तत्रैवोक्तम् ।

स्नानं पलशतं ज्ञेयम् अभ्यङ्गं पञ्चविंशतिः ।

[२३६] पलानां द्वे सहस्रे तु महास्नानं पर्कीर्तितम् ॥

लिङ्गपुराणात् ।

महास्नानं च यः कुर्याद् घृतेन मधुना ततः ।

स याति मम सायुज्यं स्नानेष्व् एतेषु सुव्रत ॥

स्नानं पलशतं ज्ञेयम् अभ्यङ्गः पञ्चविंशतिः ।

पलानां द्वे सहस्रे तु महास्नानं प्रकीर्तितम् ॥

स्नाप्य लिङ्गं मदीयं च गव्येनैव घृतेन वा ।

विशोध्य सर्वद्रव्यैस् तु तोयेनाप्य् अभिषेचयन् ॥

महास्नाने प्रसक्ते तु स्नानम् अष्टगुणं स्मृतम् ।

जलेन केवलेनैव गन्धतोयेन भक्तितः ॥

अनुनिम्पेच् च तत् सर्वं पञ्चविंशत्पलेन वै ।

शमीपत्रं च विधिना बिल्वपत्रं च चम्पकम् ।

अथान्यानि च पत्राणि बिल्वपत्रं न सन्त्यजेत् ॥

दशद्रोणैस् तु नैवेद्यम् अष्टद्रोणैर् अथापि वा ।

शतद्रोणसमं पुण्यम् आढकेन विधीयते ॥

वित्तहीनस्य मर्त्यस्य नात्र कार्या विचारणा ।

भेरीमृदङ्गमुरजकरतालपटहादिभिः ॥

वादित्रैर् विविधैश् चान्यैर् आन्दोलैर् विविधैस् तथा ।

जागरं कारयेत् तत्र प्रार्थयेच् च यथाक्रमम् ॥

स्वभृत्यपुत्रदारैश् च तथा सम्बन्धिबान्धवैः ।

सार्धं प्रदक्षिणं कृत्वा प्रार्थयेल् लिङ्गम् ऐश्वरम् ॥

इत्य् उक्त्वा चैव रुद्रञ् च त्वरितं शान्तिम् एव च ।

[२३७] मन्त्र इति महाबीजं तथा पञ्चाक्षरस्य वै इति ॥

इति महास्नानम् ।

कालिकापुराणात् ।

कार्तिक्याम् अथ वैशाख्याम् अयनादिषु पर्वसु ।

दत्वा दीपान् समुद्बोध्य देवस्याग्रे बलिं ततः ॥

भूतानां देवदेवस्य ब्रह्मादिषु भवेत् सुधीः ।

स व्रती देवम् आमन्त्र्य स्वपेद् भूमौ हरिं स्मरन् ॥

उपलिप्य गृहं गत्वा निराहारो निशि स्वपेत् ।

अपरे ऽहनि पूर्वाह्ने गत्वा तत्रैव मन्दिरे ।

कारयेत् तु महास्नानं हराय विधिना शृणु ॥

पञ्चविंशत्पलेनैव अभ्यङ्गं कारयेद् अथ ।

शिवस्य सर्पिषा स्नानं प्रोक्तं पलशतेन वै ॥

पलानां द्विसहस्रेण महास्नानं विधीयते ।

तावता मधुना चैव दध्ना चैव ततः पुनः ॥

तावतैव हि क्षीरेण गव्येनैव भवेत् ततः ।

भूयः सार्धसहस्रेण फलानाम् अक्षयेण तु ॥

रसेन कारयेत् स्नानं भक्त्याचेक्ष्वम्बुना ततः ।

पुनः शीताम्बुना दत्वा वस्त्रपूतेन मन्त्रवित् ॥

स्नापयेत् भक्तितो भूमो गन्धपात्रस्थितेन तु ।

विधिना स्नाप्य बाणेन गोरोचनयाथालिपेत् ॥

कृष्णकुङ्कुमकर्पूरचन्दनागुरुयुक्तया ।

[२३८] कृष्णा कस्तूरी ।

लेपयित्वा ततो लिङ्गम् आपीडान्तं घनं शुभम् ।

नीलोत्पलसहस्रेण मालां बध्वा प्रपूजयेत् ॥

अलाभात् तु सहस्राणाम् अर्धार्धेनैव पूजयेत् ।

उत्पलानाम् अलाभे तु पत्रैश् च श्रीतरोर् यजेत् ॥

पद्मैर् वा चम्पकैर् वापि जात्यापाटलयापि वा ।

पुन्नागैः कर्णिकारैर् वा श्वेतमन्दारजैर् अपि ॥

मदनैर् मरुपुष्पैर् वा शमीशुक्लार्कनागरैः ।

यथालाभं च पत्रैर् वा निर्गन्धैर् अमलोर्जितैः ॥

प्रपूज्य कारयेद् भक्त्या सुगन्धपुष्पमण्डपम् ।

गुग्गुलुं चाज्यसंयुक्तम् अगुरुं वासितं दहेत् ॥

सम्पूज्य गौरीभर्तारं गीतवादित्रमङ्गलैः ।

शालिपिष्टोद्भवैः सिद्धैर् घृतपूर्णैः समुज्ज्वलैः ॥

ततो नीराजनं दीपैः षड्विंशत्या तु कारयेत् ।

सर्षपैर् दधियुक्तैश् च दूर्वागोरोचनाक्षतैः ॥

गन्धपुष्पोदकं दद्याद् धूपार्थं चिन्त्य शाङ्करम् ।

शातकुम्भं ततः पद्मम् अष्टपत्रं सकर्णिकम् ॥

ध्यात्वा निवेदयेन् मूर्ध्नि लिङ्गस्य कुसुमैः सह ।

सूक्ष्मवस्त्रयुगं गीतं श्वेतं वा पद्मसन्निभम् ॥

चामरं दर्षणं चैव दिपवर्तिं प्रदापयेत् ।

धूपसञ्चारणं चैव सङ्कटं पूर्वम् एव च ॥

विनायकध्वजौ दद्यात् किङ्किणीरवकान्वितौ ।

[२३९] अथाष्टभिः क्षितिः पीड्या अङ्गैर् भक्त्या तु दण्डवत् ॥

तत उच्चैः पठेत् स्तोत्रं शाङ्करं च शिवप्रियम् ।

प्रदक्षिणं ततो गच्छेच् छनैर् निर्माल्यवर्जितः ॥

प्रणम्य च पुनः पश्चान् नैवेद्यं च निवेदयेत् ।

दीनान्धकृपणांश् चैव आगतान् शिवदीक्षितान् ॥

तर्पयेद् अन्नपानेन सर्वांस् (?) तान् उक्तगौरवात् ।

कुर्याद् एतन् महास्नानं विधिन्नेन धर्मवित् ॥

कारयेद् यः शिवे भक्त्या तस्य पुण्यफलं शृणु ।

समुद्धृत्य शतं सार्धं कुलानां पापवर्जितः ॥

भुवनं ब्रह्मलोकान्तं भुक्त्वा भोगान् अशेषतः ।

व्रजेत् क्रीडायते तस्मिन् विमानस्थो ऽमरैर् युतः ॥

भोगान् यथेप्सितान् भुक्त्वा शिवसायुज्यतां व्रजेत् ।

मायां च तां समुत्सृज्य अन्ते योगम् अवाप्नुयात् ॥

केवलेनाथ वाज्येन दध्ना गव्येन चैव वा ।

पयसा पञ्चगव्येन मधुनेक्षुरसेन वा ॥

यः कारयेन् महास्नानं विधिनानेन मन्त्रतः ।

सो ऽपि तेनैव मार्गेण गमिष्यति परं पदम् ॥

अन्तरा स्रियते यस् तु अपूर्णो नियमेन वा ।

सो ऽपि गच्छेत् पदं तत् तु शिवभक्त्या ह्य् अतन्द्रितः ॥

विधिनानेन निःस्वीयः स्नानं तोयेन कारयेत् ।

नराणां विंशतिं यावत् स यास्यति परं पदम् ॥

एवम् एव हि शूद्रस्य स्पर्शमन्त्रविवर्जितम् ।

मन्त्रयुक्त्यार्चयेद् यस् तु ततः पुण्याधिको भवेत् ॥

[२४०]

इति महापूजाविधिः ।

वास्तुसंहितायाम् ।

पूजनीयो महादेवो लिङ्गमूर्तिः सनातनः ।

पद्मम् अष्टदलं हैमं नवरत्नैर् अलङ्कृतम् ॥

कर्णिकाकेसरोपतम् आसनं परिकल्पयेत् ।

राजतं तदभावे तु रक्तसितम् अथापि वा ॥

पद्मं तस्याप्य् अभावे तु केवलं भावनामयम् ।

तत्पद्मकर्णिकामध्ये कृत्वा लिङ्गं कनीयसम् ॥

अथ वा स्फाटिकोपेतं पूजयेद् विस्तृतक्रमात् ।

प्रतिष्ठाप्य विधानेन तल् लिङ्गं कृतशोधनम् ॥

परिकल्प्यासनं मूर्तौ पञ्चवक्त्रप्रकारतः ।

पञ्चगव्यादिभिः पुण्यैर् यथाविभवसंश्रितैः ॥

स्नापयेत् कलशैः पूर्णैः सहस्राद्यैस् तु शम्भवे ।

गन्धद्रव्यैः स कर्पूरैर्श् चन्दनाद्यैः स कुङ्कुमैः ॥

सवेदिकं समालिप्य लिङ्गं भूषणभूषितम् ।

बिल्वपत्रैश् च पद्मैश् च रक्तैः श्वेतैस् तथोत्पलैः ॥

नीलोत्पलैस् तथान्यैश् च पुण्यैस् तैस् तैः सुगन्धिभिः ।

पुण्यैः प्रशस्तैश् चित्रैश् च पत्रैर् दूर्वाक्षतादिभिः ॥

समभ्यर्च्य तथा लाभं महापूजां विधानतः ।

धूपं दीपं तथा दद्यान् नैवेदियं (?) च विशेषतः ॥

निवेदयित्वा विभवं कल्यानं च समाचरेत् ।

इष्टानि च विशिष्टानि न्यायेनोपार्जितानि च ॥

[२४१] सर्वद्रव्याणि देयानि व्रते तस्मिन् विशेषतः ।

श्रीपत्रोत्पलादिफलं तत्प्रमाणं बिल्वपत्रके ॥

पुष्पान्तरेण नियमो यथालाभं निवेदयेत् ।

अष्टाङ्गम् अघम् उद्दिष्टं धूपदीपौ विशेषतः ॥

कृष्णागुरुर् अघोराख्ये वक्त्रे सव्ये मनःशिला ।

चन्दनं वामदेवाख्ये मुखे कृष्णागुरुं पुनः ॥

पौरुषे गुग्गुलुं सव्ये सौम्ये सौगन्धिकं मुखे ।

ईशाने ऽपि त्व् ईशाणीं वा दद्याद् धूपं विशेषतः ॥

अगुरुमिश्रं गुग्गुलुं प्रदद्याद् घृतसंयुतम् ।

चन्दनागुरुकुष्ठाद्यं सामान्यं तु प्रचक्षते ॥

कर्पूरवर्तिना देयो दीपो घृतवलिस् ततः ।

अर्घम् आचमनं देयं प्रतिवक्त्रम् अतः परम् ॥

प्रथमावरणे तिलांश् चैव प्रथमावरणे ऽर्चिताः ।

द्वितीयावरणे पूज्या विद्येशाश् चक्रवर्तिनः ॥

तृतीयावरणे पश्चाद् अष्टमूर्तिर् महेश्वरः ।

महादेवादयस् तत्र तथैकादशमूर्तयः ॥

चतुर्थावरणे पूज्याः सर्व एव गणेश्वराः ।

बहिर् एव तु पद्मस्य पञ्चमावरणक्रमात् ॥

दशदिक्पतयः पूज्याः शास्त्रात् सानुचरास् तथा ।

ब्रह्मणो मानसाः पुत्राः सर्वे ऽपि ज्योतिषाङ्गणाः ॥

सर्वे देवाश् च देव्यश् च सर्वाः सर्वे ऽपि खेचराः ।

पातालवासिनश् चान्ये सर्वे मुनिगणा अपि ॥

[२४२] योगिनो मरुतः पञ्च पञ्चगोमातरस् तथा ।

क्षेत्रपालाश् च सगणाः सर्वं चैव चराचरम् ॥

अथावरणपूजां ते सम्पूज्य परमेश्वरम् ।

साज्यं सव्यञ्जनं हृद्यं हरेर् भक्तं निवेदयेत् ॥

सुखावासादिकं दत्वा ताम्बूलं सोपदंशकम् ।

अलङ्कृत्य च भूयो ऽपि नानापुष्पविभूषणैः ॥

नीराजनान्तं विस्तार्य पूजाशेषं समापयेत् ।

वराङ्गं सोपहारं च शयनं च समीरयेत् ॥

यद् अन्नं पाचितं हृद्यं तत् सर्वम् अनुपूर्वशः ।

कृत्वा च कारयित्वा च हुत्वा चैव प्रपूजनम् ॥

स्तोत्रं व्यामोहनं जप्त्वा विद्यां पञ्चाक्षरीं जपेत् ।

दत्वार्घम् अष्टौ पुष्पाणि देवम् उद्धासलिङ्गतः ॥

ताम्बूलमुखवासयोर् लक्षणम् उक्तं रत्नकोशे ।

महापिप्पलपत्राणि क्रमुकस्य फलानि च ।

शुक्तिक्षारेण संयुक्तं ताम्बूलम् इति सञ्ज्ञितम् ॥

श्वेतपत्रं च पूर्णं च क्रमुकस्य फलानि च ।

नारिकेलफलोपेतं मातुलाङ्गसमायुतम् ।

एलाकक्कोलकर्पूरैर् मुखवासं प्रचक्षते ॥

एतेषाम् अप्य् अलाभे तु तत् तद् द्रव्यं स्मरेद् बुधः ।

तत् तद् द्रव्यं तु सङ्कल्प्य पुष्पैर् वापि समर्पयेत् ॥ इति ।

इति प्रकारान्तरेण महापूजाविधिः ।

विष्णुधर्मोत्तरात् ।

[२४३] महावर्तिः सदा देया भूमिपालमहाफला ।

कृष्णपक्षे विशेषेण तत्रापि च विशेषतः ॥

अमावास्या च निर्दिष्टा द्वादशी च महाफला ।

आश्वयुज्याम् अतीतायां कृष्णपक्षस्य या भवेत् ॥

अमावास्या महापुण्या द्वादशी च विशेषतः ।

देवस्य दक्षिणे पार्श्वे देया तैलतुला नृप ॥

पलाष्टकयुतां राजन् वर्तिं तत्र प्रकल्पयेत् ।

महारजतरक्तेन समग्रेण तु वाससा ॥

वामपार्श्वे तु देवस्य देया घृततुला नृप ।

पलाष्टकयुतां पुण्यां शुक्लां वर्तिं च दापयेत् ॥

वाससा तु समग्रेण सोपवासो जितेन्द्रियः ।

एवं वर्तिद्वयम् इदं सकृद् दत्वा महीपते ॥

स्वर्गलोकं चिरं भुक्त्वा जायते भूतले यदा ।

तदा भवति लक्ष्मीवान् रूपसौभाग्यसंयुतः ॥

राष्ट्रे च जायते तस्मिन् देशे च नगरे तथा ।

कुले च राजशार्दूल तत्र स्याद् दीपवत् प्रभा ॥

अत्युज्ज्वलश् च भवति युद्धेषु कलहेषु च ।

ख्यातिं याति सदा लोके सज्जनानां च सद्गुणः ॥

एकाम् अप्य् अथ वा दद्याद् अभीष्टाम् अनयोर् द्वयोः ।

मानुष्ये सर्वम् आप्नोति यद् उक्तं ते मयानघ ॥

सामान्यस्य तु दीपस्य राजन् दानं महाफलम् ।

किं पुनर् महतस् तस्य फलस्यान्तो न विद्यते ॥

दीपदानं महापुण्यम् अन्यदेवस्य च ध्रुवम् ।

[२४४] किं पुनर् देवदेवस्य अनन्तस्य महात्मनः ॥

गिरिशृङ्गेषु दातव्या नदीनां पुलिनेषु च ।

चतुष्पथेषु रथ्यासु ब्राह्मणानां च वेश्मसु ॥

वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु च ।

दीपदानं महामन्त्रं महत्फलम् उपाश्नुते ॥

इति महादीपविधिः

अथ व्रतारम्भकालः । तत्र सत्यव्रतः ।

उदवस्था तिथिर् या हि न भवेद् दिनमध्यभाक् ।

सा खण्डा न व्रतानां स्याद् आरम्भे च समापने ॥ इति ।

एतद्व्यतिरिक्तायाम् अखण्डायां प्राम्भम् आह वृद्धवसिष्ठः ।

स्वखण्डव्यापिमार्तण्डा यद्य् अखण्डा भवेत् तिथिः ।

व्रतप्रारम्भणं तस्याम् अनष्टगुरुशुक्रयुक् ॥ इति ।

तिथिर् यद्य् अनष्टगुरुशुक्रयुक् अनस्तमितगुरुशुक्रयुक्ता तस्यां व्रतम् आरम्भणीयम् इत्य् अर्थः, इदम् उपलक्षणम् । गुरुशुक्रयोर् बाल्ये वार्धक्ये ऽपि व्रतं नारम्भणीयम् इत्य् अर्थः ।

तथा च वृद्धमनुबृहस्पतौ ।

अग्न्याधानं प्रतिष्ठां च यज्ञदानव्रतानि च ।

वेदव्रतवृषोत्सर्गचूडाकरणमेखला ।

माङ्गल्यम् अभिषेकं च मलमासे विवर्जयेत् ॥

बाल्ये वा यदि वा वृद्धे शुक्रे वातङ्गते गुरौ ।

[२४५] मलमास इवैतानि वर्जयेद् देवदर्शनम् ॥ इति ।

गार्ग्यो ऽपि ।

नामान्नप्राशनं चौडं विवाहं मौञ्जिबन्धनम् ।

निष्क्रमं जातकर्मापि काम्यं वृषविसर्जनम् ॥

अस्तिगे च गुरौ शुक्रे बाले वृद्धे मलिम्लुचे ।

उद्यापनम् उपारम्भं व्रतानां नैव कारयेत् ॥ इति ।

लन्नः ।

नीचस्ये वक्रसंस्थे ऽप्य् अभिचरणगते बालवृद्धास्तगे वा

सन्यासो देवयात्रा व्रतचरणविधिः कर्णवेधस् तु दीक्षा ।

मौञ्जीबन्धो ऽथ चूडा परिणयनविधिर् वास्तुदेवप्रतिष्ठा ।

वर्ज्याः सद्भिः प्रयत्नात् त्रिदशपतिगुरौ संहराशिस्थिते च ॥ इति ।

नीललक्षणं तु ज्योतिःशास्त्रे ।

सूर्यादिषूच्चमजगोमकराः क्रमात् स्युः ।

स्त्री कर्किमीनवणिजोस्तगमं च नीचम् ॥ इति ।

उच्चस्थानात् सप्तमं नीचम् इत्य् अर्थः । तथा च नीचस्थे गुरौ मकरगते इत्य् अर्थः ।

शौनकः ।

कीर्त्यागारविवाहयागगमनं क्षीराद्यकर्णव्यधं

विद्यादेवविलोकनोपनयनं दीक्षापरीक्षाव्रतम् ।

स्नानं तीर्थगमं रणं पुरमहादानप्रतिष्ठापनं

[२४६] सिंहस्थे विबुधार्चिते न शुभदं कर्तुर् तथा सूर्यगे ॥

अस्तलक्षणं तु ब्रह्मसिद्धान्ते ।

रविणासत्तिर् अन्येषां ग्रहाणाम् अस्त उच्यते ।

ततो ऽर्वाक् वार्धकं विद्याद् ऊर्ध्वं बाल्यं प्रकीर्तितम् ॥ इति ।

एतयोर् अवधिः ज्योतिःशास्त्रे ऽनेकधा दर्शितः ।

बालः शुक्रो दिवसदशकं पञ्चकं चैव वृद्धः

पश्चाद् अह्नस् त्रितर्यम् उदितः पक्षमौढ्यः क्रमेण ।

जीवो वृद्धः शुशुर् अपि सदा पक्षं अन्यैः शिशू तौ

वृद्धौ प्रोक्तौ दिवसदशकं चापरैः सप्तरात्रम् ॥ इति ।

एतेषां पक्षाणां व्यव्स्था देशान्तरविषया आपद्विषया वा । तथा च गार्ग्यः ।

शुक्रो गुरुः प्राक् प्राक् च बालो

विन्ध्ये दशावन्तिषु सप्तरात्रम् ।

वङ्गेषु हूणेषु च षट् च पञ्च

शेषे च देशे त्रिदिनं वदन्ति ॥ इति ।

वराहमिहिरो ऽपि ।

बहवो दर्शिताः काला ये बाल्ये वार्धिके ऽपि च ।

ग्राह्यास् तत्राधिकाः शेषा देशभेदाद् उतापदि ॥ इति ।

अथ मुद्रालक्षणानि ।

सम्मुखीकृत्य हस्तौ द्वौ किञ्चित् सङ्कुचिताङ्गुली ।

मुकुटी तु समाख्याता पङ्कजप्रसृतैव सा ॥

[२४७] मुकुली पङ्कजमुद्रयोः ।

पूर्वा च मुकुली या च प्रदेशे निसृताङ्गुलिः ।

व्याकोशमुद्रा मुकुला पद्ममुद्रां प्रदर्शयेत् ॥

पद्ममुद्रायाः ।

अङ्गुष्ठौ कुञ्चितौ द्वौ तु स्वकीयाङ्गुलिवेष्टितौ ।

उभौ चाभिमुखौ हस्तौ योजयित्वा तु निष्ठुरा ॥

निष्ठुरायाः ।

तर्जन्यौ कुञ्चितौ कृत्वा तथैव च कनीयसी ।

अधोमुखा दृष्टनखा स्थिता मध्ये करस्य तु ॥

चतस्रश् चोच्छ्रिताः पृष्ठे अङ्गुष्ठाव् एकतः कुरु ।

नालं व्यवस्थितौ द्वौ तु व्योममुद्रा प्रकीर्तिता ॥

व्योममुद्रायाः ।

अथ वैदिकमन्त्राणाम् ऋषिदैवतछन्दांसि । तत्प्रयोजनम् आह याज्ञवल्क्यः ।

आर्षं छन्दो दैवतं च विनियोगस् तथैव च ।

वेदितव्यं प्रयत्नेन ब्राह्मणेन विशेषतः ॥

अविदित्वा तु यः कुर्याद् याजनाध्ययनं जपम् ।

होमम् अन्तर्जले दानं तस्य चाल्पफलं लभेत् ॥

तथा ।

यो विजानाति मन्त्राणाम् आर्षं छन्दश् च दैवतम् ।

विनियोगं ब्राह्मणं च मन्त्रार्थं ज्ञानकर्म च ॥

[२४८] एकैकस्य ऋषेः सो ऽपि वन्ध्यो ह्य् अतिथिवद् भवेत् ।

देवता याश् च सायुज्यं गच्छत्य् अत्र न संशयः ॥

पूर्वोक्तेन प्रकारेण ऋष्यादीन् वेत्ति यो द्विजः ।

अधिकारो भवेत् तस्य रहस्यादिषु कर्मसु ॥

येन यद् ऋषिणा दृष्टं सिद्धिः प्राप्ता च येन वै ।

मन्त्रेण यस्य यत् प्रोक्तम् ऋषेर् भावस् तद् आर्षकम् ॥

छन्दनात् छन्द उद्दिष्टं वाससा इव चाकृतिः ।

आत्मा सञ्छादितो देवैर् मृत्योर् भीतैस् तु वै पुरा ॥

आदित्यैर् वसुभी रुद्रैस् तेन छन्दांसि तानि वै ।

यस्य यस्य तु मन्त्रस्य उद्दिष्टा देवता तु या ।

तदाकारं भवेत् तस्य देवत्वं देवतोच्यते ॥

पुरा देवैः समुत्पन्ना मन्त्राः कर्मार्थम् एव च ।

अनेन चेदं कर्तव्यं विनियोगः स उच्यते ॥

नैरुक्त्यं यस्य मन्त्रस्य विनियोगप्रयोजनम् ।

प्रतीष्ठां स्तुतिश् चैव ब्राह्मणं तद् इहोच्यते ॥

एवं पञ्चविधं योगं जपकाले ह्य् अनुस्मरेत् ।

होमे चान्तर्जले योगे स्वाध्याये याजने तथा ॥ इति ।

तत्रादौ ऋग्वेदमन्त्राः । अग्निम् ईलेति सूक्तस्य मधुछन्दो विश्वामित्रो ऽग्निर् गायत्री । वायवायाहीति सप्तानां मधुछन्दाः । आद्यानतिसॄणां वायुः अनन्तराणाम् इन्द्रवायू । सप्तमाया मित्रावरुणौ । सप्तानां गायत्री ।

[२४९] सदसम्पतिम् इति मन्त्रस्य काण्वो मेधातिथिः सदसम्पतिर् गायत्री ।

अम्बयोयं त्व् अध्वम् इत्य् अस्य काण्वो मेधातिथिर् आपोगायत्री ।

यत् सिद्धिसत्यसोमपा इति आजीगर्तिः शुनःशेपः इन्द्रः ।

अद्यानां सप्तानां पङ्क्तिर् नवानां गायत्री ।

युवाना मेधातिथिः काण्व ऋभयो गायत्री ।

स्योनापृथिवी मेधातिथिः काण्वः पृथ्वी गायत्री ।

अतो देवेति द्वयोर् मेधातिथिर् देवो विष्णुर् गायत्री ।

कस्य नूनम् इति पञ्चदशर्चस्य आजीगर्तिर् वैश्वामित्रो ।

वा शुनःशेफः ऋषिः प्रथमायाः कः प्रजापतिस् त्रिष्टुप् ।

द्वितीयाया अग्निस् त्रिष्टुप् । अभित्वेति तिसृषु सविता ।

भगस्येत्य् अस्याम् भगो वा गायत्री ।

नहित इत्याद्या दश वारुण्यस् त्रिष्टुभः ।

त्वम् अग्ने प्रथमो ऽङ्गिरा इत्य् अष्टादशर्चस्य ।

अष्टमीषोडश्यष्टादश्यस् त्रिष्टुभः ।

एतेति पञ्चदशर्चस्य आङ्गिरस हिरण्यस् तूप इन्द्रस् त्रिष्टुप् ।

कदुद्रोयेति नव घोरः काण्वो रुद्रः ।

तृतीयायां रुद्रो मित्रावरुणौ सप्तम्यादित्रिषु सोमः गायत्री ।

यास् त इत्यन्त्या अनुष्टुप् ।

[२५०] उदुत्यं जातवेदसम् इति त्रयोदश अन्त्यास् त्रिष्टुप् प्रस्कन्नः ।

सूर्यः आद्या नव गायत्र्यः ।

दशम्यादिचतस्रो ऽनुष्टुभः अन्त्यत्र्यृचो रोगघ्नः ।

अन्त्यो ऽर्धर्चः शत्रुघन्ः । पश्वानं दशर्चस्य शाक्त्यः पाराशरो ऽग्निर्

द्विपदा विराट् ।

शौनकमते पञ्च पङ्क्तिभिः विराट् ।

रपिर् नत्रिचादशर्चं शाक्त्यः पारासरो ऽग्निर् द्विपदा विराट् ।

शौनकमते पञ्च पङ्क्तिः विराट् । वनेषुजायुर् दश शौनकमते पञ्च । श्रीणन्नुपदश शौनकमते पञ्च । वनेमपूर्वी एकाद्शर्चं शुनकमते षट् । उपप्रजिन्वन् दशर्चस्य शाक्त्यः पाराशरो ऽग्निस् त्रिष्टुप् । निकाव्यावेधसः । दश शाक्त्यः । पराशरो ऽग्निस् त्रिष्टुप् । रपिर् नयः पितृवित्तः दशर्चस्य । पराशरो ऽग्निस् त्रिष्टुप् । उपप्रयन्तो नव राहुगणो गौतमो ऽग्निर् गायत्री । हिरण्यकेशो रजसो द्वादशर्चस्य गौतमो ऽग्निः आद्यास् तिस्रस् त्रिष्टुभः । तासु मध्यस्थानो वा शुद्धो वाग्निः चतुर्थाद्यास् तिस्र उष्णिहः । ततः षट् गायत्र्यः ।

त्वं सोम प्रचिकेतो मनीषेति त्रयोविंशत्यृचस्य । गौतमः सोमः आद्यचतसॄणां त्रिष्टुप् । ततो द्वादशानां गायत्री । सप्तम्य् उष्णिक् । ततः षण्णां त्रिष्टुप् ।

[२५१] प्रपन्दिने एकादशर्चस्य । आङ्गिरसः कुत्सः मरुत्वान् इन्द्रः । आद्याः सप्त जगत्यः आद्या गर्भस्राविणी उपनिषत् । ततश् चतस्रस् त्रिष्टुभः । इमा रुद्रायतपसे इत्य् एकादशरचस्य । कुत्सो रुद्रः नवानां जगती । दशम्येकादश्योस् त्रिष्टुप् । उभे पुनामीति सप्तर्चस्य । पारुक्षेप इन्द्रः आद्या त्रिष्टुप् । द्वितीयाद्यास् तिस्रो ऽनुष्टुभः पञ्चमी गयत्री षष्ठी धृतिः सप्तम्य् उष्णिक् । ये देवासः पारुक्षेप विश्वदेवास् त्रिष्टुप् । पितुन्नुस्तोषं एकादशर्चं अगस्तोन्नं प्रथमा अनुष्ठुप् । गर्भोष्णिक् । द्वितीयचतुर्थ्योर् गायत्री तृतीया अनुष्टुप् । पञ्चम्यादितिस्रो ऽनुष्टुभः ततस् तिस्रो गायत्र्यः अन्त्या बृहत्यनुष्टुभः । अग्ने नयेत्य् अष्ठर्चम् । अगस्त्यो ऽग्निस् त्रिष्टुप् । अनर्वाणं वृषभम् इत्य् अष्टर्चस्य । अगस्त्यो बृहस्पतिस् त्रिष्टुप् । उपेमसृक्षीति पञ्चदशर्चम् । गृत्सद अपो नप्ता । तरिष्टुभम् । करिक्रदज् जनुषम् इति त्र्यृचस्य गृत्समदः शकुन्त इन्द्रस् त्रिष्टुप् । इलापर्वता चतुर्विंशत्र्यृचम् । आद्यायाम् इन्द्रपर्वतौ । ततश् चतुर्दशीपर्यन्तानाम् इन्द्रः । ततो द्वयोः ससर्परी वाक् । सप्तदश्यादिचतसृषु रथाङ्गानि इन्द्रश् च । अन्त्यानां चतसॄणाम् इन्द्रः । [२५२] आद्या नव त्रिष्टुभः दशमी जगती । एकासशी त्रिष्टुप् । द्वादश्य् अनुष्टुप् । त्रयोदशी गायत्री । ततो द्वे त्रिष्टुभौ । शोडशी जगती । सप्तदशी त्रिष्टुप् । अष्टादशी बृहती । एकोनविंशी त्रिष्टुप् । विंशी द्वाविंशी चानुष्टुप् । एकविंशी त्रयोविंशी चतुर्विंशी च त्रिष्टुप् ।

अग्निनेन्द्रेणेति चतुर्विंशदृचस्य सूक्तस्य ।

श्यावाश्व आत्रेयः अश्विनौ उपरिष्टाज् (?) ज्योतिषम् ।

द्वाविंशिचतुर्विश्य्यौ पङ्क्ती त्रयोविंशी महाबृहती ।

अवितासीति सप्तर्चस्य श्यावाश्व इन्द्रः शक्वरी ।

अन्त्या महापङ्क्तिः । अग्रिमस् तोषीति दशर्चस्य । नाभाकः । काण्वोग्निर् महां पङ्क्तिः । इमे विप्रस्येति । त्रयस्त्रिंशदृचस्य सूक्तस्य आङ्गिरसो विरूपाग्निर् गायत्री । समिधाग्निम् इति त्रिंशदृचस्य विरूपाग्निर् गायत्री । आद्यायेति । द्विचत्वारिंशदृचस्य सूक्तस्य । त्रिशोकः काण्व इन्द्रो गायत्री । महिवः । अष्टादशर्चस्य । त्रित आस्यः आदित्यो देवता । अन्त्याः पञ्च उपस्थः महापङ्क्तिः दुःस्वप्नघ्नम् । प्रतिते । पञ्चर्चम् । पञ्चर्चम् । पृषघ्नकाण्वः ऐन्द्रं गायत्रं आग्निसौरी अन्त्या पङ्क्तिः । प्रो अस्मै द्वादशः प्रगाथकाण्वः ऐन्द्रं पाङ्क्तम् ।

[२५३] सप्तम्यष्टमीनवम्यो बृहत्यः त्यान्नुक्षत्रियान् । एक विंशत्रृचस्य । मत्स्यः साम्मदः अगस्त्यः । बहवो जालवहा मत्स्याश् च ऋषयः आदित्यो देवता दशम्येकदशीद्वादशीष्वादितिः । गायत्रीछन्दः । यो राजा पञ्चदशर्चम् । पुरुहन्मा आङ्गिरसः ऐन्द्रं बार्हतम् । द्वितीया चतुर्थी षष्ट्यः सतो बृहत्यः त्रयोदश्य् उष्णिक् । चतुर्दश्य् अनुष्टुप् । पञ्चदशी पुर उष्णिक् । त्वन्नो अग्ने महोभिर् इति पञ्चदशर्चस्य सूक्तस्य । सुदीति पुरम् ईडावन्यतरो वा । अग्निः गायत्री दशम्याद्याः समा बृहत्यः एकादशाद्याः विषमाः सती बृहत्यः । कन्यावाः सप्तर्चस्य आत्रेय इन्द्रो ऽनुष्टुप् आद्ये द्वे पङ्क्ती । उद्वेदभि । चतुस्त्रिंशत् । सूकक्ष इन्द्रो गायत्री ऐन्द्राभवी अन्य्ता । आपोहिष्टेति नवर्चस्य । आम्बरीषः सिन्धुद्वीप आपो गायत्री । पञ्चमो वर्धमाना सप्तमी प्रतिष्ठा अन्त्ये द्वे अनुष्टुप्बौ । परेपिवांसम् इति षोडशर्चस्य । यमो वैवस्वतो यमः षष्टी लिङ्गोक्तदेवता । सप्तम्यादितिस्रः पित्र्या वा याम्या वा । दशम्यादितिसृषु श्वाणौ त्रिष्टुप् छन्दः त्रयोदशी चतुर्दशी च अनुष्टुप् । पञ्चदशी बृहती । परमृत्याव् इति चतुर्दशर्चस्य [२५४] सङ्कुसुकोयामः आद्यानां चतसॄणां मृत्युः । पञ्चम्याधाता । षष्ठ्यां त्वष्टा । पराः पितृयज्ञदेवत्यः अन्त्या प्राजापत्या वा त्रिष्टुप् । एकादशी प्रस्तारपङ्क्तिः त्रयोदशी जगती । अन्त्यानुष्टुप् । भद्रन्न इति दशर्चस्य । ऐन्द्रो विमदः प्राजापत्यो वा वसुकृद् वा सूक्तः (?) अग्निर् गायत्री । आद्यैकपदा शान्त्यर्था द्वितीयानुष्टुप् नवमी विराट् । अन्त्यास् त्रिष्टुभः । प्रदेवत्रेति पञ्चदशर्चस्य पृलूषः कंषवः आपो वा आपोनप्ती वा त्रिष्टुप् । प्रावेपामाम् इति चतुर्दशर्चम् । मौजवानक्षः कवयो वा । आद्या सप्तमी नववीषु कृषिस्तुतिः द्वादश्याम् अक्षस्तुतिः शेषाष्व् अक्षर्निदा (?) । त्रैष्टुभं अम्बुघ्नम् इति चतुर्दशर्चस्य धानाकोलूषो विश्वेदेवा जगती अन्त्ये द्वे तिष्टुभौ । नमो मित्रस्येति द्वादशर्चस्य ।सौर्योभितयाः सूर्यो जगती दशमी त्रिष्टुप् । दिवस्परिद्द्वादशर्चस्य । वत्सप्रिरग्निस् त्रिष्टुप् अन्त्ये ऽध्यर्चलिङ्गोक्ता देवता । आप्रगामेति षडर्चस्य । बन्धुसुबन्धुश्रुतबन्धुविप्रबन्धव इन्द्रो गायत्री । यत्तेयमम् इति द्वादशर्चस्य बन्ध्वादयश् चत्वार ऋषयो यमादयो मनआवर्तनम् अनुष्टुप् । इदम् इर्त्या इति सप्तविंशत्यृचस्य । नाभानेदिष्टो मामवो विश्वेदेवास् त्रिष्टुप् बृहस्पते इत्य् एकादशर्चस्य बृहस्पत इत्य् आङ्गिरसः परमात्मा त्रिष्टुप् नवमी जगती यस् ते मन्यो इति सप्तरस्य । मनुस् तापसो मन्युस् त्रिष्टुप् । प्रथमा जगती । रक्षोहणम् इति पञ्चविंशदृचस्य । वायुर् भरद्वाजो ऽग्निस् त्रिष्टुप् ।

अन्त्याश् चतस्रो ऽनुष्टुभः । हविष्यान्तम् इत्य् एकोनविंशत्यृचस्य आङ्गिरसो वा वामदेव्यो वा मुर्धन्वान् सूर्यो वैश्वानरस् त्रिष्टुप् । सहस्रशीर्षा षोडश्र्चस्य नारायणः परमात्मा त्रिष्टुप् । [२५५] या ओषधीर् इति त्रयोविंशदृचस्य । आथर्वणोभिषगोषधीर् अनुष्टुप् । बृहस्पते प्रतिम इति द्वादशर्चस्य । देवापि राष्टिषेणो । वृष्टिकामो विश्वेदेवास् त्रिष्टुप् । अयानश् चित्रं द्वादशर्चस्य । वैखानसी चन्द्र इन्द्रस् त्रिष्टुप् । आशुःशिशान इति त्रयोदशर्चस्य । ऐन्द्रो ऽप्रतिरथ इन्द्रस् त्रिष्टुप् । चतुर्थी बार्हस्पत्या उपान्त्या मारुती अन्त्या च मारुत्य् अनुष्टुप् । वैश्याग्निम् इति सप्तर्चस्य । क्रमेण सप्तर्चाञ्जूतिर् वातजूतिर् विप्रजूतिर् वृषणकः । करिक्रतः ऐतशः ऋष्यशृङ्गः ऋषयः केशी देवता अनुष्टुप् । उतदेवा इति सप्तर्चस्य । भरद्वाजकश्यपगोतमात्रिविश्वामित्रजमदग्नि-वसिष्ठाः क्रमेण ऋषयो विश्वेदेवानुष्टुप् । अग्ने ऽच्छषडर्चस्य तापसोग्निविश्वेदेवानुष्टुप् । इमां खनामीति षडर्चस्य इन्द्राणी ऋषिका । उपनिषद्रहविश्वा देवता सपत्नी बाधनम् अनुष्टुवन्त्या पङ्क्तिः । शामः पञ्चर्चस्य भरद्वाजः शास इन्द्रो ऽनुष्टुप् । मुञ्चामि पञ्चर्चस्य यक्ष्मनाशनः प्रजापति इन्द्राग्नी इन्द्रो वा त्रिष्टुप् । अन्त्या बृहती वा ब्रह्मणाग्निसंविदानः षडर्चस्य रक्षोहा ब्राह्मो गर्भसमाधानो ऽग्निर् अनुष्टुप् । अपेहि पञ्चर्चस्य आङ्गिरसः प्रचेतो विश्वेदेवानुष्टुप् तृतीया त्रिष्टुप् । अन्त्या पङ्क्तिर् दुःस्वप्नघ्नम् । देवाः कपोतः पञ्चर्चस्य नैरृतः कपोतो [२५६] विश्वेदेवास् त्रिष्टुप् कपोतो पद्याते प्रायश्चित्तम् । मयोभूःचतुष्कस्य । काक्षीवतः शबरो गौस् त्रिष्टुप् । पतङ्गम् इति त्र्यृचस्य । पाजापत्यः पतङ्गो मायभेदस् त्रिष्टुप् । अपश्यन् त्वेति त्र्यृचस्य । प्राजापत्यः प्रजावांस् त्रिष्टुप् । विष्णुर् योनिम् इति त्र्यृचस्य गर्भकर्ता त्वष्टा प्राजापत्यो विष्णुर् वा विश्वेदेवानुष्टुप् । कस्यचिन् मते विष्णुर् योनिम् इति पञ्चर्चम् । महित्रीणाम् इति त्र्यृचस्य वारुणिः सत्यधृतिर् गायत्री । आयङ्गौस् त्र्यृचस्य सार्पराह्नी आत्मा सूर्यो वा गायत्री । संसमित् चतूऋचस्य सम्बनन आङ्गिरसः सञ्ज्ञानम् अनुष्टुप् तृतीया त्रिष्टुप् । वास्तोष्पते त्र्यृचस्य मैत्रावरुणौ वशिष्ठो वास्तोष्पतिस् त्रिष्टुप् । तत् सवितुर् नवर्चस्य श्यावाश्चः सविता गायत्री प्रथमानुष्टुप् । मातारुद्राणाम् इति मन्त्रस्य जमदग्निर् भार्गवो गावस् त्रिष्टुप् । शन्नोदेवीसूक्तस्य वशिष्ठो विश्वेदेवास् त्रिष्टुप् । युवंवस्त्राणि सप्तर्चस्य दीर्घतमा मित्रावरुणौ त्रिष्टुप् । समुद्राद् ऊर्मिर् इत्य् एकादशर्चस्य वामदेव ऋषीः अग्निः । सूर्यः गावो घृतं वा देवताः अन्त्यास् त्रिष्टुप् । उपान्त्या जगती । स्वस्तिदाविशस्पतिः शासो भरद्वाज इन्द्रो ऽनुष्टुप् । सुदेव इत्य् अस्य प्रियमेघ इन्द्रो ऽनुष्टुप् । वायो एते एकविंशत्यृचस्य गृत्समदः आद्ययोर् वायुः तृतीयाया इन्द्रावायू । ततस् तिसॄणां मित्रावरुणौ ततस् तिसॄणां मित्रावरुणौ । [२५७] दशम्येकादशीद्वादशीनाम् इन्द्रः । ततस् त्र्यृचस्य विश्वेदेवा ततस् तिसॄणां सरस्वती । एकोनविंश्याः द्यावापृथिव्यौ हविर्धानो वा । तृतीयपादे ऽग्निर् वा । अन्त्ययोर् द्वयोर् द्यावापृथिव्यौ हविर्धानो वा । गायत्री छन्दः सर्वासाम् । आदित्यानाम् इति त्र्यृचस्य वशिष्ठ आदित्यस् त्रिष्टुप् । आदित्यास इत्य् ऋचस्य तद्वत् । यो यजाति मनुः आशिष अत्र इज्यास्तुतिद्वारा यजमानः प्रशंस्यः । पञ्चम्यां दम्पती । शिष्टादम्पत्याशिषः गायत्री । चतुर्दश्य् अनुष्टुप् । पञ्चदश्याद्याः पङ्क्तयः । प्रवोदेवा सप्तर्चस्य वैश्वमित्रो ऋषभो ऽग्निर् अनुष्टुप् । क्राणाशिशुर् इत्य् ऋचस्य । त्रितः सोमो ऽनुष्णिक् । पिवासोमम् इति पञ्चदशर्चस्य भरद्वाज इन्द्रस् त्रिष्टुप् । अन्त्या द्विपदा । एषो उषाः पञ्चदशर्चस्य प्रस्कण्वाश्विनौ गायत्री । अग्निर् हुतम् इति द्वादशर्चस्य काण्वो मेधातिथिर् अग्निर् गायत्री । अग्निनेति पादे निर्मन्थ्याहवनीयाव् अग्नी । विष्णोर् नुकम् इति षडर्चस्य दीर्घतमा विष्णुस् त्रिष्टुप् । तवश्रियेति मन्त्रस्य वसुस्रुतो विश्वेदेवास् त्रिष्टुप् । द्यौर् वः पितेत्य् अस्य अगस्त्यो विश्वेदेवाः अनुष्टुप् । आवोराजानम् इति षोडषर्चस्य वामदेव – आद्या रौद्री द्वितीयादिडग्निस् (?) त्रिष्टुप् । उत्तानपर्णे सुभग इत्य् अस्येन्द्राण्य् उपनिषद्विद्यानुष्टुप् । मित्रो जनान् इति नवर्चस्य विश्वामित्रो मित्रः । [२५८] आद्याः पञ्च त्रिष्टुभः सुतश् चतस्रो गायत्र्यः । अमन्दांस्तोमान् इति सप्तर्चस्य कक्षीवान् स्वनयनस्तुतिस् त्रिष्टुप् । अन्ये द्वे ऽनुष्टुबौ । आवांरथो अश्विना इत्य् एकादशर्चस्य कक्षीवान् अश्विनौ त्रिष्टुप् । स्वादिष्टयेति दशर्चस्य मधुछन्दा विश्वामित्रः सोमो गायत्री । पवस्वदेववीति । दशर्चस्य मेधातिथिः काण्वः सोमो गायत्री । एष देवः दशर्चस्य शुनःशेफः सोमो गायत्री । सनाचेति दशर्चस्य हिरण्यस्तूपः सोमो गायत्री । समिद्धः एकादशर्चस्य । कश्यपः असितः देवलो वा ऋषिः ।

ऋक्क्रमेण समिद्धीग्नितनूनपात् ईलः बर्हिः देव्योधारः उषासानक्काद्री (?) देव्यो होतारौ तिस्रो देवीः त्वष्टा वनस्पतिः स्वाहाकृतयः गायत्री छन्दः अन्त्याश् चतस्रो ऽनुष्टुभः ।

मन्द्रयेति नवर्चस्य असितो वा देवलो वा सोमो गायत्री । असृग्रम् इति नवर्चस्य देवलः काश्यपो वा सोमो गायत्री । एते सोमा इति नवर्चस्य अतो वा देवलो वा सोमो गायत्री । परिप्रियादिवः नवर्चस्य प्रस्वानासः इति नवर्चम् । उपास्मै नवर्चम् । सोमा असृग्रं नवर्चम् । सोमः पुनानौ अर्षति नवर्चम् ।

परिप्रासिष्ट्यदशर्चम् । एषधिष अष्टर्चम् । एते सेतारः अष्टर्चम् । प्रनिस्नेनेवाष्टर्चां पेरिसुवानः सप्तर्चम् ।

यत् सोम सप्तर्चम् । प्रकविः सप्तर्चम् । एते धावन्ति सप्तर्चम् ।

[२५९] एते सोमासः सप्तर्चम् । सोमा असृग्रं सप्तर्चम् । प्रसोमासः सपर्चम् । एते सोमा इति वत्सर्वाणीमानि एवं षडर्चस्य । दृढच्युत आगस्त्यः सोमो गायत्री । तममृक्षन्त । षडर्चस्य दार्ढ्यच्यतेध्मवाहः सोमो गायत्री । एष कविः षण्णां । नृमेध आङ्गिरसः सोमो गायत्री । एष वाजीनाम् । प्रियमेध आङ्गिरसः सोमो गायत्री । प्रास्यधावाः षण्णां सामधम् आङ्गिरः सोमो गायत्री । प्रास्यधाराः । षण्णां नृमेध आङ्गिरसः सोमो गायत्री । प्रधाराः । अस्य षण्णां बिन्दुर् आङ्गिरसः सोमो गायत्री । प्रसोमासः । षण्णां श्यावाश् च आग्नेयः सोमो गायत्री । प्रसोमासः । षण्णां त्रित आस्यः सोमो गायत्री । प्रसुवानः । षण्णां गोतमो राहुगणः सोमो गायत्री । त्रित आनःपवस्य । षण्णां प्रभवसुः । असर्जिरथ्यः ॥ ३७ ॥ षण्णां प्रभूवसुः । सससुतः । षण्णां राहुगणः । एष उत्स्यः । षण्णां राहुगणः । आसुरर्षः । षण्णां आङ्गिरसो बृहन्मतिः पुनानः । षण्णां बृहस्पतिः । प्रयेगावः । षण्णां । जनयत्न् । षण्णां । यो अत्य इव । षण्णां च । मेधातिथिः सोमो देवता । गायत्री छन्दः सर्वत्र । [२६०] प्रया इन्द्रो इति षण्णाम् अपास्यः । सयवस्वः षण्णां मयास्य आङ्गिरसः । असृग्रम् इति षण्णाम् अयास्यः । अयासोमः पञ्चानां भार्गवः कविः । तत्वानृर्म्याणि (?) पञ्चानाम् । पवस्व स्ववृष्टिम् इति पञ्चानां च कविः । उत्तेशुष्मासः पञ्चानाम् । उतथ्य आङ्गिरसः अध्वर्योपञ्चानाम् । परिद्युक्षः पञ्चानां च उतथ्यः । उत्ते इति चतुर्णाम् । अस्य प्रस्नाम् इति चतुर्णाम् । वयं वयं चतुर्णां च अवत्सारः परिसोमः । चतुर्णाम् अवत्सारः काश्यपः । प्रतेधराः चतुर्णाम् । तरत्समन्दीचतुर्णाम् । पवस्यः ॥ ६० ॥ चतुर्णां च अवत्सारः । सोमो देवता गायत्री छन्दः सर्वत्र । प्रगायत्रेण चतुर्णाम् अवत्सारः सोमो गायत्री तृतीयापुर उष्णिक् । अयावीति । त्रिंशदृचस्य अमहीयुः सोमो गायत्री । एते असृग्रन्त्रिंशदृचस्य । भार्गवो जमदग्निः सोमो गायत्री । आपवस्य त्रिंशदृचस्य निध्रुविः काश्यपः सोमो गायत्री । पवस्य विश्वचर्षणे त्रिंशदृचस्य । शत । वैखानसाः सोमः एकोनविंशद्याद् तिस्र आग्नेयः गायत्री अष्टादश्य् अनुष्टुप् । अत्र स्वादिष्ठयेति सूक्तम् आरभ्य हि कृण्वन्तीति सूक्तपर्यन्तपवमानगुणविशिष्ट एव सोमो देवता । त्वं सोमासीति द्वात्रिंशदृचस्य [२६१] आट्टचस्ये (?) भरद्वाजः चतुर्थ्यादितिसॄणां कश्यपः सप्तम्यादितिसॄणां गौतमः । दशम्यादिभितिसॄणाम् अत्रिः । त्रयोदश्यादितिसॄणां विश्वामित्रः । षोडश्यादितिसॄणां जमदग्निः । एकोनविंश्यादितिसॄणां वशिष्ठः । पञ्चविंश्यादितिसॄणां सप्तविंश्याद् इति पञ्चानां सप्तर्षयः । सोमो देवता । दशम्यादितिसॄणां पूषा वा सोमो वा अनुभोवा (?) । त्रयोविंशीचतुर्विंश्योर् अग्निः पञ्चविंशी सावित्री । षड्विंश्य् अग्निसावित्री सप्तविंशी वैश्वदेवी । शेषेषु सुसोमः । गायत्री छन्दः । सप्तविंश्य् अनुष्टुप् । द्वादश्यादितिस्रो द्विपदा गायत्र्यः त्रिंशीपुर उष्णिक् । अन्त्यौ ऽनुष्ट्भौ । त्रिरस्मे सप्तधेनवः दशस्यार्चरेणुर् वैश्वामित्रः । सोमो जगती अन्त्या त्रिष्टुप् । आदक्षिणा नवर्चस्य ऋषभो वैश्वामित्रः सोमो जगती अन्त्या त्रिष्टुप् । आदक्षिणा नवर्चस्य ऋषभो वैश्वामित्रः सोमो जगती अन्त्या त्रिष्टुप् । हरिम् ऋजन्ति नवर्चस्य हरिमन्त आङ्गिरसः । सोमो जगती । स्रक्वेनवर्चस्य यवित्र आङ्गिरसः सोमो जगती । स्पिशुर् नवर्चस्य यवित्र आङ्गिरसः सोमो जगती । स्पिशुर् नवर्चस्य वक्षीवानो शिजः सोमो जगती अष्टमी त्रिष्टुप् । अभिप्रियाणि पञ्चर्चस्य भार्गवः कविः सोमो जगती । धर्तादिवः पञ्चर्चस्य । एष प्रपञ्चर्चस्य । प्रराजापञ्चर्चस्य अत्तोदसोनः पञ्चर्चस्य च कविः सोमो जगती । **[२६२] **सोमस्य धारा पञ्चर्चस्य भारध्वाजो वसुः सोमो जगती । प्रसोमस्य पञ्चर्चस्य वसुः सोमो जगती अन्त्या त्रिष्टुप् । असो विसोमः पञ्चर्चस्य वसुः सोमो जगती अन्त्या त्रिष्टुप् । पवित्रन्ते पञ्चर्चस्य आङ्गिरसः पवित्रः सोमो जगती । पवस्वदेवमादनः पञ्चर्चस्य । वाच्यः प्रजापतिः सोमो जगती । इन्द्राय सोमो द्वादशर्चस्य भार्गवो वेनः सोमो जगती । अन्त्ये द्वे त्रिष्ट्भौ । प्रत आशवः अष्टाचत्वारिंशदृचस्य सूक्तस्य । आद्यासु दशसु अकृष्टाभाषाः एकादश्यादिदशसु सिकता निवावर्षः । एकविंश्यादिदशसु पृश्नियोजाः । एकत्रिंश्यादिदशसु आत्रेयः एकचत्वारिंश्यादिपञ्चसु अत्रिः । अन्यासु त्रिसृषु गृत्समदः सोमो जगती सर्वासाम् । प्रतुद्रवर्चस्य उशना सोमस् त्रिष्टुप् । अयं सोम इन्द्रा अष्टर्चस्य उशना सोमस् त्रिष्टुप् । प्रोस्यवह्निः सप्तर्चस्य उशना सोमस् त्रिष्टुप् । प्रहिन्वानः षडर्चस्य वशिष्टः सोमस् तिष्टुप् । असर्जिवक्वा षडर्चस्य कश्यपः सोमस् त्रिष्टुप् । साकम् उक्षः पञ्चर्चस्य नोधा गौतमः सोमस् त्रिष्टुप् । अधियत् पञ्चर्चस्य कढव आङ्गिरसो धीरः सोमस् त्रिष्टुप् । कनिक्रान्ति पञ्चर्चस्य च स्कन्नः सोमस् त्रिष्टुप् । [२६३] प्रसेजाणीश् चतुर्विंशत्यृचस्य दैवोदासिः प्रतर्दनः सोमः त्रिष्टुप् । इति सूक्तानि ।

अथ मन्त्राः ।

वायव्याह् ॥ १.२.१ ॥ मेधा तिथिः गायत्री ।

सदसम्पति ॥ १.३५.१ ॥ मेधातिथिकाण्वः सदसम्प्रतिर् गायत्री ।

युवाना ॥ २.४.२ ॥ मेधतिथिः काण्व ऋभवो गायत्री ।

स्योना पृथिवी ॥ २.६.५ ॥ मेधातिथिः काण्वः पृथिवी गायत्री ।

आनोदेवा ॥ २.७.१ ॥ मेधातिथिः काण्वो विष्णुर् गायत्री ।

इदं विष्णुः ॥ २.७.२ ॥ मेधातिथिः काण्वो विष्णुर् गायत्री ।

तद्विष्णोः ॥ २.७.५ ॥ तद्वत् ।

वरुणः ॥ २.१५.१ ॥ मेधातिथिः कण्वो मित्रावरुणौ गायत्री ।

तत्वायाम् इन्द्र ॥ २.१५.१ ॥ शुनःशेफो अजिगर्तिर् वरुणस् त्रिष्टुप् ।

उदुत्तम ॥ २.१५.५ ॥ शुनःशेफो ऽजीगर्तिर् वरुणस् त्रिष्टुप् ।

इमं मे वरुण ॥ २.१९.४ ॥ शुनःशेफो ऽजीगर्तिर् वरुणो गायत्री ।

कद्रद्राय ॥ ३.२६.१ ॥ कण्वो घोरो रुद्रो गायत्री ।

आकृष्णेन ॥ ३.३.२ ॥ हिरण्यस्तूपः सविता त्रिष्टुप् ।

**[२६४] **उद् उ त्यम् ॥ ४.७.१ ॥ प्रस्कण्वः सूर्यो गायत्री ।

उषो उषा ॥ ३.३३.१ ॥ प्रस्कण्वो ऽश्विनौ गायत्री ।

शुक्रःशु ॥ ५.१३.१ ॥ पराशरः शुक्रो द्वैपदं वैराजम् ।

इमम् इन्द्रा ॥ ६.५.४ ॥ राहुगणो गौतम इन्द्र अनुष्टुप् ।

कोद्य युक्त ॥ ६.८.१ ॥ गौतमो राहुगण इन्द्रस् त्रिष्टुप् ।

आनोभद्रा ॥ ६.१५.१ ॥ गौतमो राहुगणो विश्वेदेवा स्विष्टुप् ।

अदितिर् द्यौः ॥६.१६.५ ॥ गौतमो राहुगणो विश्वेदेवास् त्रिष्टुप् ।

अदितिर् द्यौः ॥ ६.१६.५ ॥ तद्वत् ।

क्रदुनीति ॥ ६.१७.१ ॥ गौतमो राहुगणो विश्वेदेवा गायत्री ।

मधुवाता ॥ ६.१८.१ ॥ गौतमो राहुगणो विश्वेदेवा गायत्री ।

आप्यायस्व ॥ ६.२२.३ ॥ गौतमः सोमो गायत्री सन्तेपयार्दस गौतमो राहुगणः सोमस् त्रिष्टुप् ।

सोमो धेनुम् ॥ ६.२२.५ ॥ तद्वत् ।

तच्छं योः ॥ ० ॥ शंयुर् विश्वेदेवाः शक्करीरीम ।

जातवेदसे ॥ ७.७.१ ॥ कश्यपो जातवेदाग्निस् त्रिष्टुप् ।

इमा रुद्राय ॥ ८.५.११ ॥ कुत्सो रुद्रो जगत्पते त्रिष्टुभौ ।

मानस्तोके ॥ ८.६.३ ॥ तद्वत् ।

चित्रं देवानाम् ॥ ८.७.१ ॥ कुत्सः सूर्यस् त्रिष्टुप् ।

गृहं गृहं ॥ ९.३.४ ॥ अक्षीवानुषस् त्रिष्टुप् ।

ये देवासो ॥ १०.४.६ ॥ पारुक्षेयो विश्वेदेवास् त्रिष्टुप् ।

युवं वस्त्राणि ॥ १०.२२.१ ॥ दीर्घतमो मित्रावरुणौ त्रिष्टुप् ।

[२६५] विष्णोर् नुकम् ॥ १०.२४.१ ॥ दीर्घतमा विष्णुः त्रिष्टुप् ।

तद् विष्णोः ॥ १०.२४.२ ॥ तद्वत् ।

प्रविष्णवे ॥ ३४.१०.२४.३ ॥ तद्वत् ।

यद् अक्रन्द ॥ ११.११.१ ॥ दीर्घतमा अश्वस् त्रिष्टुप् ।

सप्तपुञ्जन्ति ॥ ११.१४.२ ॥ दीर्घतमा अक्षरं त्रिष्टुप् ।

हिङ्कृण्वती ॥ ११.१९.२ ॥ दीर्घतमा विश्वेदेवास् त्रिष्टुप् ।

सूयवसा ॥ ११.२१.३ ॥ तद्वत् ।

गौरीम् इमाय ॥ ११.२२.१ ॥ दीर्घतमा विश्वेदेवा जगती ॥ १० ॥

पितुन्नुस्तोषम् ॥ १३.६.१ ॥ अगन्त्यो ऽत्र पितरस् त्रिष्टुप् ।

अग्ने नय ॥ १३.१०.१ ॥ अगस्तिर् अग्निस् त्रिष्टुप् ।

त्वम् अग्ने रुद्र ॥ १३.१८.१ ॥ गृत्समदो ऽग्निर् जगती ।

घृतं मिमिक्षे ॥ १३.२६.६ ॥ गृत्समदो ऽग्निः स्वाहान्तस् त्रिष्टुप् ॥ १३ ॥

गणानां त्वा ॥ १४.२९.१ ॥ गृत्समदो गणाधिपतिर् जगती ।

त्वन् नो गोपा ॥ १४.३०.१ ॥ गृत्समदो बृहस्पतिर् जगती ।

बृहस्पते ॥ १४.३१.५ ॥ गृत्समदो बृहस्पतिस् त्रिष्टुप् ।

ब्रह्मणस्पते ॥ १४.३२.४ ॥ गृत्समदो ब्रह्मणस्पतिस् त्रिष्टुप् ॥ १४ ॥

स्तुतिश्रुतम् ॥ ५.१८.१ ॥ गृत्समदो रुद्रो जगती ॥ १५ ॥

[२६६] कनिक्रदत् ॥ १६.११.१ ॥ गृत्समदः शकुन्तस् त्रिष्टुप् ।

युवा सुवासाः ॥ १७.३.५ ॥ विश्वामित्रो यूपस् त्रिष्टुप् ।

वनस्पते ॥ १७.४.६ ॥ विश्वामित्रो वनस्पतिस् त्रिष्टुप् ।

इन्द्राग्नी ॥ १७.१७.१२ ॥ विश्वामित्र इन्द्राग्नी गायत्री ।

अभितष्टे ॥ १८.२४ ॥ त्रिष्टुप् । विश्वामित्र इन्द्रस् त्रिष्टुप् ।

सद्योहजा इन्द्रः ॥ १९.११.२ ॥ विश्वामित्र इन्द्रस् त्रिष्टुप् ।

त्वन् नो अग्ने ॥ २०.१२.५ ॥ विश्वामित्रो ऽग्निस् त्रिष्टुप् ।

तेमन्वत् ॥ २०.१५.१ ॥ वामदेवो ऽग्निस् त्रिष्टुप् ।

आवो राजा ॥ २०.२०.१ ॥ तद्वत् ।

कयानः ॥ २२.२४.१ ॥ वामदेव इन्द्रो गायत्री ।

दधिक्राव्णो ॥ १३.१३.५ ॥ वामदेवो दधिक्राव्णो अनुष्टुप् ।

हंसः शुचिषत् ॥ २३.१४.५ ॥ वामदेवः सूर्यो जगती ।

वायोः शतम् ॥ २३.५.३ ॥ सदस्युर् व्यायुर् अनुष्टुप् ।

क्षेत्रस्य पतिना ॥ २४.९.१ ॥ पुरुम् इन्द्राक्षेत्राधिपतिर् अनुष्टुप् ।

यस् त्व् आहृदा ॥ २४.१९.५ ॥ वसुश्रुतो ऽग्निस् त्रिष्टुप् ।

अग्निस् तुविश्र ॥ २५.१०.४ ॥ वसूयवो ऽग्निर् अनुष्टुप् ।

वीति होत्रम् ॥ २५.१९.३ ॥ वसुवयो ऽग्निर् गायत्री ।

छ ॥ वरुणं वो ॥ २८.२.१ ॥ अर्चनामा मित्रावरुणाव् अनुष्टुप् ।

हिरण्यवर्णां ॥ २८.३.८.१ ॥ आनन्दकव्वनञ्चिक्लीतन्दिरालक्ष्मीर् अनुष्टुप् ।

[२६७] मूर्धानम् ॥ २९.९.१ ॥ भरद्वाजो वैश्वानरस् त्रिष्टुप् ।

युगे युगे ॥ २९.१०.५ ॥ भरद्वाजो विश्वेदेवा जगती ।

अग्न आयाहि ॥ २९.२२ ॥ भरद्वाजो ऽग्निर् गायत्री ।

पिवासोम ॥ ३०.१.१ ॥ भरद्वाज इन्द्रस् त्रिष्टुप् ।

आ त्वा वहन्तु ॥ ३०.१.८ ॥ मेधातिथिर् इन्द्रो गायत्री ।

महां इन्द्रो ॥ ३०.७.१ ॥ भरद्वाज इन्द्रस् त्रिष्टुप् ।

आगावः ॥ ३०.२५.१ ॥ वीतहव्यो गौस् त्रिष्टुप् ।

त्वां वृत्रेषु ॥ ३१.२७.१ ॥ शंयुर् बार्हस्पत्य इन्द्रो बृहती ।

त्रातारम् इन्द्रा ॥ ३१.३३.१ ॥ गर्ग इन्द्रस् त्रिष्टुप् ।

इन्द्रः सुत्रा ॥ ३१.३३.२ ॥ तद्वत् ।

विश्वेदेवाः ॥ ३२.१६.६ ॥ सुहोत्रादयो विश्वेदेवा भरद्वाजो विश्वेदेवास् त्रिष्टुप् ।

सरस्वती ॥ ३२.३२.४ ॥ कुर्मागार्त्समदः सरस्वती त्रिष्टुप् ।

धन्वनागा ॥ ३३.१८.२ ॥ पायुर् धनुस् त्रिष्टुप् ।

इन्द्रो नरो ॥ ३५.११.१ ॥ वसिष्ठो ऽग्निस् त्रिष्टुप् ।

अभित्वास्तर ॥ ३५.२१.२ ॥ वशिष्ठ इन्द्रो बृहती ।

शन् न इन्द्राग्नी ॥ ३५.२८.१ ॥ वसिष्ठो विश्वेदेवास् त्रिष्टुप् ।

अहिर्बुध्नः ॥ ३६.५.५ ॥ वशिष्ठः सविता त्रिष्टुप् ।

इमारुद्राय ॥ ३६.१३.१ ॥ कुत्सो रुद्रो जगती ।

समुद्रज्येष्ठा ॥ ३६.१६.१ ॥ वशिष्ठ आपस् त्रिष्टुप् ।

वास्तोष्पते ॥ ३६.२१.१ ॥ वशिष्टवास्तोष्पतिस् त्रिष्टुप् ।

अम्बकम् ॥ ३६.३०.६ ॥ वशिष्ठो रुद्रो ऽनुष्टुप् ।

तच् चक्षुः ॥ ३७.११.१ ॥ वशिष्ठः सूर्य उपर उष्णिक् ।

[२६८] कुविदङ्गम् ॥ ३८.१३.१ ॥ वशिष्ठो वायुस् त्रिष्टुप् ।

आवायो ॥ ३८.१४.१ ॥ तद्वत् ।

न ते विष्णो ॥ ३८.२४.२ ॥ विशिष्ठो विष्णुस् त्रिष्टुप् ।

इरावती ॥ ३८.२४.३ ॥ तद्वत् ।

आदित्प्रत्वस्य ॥ ४०.१४.५ ॥ वत्स इन्द्रो गायत्री ।

उशना ॥ ४०.२३.५ ॥ वत्सो मरुद् गायत्री ।

शम् अग्निः ॥ ४१.२६.४ ॥ इरिम्बिटिर् अग्निर् उष्णिक् ।

मित्रावरुणवन्ता ॥ ४३.१६.१ ॥ तद्वत् ।

समिधाग्निम् ॥ ४३.३६.१ ॥ विरूपो ऽग्निर् गायत्री ।

अग्निर् मूर्धा ॥ ४३.३८.१ ॥ विरूपो ऽग्निर् गायत्री ।

अग्निः शुचिः ॥ ४३.३९.१ ॥ विरूपो ऽग्निर् गायत्री ।

तदन्नाया ॥ ४४ ।१०.३ ॥ हविर्धानाग्निस् त्रिष्टुप् ।

त्वम् इत् सप्रथ ॥ ४४.१४.५ ॥ भर्गो ऽग्निर् बृहती ।

यत इन्द्र भामहे ॥ ४४.२०.३ ॥ भर्ग इन्द्रः प्रगाथम् ।

अस्मै रुद्रा ॥ ४४.२५.६ ॥ प्रगाथ इन्द्रस् त्रिष्टुप् ।

त्पात्रुक्षत्रिया अ ॥ ४४.३३.१ ॥ मत्स्यस्वाम्मद आदित्या गायत्री ।

सुदेवो असि ॥ ४५ ।७.२ ॥ पृथुमेधा वरुणो ऽनुष्टुप् ।

आतून इन्द्रा ॥ ४५.३१.१ ॥ कुसीदीकाण्वः इन्द्रो गायत्री ।

आनोविश्वासुहव्यः ॥ ३६.१३.१ ॥ सुकक्षम् इन्द्रो गायत्री ।

यो विश्वा ॥ ४७.१४.१ ॥ सौभरिर अग्निर् बृहती ।

[२६९] योजितानि ॥ ४९.१२.४ ॥ अवत्सारः सोमः पवमानो गायत्री ।

तरत् स मन्दी ॥ ४९.१४.१ ॥ अयास्यः सोमो गायत्री ।

यन् मे गर्भे ॥ ४९.१३.१ ॥ भृगुः सोमस् त्रिष्टुप् ।

उच्चातेजातम् ॥ ४९.१९.५ ॥ अमहीयः सोमः पवमानो गायत्री ।

अग्न आयूंषी ॥ ५०.१०.४ ॥ वैखानसो ऽग्निर् गायत्री ।

श्रेयेजातः ॥ ५२.४.४ ॥ कण्वः सोमः पवमानस् त्रिष्टुप् ।

इन्द्रायेन्दो ॥ ५२.७.३ ॥ कश्यपः सोमः पवमानो गायत्री ।

क्राणाशिशुः ॥ ५३.४.१ ॥ तृणु इन्द्र उष्णिक् ।

पुनानः सोमधारया ॥ ५१?।१२.४ ॥ सप्तर्षयः सोमः पवमानो बृहती ।

आपोहिष्टा ॥ ५४.५.१ ॥ सिन्धूद्वीप आपो गायत्री ।

शन्नोदेवी ॥ ५४.५.४ ॥ तद्वत् ।

इदम् आपः ॥ ५४.८ ॥ सिन्धूद्वीप आपो ऽनुष्टुप् ।

यमस्यमायम्या ॥ ५४.७.२ ॥ यमोयमः पङ्क्ती ।

यमायसोमम् ॥ ५४.१६.३ ॥ यमोयमो ऽनुष्टुप् ।

यमायमधु ॥ ५४.१६.५ ॥ तद्वत् ।

आपो अस्मान् ॥ ५४.२५.५ ॥ देवत्रवा आपस् त्रिष्टुप् ।

आनिवर्तनिवर्तय ॥ ५७.१.६ ॥ पवमानो भार्गवः सोम आस्तारः पङ्क्तिः ।

आम ॥ ५७.२६.५ ॥ गर्ग इन्द्रास् त्रिष्टुप् ।

सर्वे नन्दन्ति ॥ ५८.२४.५ ॥ बृहस्पतिर् ज्ञानं त्रिष्टुप् ।

[२७०] वसूनाम् ॥ ५८.५.१ ॥ गौरवीतिर् इन्द्रस् त्रिष्टुप् ।

इमं मे गङ्गे ॥ ५९.६.५ ॥ पृथमेधा नद्यो जगती ।

विश्वतश् चक्षुः ॥ ५९.१६.३ ॥ विश्वकर्मा त्रिष्टुप् ।

नवो नवो ॥ ५९.२३.४ ॥ विप्रचिती चन्द्रमास् त्रिष्टुप् ।

पुनःपत्नी ॥ ५९.२७.४ ॥ सूर्यात्मा अनुष्टुप् ।

इहैवस्तम् ॥ ५९.२९.२ ॥ सावित्री सूर्यो ऽनुष्टुप् ।

इमान्त्वां ॥ ५९.३०.५ ॥ सावित्री आत्मानुष्टुप् ।

रक्षोहणम् ॥ ६०.५.१ ॥ पायुर् अग्निस् त्रिष्टुप् ।

चतस्रो अत्त्य अनुष्टुभः । सम्बाहुभ्याम् ॥ ६०.१६.३ ॥ विश्वकर्मा त्रिष्टुप् ।

सहस्रशीर्षा ॥ ६१.७.१ ॥ नारायणः पुरुषो ऽनुष्टुप् अन्त्या त्रिष्टुप् ।

या ओषधी ॥ ६१.८.१ ॥ अथर्वणो भिषग् ओषधयो ऽनुष्टुप् ।

अश्वत्थे वो ॥ ६१.८.५ ॥ तद्वत् ।

उद्बुध्यध्वम् ॥ १६.१७.१ ॥ बुधोबुधस् त्रिष्टुप् ।

आयुः शिशानो ॥ ६१.२०.१ ॥ ऐन्द्रो प्रतिरथ इन्द्रस् त्रिष्टुप् ।

बृहस्पते गृत्समदो ॥ ६५.२२.४ ॥ बृहस्पतिर् जगती ।

इन्द्र आसाम् ॥ ६१.२३.५ ॥ अप्रतिरथम् इन्द्रस् त्रिष्टुप् ।

अस्माकम् ॥ ६१.२४.५ ॥ तद्वत् ।

अद्धाद् इन्द्रा ॥ ६२.२१.३ ॥ काश्यप इन्द्रस् त्रिष्टुप् ।

हिरण्यगर्भ ॥ ६३.३.१ ॥ प्रजापतिर् इद्रस् त्रिष्टुप् ।

नाके सुपर्णम् ॥ ६१.८.१ ॥ वेनोवेनस् त्रिष्टुप् ।

[२७१] रात्री व्यख्यदा ॥ ६३.१४.१ ॥ कुशिको रात्रीर् गायत्री ।

ममाग्रे वर्चः ॥ ६३.१५.१ ॥ विहव्यो वैश्वदेवास् त्रिष्टुप् ।

त्रायन्ताम् ॥ ६३.२५.५ ॥ वशिष्ठो विश्वेदेवास् त्रिष्टुप् ।

सवोरीजानम् ॥ ६३.२९.९ ॥ अग्निस् तापसा विश्वेदेवा अनुष्टुप् ।

उत्तानवर्णो ॥ ६४.३.२ ॥ इन्द्राणी उपनिषद् अनुष्टुप् ।

स्वस्तिदाविशस्पति ॥ ६४.१८.२ ॥ शास इन्द्रो ऽनुष्टुप् ।

सहस्राक्षेण ॥ ६४.१९.३ ॥ यक्ष्मनाश इन्द्रस् त्रिष्टुप् ।

शतं जीव ॥ ६४.१९.४ ॥ तद्वत् ।

अक्षिभ्याम् ॥ ६४.२१.११ ॥ कश्यपो यक्ष्मानुष्टुप् ।

अङ्गाद् अङ्गात् ॥ ६४.२१.६ ॥ तद्वत् ।

देवाः कपोतः ॥ ६४.२३.१ ॥ कपोत इन्द्रस् त्रिष्टुप् ।

विभ्राढ् ॥ ६४.२८.१ ॥ भार्गवः सूर्यो जगती ।

अन्वाहार्षम् ॥ ६४.३१.१ ॥ ध्रुवा राजानुष्टुप् ।

ध्रुवाद्योः ॥ ६४.३१.४ ॥ तद्वत् ।

अभावर्तेन ॥ ६४.३२.५ ॥ श्रुतिदत्तं इन्द्रो ऽनुष्टुप् ।

आपङ्गोः ॥ ६४.४९.१ ॥ सार्पिर् अग्निः सर्वा गायत्री ।

नमो ब्रह्मणे ॥ ६४.४९.० ? ॥ वामदेवो लिङ्गोक्तास् त्रिष्टुप् ।

अथ यजुर्वेदमन्त्राणाम् ।

इषे त्वा ॥ १.१ ॥ प्रजापतिः शाखानुष्टुप् ।

कुक्कुटो ऽसि ॥ ॥ (?) प्रजापतिर् वाक (?) ।

भूर् असि ॥ १.३.४ ॥ प्रजापतिर् वाक्

[२७२] अत्युष्ठं रक्षः ॥ १०.१ ॥ प्रजापती रक्षः ।

अतिशितो ऽसि ॥ १.१०.१० ॥ प्रजापतिः श्रुवः ।

सवितुर् वः ॥ १.२.३ ॥ प्रजापतिः रायः ।

कुरुविष्णो ॥ २.६.८ ॥ वृहती विष्णुः ।

चित्रावसोः ॥ ३.३.१० ॥ ऋषयो रात्रिः ।

एष ते रुद्रभागः ॥ ३.८.१ ॥ प्रजापती रुद्रः ।

इमा आपः ॥ ४.१.२ ॥ प्रजापतिर् आपः ।

अमित्यं देवम् ॥ ४.८.३ ॥ प्रजापतिः सविता ।

वरुणस्योत्तम्भनम् असि ॥ ४.१०.९ ॥ प्रजापतिर् वरुणः ।

विष्णोर् अराटम् ॥ ५.५.९ ॥ प्रजापतिर् विष्णुः।

उद्दिवंस्तः ॥ ५.७.२ ॥ प्रजापतिर् औदुम्बरी ।

अपन्नो अग्निः ॥ ५.९.३ ॥ प्रजापतिर् अग्निस् त्रिष्टुप् ।

देवस्य त्वा ॥ ६.१.१ ॥ प्रजापतिः लिङ्गोत्का ।

सुमित्र्यान ॥ ३.५.४ ॥ प्रजापतिर् आपः ।

कार्षिर् असि ॥ ६.७.६ ॥ प्रजापतिण्यो ऽनुष्टुप् ।

नमो ऽस्तु सर्पेभ्यः ॥ १४.१.६ ॥ अश्विनौ नरुक्माकृतिः ।

ब्रह्मजज्ञानम् । १४.१.२ ॥ अश्विनाव् आदित्य्स् त्रिष्टुप् ।

शुक्रज्योतिः ॥ १८.७.१ ॥ परमेष्ठी मतुरन् उष्णिक् ।

सूर्यस्था । परमेष्ठी प्रजापतिः सूर्यः । व्याहृतीनां परमेष्ठी प्रजापतिः । अग्नि वायुः सूर्य प्रजापतयः । उपप्रयन्तो बृहदेवाग्निर् गायत्री । तनूया अग्ने बृहदेवाग्निर् गायत्री । एष ते रुद्रभाग इति द्वयोर् यजुषोः प्रजापती रुद्रः प्रथमस्य बृहती साम पङ्क्तिर् वा । द्वितीयस्य यजुर् बृहती । अदस्वेनत्वा परमेष्ठी प्रजा**[२७३]पतिराज्यम् । भेषजम् असि प्रजापती । रुद्रः ककुप् । अम्बकम् इति द्वयोः प्रथमायाः वशिष्ठः द्वितीयायाः प्रजापतिर् उभयोः रुद्रो ऽनुष्टुप् । आकूत्यै, प्रयुजे, मेधायै । दीक्षायै, स्वरस्वत्यै । इत्य् एतेषां चतुर्णां मौद्गभणानां प्रजापतिर् अग्निर् आसुरा त्रिष्टुप् । यजुः पङ्क्तिर् वा । चिद् असि मनासीस्यप्रजापतिः सोमक्रयणी गौः ब्राह्मी पङ्क्तिर् अतिशक्करी वा । अग्नेस् तनुपपरमेष्ठी प्रजापतिर् हविः । देवो वा विष्णुः प्रजापतिर् विष्णुर् अनुष्टुप् । विष्णोर् नुकम् । दिवो वा । प्रतद्विष्णुः । इति त्सॄणां प्रजापतिर् विष्णुस् त्रिष्टुप् । आद्ये यजुर् अन्ते । विष्णोर् अराटम् इति पञ्चयजुषां प्रजापतिर् विष्णुर् आद्यस्य दैवी जगती । ततश् चतुर्णां दैवी पङ्क्तिः । अग्रेव्रतपा प्रजापतिर् अग्निर् ब्रह्मा त्रिष्टुप् । अयं नः प्रजापतिर् अग्निर् यजुस् त्रिष्टुप् । इदं आपः प्रजापतिर् आपो महापङ्क्तिस् त्रिष्टुबवसाना पावमानश् चान्त्यः पादः । देवास् त्व् अशुक्रपा । देवास् त्वा मन्थिपा, इत्य् अनयोः प्रजापतिः क्रमेण शुक्रम्मन्थिनौ हविर्धानो ऽग्निर् यजुःपङ्क्ती । आदिव्ययाकुवक्त्यै । मनुः सतो बृहती । युक्ष्वा हि केशेनेति मध्च्छन्दा इन्द्रो ऽनुष्टुप् । अग्ने पवस्व वैखानसो ऽग्निर् गायत्री । उद् उ त्यं जातवेदसम् इति देवाः सूर्यो गायत्री । उद् उ त्यम् प्रस्कण्वः सूर्यो गायत्री । चित्रं देवानां कुत्स आङ्गिरसः सूर्यस् त्रिष्टुप् । चत्वारि श्रुङ्गा परमेष्ठी । यज्ञपुरुषस् त्रिष्टुप् देवा यज्ञं प्रजापतिः सरस्वत्यः लिङ्गोक्तानुष्टुप् । पितृभ्यः प्रजापत्यः सरस्वत्यः पितरः । वसेन क्रतुना प्रजाप्तिः सरस्वती लिङ्गोक्तानुष्टुप् । सेना प्रजापतिर् अनुष्टुप् । अग्नयेशेसपतये [२७४] दक्षिणाग्निर् आसुरी पङ्क्तिः अग्नेयत्तेशुक्रम् इत्य् अस्य प्रजापतिर् अग्निर् गायत्री । सुपर्णो ऽसि गरुत्मानित्यस्य प्रजापतिर् गरुत्मान् कृतिः । द्रुपदाद् इवेति । कोकिलो राजपुत्रो वा द्रुपदो वा आपो अनुष्टुप् । शतवन्तः आथर्वण ओषधीर् अनुष्टुप् । या ओषधीर् इत्याद्यानां यो अस्मैभिदासतीत्यन्तानां सप्तविंशतीनां आथर्वणपुत्रोभिषगोषधीर् आपो ऽनुष्टुप् । अश्वावतीर् गोमतीः वशिष्ठ उषा त्रिष्टुप् । सीरा युञ्जन्तिभ्यः प्रजापतिः सार्पिर् अग्निः प्रजापतिर् अनुष्टुप् । कृणुष्वपाज इति पञ्चानां देवा वामदेवो ऽग्निस् त्रिष्टुप् । काण्डात् काण्डाद् इति द्वयोर् अग्निर् इष्ठिका अनुष्टुप् । अपाङ्गम् भन् प्रजापतिर् वरुणः पङ्क्तिः । इमं माहिग्गं सीरितिपञ्चर्चा प्रजापतिर् अग्निस् त्रिष्टुप् । अपात्वा ओषधीर् आपो ऽग्निर् अनुष्टुप् । नमस् ते रुद्र मन्यव इति रुद्राध्यायस्य प्रजापतिर् वामदेवा वा ऋषयः । आद्यो ऽनुवाकः षोडशर्चो रुद्रदैवतः । प्रथमा गायत्री । ततो या ते रुद्र इत्याद्यास् तिस्रो ऽनुष्टुभः । असौ यस् ताम्र इत्याद्यास् तिस्रः पङ्क्तयः । नमो ऽस्तु नीलग्रीवायेत्य् आद्याः सप्तानुष्टुभः । तत इति द्वे जगती । मनोमन्तं मानस्तोके इति द्वयोः कुत्सो ऽन्यत् पूर्ववत् । द्व्रापे अन्धसस्पत इत्यन्तानुवाके सप्त ऋचः । तत्राद्या उपरिष्टाद् बृहती द्वितीयाया कुत्सर्षिदृष्टा जगती । तृतीयानुष्टुप् । परितो रुद्रसय । मीढष्टमेति द्वे त्रिष्टुभौ । ततो द्वे अनुष्टुभौ असङ्ख्याताः सहस्राणेत्याद्याः य एतावन्त इत्यन्ताः दशावतानसञ्ज्ञका मन्त्राः बहुरुद्रदैवत्याः अनुष्टुप्छन्दस्काः । ततोन्त्याभिनमोस्तु रुद्रेभ्यो ये देवीति [२७५] त्रीणि यजूंषि प्रत्यवरोहसञ्ज्ञकानि बहुरुद्रदैवतानि घृतिछन्दस्कानि । आद्यान्त्वानुवाकयोर् मध्ये । नमो हिरण्यवाहव इत्यादीनि नम आनिर्हतेभ्य इत्यन्तानि सर्वाणि यजूंषि । तेषां सर्वेषां तिस्रोशीतयो देवताः । तेषां मध्ये । नमो हिरण्यवाहवे सेनाण्ये दिशां च पतये नम इत्यादि । नमः एभ्यः श्वपतिभ्यश् च वो नम इत्यन्ता मन्त्राः उभयतो नमस्काराः । नमो भवायेत्यादयो नम आखिदते च प्रखिदते चेत्यन्ताः अन्यतरतो अन्यतरतो नमस्काराः । नमः सभाभ्य इत्यादयो जातसञ्ज्ञकाः रुद्राः । नमो वः किरिकेभ्य इत्याद्याश् चतस्रो व्याहृतिसञ्ज्ञकाः बहुरुद्रदैवता अग्निवायुसूर्यहृदयभूताः । आशुशिशान इति पञ्चानां देवा वैश्वानरो ऽग्निर् जगती । अपाम्फेन । प्रजापतिः सरस्वत्यो ऽग्निर् गायत्री अग्निश् च पृथिवी च आदित्यो ऽग्निः । ब्रह्म जज्ञानं प्रजापतिर् आदित्यस् त्रिष्टुप् कयानश् चित्रावामदेव इन्द्रो जगती । संवत्सरो ऽसि प्रजापतिः प्रजापतिर् गायत्री । अहिर् इव भोगैः प्रजापतिर् हविस् त्रिष्टुप् । वह्नीनां प्रजापतिर् लिङ्गोक्ता त्रिष्टुप् । युञ्जन्ति व्रध्नं मधुछन्दा आदित्यो गायत्री । यमेन दत्तं मार्गवो जमदग्निदीर्घतमाश्वस् त्रिष्टुप् । आकृष्णेन हिरण्यस्तूपः । सविता त्रिष्टुप् । आनोमित्रावरुणा गृत्समदो मित्रावरुणौ गायत्री । यज् जाग्रत इति पञ्चानां षण्णाम् । शिवसङ्कल्पमनस् त्रिष्टुप् । पञ्चनद्यः गृत्समदो मित्रावरुणौ गायत्री । उभापिबन्तः प्रस्कण्वाश्विनौ गायत्री । यदाबन्ध्रदक्षो हिरण्यं त्रिष्टुप् । शन् नो मित्रः दध्यङाथर्वणो लिङ्गोक्तानुष्टुप् [२७६] । मनसः कामं दध्यङाथर्वणः श्रीर् अनुष्टुप् । गणानां त्वेति चतुर्णां यजुषां प्रजापतिर् लिङ्गोक्तानुष्टुप् । समास् त्वा अग्निर् अग्निर् अनुष्टुप् । शन् नो देवी दध्यङाथर्वण आपो गायत्री । एकाचमे । देवा अग्निर् जगती । उद् उत्तमं शुनःशेफो वरुणस् त्रिष्टुप् । वनस्पते वीड्वङ्गो प्रजापतिर् वनस्पतिस् त्रिष्टुप् । भद्रं कर्णेभिस् तिसृणां गौतमो विश्वेदेवास् त्रिष्टुप् । शन् नो शन् नो मित्रः दीर्घतमा इन्द्राग्निस् तिष्टुप् । देवकृतस्येति षण्णां प्रजापतिर् अग्निस् त्रिष्टुप् । मानस्तोके सङ्कुशिको रुदो जगती । तद् विष्णोः मेधातिथिर् विष्णुर् गायत्री । काते । प्रजापतिः कामस् त्रिष्टुप् । नमः सम्भवायेत्यादीनां नमो वाकिरेभ्य इत्यन्तानां ऋचां परमेष्ठी रुद्रस् त्रिष्टुप् । आनो नियुद्भिस् त्यृचां रुद्रस् त्रिष्टुप् । त्रातारम् इन्द्रं प्रजापतिर् इन्द्रस् त्रिष्टुप् । बृहस्पते अप्रतिरथ इन्द्रस् त्रिष्टुप् । वर्यसोमबन्धुः सोमो गायत्री । तम् ईशानं गौतमो विश्वेदेवा गायत्री । स्योनापृथिवी मेधातिथिः पृथिवी गायत्री । वरुणस्योत्तन्भनम् असि प्रजापतिर् वरुणः । समुद्राय त्वा । दध्यङाथर्वणो वाताः पुनन्तु मां देवाः प्रजापतिः । अदितिर्थौः गौतमो विश्वेदेवास् त्रिष्टुप् । पितुन्नुस्तोषम् । अगन्त्योन्न उष्णिक् । स निःपितेव । विश्वामित्रो मधुच्छन्दो ऽग्निर् गायत्री । विश्वेदेवा स आगतः । गृत्समदो विश्वेदेवा गायत्री । विश्वतश्चक्षुर् विश्वकर्मा भौवनो विश्वकर्मा त्रिष्टुप् । यवो ऽसि । प्रजापतिर् यवः । सोम उष्णिक् । तेजो ऽसि पर[२७७]**मेष्ठी प्रजापतिः । देवा वा । प्रजापतिर् वा आज्यं वापि देवा सोममोव्राताः वाक्यानां पानौ आयुष्यं वर्चस्यम् इति तिसॄणां दक्षो हिरण्यं क्रमेणोष्णिक् शक्वरस् त्रिष्टुप् । तं यज्ञं नारायणः पुरुषः पुरुषो ऽनुष्टुप् । सप्त ऋषय इत्य् अध्यात्मवादिनी जगती । उपवहरे गिरीणां वत्सो ऽग्निर् गायत्री । शन् न इन्द्राग्नी दध्यङ्गाथर्वण(ः?) लिङ्गोक्ता त्रिष्टुप् । इन्द्रो विशामधुच्छन्दा इन्द्रो ऽनुष्टुप् । अभित्यन् देवं प्रजापतिः सविता अष्ठिर् अग्निर् गायत्री । ध्रुवास्ति प्रजापतिर् औदुम्बरी । अग्निन्दतं विरूपो ऽग्निर् गायत्री । ऋचं वाचं दध्यङ्गाथर्वणः लिङ्गोक्ताः इशावास्पन् दध्यङाथर्वणः आत्मा अनुष्टुप् । सप्त ते अग्ने सप्तर्षि (?) अग्निस् त्रिष्टुप् । यद् अक्रन्द इति त्रयोदशानां भागवो जमदग्निर् अश्वस् त्रिष्टुप् । आ ब्रह्मन् प्रजापतिर् ब्रह्मा यजुः । सजोषसा इन्द विश्वामित्र इन्द्रस् त्रिष्टुप् । कार्षिर् असि अथर्वा ज्योतिर् अनुष्टुप् । चित्रावसोः स्वस्तितेति ऋषयो रात्रिः । उद्विवं प्रजापतिर् औदुम्बरी । शंयुर् वार्हत इन्द्रो ऽनुष्टुप् । आयङ्गोः सग्विरपिः परापररूपेण सर्पा गायत्री । सुमित्रियानः प्रजापतिर् आपः । उर्मित्रियानस् तथा । पृथिवी देवयजनं परमेष्ठी प्रजापतिः देवा वा प्रजापतिर् वा । वेदिर् विश्वकर्मा विमाना विश्वकर्मा त्रिष्टुप् । सुत्रामाणङ्गयस् तात अदितिः त्रिष्टुप् । अहं पितॄन् शङ्खः पितरस् त्रिष्टुप् । नमो ऽस्तु नीलग्रीवाय परमेष्ठी रुद्रो ऽनुष्टुप् । परितो रुद्रस्य परेमेष्ठी रुद्रस् त्रिष्टुप् । विकिरिदविलोहितः परमेष्ठीं रुद्रानुष्टुप् [२७८] । उपप्रागाद् दीर्घतमाशस् त्रिष्टुप् । इन्द्रः सुत्रामाः प्राजापत्याशिसरस्वती रुद्रो जगती युञ्जत इत्य् अनुवाकस्य । श्यावाश्वः सावित्री वायुर् जगती । इदं दिष्णुर् मेधातिथिर् वैष्णवो । गायत्री । इरावती वाशिष्ठो विष्णुस् त्रिष्टुप् । देवसुतावशधरौ पात्रीस्यङ्गोष्ठम् अत्र हविःस्थाने । विष्णोर् नुकम् इति तिस्रो वैष्णवस् त्रिष्टुभः ।

अथ कूष्माण्डमन्त्राः ।

यद् देवास्ति यदि दिवा । यदि जाग्रद् इति तिसॄणां प्रजापतिर् ऋषिः क्रमेणाग्निर् वायुसूर्यदेवताः सर्वासाम् अनुष्टुप् । यद् ग्रामे इत्य् एतद् यजुर् लिङ्गोक्तदैवतं समुद्रे ते द्विपदा विराडदैवी (?) । द्रुपदाद् इव । प्रजापतिर् आपो ऽनुष्टुप् । उद् वयं तम् इति प्रस्कण्वः सूर्यो ऽनुष्टुप् । आपो अद्यन्नचारिषम् इति प्रजापतिर् अग्निः पङ्क्तिः । एधो ऽसि । समिद् असीत्य् एते । शमिदैवते यजुषी । समाववर्तीत्य् अस्याः अग्निर् अभिरुक्ता गायत्री । वैश्वानर ज्योतिर् इति वैश्वानरं यजुः । अभ्यादधामीति त्र्यृचस्य । आश्वतराश्विर् अग्निर् अनुष्टुप् । अंशुना । इत्य् अस्याः सूर्यो ऽनुष्टुप् । सिञ्चति परिषिञ्चतीय् अस्याः सूर्य इन्द्रो वा अनुष्टुप् । धानावन्तम् इत्य् अस्या विश्वामित्र इन्द्रो गायत्री । बृहदिन्द्राय नृमेध पुरुमेधसाव् इन्द्रौ बृहती । नये मायावकानः सरस्वतीत्य् अस्य त्र्यृचस्य मधुच्छन्दाः सरस्वतीर् गायत्री । आमन्दोर् विश्वामित्र इन्द्रो बृहती । आनो विशासुहव्यं श्वावाश्व इन्द्रो बृहती । प्रसेनानीः सकुशस्कन्धः स्कन्दस् त्रिष्टुप् । पवित्रं ते इति द्वयोर् अर्कपृष्ठस्कन्धो जगती । एषा स्कन्धसंहिता नाम । यद् वा [२७९] उपविंशति अगस्त्यो ऽग्निर् गायत्री । सनाद् अग्ने श्रुतिर् यातुधानो गायत्री अक्षण्णमीमदन्तः यम इन्द्रः पञ्चपदा पङ्क्तिः । अविपृष्ठः शंयुर् वरुणस् त्रिष्टुप् अक्रात् समुद्रः वैखानसः सोमस् त्रिष्टुप् । एषामित्र्या नाम संहिता । ये ते पन्था अजितस्य जित्यन्ता गायत्री । एतोन्त्व् (?)इन्द्रशुद्धिय इन्द्रो विराट् । शुक्रन्ते अन्यत् । पूषाग्निस् त्रिष्टुप् महतस् सोमा वशिष्ठः पवमानस् त्रिष्टुप् । अग्निस्ति अग्निनेति वामदेवाग्निर् गायत्री । परितोषिञ्चिता सुतम् अच्छिद्रः सोमो बृहती पवस्व सोमेति धर्म इन्द्रोक्षरपङ्क्तिः । चक्रं यद् अस्य भारद्वाज इन्द्रो बृहती । घृतवतीति वरुणो द्यावापृथिव्यावविर् जगती । अद्यानो देवसवितः स उक्ष सविता गायत्री । त्रातारम् इन्द्रं मैत्र इन्द्रो बृहती । महित्रीणां पष्ठोह (?) इन्द्रो गायत्री । विश्वामित्रस्य बृहदिन्द्राय बृहती । यो भूतानाम् इत्य् अस्याः नारयणीयकौण्डिल्य ऋषिः गृत्द्यमाणग्रंहो (?) देवता पङ्क्तिः छन्द्र आत्मा प्रवादरूपेयं प्राणयामे । अशिनकृतस्येति द्वे अनुष्टुप् परास् ताव् बृहत्यौ लिङोक्तदैवत्ये । समिद्ध इन्द्र इत्य् एकादशानाम् आप्री सञ्ज्ञकानाम् अङ्गिरस ऋषिः क्रमेण । इन्धास् तनूपात् । नाराशंसीर् इडो बर्हिर्द्वार उषसानक्ता दैव्यारातिस्रो देवोस् (?) त्वष्ठा वनस्पतिः स्वाहा कृतय इत्य् एता देवताः अत्र उरूपथाः प्रथमानं व्यूहः । सुवीरावीरं द्वादशकः । अच्छिन्नं द्वादशकः ।

इति यजुर्विधानम् ।

अथ् साम्नां ऋषिदैवतछन्दांसु ।

[२८०]

इदं विष्णुः पृच्छकस्य विष्णोः प्रकाव्यम् उशनेव भूबाणा इति वागहभं पुरुषव्रते चैषा वैष्णवी नाम । तत्र इदं विष्णुः प्रजापतिर् गायत्री । वृक्षस्य विष्णो विष्णुर् विष्णुर् जगती । प्रकाव्यम् उशनेव भ्रुवाणः वरोहे विष्णुस् त्रिष्टुप् । पुरुषव्रते पुरुषौ नारायणो ऽनुष्टुप् । इदं ॐ ह्यत्वोजसेति (?) प्रथमे तेन यो मधुच्छन्दा इन्द्रो गायत्री । सप्तव्योमघोनां मधुच्छन्दाः विमेदेवा अनुष्टुप् पुरासिन्धुर् नुवा कवि दुःमरुत इन्द्रो ऽनुष्टुप् । तवस्व सोमम् । मधुच्छन्दाः पवमानस् त्रिष्टुप् । सुरूपकृत् नु मधुच्छन्दा गायत्री । उद् उत्तमं वरुणपाशम् इति गौतमो वरुणो ऽनुष्टुप् । शुक्रं चन्द्रो शुक्रश् चन्द्रमाः गायत्री । शुद्धाशुद्धा शुद्धो य इन्द्रो ऽनुष्टुप् । नृतसूक्तञ्चः अग्निः श्येनस् त्रिष्टुप् । इन्द्रस् त्रिधातु इन्द्रे इन्द्रो बृहती । विशा पृतना त्रिशाक इन्दो जगती । सोमं राजानं बृहस्पतिर् अग्न्यादित्यवरुणविष्णवः । चरुषणी घृतं वार्हक्ष्णः सर्प प्रसर्प उत्सर्पा जगती । समिन्यायन्ति जनिधानम् अयां गर्भम् आपस् त्रिष्टुप् । इन्द्राहो नृपम् अग्निर् गायत्री । सन्ते पयांसि सोमव्रते सोमः सोमस् त्रिष्टुप् । सोमव्रते ऽपि दैवव्रते ऋषिव्रते रुद्रः । तृतीये विश्वेदेवा । यज्ञपद् इन्द्रो ऽनयदने नेति पूषा पूषा गायत्री । भगो न चित्रेति सान्तनिक अग्निर् विराट् । सामद्वये ऽपि । इमम् इन्द्रेति वर्गद्वयस्य वशिष्ठ इन्द्रो ऽनुष्टुप् । परिप्रिया कविर् इति । कर्णापवः कविर् गयत्री । रथन्तरे वशिष्ठः । ईशान इन्द्रो बृहती । वामदैव्ये वामदेवः सर्वदेवा गायत्री । यशः समेति । यशा इन्द्रो बृहती । इन्द्रमिहासिनाह् कण्व इन्द्रो बृहती ।** **

[२८१] रथन्तरं पूर्ववद् गीर्वाणा पाहि नः सुतम् इति । हरिः श्रीर् निधनं इन्द्रो गायत्री । अत्राविशन्त्व् इन्दवः आशित इन्द्रो गायत्री इन्द्रोहिमत् सिन्धवः पूषा इन्द्रो गायत्री । आयन्तीह त्रायन्ति ये इन्द्रो बृहती । गव्येषु गोद्वये श्यावाश्व इन्द्रो गायत्री । इदं मोघन्त्व् इति मधुछन्दा इन्द्रो गायत्री । भद्रानो अग्निर् आहुत इति । गौतमो भग इन्द्रो गायत्री । वैरूप्याष्टके विरूप इन्द्रो बृहती । अत्राष्टके क्रमाद् ऋषयः । आद्ययोः शिखण्डी । तदुत्तरयोर् अत्रिः । तदुत्तरयोः महास्त्रवेतसः । तदुत्तरयोः शिरीषः । सर्वत्रेन्द्रो देवता जगती छन्दः । अग्ने विवस्वद् उषसः इडिमाण्डव्यो जातवेदानुष्टुप् । एवस्पते सोम इन्द्रस् त्रिष्टुप् । त्रिर् अस्मै मरुतां धन्वन् धेनवो जगती स्वात्वाहित्वेति ॐ सहस्र इति इन्द्रो यजुः । धानावन्तं करयन्भणम् इति अभिषव इन्द्रो गायत्री वास्तोष्पते इति प्रजापतिर् वास्तु यजुः । अभ्रातुव्य इति अभ्रातुव्य इति अभ्रातुव्य इन्द्रः ककुप् । वात आवातु भेषजं काशिनो वायुर् गायत्री पञ्च निधानं वाम्देव्यो वामदेव्यः । राहुर् गायत्री । असित्वा पूर्वपीतय इति । वष्ट्कारः प्रजापतिर् इन्द्रो बृहती । अभि त्वा शूर नोनुम रहस्येन हिशब्देन अजिति इन्द्रो बृहती । इन्द्रम् इद् देवतातये क्रसुव इन्द्रो बृहती । गवाव्रते प्रजापतिर् गावस् त्रिष्टुप् । पुरुषव्रते पुरुषो नारायणो ऽनुष्टुप् । रात्रेर् व्रते प्रजापति रात्रिर् अनुष्टुप् । इन्द्र सानसिंरोहित् कुलाय इन्द्रो गायत्री । भारुण्डसामनि भारुण्डो व्रातवेदाग्निः जगती । गायत्रं सापौष्कलम् आग्नेयगायत्री । रेवत कुम्भवरैवत इन्द्रो गायत्री । त्रिसुपर्णे त्रिसुपर्णः सूर्यो गायत्री । महावैश्वानरव्रते वैश्वानरो ऽम्बिस्

[२८२] त्रिष्टुप् । आनिगेति आनिषङ्गः इन्द्रः नानाछन्दांसि । बृहत्सामानि भारद्वाज इन्द्रो बृहती ।

इति सामविधानम् ।

अथ अथर्वमन्त्राणाम् ऋषिदैवतछन्दांसि । शान्तातीयगणस्य शान्तातीवाश्व इन्द्रः सर्वाणि छन्दांसि । भैषज्यगणस्य भैषज्यम् आयुर् उष्णिक् । रौद्रगणस्य ब्रह्मा रौद्रः सर्वाणि छन्दांसि ।

अथ दशगणः । शान्तिगणस्य ब्रह्मा सोमो ऽनुष्टुप् । कूत्पादूषणगणस्य । शुक्रः कुत्पादूषणः सर्वाणि छन्दांसि । धातनगणस्य धातागणो ऽग्निः सर्वाणि छन्दांसि । मातॄणाम् गणस्य मातृनामा ऋषिः मातृनामदेवता उष्णिक् छन्दः । वास्तोष्पतिगणस्य । ब्रह्मा ऋषिर् वास्तोष्पतिर् देवता सर्वाणि छन्दांसि । पाप्मन गणस्य । ब्रह्मा ऋषिः पाप्महा देवता । गायत्र्य् उष्णिक् । ककुद् अनुष्टुप् । [२८३] यक्ष्मनाशनगणस्य मातृनामा ऋषिः यक्ष्मनाशनो देवता सर्वाणि छन्दांसि । दुःखप्रनाशनगणस्य । यम ऋषिः दुःस्वप्ननाशनो देवता सर्वाणि छन्दांसि । आयुष्यगणस्य ब्रह्मा आयुर् गायत्र्यादिसप्तछन्दांसि । सर्वस्य गणस्य अथर्वा ऋषिः बृहस्पतिर् देवता । अनुष्टुप् बृहती पङ्क्तिर् अनुष्टुप् । अष्टादशगणानां अथर्वाश् चन्द्रमाः सर्वाणि छन्दांसि । शन्नोदेवीसूक्तस्य सिन्धुद्वीप आपो गायत्री । हिरण्यवर्णाः शुचयः अथर्वाभ्युक्तस् त्रिष्टुप् । अथर्वाणानुवाकादीनां अथर्वाश् चन्द्रः सर्वाणि छन्दांसि । या ओषधीर् ब्रह्मा बृहस्पतिर् अनुष्टुप् । ममाग्नेवर्च इत्यादीनां चतुर्दशानां कुबेरस् त्रिष्टुप् । नदीपं त्व् अप्सरोवादरायणीर् अप्सरो जगती । सोदक्रामत्सादेवानाम् अपरिव्रत इन्द्रो ऽतिछन्दाः । सुपर्णो ऽसि सौपर्णो गरुत्मान् अनुष्टुप् । इन्द्रजीववेति हृदयसूक्तस्य ब्रह्मा इन्द्रो गायत्री । यत् स्वं मृत्पुरभ्यत्स्व बृहस्पतिः मृत्पुर् अनुष्टुप् । यश् चेदं शून्य अशीतिसूक्तम् । अथर्वा भूमिः पङ्क्तिः पृथिव्यामन्त्रे, अग्निः पृथिव्य् अन्तरिक्षं [२८४] द्यौश् चन्द्रसमो देवताः पङ्त्यतिजगती छन्दः । उत्तमो ऽसीति मन्त्रस्य प्रतिसर इन्द्रो विष्णुः । सविता रुद्रो अग्निः प्रजापतिर् देवता आद्या पङ्क्तिः तदुत्तराणां सप्तानाम् अनुष्टुप् । उदुम्बरेति मणिनेति सूक्तम् । ब्रह्मा कुबेरः पञ्चमादीनां त्रयाणां त्रिष्टुप् । शेषाणां त्रयोदशानाम् अनुष्टुप् । योनस्व इति ब्रह्मा ईश्वर अनुष्टुप् । इन्द्रेण वृत्तम् इति । वरुण इन्द्रस् त्रिष्टुप् । हिरण्यवर्णाः शुचयः पावकाः ब्रह्मा आपस् त्रिष्टुप् । इयं वेदिर् इति ब्रह्मा इन्द्रस् त्रिष्टुप् । अभितव्यमे तातस्य अथर्वा आपः पङ्क्तिः । सरस्वती व्रतेषु ते इति सूक्तम् । ब्रह्मा सरस्वती अनुष्टुप् । सौरसामानि विषासहि सहमानम् इत्यादीनि आथर्वण आदित्या जगती । पिशाचक्षयो गमशियातनः पिशाचक्षशौ गायत्री । यमस्य लोकादध्या ब्रह्मा यमस् त्रिष्टुप् । अग्निर् वैशनायदवाय अग्निर् इन्द्रस् त्रिष्टुप् । ऊर्धो भवेत् अग्निकृत्या प्रतिहरणो ऽनुष्टुप् । इन्द्र वय वाणिजं अथर्वा ईशानस् त्रिष्टुप् । [२८५] कमोमेराजन्त्व् इति ब्रह्मा कामस् त्रिष्टुप् । भद्रायकर्णदर्व्येति कौशिकाश्विनाव् अनुष्टुप् । तुभ्यम् एव जनिसन्त्व् इति शांयुर् जरिमा त्रिष्टुप् । आयातु मित्र इति । मित्रावरुणाव् आपो ऽग्नयस् त्रिष्टुप् । आशानाम् आशापालेभ्यः वाचस्पतिर् आशपाला अनुष्टुप् । इदं जनासो विदथ ब्रह्मा द्व्यावापृथिव्याव् अनुष्टुप् । अग्ने गोभिर् इत्य् एतत् ब्रह्मा अग्निस् त्रिष्टुप् । शान्ता द्यौर् इति सूक्तस्य ब्रह्मा पृथिव्य् अन्तरिक्षं दिवो ऽनुष्टुप् । अयं ते योनिर् ऋत्विजः अथर्वाग्निर् अनुष्टुप् । ध्रवन्ध्रुवेणेति अथर्वा सोमनम् अनुष्टुप् । अधुते राजन्न् इति चतसॄणाम् अथर्व एकस् त्रिष्टुप् । ययो देवीष्व् इति ब्रह्मा शास्त्रानुष्टुप् युनक्ति सीरा वियुगा । अथर्वा सीता त्रिष्टुप् । सुयवसाद् इति अथर्वा ब्रह्मा त्रिष्टुप् । यदाद्ग्र इति वाक्देवता एकवर्च अग्निर् अनुष्टुप् । अर्हते भग इत्य् एतत् अथर्वा सीता त्रिष्टुप् । एते पन्थाः पन्थां पन्था अतिजगती । अवितस्त इति । ब्रह्मा उन्मोचनः पङ्क्तिः । यो नस्वो अरणो अथर्वा ईश्वरस् तिष्टुप् । अहन्नहन्न् इति षडर्चम् इन्द्रस् त्रिष्टुप् । त्वम् उत्तमम् इति अवर्वा सोमो ऽनुष्टुप् । यथा यशश् चन्द्रमसि । वरुणश् चन्द्रमा जगती । आनो अग्नि इति पतिवेदनः सोमस् त्रिष्टुप् । येन देहीति अयम् अपामर्यमा अथर्वा अर्यमान् अनुष्टुप् । यत् पृथिव्याम् अनावृत्तम् । कल्पमन्त्र । छन्दर्षिदेवता नाह । शिवःशिवेभिर् इत्य् एत् (?) ब्रह्मा शिवस् त्रिष्टुप् । कृत्या** [२८६]** दूषणे । ब्रह्मा कृत्यादूषणो ऽनुष्टुप् । बृहस्पते नः परिपातुम् इहेति बृहस्पतिस् त्रिष्टुप् । सामानो विन्दन्तीति सूक्तम् ब्रह्मा ईश्वरो ऽनुष्टुप् । अयं नो अग्निर् अध्यक्षः कौशिको ऽग्निर् अनुष्टुप् । पूषाषितसीति तिसॄणां शुक्रो देवता । प्रथमायाः पङ्क्तिः तदुत्तरयोर् अनुष्टुप् । अन्त्या गायत्री । प्रगोनय इति सूक्तानि त्रीणि प्राणेः सर्वैर् अनुष्टुप् । देवा मारुत इति ब्रह्मा मरुतस् त्रिष्टुप् । मुञ्चामि त्वा इति सूक्तस्य यक्ष्मानाशन इन्द्राग्निस् त्रिष्टुप् । अथर्वशिरांसि । अग्निर् इति भस्मवायुर् इति भस्मजलम् इति भस्मस्थलम् इति भस्म सर्वं ह वा भस्मेति ।

इत्य् अथर्वणो विधानम् ।

अथोङ्कारस्य छन्दर्षिदेवतानि । याजुषसर्वानुक्रमे । ॐ इति परमाक्षरस्य योगिनाम् आलम्बभूतस्य परस्य ब्रह्मणः प्रणवाख्यस्य स्थूलादिगुणयुक्तस्य ब्रह्मा ऋषिः छन्दो गायत्रं परमात्मा देवता ब्रह्मारम्भे विरामे च यागहोमादिषु शान्तिषु कर्मसु चान्येष्य् अपि कर्मसु नित्यनैमित्तिकादिषु सर्वेषु विनियोगस्येति । तथा च शाट्यायनः । दानयज्ञतपःस्वाध्यायजपाध्यानसन्ध्योपासनप्राणायामहोमदैवपित्र्यमन्त्रोच्चारण-ब्रह्मारम्भाद् इति प्रणवेषु धार्यम् । प्रवर्तयेद् इति मन्त्राणां छन्दर्षिदेवताज्ञाणावश्यकत्वम् उक्तम् । याजुषसर्वानुक्रमे ऋषिदैवतछन्दसां स्वरूपम् उक्त्वा एतान्य् अविदित्वा यो ऽधीते ऽनुभ्रूते जपते जुहोति यजते याजयते तस्य ब्रह्मर्चं न चिरं यातयामं भवति स्थाणुं वर्छति प्रदूयते वा पापीयान् भवतीति छन्दोगब्राह्मणे यो ह

[२८७] वा अविदितार्षेयब्राह्मणेन मन्त्रेण याजयति वाध्यापयति वा स्थाणुं वर्छति गर्तं वा यजते प्रच्छामीयते पापीयान् भवति यातयामान्यस्य छन्दांसि भवन्ति तस्माद् एतानि मन्त्रे मन्त्रे विद्याद् इति ।

अथ नानाद्रव्यदानमन्त्राः । तत्र नवग्रहदक्षिणादानमन्त्राः ।

मात्स्ये ।

कपिले सर्वभूतानां पूजनीयासि रोहिणि ।

सर्वतीर्थमयी यस्माद् अतः शान्तिं प्रयच्छ मे ॥

कपिलायाः ।

पुण्यस् त्वं शङ्खपुण्यानां मङ्गलानां च मङ्गलम् ।

विष्णुना विधृतो नित्यम् अतः शान्तिं प्रयच्छ मे ॥

गङ्खस्य ।

धर्मस् त्वं वृषरूपेण जगदानन्दकारकः ।

अष्टमूर्तेर् अधिष्ठानम् अतः शान्तिं प्रयच्छ मे ॥

रक्तवृषस्य ।

हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।

अनन्तपुण्यफलदम् अतः शान्तिं प्रयच्छ मे ॥

सुवर्णस्य ।

पीतवस्त्रयुगं यस्माद् वासुदेवस्य वल्लभम् ।

प्रदानात् तस्य मे विष्णुर् अतः शान्तिं प्रयच्छतु ॥

पीतवस्त्रयुग्मस्य ।

यस्माद् विष्णुस्वरूपेण यस्माद् अमृतसम्भवः ।

[२८८] चन्द्रार्कवाहनं नित्यम् अतः शान्तिं प्रयच्छ मे ॥

श्वेताश्वस्य ।

यस्मात् त्वं पृथिवी सर्वा धेनुः केशवसन्निभाः ।

सर्वपापहरा नित्यम् अतः शान्तिं प्रयच्छ मे ॥

कृष्णवर्णगोः ।

यस्माद् आयसकर्माणि त्वदधीनानि सर्वदा ।

लाङ्गलाद्यायुधादीनि ततः शान्तिं प्रयच्छ मे ॥

लोहस्य ।

यस्मात् त्वं छागयज्ञानाम् अङ्गत्वेन व्यवस्थितः ।

यानं विभावसोर् नित्यम् अतः शान्तिं प्रयच्छ मे ॥

छागस्य ।

शरण्यं सर्वलोकानां लज्जाया रक्षणं परम् ।

सुवेशधारि त्वं यस्माद् वासः शान्तिं प्रयच्छ मे ॥

श्वेतवस्त्रस्य ।

रक्तवस्त्रयुगं यस्माद् आदित्यस्य प्रियं सदा ।

प्रदानाद् अस्य मे सूर्यो ह्य् अतः शान्तिं प्रयच्छ मे ॥

रक्तवस्त्रयुग्मस्य ।

धर्मराजेन विधृतं कृष्णवस्त्रं सुशोभनम् ।

सर्वक्लेशविनाशाय कृष्णवस्त्रं ददाम्य् अहम् ॥

कृष्णवस्त्रस्य ।

अन्नम् एव यतो लक्ष्मीर् अन्नम् एव जनार्दनः ।

अन्नं ब्रह्माखिल त्राणम् अस्तु मे जन्मजन्मनि ॥

[२८९] अन्नस्य ।

चन्द्रमण्डलम् अध्यस्थं चन्द्राम्बुजसमप्रभम् ।

दध्यन्नं तस्य दानेन प्रीयतां वामनो मम ॥

दध्यन्नं सोपदंशं च ब्रह्मविष्णुशिवात्मकम् ।

प्रीयतां धर्मराजो हि तद्दानान् मम सर्वदा ॥

सोपदंशदध्यन्नस्य ।

पानीयसहितं चैतत् सदध्योदनपात्रकम् ।

समर्चितं तत् सफलं सदक्षिणं

गृहाण दध्योदनपात्रकं मम ॥

सपानीयधध्यन्नस्य ।

सर्वात्मा सर्वलोकेशः सर्वव्यापी सनातनः ।

नारायणः प्रसन्नः स्यात् कृषरान्नप्रदानतः ॥

कृषरान्नस्य ।

पायसं पर्मान्नं च सर्वदानोत्तमोत्तमम् ।

सर्वदैवतयोग्यं च श्रेयःपुष्टिं प्रयच्छतु ॥

पायसान्नस्य ।

आदित्यतेजसा भक्तं जातिश्रैष्ठकरं परम् ।

तद् अन्नं मम प्रिय त्वं प्रतीच्छ पूपम् उत्तमम् ॥

अपूपान्नस्य ।

प्राजापत्या यतः प्रोक्ताः शक्तवो यज्ञकर्मणि ।

तस्मात् शक्तून् प्रयच्छामि प्रीयतां मे प्रजापतिः ॥

[२९०] शक्तूनाम् ।

असुरेषु समुद्भूतं रजतं पितृवल्लभम् ।

तस्माद् अस्य प्रदानेन रुद्रः सम्प्रीयतां मम ॥

रजतस्य ।

परापवादपैशून्याद् अभक्ष्यस्य च भक्षणात् ।

तत्प्रजातं च यत् पापं ताम्रपात्रं प्रशाश्यतु ॥

ताम्रपात्रस्य ।

यानि पापानि काम्यानि कामोत्थानि कृतानि च ।

कांसपात्रप्रदानेन तानि नश्यन्तु मे सदा ॥

कांस्यपात्रस्य ।

देव देव जगन्नाथ वाञ्छितार्थफलप्रदः ।

तिलपात्रं प्रदास्यामि तवाङ्गे संस्थितेर् अहम् ॥

स्वर्णादितिलपात्रस्य ।

दर्शनेन त्वम् आदर्श नृणां मङ्गलदायकः ।

शौर्यसौभाग्यसत्कीर्तिनिर्मलज्ञानदो भव ॥

दर्पणस्य ।

ताम्रपर्ण्यर्णवोत्पन्ना वर्णाद्या कल्पवर्णिताः ।

मुक्ताः शुक्त्युद्भवाः सन्तु भुक्तिमुक्तिप्रदा मम ॥

मुक्तानाम् ।

त्वदुद्भवो जगत्स्रष्टुर् वेधसो हेमपङ्कजः ।

पद्मवासहरेर् नाभिजातं मां पाहि सर्वदा ॥

[२९१] सुवर्णपद्मस्य ।

कान्तारवनदुर्गेषु चौरव्यालाकुले पथि ।

हिंसकास् तु न हिंसन्तु सिंहदानप्रभावतः ॥

सिंहस्य ।

हिरण्यगर्भसम्भूतं सौवर्णम् अङ्गुलीयकम् ।

धर्मप्रदं प्रयच्छामि प्रीयतां कमलापतिः ॥

अङ्गुलीयकस्य ।

काञ्चनं हस्तवलयं रूपकान्तिसुखप्रदम् ।

विभूषणं प्रदास्यामि विभूषयति मां सदा ॥

वलयस्य ।

क्षीरोदमथने पूर्वम् उद्भूतं कुण्डलद्वयम् ।

श्रिया सह यद् उद्भूतं ददे श्रीः प्रीयतां मम ॥

कुण्डलद्वयस्य ।

मणिकाञ्चनपुष्पाणि मणिमुक्तामयानि च ।

तुलसीपत्रदानस्य कलां नार्हन्ति षोडशीम् ॥

तुलसीपत्रदानाद् वा ब्रह्मणः कायसम्भवम् ।

पापप्रशमनं यातु सर्वे सन्तु मनोरथाः ॥

तुलसीदानमन्त्रः ।

अलक्ष्मीहरणं नित्यं नित्यं सौभाग्यवर्धनम् ।

क्षीरं मङ्गलम् आयुष्यं ततः शान्तिं प्रयच्छ मे ॥

दुग्धस्य ।

कामधेनोः समुद्भूतं विष्णोस् तुष्टिकरं परम् ।

[२९२] नवनीतं प्रदास्यामि वलं पुष्टिं च देहि मे ॥

नवनीतस्य ।

कामधेनुसमुद्भूतं देवानाम् उत्तमं हविः ।

आयुर्विवर्धनं दातूराज्यं पातु सदैव माम् ॥

आज्यस्य ।

तैलं पुष्टिकरं नित्यम् आयुष्यं पापनाशनम् ।

अमाङ्गल्यहरं पुण्यम् अतः शान्तिं प्रयच्छ मे ॥

तैलस्य ।

कण्टकोच्छिष्टपाषाणवृश्चिकादिनिवारणे ।

पादुके सम्प्रदास्यामि विप्रप्रीत्या प्रगृह्यताम् ॥

पादुकामन्त्रः ।

शशाङ्ककरसङ्काशं हिमडिण्डीरपाण्डुरम् ।

प्रोत्सारयाशु दुरितं चामरामरवल्लभम् ॥

चामरस्य ।

चन्दनावासमन्दारसखे वृन्दारकार्चितम् ।

चन्दन त्वत्प्रसादान् मे सान्द्रानन्दप्रदो भव ॥

चन्दनखण्डस्य ।

श्रीखण्डकाण्डकर्पूरकस्तुरीकुङ्कुमान्वितम् ।

विलेपनं प्रयच्छामि सौख्यम् अतु सदा मम ।

चन्दनाद्यनुलेपनस्य ।

[२९३] समस्तेभ्यो ऽपि वस्तुभ्यः संस्तुतासि सुरासुरैः ।

विन्यस्ताङ्गेषु कस्तूरी सुखदास् तु सदा मम ॥

कस्तूर्याः ।

कन्दर्पदर्पदो यस्मात् कर्पूरं प्राणतर्पणम् ।

श्राद्धमतै भवस् तापस् त्वद्दानाद् अपसर्पतु ॥

कर्पूरस्य ।

यद् अभूद् अङ्गसंलग्नं कुङ्कुमादिविलेपनम् ।

जलक्रीडासु गोपीनां द्वारवत्यां जलार्पितम् ॥

गोपीचन्दनम् इत्य् उक्तं मुनीन्द्रैः किल्बिषापहम् ।

तस्माद् अस्य प्रदानेन विष्णुर् दिशतु वाञ्छितम् ॥

गोपीचन्दनस्य ।

त्वया सुराणाम् अमृतं विधाय

हालाहलं संवृतम् एव यस्मात् ।

तथा सुराणां त्रिपुरं च दग्धम्

एकेषुणा लोकहितार्थम् ईश ॥

त्वत्प्रदानाद् अहम् अप्य् अदोषी

दोषैर् विमुक्तस् तु गणान् प्रपद्ये ।

तथा कुरु त्वं शरणं प्रपद्ये

मयि प्रभो देववर प्रसीद ॥

शिवप्रतिमायाः ।

प्रसीदतु भवो नित्यं कृत्तिवासमहेश्वरः ।

[२९४] पार्वत्या सहितो देवो जगदुत्पत्तिकारकः ॥

उमामहेश्वरयोः ।

शिवशक्त्यात्मकं यस्माज् जगद् एतच् चराचरम् ।

तस्माद् अनेन सर्वं मे करोतु भगवन् शिवम् ॥

कैलासवासी गौरीशो भगवान् भगनेत्रभित् ।

चराचरात्मको लिङ्गरूपी दिशतु वाञ्छितम् ।

लिङ्गस्य ।

इदं मरकतं लिङ्गं रौप्यपीठसमन्वितम् ।

धान्यैर् द्वादशभिर् युक्तम् एकादशफलान्वितम् ।

सम्प्रदद्याद् विधानेन यथोक्तं फलम् अस्तु मे ॥

मरकतलिङ्गस्य ।

काश्मीरलिङ्गपक्षे तु इन्द्रकाश्मीरजं वदेत् ।

काश्मीरलिङ्गस्य ।

सर्वभूताश्रया भूमिर् वराहेण समुद्धृता ।

अनन्तसस्यफलदा अतः शान्तिं प्रयच्छ मे ॥

सस्यभूमेः ।

ऊर्णामेषसमुत्पन्ना शीतवातभयापहा ।

यस्मात् तुषारहारीस्याद् अतः शान्तिं प्रयच्छ मेत् ॥

ऊर्णायाः ।

और्णपदम् अनुध्येयं स्वर्णबीजं तव प्रभो ।

[२९५] दत्तं गृहाण देवेश पापं संहर सत्वरम् ॥

ऊर्णापदस्य ।

धान्यं करोषि दातारम् इह लोके परत्र च ।

तस्मात् प्रदीयतां धान्यम् अतः शान्तिं प्रयच्छ मे ॥

धान्यस्य ।

यस्माद् अन्नमयो जम्बूद्वीपो गोधूमसम्भवः ।

गन्धर्वसौख्यधनदः अतः शान्तिं प्रयच्छ मे ॥

गोधूमानाम् ।

मुद्गबीजानि वै यस्मात् प्रियाणि परमेष्ठिनः ।

तस्माद् एषां प्रदानेन प्रीतिः सिद्ध्यतु मे सदा ॥

मुद्गानाम् ।

पुरा गोवर्धनोद्धारसमये हरिभक्षिताः ।

चणकाः सर्वपापघ्ना अतः शान्तिं प्रयच्छ मे ॥

माषाणाम् ।

रसानाम् अग्रजं श्रेष्ठं लवणं बलवर्धनम् ।

ब्रह्मणा निर्मितं साक्षाद् अतः शान्तिं प्रयच्छतु ॥

लवणस्य ।

धान्यराजाश् च माङ्गल्या द्विजप्रीतिकरा यवाः ।

तस्माद् एषां प्रदानेन ममास्त्व् अभिमतं फलम् ॥

[२९६] यवानाम् ।

तिलाः पापहरा नित्यं विष्णोर् देहसमुद्भवाः ।

तिलदानेन सर्वं मे पापं नाशय केशव ॥

तिलानाम् ।

अमृतस्य कुलोत्पन्नाः इक्षुधारातिशर्वरी ।

सूर्यप्रीतिकरा नित्यम् अतः शान्तिं प्रयच्छ मे ॥

शर्करायाः ।

मनोभवधनुर्मध्याद् उद्भूता शर्करा इति ।

तस्माद् अस्य प्रदानेन मम सन्तु मनोरथाः ॥

खण्डस्य ।

प्रणवः सर्वमन्त्राणां नारीणां पार्वती सदा ।

तथा रसानां प्रवरः सदैवेक्षुरसो मतः ।

मम तस्मात् त्वरां लक्ष्मीं ददस्व गुड सर्वदा ॥

गुडस्य ।

यस्मात् पितॄणां श्राद्धे त्वं पीतं मध्व् अमृतोद्भवम्

तस्मात् तव प्रदानेन रक्ष मां दुःखसागरात् ॥

मधनः ।

वारिपूर्णघटोपेतं देवत्रयमयं यतः ।

प्रीयतां धर्मराजो ऽस्तु दानेनानेन पुण्यद ॥

[२९७] उदकुम्भस्य ।

उपानहौ प्रदास्यामि कण्टकादिनिवारणे ।

सर्वस्थानेषु सुखदावतः शान्तिं प्रयच्छ मे ॥

उपानहोः ।

पत्रिका सर्वजन्तूनां शैत्यानन्दकरी शुभा ।

पितॄणां तृप्तिदा नित्यम् अतः शान्तिं प्रयच्छ मे ॥

व्यजनस्य ।

महाकोशनिवासेन चक्रादैर् उपशोभितम् ।

अस्य देवप्रदानात् तु मम सन्तु मनोरथाः ॥

शालग्रामस्य ।

महाकोशनिवास त्वं महादेवो महेश्वरः ।

प्रीयतां तव दानेन अतः शान्तिं प्रयच्छ मे ॥

शिवनाभस्य ।

यमद्वारे महाघोरे या सा वैतरणी नदी ।

तां तर्तुकामो यच्छामि उत्तारय सुखेन माम् ॥

वैतरण्याः ।

यस्मात् त्वं पृथिवी सर्वा धेनुर् वैष्णवसन्निभा ।

सर्वपापहरा नित्यम् अतः शाण्तिं प्रयच्छ मे ॥

लब्धधेनोः ।

[२९८] मृत्य्क्रान्तौ प्रवृत्तस्य सुखक्रान्तिविवृद्धये ।

तुभ्यं सम्प्रददे नाम्ना गां समुत्क्रान्तिसञ्ज्ञिकाम् ॥

उत्क्रान्तिधेनोः ।

वाङ्मनःकायजनितं यत् किञ्चिन् मम दुष्कृतम् ।

तत् सर्वं विलयं यातु त्वद्दानेनोपसेवितम् ॥

मेष्याः ।

भगवन् शूलहस्तेश दक्षाद्यरिविनाशन ।

तवायुधप्रदानेन शूलं नश्यतु मे सदा ॥

शूलस्य ।

यानि पापान्य् अनेकानि मया कामकृतानि च ।

लोहपात्रप्रदानेन तानि नश्यन्तु सर्वदा ॥

लोहपात्रस्य ।

अगम्यागमनं चैव परदाराभिमर्षनम् ।

रौप्यपात्रप्रदानेन तान नश्यन्तु मे सदा ॥

रौप्यपात्रस्य ।

तिलाः सर्वा समायुक्ता दुरितक्षयकारकाः ।

विष्णुप्रीतिकरा नित्यम् अतः शाण्तिं प्रयच्छ मे ॥

सहिरण्यतिलदानानाम् ।

तिलाः पुण्याः पवित्राश् च सर्वकामकराः शुभाः ।

[२९९] शुक्लाश् चैव तथा कृष्णा विष्णुगात्रसमुद्भवाः ॥

यानि कानि च पापानि ब्रह्महत्यासमानि च ।

तिलपात्रप्रदानेन तानि नश्यन्तु मे सदा ॥

सहिरण्यतिलपात्रस्य ।

ब्रह्महत्यादिपापघ्नं ब्रह्मणा निर्मितं पुरा ।

कुष्माण्डबहुबिजात्मम् अतः शान्तिं प्रयच्छ मे ॥

कुष्माण्डस्य ।

इदं फलं मया विप्र प्रभूतं पुरतस् तव ।

तेन मे सफलावाप्तिर् भवेज् जन्मनि जन्मनि ॥

फलस्य ।

आदित्यतेजसोत्पन्नाः सर्वमङ्गलकारकाः ।

मण्डकाः सर्वपापघ्न्यो अतः शान्तिं प्रयच्छ मे ॥

मण्डकानाम् ।

जन्मान्तरसहस्रेषु यत् कृतं दुरितं मया ।

स्वर्णपात्रप्रदानेन शान्तिः किञ्चिद् इहास्तु मे ॥

व्यतीपातस्य ।

या या लक्ष्मीर् यदङ्गेन सर्वगात्रे व्यवस्थितम् ।

तत् सर्वं शमयाज्यं त्वं लक्ष्मीं पुष्टिं च वर्धय ॥

आरोग्यार्थाज्यस्य ।

आज्यं तेजः (?) समुद्दिष्टम् (?) आज्यं पापहरं स्मृतम् ।

[३००] आज्यं सुराणाम् आहार आज्ये देवाः प्रतिष्ठिताः ॥

पापक्षयार्थाज्यस्य ।

त्वं देवानां मनुष्याणां रक्ष माम् आयुधो ह्य् असि ।

यस्मात् सर्वप्रयत्नेन शान्तिर् भवतु सर्वदा ॥

आयुधस्य ।

केशवप्रीतिदा भक्त्या शम्भुब्रह्मार्कतुष्टिदा ।

पृथग्विधापूपकायाः यच्छन्तु बलम् औरसम् ॥

भक्ष्याणाम् ।

सोमोद्भवानि दारूणि जातवेदःप्रियाणि च ।

तस्माद् एषां प्रदानेन श्रियं देहि विभावसोः ॥

काष्टानां ।

अग्निवर्णोद्भवा नाम बलकीर्तिप्रवर्धनाः ।

कुलत्थः सर्वपापघ्न अतः शान्तिं प्रयच्छ मे ॥

कुलत्थानाम् ।

सदा रोहति बीजानि काले कृष्टे महीतले ।

तव प्रदानात् सकला मम सन्तु मनोरथाः ॥

कृष्णक्षेत्रस्य ।

सर्वग्रहर्क्षतारेश सर्वेश त्वं हि भास्कर ।

सङ्क्रान्तिशूलदोषं मे निवारय दिवाकर ॥

[३०१] सङ्क्रान्तिशूलस्य ।

सर्वविद्याश्रमजानकरणं (?) ललिताक्षरम् ।

पुस्तकं सम्प्रयच्छामि प्रिया भवति भारती ॥

पुस्तकस्य ।

अनेन जायते विश्वप्राणिनां प्राणरक्षणम् ।

तन्दुला वैश्वदेवत्याः पाकेनान्ने भवन्ति ये ॥

पावनाः सर्वयज्ञेषु प्रशस्ता होमकर्मणि ।

तस्मात् तन्दुलदानेन प्रीयतां विश्वदेवताः ॥

तण्डुलानाम् ।

आश्रयन्ति मनो यस्मात् तस्मात् सुमनसः स्मृताः ।

दत्ता ददतु मे नित्यम् इत्य् आह्लादं सतीं श्रियम् ॥

पुष्पाणाम् ।

जीरानो जायते यस्मान् मण्डलं शुभकर्मसु ।

तस्माज् जीरकदानेन प्रीयतां गिरजा मम ॥

जीरकस्य ।

ताम्बूलं श्रीकरं भद्रं ब्रह्मविष्णुशिवात्मकम् ।

अस्य प्रदानाद् ब्रह्माद्याः शिवं ददन्तु पुष्कलम् ॥

ताम्बूलस्य ।

पूरितपूरापूरेण (?) नारावल्लोदनान्वितम् ।

[३०२] पूर्णेन चूर्णपात्रेण कर्पूरपूरकेण च ॥

सपूगखण्डनं दिव्यं गन्धर्वाप्सरसां प्रियम् ।

कण्टक त्वं निरासक्तं त्वत्प्रसादात् कुरु क्षमाम् ॥

ताम्बूलकरस्य ।

लक्ष्मीप्रिया या लक्ष्मीदा लक्ष्मीव वसनप्रिया ।

सौभाग्यकृद् वरस्त्रीणां हरिद्रा श्रीमद् अस्तु मे ॥

हरिद्रायाः ।

कञ्चूकीवस्त्रयुग्मैश् च तथा कर्णावतंसकैः ।

कण्टसूत्रैश् च भूषाभिः प्रीयतां निमिनन्दनी ॥

सौभाग्यद्रव्ययुग्मस्य ।

रामपत्नि महाभागे पुण्यमूर्ते निरामये ।

गृहाणेमानि शूर्पाणि मया दत्तानि जानकि ॥

शूर्पस्य ।

कमण्डलुर् (?) जलैः पूर्णः स्वर्णगर्भः सुलक्षणः ।

अर्पितस् ते महासेन प्रसन्नश् च सदा भव ॥

कमण्डलोः।

ब्रह्मसूत्रं महादिव्यं मया यत्नेन निर्मितम् ।

ब्राह्म जन्मास्तु मे देव ब्रह्मसूत्रसमर्पणात् ॥

यज्ञोपवीतस्य ।

[३०३] अष्टाविंशतिसङ्ख्याकै रुद्राक्षैर् योजिता मया ।

अर्पिता तव हस्ते च गृहाण सुरसैन्यकः ॥

अक्षमालायाः ।

विधुन्तुद नमस् तुभ्यं सिंहिकानन्दनो ऽव्यय ।

दानेनानेन नागस्य रक्ष मां वेधजात्ययात् ॥

स्वर्णनागस्य ।

इक्षुदण्डं महापुण्यं रसालं सर्वकामदम् ।

तुभ्यं दास्यामि तेनाशु प्रीयतां परमेश्वरः ॥

इक्षुदण्डस्य ।

कर्पूरः कदलीभूतो देव देव प्रियः सदा ।

भाग्योत्तमो नृपाणां च तद्दानात् सुखम् अश्नुते ॥

जरामांस्कभवं देवी मणेनाभिसमुद्भवाम् ।

भक्त्याहं सम्प्रदास्यामि मम सन्तु मनोरथाः ॥

गन्धद्रल्यस्य ।

ददाति भानुर् भवते सर्वोपस्करसंयुतम् ।

मनोभिलषितावाप्तिं करोतु मम भास्करः ॥

सूर्यमूर्तिः ।

यमाननन्ति विश्वेशं विश्व्नाथम् उमासुतम् ।

विघ्नेश्वरं क्षिप्रत्तर (?) तुभ्यं दास्याम्य् अभीष्तदम् ॥

[३०४] गणेशप्रतिमायाः ।

गवाम् अङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश ।

यस्मात् तस्माच् छिवं मे स्याद् इह लोके परत्र च ॥

गोदानमन्त्रः ।

यस्माद् अशून्यं शयनं केशवस्य शिवस्य च ।

शय्या ममाप्य् अशून्यास् तु तस्माज् जन्मनि जन्मनि ॥

यथा रत्नेषु सर्वेषु सर्वे देवा व्यवस्थिताः ।

तथा शान्तिं प्रयच्छन्तु रत्नदानेन मे सुराः ॥

रत्नमन्त्रः ।

यथा भूमिप्रदानस्य कलां नार्हन्ति षोडशीम् ।

दानान्य् अन्यानि मे शान्तिर् भूमिदानाद् भवत्व् इह ॥

भूदानमन्त्रः ।

इयं दासी मया तुभ्यं श्रिवत्स प्रतिपादिता ।

तदा कर्मकरी भोग्या यथेष्टं भद्रम् अस्तु मे ॥

दासीमन्त्रः ।

रथाय रथनाथाय नमस् ते विश्वकर्मणे ।

विश्वभूताय नाथाय अरुणाय नमो नमः ॥

[३०५] रथस्य ।

इहामुत्रोभयत्राणं कुरु केशव मे प्रभो ।

छत्रं त्वत्प्रीतये दत्तं ब्राह्मणाय मया शुभम् ॥

छत्रमन्त्रः ।

देवदेव जगन्नाथ विश्वात्मन् दत्तयानया ।

प्रभो शिविकया देव प्रीतो भव जनार्दन ॥

शिविकामन्त्रः ।

इदं गृहं गृहाण त्वं सर्वोपस्करसंयुतम् ।

तव विप्र प्रसादेन ममास्त्व् अभिमतं फलम् ॥

गृहमन्त्रः ।

समाश्रयं प्रयच्छामि प्रीत्यर्थं मे जगन्निधिः ।

आश्रयमन्त्रः ।

गौरी कन्याम् इमां विप्र यथाशक्ति विभूषिताम् ।

गोत्राय शर्मणे तुभ्यं विप्र त्वं तां समाश्रय ॥

कन्यामन्त्रः ।

चन्द्रादिलोकपालानां या राजमहिषी शुभा ।

महिषीदानमाहात्म्यम् अस्तु मे सर्वकामदम् ॥

धर्मराजस्य साहाय्ये यस्याः पुत्रः प्रतिष्ठितः ।

महिषासुरस्य जननी सास्तु मे सर्वकामदा ॥

[३०६] महिष्याः ।

महिषी वत्ससंयुक्तां सुशीलां च पयस्विनीम् ।

रत्नवस्त्रेण पुष्पेण दत्वा मृत्युं जयेन् नरः ॥

मृत्युमहिष्याः ।

रागत्वङ्मांसमज्जाद्यैः सर्वोपकरणैः शुभा ।

जगतः सम्प्रदत्तासि त्वाम् अतः प्रार्थये शिवम् ॥

मेषस्य ।

देवानां यो मुखं हव्यवाहनः सर्वपूजितः ।

तस्य त्वं वाहनं पूज्यं देवैः सेन्द्रैर् महर्षिभिः ॥

अग्निम् आद्यं पूर्वकर्मविपाकोत्थं तु यन् मया ।

तत् सर्वं नाशय क्षिप्रं जठराग्निं विवर्धय ॥

त्वं पूर्वं ब्रह्मणा सृष्टाः पवित्रा भवती परा ।

त्वत्प्रसूतीत्थिता यज्ञा तस्माच् छान्तिकरी भव ॥

अजामन्त्रः ।

अथ ऋत्विगादिवरणविधिः । तत्र ब्रह्माण्डदानम् अधिकृत्योक्तम् । पद्मपुराणे ।

बालाग्निहोत्रिणं विप्रं सुरूपं च गुणान्वितम् ।

सपत्नीकं च सम्पूज्य भूषयित्वा च भूषणैः ॥

[३०७] पुरोहितं मुख्यतमं कृत्वान्यांश् च तथर्त्विजः ।

चतुर्विंशद्गुणोपेतान् सपत्नीकान् निमन्त्रितान् ॥

अहताम्बरसञ्छन्नान् स्रग्विणः शुचिभूषितान् ।

अङ्गुलीयकानि तथा कर्णवेष्टान् प्रदापयेत् ॥

एवंविधांश् च सम्पूज्य तेषाम् अग्रे स्वयं स्थितः ।

अष्टाङ्गप्रणिपातेन प्रणम्य च पुनः पुनः ॥

पुरोहिताय पुरतः कृत्वा वै करसम्पुटम् ।

यूयं वै ब्राह्मणा धात्रा मित्रत्वेनानुगृह्णता ॥

सौमुख्येनेह भवतां भवेत् पूतो नरः स्वयम् ।

भवतां प्रीतियोगेन स्वयं प्रीतः पितामहः ॥

तुलापुरुषम् अधिकृत्योक्तम् लिङ्गपुराणे ।

शतनिष्काधिकं श्रेष्ठं तदर्धं मध्यमं स्मृतम् ।

तस्याप्य् अर्धं कनिष्ठं स्यात् त्रिविधं तत्र कल्पितम् ॥

वस्त्रयुग्मम् अथोष्णीषं कुण्डले कण्ठभूषणम् ।

अङ्गुलीभूषणं चैव मणिबन्धस्य भूषणम् ॥

एतानि चैव सर्वाणि प्रारम्भे सर्वकर्मणाम् ।

पुरोहिताय दर्त्वार्धम् ऋत्विग्भ्यः सम्प्रदापयेत् ॥

पूर्वोक्तभूषणं सर्वं सोष्णीषं वस्त्रसंयुतम् ।

दद्याद् एतत् प्रयोक्तृभ्य आच्छादनपटं तथा ॥

तत्र अन्यांश् चतुर्विंशदृत्विजः कृत्वेत्य् अन्यत्र च विंशतिर् ब्राह्मणा वरणीयाः । [३०८] ते च प्रतिष्ठाम् अधिकृत्य मत्स्यपुराणे भेदेनोक्ताः ।

शुभास् तत्राष्ट होतारो द्वारपालास् तथाष्ट वै ।

अष्टौ तु जापकाः कर्याः ब्राह्मणा वेदपारगाः ॥

सर्वलक्षणसम्पूर्णा मन्त्रवन्तो जितेन्द्रियाः।

कुलद्वयसमायुक्ताः स्थापकाः स्युर् द्विजोत्तमाः ॥

हेमालङ्कारिणः कार्याः पञ्चविंशतिर् ऋत्विजः ।

दक्षयेच् च समं सर्वान् आचार्यो द्विगुणं भवेत् ॥

निष्कादीनाम् अत्र शतं पञ्चाशतः पञ्चविंशतिर् वा मूल्यं ज्ञेयं वस्त्रालङ्काराणाम् एतत् प्रयोक्तृभ्यः सदस्येभ्यः । वरणवाक्यं तु अद्यामुकयज्ञेनाहं यक्ष्ये तदङ्गभूतम् अमुककर्मार्थम् अमुकगोत्रम् अमुकशर्माणम् अमुकवेदाध्यायिनम् अमुकं त्वाम् अहं वृणोमीति वृतो ऽस्मीति प्रतिवचनम् । कर्मभेदश् चोक्तो मत्स्यपुराणे ।

गन्धपुष्पैर् अलङ्कृत्य द्वारपालान् समन्ततः ।

यजध्वम् इति तान् ब्रूयाद् आचार्यस् त्व् अभिपूजयेत् ॥

यजध्वम् इति तान् ब्रूयाद् धोतृकान् पूज्य एव तु ।

उत्सृष्टं मन्तजप्येन तिष्ठध्वम् इति जापकान् ॥

प्रारम्भे धर्मकर्मणाम् इति वचनाद् अस्य सर्वगतदानपूजाहोमादि र्त्वित्साध्ये धर्मकर्मणि साधारण्यं ज्ञेयम् । अथ वृतानां मधुपर्कम् आह जाबालः ।

[३०९] वैवाह्यम् ऋत्विजं चैव श्रोत्रियं गृहम् आगतम् ।

अर्हयेन् मधुपर्केण स्नातकं प्रियम् एव च ॥

विश्वामित्रः ।

सम्पूज्य मधुपर्केण ऋत्विजः कर्म कारयेत् ।

अपूज्य कारयन् कर्म किल्बिषेणैव युज्यते ॥

अथ होमविधिः । देवीपुराणे ।

परिसमुह्योपलिप्योल्लिख्योद्धृत्याभ्युक्ष्याग्निम् उपसमाधाय दक्षिणतो ब्राह्मासनम् आस्तीर्य प्रणीय परिस्तीर्यार्थवद् आसाद्य पवित्रे कृत्वा प्रोक्षणी संस्कृत्यार्थवत् प्रोक्ष्य निरूप्याज्यम् अभिश्रित्य पर्यग्नी कुर्यात् । स्रुवं प्रतप्य्स् सम्मृज्याभ्युक्ष्य पुनः प्रतप्य निदध्याद् आज्यम् उद्वाप्योत्पूयावेक्ष्य प्रोक्षणीं च पूर्ववद् उपयमनकुशान् आदाय समिधो ऽस्ह्याधाय पर्युक्ष्य जुहुयात् । एष एव विधिर् यत्र क्वचिद् धोमे ऽथ परीसमूहनादिषु देवताप्रविभागमन्त्रान् व्याख्यास्यामः । 


	यद् देवा देवहेडनम् इति परिसमूहनम् । मानस्तीकेत्य् अनुलेपनम् । त्वां वृत्रैर् इन्द्र सत्पतिम् इत्य् उल्लिख्य । व्रजं गच्चेत्य् उद्धृत्य । देवस्य त्वेत्य् अभ्युक्ष्य । अग्निर् मूर्धेत्य् अग्निम् उपसमाधाय । समिधाग्निं दुवस्ततेति समिधम् आदध्यात् ।


	अपि गृह्नामीत्य् अग्नेर् अभ्युक्षणं (?) कृत्वा किरण्यगर्भेति दक्षिणतो ब्रह्मा । आपोहिष्ठेत्य् उत्तरतः प्रणीताः **[३१०]** कयानश् चित्र इति प्रणीताप्रस्तरणम् । पवित्रे स्थोवैष्णव्ये इति पवित्रे ईषे त्वेत्य् आज्यनिरूपणम् । त्रातारम् इन्द्रम् इति स्रुवं प्रतप्य अतिशिनो ऽसि सपत्नीन् इति मार्जनम् । प्रत्युष्णरक्ष इति पुनः प्रतपनं सशिनुर् वः प्रसव उत्पुनामीत्य् उत्पवनम् । तद् एवाग्निर् इत्य् उदिङ्गनं भूरसीति पर्युक्षणम् । प्रजापतये स्वाहा इन्द्राय स्वाहा । अग्नये स्वाहा । अन्तरिक्षाय स्वाहा । ॐ भूः स्वाहा । ॐ सुवः स्वाहा । ॐ स्वः स्वाहा । मूलहोमाहुतयः । एवं वैदिको ह्य् अग्निः संस्कृतो भवति । 


	एवं लक्षणसंयुक्तं सर्वहोमेषु याज्ञिकम् ।


	विधानं विहितं तत्र ब्रह्मणामिततेजसा ॥


	अन्यथा वै प्रकुर्वन्ति सूत्रम् आश्रित्य केवलम् ।


	निराशास् तत्र गच्छन्ति सर्वे देवा न संशयः ॥


अथातः परिस्तरणदेवताः कथ्यन्ते ।


	परिसमूहने काश्यपः, उपलेपने विश्वेदेवाः, उल्लिखने मित्रावरुणौ, उद्धरणे पृथ्वी, अभ्युक्षणे गन्धर्वाः, अग्न्यासादने सर्वः, दक्षिणासाधने ब्रह्मा, उत्तरतः प्रणीते आपराः, अर्थवद् आसादने शतक्रतुः, पवित्रबन्धने पितरः, प्रोक्षणीसंस्करणे मातरः, जुहुस्रुवे सुवायां च ब्रह्मविष्णुमहेश्वराः, आज्यस्थापने वसवः, अधिश्रयणे वैवस्वतः, पर्य्**[३११]**अग्निकरणे मरुतः, उद्वासने स्कन्दः, उत्पवने प्रत्युत्पवने चन्द्रादित्यौ, आज्यावेक्षणे दिशः सर्वाः, पवित्राधाने प्रणीतानाम् उमदेवी, इध्मे लक्ष्मीः, विश्वस्य विश्वाभूतानि ।


	पूर्वोक्तानां सुवह्नीनाम् एकम् आदाय पावकम् ।


	होमकर्म प्रकर्तव्यं विधिं ज्ञात्वा महामुने ॥


	एता वै देवताः प्रोक्ता ब्राह्मणानां हिताय वै ।


	यज्ञेषु (?) पशुबन्धेषु सर्वकर्मक्रियासु च ॥


		ब्रह्मोवाच ।


	वह्नेर् विधानं परमं सर्वकर्मप्रसाधनम् ।


	कथयामि नृपश्रेष्ठ नामभेदक्रियादिभिः ॥


	अग्नेः परिग्रहः कार्यः सर्वशास्त्रार्थवेदकैः ।


	वामदक्षिणसिद्धान्तवेदान्तगृह्यपारगैः ॥


	कार्याह् परिग्रहो वह्नेः सर्वसम्पत्तिवेदिभिः ।


	अन्यथा अन्तरायाश् तु भवन्ति धन आयुषे ॥


	नित्यव्याधिर् अधन्यो वा सर्वलोकतिरस्कृतः ।


	अविदित्वा यथावच् च ज्ञात्वा सर्वसुखाय च ॥


	तस्मात् सर्वप्रयत्नेन वह्न्याधेयक्रिया मताः ।


	कुण्डाष्टकं समाख्यातं त्रिभेदं तु मया तव ॥


	बहुवह्निविधानं च एकस्यै वोपचारतः ।


	स्त्रीबालशूद्रमूर्खैस् तु होतव्यं प्रत्यहं यथा ॥


	महानसे तथा वापि न कुम्भे तु कदाचन ।

संस्कृतैर् नामभेदैश् च रक्षयित्वा हुताशनम् ॥

[३१२] महाविधार्थकुशलैर् होतव्यं फलकाङ्क्षिभिः ।

श्रूयते च पुरा वत्स अविदित्वा वसोः सुताः ॥

संस्कृते हवमानास् तु राज्यभ्रंशम् (?) अवाप्नुवन् ।

तथा हविणि होता च अचिरान् मृत्युम् आप्तवान् ॥

तस्माद् अस्थिरवह्नौ तु न होतव्यं न वेदिना ।

वेदनं ते प्रवक्ष्यामि येन सिद्धिः प्रजायते ॥

चतुष्कोणे ह्य् अहङ्कुण्डे कुण्डले मधुसूदनः ।

धनुराकृतिके रुद्रः सर्वदेवनमस्कृतः ॥

चतुरस्रे भवेद् अग्नि र् मण्डले तु हुताशनः ।

अर्धचन्द्रे नलो ह्य् अग्निर् अग्निर् एवं प्रतिष्ठितः ॥

द्विजानां देवता सत्यम् आचार्यो योगिदैवतः ।

उदके वरुणो देवो दर्भेषु च महोरगाः ॥

स्रुवायां च महादेवो स्रुवे देवस् त्रिलोचनः (?) ।

तत्संयोगे परो देवः सर्वदेवनमस्कृतः ॥

प्रणीता पृथिवी ज्ञेया स्वाहाकारे महामखाः ।

पुष्पेषु क्रतवो विद्धि पात्रेषु च महोदधिः ॥

वेदीमध्ये तु गायत्री सोमस् त्व् अभ्युक्षणे स्थितः ।

रन्धने मणिमद्रस् तु शिखां वज्रधरस् तथा ॥

होतारस् तु विजानीयाच् चमसादिषु पर्वतान् ।

उषायां देवता रुद्रस् तालवृन्ते च वायवः ॥

मन्त्रेषु च गणाः सर्वे भस्मभूये ऽपि शङ्करः ।

लोकपालास् तु सर्वेषु कोणेषु सर्वदेवताः ॥

मातरो होमभागेषु पूतनादिस्फुलिङ्गकाः ।

[३१३] आदित्यो ऽधिष्ठितस् तेजे लये देवः परः शिवः ॥

देवानां प्रातर्होमस् तु प्रहरार्धेन भूतिदः ।

मध्याह्ने तु मनुष्याणां मोक्षहेतोस् त्रियामिकः ॥

अपराह्णे पितॄणां च सन्ध्यायां गुह्यभौतिकम् ।

रात्रौ पापविनाशार्थं दिवासिद्धिप्रसाधने ॥

प्रहरार्धे तु होतव्यम् अर्धरात्रे तदायुषम् ।

प्रत्यूषे पुत्रदं वत्स उदये सार्वकामिकम् ॥

क्षणादौ सर्वकार्येषु सर्वप्राप्तिप्रदायकम् ।

क्षणाधिदेवता देया प्रथमा च चराहुतिः ॥

अन्यथा विफलं विप्र भवते हवनं तव ।

वार्क्षमृन्मयताम्रोत्थै रौप्यैर् हैममण्युद्भवैः ॥

दशधा पुण्यवृद्धिस् तु हवनस्नानभोजनैः ।

देवाङ्कैः शूलपद्माङ्कैः शङ्खचक्रशुभाननैः ॥

घृतक्षीररसादीनि गृह्णीयात् तानि बुद्धिमान् ।

देवान् स्थाप्य तु यज्ञीयैर् वसोर् धाराप्रतापितैः ।

द्रव्यैर् होमः प्रकर्तव्यो अन्यथा वा विधानतः ॥

आत्मवेलासु सन्तृप्तिं पुष्टिं यच्छन्ति देवताः ।

वेलामन्त्रगणानां च अधिदैवतजं फलम् ॥

एतत् ते कथितं वत्स सर्वलोकसुखावहम् ।

होता वेन् मन्त्रहीनः स्याद् अशुचिर् भवते सदा ॥

तस्मात् त्व् असंस्कृते वह्नौ न होतव्यम् अवैदिकैः ।

मन्त्रदैविकहोतारः आप्याययन्ति देवताः ॥

[३१४] अवैदिकास् तु होतारो नैव प्रीणन्ति वै सुरान् ।

होमात् सर्वफलावाप्तिः सर्वेषाम् अपि जायते ॥

तस्मान् मन्त्रविधानज्ञः प्रातर् एव शुभप्रदः ।

पूर्वे ऽग्निदेवता विष्णुर् दक्षिणेन हरः स्थितः ॥

पश्चिमेन स्थितो ब्रह्मा एता वै अग्निदेवताः ।

तेजे रुदं विजानीयाज् ज्वालार्था वापि चर्चिका ॥

त्रियायुषे च विप्राणां लक्ष्मीस् तत्राधिदेवता ।

एवं प्रतिष्ठिते होम अग्नयश् च त्रयः स्थिताः ॥

त्रयो देवास् त्रयो लोकास् त्रिरग्निस् त्रिगुणाः स्थिताः ।

गार्हपत्यो दक्षिणाग्निर् आहवनीयश् च ते त्रयः ॥

एकस्यैव समुत्पन्ना बहुभेदा द्विजोत्तम ।

हस्तादिलक्षिते कुण्डे समखाते समीकृते ॥

ओष्ठम् एकाङ्गुलं कार्यं नाभी द्वादश् वायता ।

ओष्ठविस्तारसामान्या गजोष्ठसदृशा शुभा ॥

चतुरङ्गुलमानेन प्रथमा मेखला भवेत् ।

एको ऽर्धोना द्वितृतीया एवं कुण्डं शुभावहम् ॥

चतुरस्रं च पूर्वादि अश्वत्थदलसन्निभम् ।

अर्धं तु कुक्कुटाकारं वृत्तपञ्चकम् अष्ट वा ॥

पद्माकारं प्रकर्तव्यं कुण्डं चेशानगोचरे ।

शाखाश्वत्थाम्रश्रीपर्णी सुचिवैकङ्कती तथा ॥

खादिरासनबिल्वाद्यैः स्रुवो हस्तादिदैर्घतः ।

अङ्गुलपरिणाहाढ्यं दण्डं कुम्भकभूषितम् ॥

पुष्करं पुष्करौ द्वौ तु मध्यरेखाच्छ्रिताङ्कितः ।

[३१५] स्रुक्रचसार्धकरा (?) कार्या दण्डं वृत्तं सुशोभनम् ।

षडङ्गुलपरिणाहं भूमियन्त्रविनिर्गतम् ॥

द्व्यङ्गुलं मूलदेशे तु कुम्भं पुष्करमूलगम् ।

गण्डिकां तद्वज् जानीयाद् विभागेषु च पुष्कराम् ॥

वेदी सप्ताङ्गुला कार्या पञ्चवृत्तां प्रकल्पयेत् ।

त्रीणि खातं समं कार्यम् अथ कुर्यात् षडङ्गुलम् ॥

गोकर्णाकृतिशोभाढ्यं कन्यसाङ्गुलिरन्ध्रकम् ।

घृतनिःक्रमणं कार्यं यवत्रयसुरेखितम् ॥

एवं स्रुवं च कृत्वा वै ताभ्यां होमः सुखावहः ।

शमीगर्भारणी कार्या दैर्घ्याद् धस्तप्रमाणिता ॥

विस्तस्तिपरिणाहा सा मध्ये वै षोडशाङ्गुलम् ।

गोकर्णाकृतिशोभाड्याम् ।

वृत्तं करद्वयोपेतं दशाङ्गुलसुवृत्तिगम् ॥

आपीडसुसमं कार्यं मध्यमायसबन्धनम् ।

अटिकाङ्कुरहोमार्थं बालरज्ज्वाप्रमाणकम् ॥

सुदृष्टां वह्निमन्त्रेण पूजयित्वा तु पातयेत् ।

अभावे सूर्यकान्ते वा तदभावे करीषजा ॥

सामान्यायतनागारे आनयेत् ताम्रभाजने ।

त्रपुजे मृन्मये पात्रे कुण्डे पूजान्विते न्यसेत् ॥

अग्निचक्रविधानेन सर्वकर्माणि कारयेत् ।

हेमराजतताम्राणि काष्ठशैलप्रदो ऽपि वा ॥

[३१६] रत्नानि चैव पात्राणि शुभदेवाङ्कितानि च ।

अर्घनैवेद्यपूजार्थं बलिदानं च कल्पयेत् ।

पश्चाद् एवं विधानेन होमं कुर्याद् यथाविधि ॥

इति श्रीमहार्जाधिराजश्रीमहादेवस्य समस्तकरणाधीश्वरश्रीहेमाद्रिविरचिते

चतुर्वर्गचिन्तामणौ व्रतकाण्डे परिभाषाप्रकरणम् ।

[३१८] उपोष्य विधिवद् देवांस् त्रिदिवं प्रतिपेदिरे ।

ऋषयश् च परां सिद्धिम् उपवासैर् अवाप्नुयुः ॥

क्षुद्धर्मसञ्ज्ञान् प्राणांश् च प्रदत्तैर् धैर्यम् एव च ।

यो दुर्जयांस् तान् जयति स्वर्गस् तेन जितो भवेत् ॥

तथा ।

नाग्निचिन् नरकं याति सत्पुत्री न च सद्वती ।

नास्ति मेधादियाजी च गोसहस्रप्रदो न च ॥

ये कुर्वन्त्य् उपवासांश् च विधानेन शुभान्विताः ।

न यान्ति ते मुनिश्रेष्ठ नरकान् भीमदारुणान् ॥

विष्नुधर्मोत्तरे ।

व्रतोपवासैर् (?) यैर् विष्णुर् नान्यजन्मनि तोषितः ।

ते नरा मुनिशार्दूल ग्रहरोगादिबाधिनः ॥

स्कन्दपुराणे ।

न पूजितो भूतपतिः पुरा यैर्

व्रतन्न चीर्णं न च सत्यम् उक्तम् ।

दारिद्र्यशीकामयदुःखदग्धाः

प्रायो ऽनुशोचन्ति त एव मर्त्याः ॥

गोभूगृहक्षेत्रकलत्रभृत्य-

पुत्रार्थसम्पन्नमताभितप्ताः ।

लोभग्रहग्रस्तधियो ऽत्र मर्त्या

भजन्ति देवं न च सद्व्रतानि ॥

त्यक्त्वा च तस्मायोपभोगान्

विषोपमान् मोहकरान् अनित्यान् ।

[३१९] प्रध्वस्तकामो विमदश् च धीरः

सेवेत् स्वधर्मं च शिवं व्रतं च ॥

स्ववर्णधर्माभिरतं च भीतः

शिवव्रती त्र्यम्बकपूजकश् च ।

प्राप्नोत्य् अवश्यं परमं पदं तं

निरामयंयत् प्रवदन्ति सन्तः ॥

राज्यं श्रियं जगति साधुजनोपभोग्यम्

आप्नोति चापि शिवलोकम् अथामृतत्वम् ।

नावाप्यम् अस्ति भुवनेषु दृढव्रतानां

तस्मात् सदा व्रतपरेण नरेण भाव्यम् ॥

ये सर्वदा व्रतपराश् च शिवं स्मरन्ति

तेषां न दृष्टिपथम् अप्य् उपयान्ति दूताः ।

याम्या महाभयकृतो ऽपि च पाशहस्ताः

दंष्ट्राकरालवदना विकटोक्ग्रवेषा ॥ इति ।

तथा स्कन्दपुराणे शिवं प्रति पार्वतीवाक्यम् ।

यदि ते ऽहम् अनुग्राह्या यदि ते मयि सौहृदम् ।

यत् पृच्छामि महादेव तन् मे ब्रूहि यथातथम् ॥

यांश् च वै नियमान् कुर्युर् ब्राह्मणाः क्षत्रिया विशः ।

ये चान्ये नियमाः केचित् तेषां वै ब्रूहि यत् फलम् ॥

नियमो व्रतम् ।

नियमानां हि दृश्यन्ते समृद्धाः फलसिद्धयः ।

[३२०] यथा विनिमयानां च घोरा व्यापत्तयो ऽनघ ॥

ईश्वर उवाच ।

एष एषैव नियमो नियमस्थैः सुलोचने ।

बहुधा क्रियते पुम्भिः कायक्लेशकरः परः ॥

नियमस् तत्र कर्तव्यो यद् यद् वै यस्य रोचते ।

दुष्करं देवि कुर्वाणः सहस्रफलम् अश्नुते ॥

अनित्ये सुखवित्ते हि मानुष्यं बुद्बुधोपमम् ।

तेन वैचित्यम् आपन्नो भिनत्ति नियमं बुधः ॥

दुष्करो नियमः कर्तुं मनुष्येण निशेषतः ।

रागलोभाभिभूता नरा धर्माभिशङ्किनः ॥

वर्तमानसुखासक्ता अधर्मरुचयो ऽबुधाः ।

उद्यमाद्यश् च नियमं करोत्य् अतिमना नरः ॥

स तु वर्षसहस्राणि बहुलं फलम् अश्नुते ।

असिधाराव्रतं यद्वत् तद्वन् नियमशीलनम् ॥

तेन धारणशीलेन नियमस्यानुपालनम् ।

देवत्वं देवता प्राप्ता नियमान् नियमान्विते ॥

तारारूपा ज्वलन्त्य् एते नियमात् तु तपोधने ।

नियमेन वरारोहे वेलान् न क्रमते ऽर्णवः ॥

नियमाज् ज्वलते चाग्निस् तपते नियमाद् रविः ।

नियमाद् वर्धते वायुर् नियमाद् ध्रियते जगत् ॥

निष्कल्मषं तपः कृत्वा नियमं च यथातथम् ।

मामियन् निममात् प्राप्ता त्वं शुभे नात्र संशयः ॥

[३२१] वर्षं च नियमं यस् तु कुरुते मत्परो नरः ।

स लोके देवतानां हि रमते देववत् सुखम् ॥

वराहपुराणे ।

अहिंसा सत्यम् अस्तेयं ब्रह्मचर्यम् अकल्मषम् ।

एतानि मानसान्य् आहुर् व्रतानि व्रतधारिणि ॥

एकभक्तं तथा नक्तम् उपवासादिकं च यत् ।

तत् सर्वं कायिकं पुंसां व्रतं भवति नान्यथा ॥

उपवासो ऽत्राहोरात्राभोजनम्, आदिशब्दाद् अयाचितादि । तथा ।

किञ्चिद् व्रतं वा क्रियते पूज्यते यत् त्रिलोचन ।

विप्रेभ्यो दीयते सर्वम् एतज् जन्मततोः फलम् ॥

गरुडपुराणे ।

तपोगतिर् हि भूतानां तप एव परायणम् ।

तपसा विजिता लोकास् तपसा निर्वृतिः सताम् ॥

तपसा पूतपाप्मानो निर्वाणं परमं गताः ।

तपसा परमायुश् च शान्तिं वापि तथाप्नुयात् ॥

तपसा विन्दते लोकान् अखिलान् अपि पूरुषः ।

तपसा परम् इच्छन्ति निर्वाणम् अपि शाश्वतम् ॥

तपसा चैहिकीं सिद्धिं विपुलाम् अपि विन्दति ।

[३२२] लभन्ते च सुतादींस् तु तपसा मर्त्यजातयः ॥

अक्षयं च धनं चाहुस् ततस्यन्ते [तपस्यन्ते?] नरा भुवि ।

व्रतोपवासनियमैः शरीरोत्तापनं तपः ॥

उत्थितस् तु दिवा तिष्ठेद् उपविष्टस् तथा निशि ।

एतद् वीरासनं प्रोक्तं महापातकनाशनम् ॥

एकभक्तेन नक्तेन तथैवायाचितेन च ।

उपवासेन चैकेन पादकृच्छ्रः प्रकीर्तितः ॥

कूर्मपुराणे ।

व्रतोपवासनियमैर् होमब्राह्मणतर्पणैः ।

आराध्य महायोगैर् योगिनं हृदि संस्थितम् ॥

तथा ।

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चैव द्विजोत्तमाः ।

अर्चयन्ति महादेवं यज्ञदानसमाधिभिः ॥

व्रतोपवासनियमैर् होमैः स्वाध्यायतर्पणैः ।

तेषां वै रुद्रसायुज्यं सामीप्यं चातिदुर्लभम् ॥

सलोकता च सारूप्यं जायते तत्प्रसादतः ॥

गरुडपुराणे ।

धुन्धुमारस् तु राजर्षिर् लेभे पुत्रशतं पुरा ।

दानेन नियमेनैव तपसा च व्रतेन च ॥

सगरो नाम राजर्षिर् दिक्षु सर्वासु विश्रुतः ।

पुत्राणां च शतं प्राप्तं तेन राज्ञा महात्मना ॥

तथा दशरथो राजा व्रतेषु निरतः सदा ।

[३२३] यज्ञदानतपोयोगैः सन्तुष्टः पुरुषोत्तमः ।

स्वयं पुत्रत्वम् आपेदे तस्य राज्ञो महात्मनः ॥

जनको नाम राजर्षिस् तपोव्रतनिधिः स्वयम् ।

ऐश्वर्यम् अतुलं प्राप्य योगिनां गतिम् आप्न्यात् ॥

एवम् एव महाराज राजानो ब्राह्मणास् तथा ।

ऐश्वर्यलक्षणं प्रापुर् गतिं वै व्रतवैभवात् ॥

अतः कुरुष्व सततं तपःसंयमात्मवान् ।

व्रतोपवासनिरतस् तीर्थानि नृपसत्तम ॥

तथा ।

विनिग्रहं चेन्द्रियाणां कुर्वीत नियमात्मवान् ।

उपवासजपध्यानतीर्थस्नानादिकैर् अपि ॥

व्रतैर् यज्ञेन दानेन तपसा तीर्थसेवया ।

अनेकजन्मसंसिद्धिम् एनः क्षपयति द्विजः ॥

व्रतादीनां चातुर्वर्णसाधारणत्वाभिधानाद् द्विजग्रहणम् अत्र वर्णमात्रोपलक्षणार्थम् । न चैवं सति शूद्रस्य यज्ञे ऽनधिकाराद् यज्ञशब्दविरोध इति वाच्यम्, यज्ञैर् अनेकार्थत्वेन देवतापूजाद्यर्थसम्भवात् ।

कायिकं मानसं चैव वाचिकं च त्रिधा मतम् ।

यज्ञो दानं तपश् चैव वदतस् तच् छृणुष्व मे ॥

अहिंसा व्रतचर्या च तपः कायिकम् उच्यते ।

वाचिकं सत्यवचनं भूतद्रोहविवर्जितम् ।

मानसं मनसः शान्तिः सर्ववैराग्यलक्षणम् ॥

आदित्यपुराणे ।

[३२४] व्रतोपवासान् खलु यो विधत्ते

दारिद्र्यपाशं स भिनत्ति चाशु ।

व्रतोपवासेषु रतस्य पुंसश्

चैवापदः शान्ति वदन्ति तज्ज्ञाः ॥

इति श्रीहेमाद्रिविरचिते

चतुर्वर्गचिन्तामणौ व्रतकाण्डे व्रतप्रशंसाप्रकरणम् ।

[३२५]

अथ तृतीयो ऽध्यायः

अथ व्रतसामान्यधर्मस् तदधिकारिणश् च निरूप्यते । स्कन्दपुराणे ।

निजवर्णाश्रमाचारनिरतः शुद्धमानसः ।

व्रतेष्व् अधिकृतो राजन्न् अन्यथा विफलः श्रमः ॥

अलुब्धाः (?) सत्यवादी च सर्वभूतहिते रतः ।

व्रतेष्व् अधिकृतो राजन्न् अन्यथा विफलः श्रमः ॥

श्रद्धावान् न्यायभीरुश् च मददम्भविवर्जितः ।

वर्तेष्व् अधिकृतो राजन्न् अन्यथा विफलः श्रमः ॥

समः सर्वेषु भूतेषु शिवभक्तो जितेन्द्रियः ।

व्रतेष्व् अधिकृतो राजन्न् अन्यथा विफलः श्रमः ॥

पूर्वं निश्चित्य शास्त्रार्थं यथावत् कर्मकारकः ।

अदेवनिदको धीमान् अधिकारी व्रतादिषु ॥

महाभारते ।

श्राद्धकर्म तपश् चैव सत्यम् अक्रोध एव च ।

स्वेषु दारेषु सन्तोषः शौचं नित्यानसूयता ।

आत्मज्ञानं तितिक्षा च धर्मः साधारणो नृप ॥

देवलो ऽपि ।

[३२६] व्रतोपवासनियमैः शरीरोत्तापनैस् तथा ।

वर्णाः सर्वे ऽपि मुच्यन्ते पातकेभ्यो न संशयः ॥ इति ।

तद् एवं वचनसन्दर्भणोक्तनियमवतां चतुर्णाम् अपि वर्णानां स्त्रीपुंसाधारण्येन व्रतेष्व् अधिकार इति प्रतिपाद्यते । तथा च महाभारते ।

माम् उपाश्रित्य कौन्तेय ये ऽपि स्युः पापयोनयः ।

स्त्रियो वैश्याश् च शूद्राश् च ते ऽपि यान्ति परां गतिम् ॥ इति ।

तत्रायं परो विशेषो यत् स्त्रीणां भर्तुर् आज्ञां विना न स्वातन्त्र्येण व्रतादिष्व् अधिकार इति । तथा च मार्कण्डेयपुराणे ।

नास्ति स्त्रीणां पृथग् यज्ञो न व्रतं नाप्य् उपोषणम् ।

भर्तृशुश्रूषयैवैता लोकान् इष्टान् व्रजन्ति हि ॥

यद् देवेभ्यो यत्र पित्रादिकेभ्यः

कुर्याद् भर्ताभ्यर्चनं सत्क्रियां च ।

तस्यार्धं वै सा फलं नान्यवित्ता

नारी भुङ्क्ते भर्तृशुश्रूषयैव ॥

धर्मार्थकामसंसिद्ध्यै भवेद् भर्तुः सहायिनी ॥

आदित्यपुराणे ।

नास्ति स्त्रीणां पृथग् यज्ञो न व्रतं नाप्य् उपोषणम् ।

पतिं शुश्रूषते या तु तेन स्वर्गे महीयते ॥

पत्युर् अभ्यधिकं नारी नोपवासव्रतं चरेत् ।

[३२७] अनायुष्यं द्विजश्रेष्ठ पत्युस् तस्यास् तद् उच्यते ॥

देवताराधनं कुर्यात् कामं वा ब्राह्मणोत्तमः ।

नारी पतिव्रता नाम प्राप्यानुज्ञान्तु भर्तृतः ॥

नारी खल्व् अननुज्ञाता पित्रा भर्त्रा सुतेन वा ।

विफलं तद् भवेत् तस्या यत् करोत्य् और्ध्वदेहिकम् ॥

पित्रेति कन्यात्वे । भर्त्रेति सौभाग्यदशायाम् । सुतेनेति वैधव्यदशायाम् । और्ध्वदेहिकं व्रतानि ।

अथ वा सर्वम् उत्सृज्य पतिपूजनतत्परा ।

केशवाराधनं कुर्यात् साध्वी स्त्री पुरुषर्षभा ॥

विनैव सर्गम् आप्नोति यत् किञ्चिन् मनसेच्छति ।

अफलं सर्वम् एव स्याद् भर्त्रनुज्ञां (?) विना कृतम् ।

केशवाराधनं यच् च तथापि सफलं स्त्रियः ॥

तथा हरिवंशे अरुन्धतीं प्रति पार्वतीवचनम् ।

सतीत्वधर्मचरणं यस्या नित्यम् अखण्डितम् ।

पुण्यकानां विधिस् तस्याः पुराणे परिकीर्तितम् ॥

दानोपवासपुण्यानि सुकृतान्य् अप्य् अरुन्धति ।

निःफलान्य् असतीनां हि पुण्यकानि तथा शुभे ॥

पुण्यकानि व्रतानि ।

[३२८] या निर्चयन्ति भर्तारं योनिदुष्टाश् च याः स्त्रियः ।

योनिदोषात् पुण्यफलं नाश्नन्ति निरयङ्गमाः ॥

साध्व्यो जगद् धारयन्ति सुशीलाः पतिदेवताः ।

अनन्यधर्मनित्याश् च सतां पन्थानम् आश्रिताः ॥

अवाग्दुष्टाः शौचयुक्ताः घृतिमत्यः शुचिव्रताः ।

सततं साधुवादिन्यो धारयन्ति जगत् खलु ॥

व्याधितः पतितो वापि निर्धनो वा कथञ्चन ।

न त्यक्तव्यः स्त्रिया भर्ता [भर्त्रा?] धर्म एष सनातनः ॥

अकार्यकारिणं वापि निर्गुणं स्त्री पतिं तथा ।

तारयत्य् एव साध्वी सा तथात्मानं शुभानने ॥

योनिदुष्टस्त्रियो नास्ति प्रायश्चित्तं हतैव सा ।

वाग्दुष्टे विहितं सद्भिः प्रायश्चित्तं पुरातनैः ॥

भर्तुः छन्देन कर्तव्यं व्रतकं सर्वदा स्त्रियाः ।

उपवासो ऽपि वा सत्ये काङ्क्षन्त्यास् तु शुभां गतिम् ॥

कल्पान्तरसहस्रेषु न स्त्री सा लभते गतिम् ।

तिर्यग्योनिसहस्रेषु पच्यते योनिविभ्रमात् ॥

यदि स्यान् नाम मानुष्यं स्त्री लभेद् असती सती ।

चण्डालयोनौ दुर्मेधा जायते कुक्कुरानना ॥

भर्ता देवः सदा स्त्रीणां स्त्रीभिर् दृष्टः सनातने ।

यस्या हि तुष्यते भर्ता सा सती धर्मचारिणी ॥

कौतूहलहतानां तु स्त्रीणां लोको न शोभनः ।

भर्तर्य् एव मनो यासां सद्भावेन व्यवस्थितम् ॥

कर्मणा मनसा वाचा पतिं नातिचरन्ति याः ।

[३२९] तासां पुण्यफलं सौम्ये पुण्यकैः समुदाहृतम् ॥

पुण्यकानां विधिं कृत्स्नं सर्वलोकं प्रति शोभने ।

निबोध स हि सर्वाद् धि दृष्टो ऽहं तपसा मया ॥

स्नात्वा स्त्री प्रातर् उत्थाय पतिं विज्ञापयेत् सती ।

उपवासार्थम् अथ वा व्रतकार्यं घृतव्रते ।

स्पृष्ट्वा कराभ्यां चरणौ सततं सत्तमस्य च ॥

गृहीत्वोदुम्बरं पात्रं सकुशं साक्षतं तथा ।

गोशृङ्गं दक्षिणं सिच्यं प्रतिगृह्णीत तज् जलम् ॥

ततो भर्तुः सती दद्यात् स्नातस्य प्रयतस्य च ।

आत्मनो ऽथ निषेक्तव्यं ततः शिरसि तज् जलम् ॥

त्रैलोक्ये सर्वतीर्थेषु स्नानम् एतत् उदाहृतम् ।

उपवासेषु कर्तव्यम् एतद् धि वतकेषु च ॥

स्नानम् एतद् धि सामान्यं स्त्रीणां पुंसां च भामिनि ।

अरुन्धति मया दृष्टं तपसा हरतोषकम् ॥

अशून्यं विद्धि शयनम् आसनं च तथाविधम् ।

स्वयं प्रक्षालणं चापि पादयोर् अनुशब्दितम् ॥

अनुशब्दितं व्रतोपयोगितया कथितम् ।

अश्रुप्रपातो रोषश् च कलहस्य कृतिः सति ।

उपवासाद् व्राताद् वापि सद्यो म्रिंशयति स्त्रियम् ॥

शुक्लम् एव सदा वासः प्रशस्तं चन्द्रसम्भवे ।

अन्तर्वासो ऽपरं चैव उपवासव्रते तथा ॥

पादुकार्थस्तणैः (?) कार्यः सर्वदा व्रतके सति ।

[३३०] उपवासे ऽपि च विधिर् एष एव प्रकीर्तितः ॥

अञ्जनं रोचनं चापि गन्धान् सुमनसस् तथा ।

व्रतके चोपवासे च नित्यम् एव विवर्जयेत् ॥

रोचनं कुङ्कुमादिना, मुखोज्वलीकरणम् ।

दन्तकाष्ठं शिरःस्नानम् उद्वर्तनम् अथापि वा ।

विवर्जितां मृदं सर्वां शौचार्थं तु विधीयते ॥

तिलामलफलैर् नित्यं श्रीफलैश् च समाचरेत् ।

प्रक्षालणं च शिरसः सदा मृन्मिश्रितैर् जलैः ॥

शिरसो ऽभ्यञ्जनं सौम्ये नैवम् एतत् प्रशस्यते ।

न पादयोर् न गात्रस्य स्नेहेनेति स्थितिः स्मृता ॥

गोयानम् उष्ट्रयानं च कथञ्चिद् अपि नाचरेत् ।

खरयानं च सततं व्रते चाप्य् उपवासके ॥

नदीजलं प्रस्रवजं शस्तं वै सोमनन्दिनि ।

शुभे तडागे वाप्य् आदौ विस्तीर्णे जलजाप्लुते ॥

गत्वा स्नानं प्रशस्तं तु सदैव खलु सर्वथा ।

अलाभे त्व् अवरुद्धा स्त्री घटस्नानं समाचरेत् ॥

नवैश् च कुम्भैः स्नातव्यं विधिर् एष सनातनः ।

स्नातं च कार्यं शिरसा तपःफलम् अवाप्नुयात् ॥

भविष्यत्पुराणे ।

क्षमा सत्यं दया दानं शौचम् इन्द्रियनिग्रहः ।

देवजाग्निवहनं सन्तोषः स्तेयवर्जनम् ।

सर्वव्रतेष्व् अयं धर्मः सामान्यो दशमः स्थितः ॥

[३३१] अत्र क्षमादीनां स्वतन्त्रतया चतुर्वर्गसाधनत्वेन विहितानां व्रताङ्गतयाभिधानं खादिरं वीर्यकामस्येत्यादिवत् संयोगपृथक्त्वन्यायाद् उपपन्नम् ।

मत्स्यपुराणे ।

तस्मात् कृतोपवासेन स्नानम् अभ्यङ्गपूर्वकम् ।

वर्जनीयं प्रयत्नेन रूपघ्नं तत् परं नृप ॥

यत् तूक्तं गरुडपुराणे ।

गन्धालङ्कारवस्त्राणि पुष्पमालानुलेपनम् ।

उपवासे न दुष्यन्ति दन्तधावनम् अञ्जनम् ॥ इति ।

यच् च व्यासोक्तम् ।

दन्तधावनपुष्पाणि व्रते ऽपि स्यान् न दुष्यति ॥

तद् एतत् सभर्तृकोपवासविषयम् । भविष्यत्पुराणे ।

अञ्जनं च सताम्बूलं सिन्दूरं रक्तवाससी ।

बिभृयात् सोपवासापि अवैधव्यकरं परम् ।

विधवा यतिमार्गेण कुमारी वा यदृच्छया ॥

पद्मपुराणे ।

गर्भिणी सूतकादिश् च कुमारी वाथ रोगिणी ।

[३३२] यदाशुद्धा तदान्येन कारयेत् प्रयता स्वयम् ॥

गर्भिण्यादिर् उपवासे कर्तव्ये नक्तं कुर्यात् । सूतकादिभिर् अशुद्धा अन्येन व्रतं कारयेत् । प्रयता शुद्धा स्वयं कुर्यात्, पुंसो (?) प्य् एष विधिः । लिङ्गस्याविवक्षितत्वात् तद् एवं स्त्रीणां कन्यादशायां पित्रादेर् आज्ञया, विन्नानां भर्तुर् आज्ञया, विधवानां पुत्राद्याज्ञयैव व्रताधिकारो नान्यथेति सिद्धम् ।

अग्निपुराणे ।

व्रीहिषष्टिकमुद्गाश् च कलायाः सलिलं पयः ।

श्यामाकाश् चैव नीवारा गोधूमाद्या व्रते हिताः ॥

कूष्माण्डालाबुवार्ताकीपालङ्क्यज्योत्स्निकास् त्यजेत् ।

चरुर् भक्ष्यं शक्तुकणाः शाकं दधि घृतं मधु ॥

श्यामाकाः शालिनीवारा यावकमूलतन्दलम् (?) ।

हविष्यव्रतनक्तादाव् अग्निकार्यादिकं हितम् ॥

मधु मांसं विहायान्यद् व्रते च हितम् ईरितम् ॥

ज्योत्स्निका कोशतकी । छन्दोगपरिशिष्टे कात्यायनः ।

हविष्येषु यवा मुख्यास् तदन्य् व्रीहयः स्मृताः ।

माषकोद्रवगौरादीन् सर्वाभावे ऽपि वर्जयेत् ॥

भविष्योत्तरे ।

[३३३] हैमन्तिकं सितास्विन्नं धान्यं मुद्गा यवास् तिलाः ।

कलायकङ्गुनीवारा वास्तूकं हिलमोचिका ॥

षष्टिका कालशाकं च मूलकं केमुकेतरत् ।

कन्दः सैन्धवसामुद्रे लवणे मधुसर्पिषी ॥

पयो ऽनुद्धृतसारं च पनसाम्रहरीतकी ।

पिप्पली जीरकं चैव नागरङ्गं च तिन्तिटी ॥

कदली लवलो धात्री फलान्यगुडम् ऐक्षवम् ।

अतैलपक्वं मुनयो हविष्याणि प्रचक्षते ॥

सर्पिः पयश् चात्र गव्यम् । अतैलपक्वम् इत्य् एतत् कथितहविष्याणम् एव विशेषणम् इदम् ।

पद्मपुराणे ।

हविष्यभोजनं स्नानं सत्यम् आहारलाघवम् ।

अग्निकार्यम् अधःशय्यां नक्तभोजी षड् आचरेत् ॥

अग्निकार्यम् अत्र महाव्याहृतिमन्त्रैर् आज्यहोमः । स्कन्दपुराणे ।

अष्टौ तान्य् अव्रतघानि आपो मूलं फलं पयः ।

हविर् ब्राह्मणकाम्या च गुरोर् वचनम् औषधम् ॥

पयःपानादीनाम् अव्रतघ्नत्वं स्त्रीबालात्यन्तपीडितव्रविषयम् (?) ।

[३३४] सर्वभूतभयं चैव प्रमादो गुरुशासनम् ।

अव्रतघानि कथ्यन्ते सकृद् एतानि शास्त्रतः ॥

सर्वभूतभयं सर्वभ्यो भूतेभ्यो सकाशाद् व्रतकर्तुर् भयम् ।

मोहात् प्रमादाल् लोभाद् वा व्रतभङ्गो भवेद् यदि ।

तदा त्रिरात्रं नाश्नीयात् कुर्याद् वा केशमुण्डनम् ।

प्रायश्चित्तम् इदं कृत्वा पुनर् एव व्रती भवेत् ॥

इति श्रीमहार्जाधिराजश्रीमहादेवस्य समस्तकरणाधीश्वरश्रीहेमाद्रिविरचिते

**चतुर्वर्गचिन्तामणौ व्रतकाण्डे **

व्रताधिकारितद्धर्मनिरूपणं नाम प्रकरणम् ।

[३३५]

अथ चतुर्थो ऽध्यायः

गुणानाम् आधारो मलयजरसालेपसुहृदां

प्रसिद्धो हेमादिः स्पुरदमलशास्त्रार्थनिलयः ।

स लोकानां कर्तुं सुकृतनिपुणानाम् उपकृतिं

व्रतव्रातं कृत्स्नं कथयति तिथीनां क्रमवशात् ॥

वदति सम्प्रति सम्प्रतिपत्तये

सुकृतिनां कृतिनाम् अपि सम्मतम् ।

व्रतसमुच्चयसमुच्चयशस्करं

प्रतिपदाश्रितपदाश्रितकामधुक् ॥

अथ व्रतान्य् अभिधीयन्ते । तत्र तिथिव्रतप्रकरणे प्रतिपद्व्रतानि तावद् उच्यन्ते ।

शतानीक उवाच ।

द्विजैतास् तिथयः प्रोक्ताः सङ्क्षेपान् न तु विस्तरात् ।

विस्तरेणैव मे ब्रूहि भूयो द्विजवरोत्तम ॥

रहस्यं यत् तिथीनां च देवतानां च चेष्टितम् ।

यानीष्टानि च देवानां भोज्यानि नियमास् तथा ॥

तानि मे वद धर्मज्ञ येन पूतो भवाम्य् अहम् ।

निर्धनो ऽपि यथा विप्र लभेद् इष्टफलानि च ॥

[३३६] सुमन्तुर् उवाच ।

रहस्यं यत् तिथीनां च भोजनं फलम् एव च ।

यावांश् च यस्य नियमो विशेषात् स्त्रीजनस्य च ॥

एवं तु सर्वम् आख्यानं रहस्यं तन् निबोध मे ।

पद्मासनोक्तं पूर्वं तु कथञ्चित् स्वप्रियस्य तु ॥

तत् ते ऽहं सम्प्रवक्ष्यामि यस्य देवस्य या तिथिः ।

देवतानां रहस्यानि व्रतानि नियमास् तथा ॥

तान् शृणुष्व महाभाग गदतो मम मानद ।

ब्रह्मा नारायणश् चैव सृष्टिं कर्तुं समुद्यतौ ॥

ताभ्यां तदानीम् अखिलद्यावाभूमी च निर्ममे ।

दिशश् च प्रदिशश् चैव लोकपालाष्टकावृताः ॥

तिथिं पूर्वाम् इमां राजन् चकाराधिपतिः स्वयम् ।

तिथीनां प्रवरा यस्माद् ब्रह्मणा समुदाहृता ॥

प्रतिपादिता पदे पूर्वे प्रतिपत् तेन कथ्यते ।

अस्यान्ते कथयिष्यामि चोपवासविधिं परम् ॥

कार्त्तिक्याम् अथ सप्तम्यां वैशाख्यां वा युगादिषु ।

नियमोपवासं प्रथमं ग्राहयेत विधानवित् ॥

कार्त्तिके वैशाखे वा मासि प्रतिपत्तिथिव्रतस्यारम्भः । सप्तमीव्रते माघे । युगादितिथिव्रतस्य माघवैशाखभाद्रपदकार्त्तिकेष्व् अन्यतमे आरम्भः ।

या तिथिर् नियमं कर्तुं शक्या समनुगच्छति ।

तस्यां तिथौ विधानं यत् तन् निबोध जनाधिप ॥

[३३७] नियमोपवासं प्रथमं ग्राहयेद् विधिवन् नरः ।

यदा वै प्रतिपद्य् आदौ गृह्णीयान् नियमं नृप ॥

चतुर्दश्यां कृताहारः सङ्कल्प्य परिकल्पयेत् ।

अमावास्यां न भुञ्जीत त्रिकालं स्नानम् आचरेत् ॥

पवित्राणि जपेन् नित्यं गायत्रीं शिरसा सह ।

अथ वेदपवित्राणि वक्ष्याम्य् अहम् अतः परम् ॥

येषां जपैश् च होमैश् च पूयन्ते तमसावृताः ।

अघमर्षणं देवकृतः शुद्धवत्यस् तरत्समाः ।

कूष्माण्ड्यः पावमान्यश् च दुर्गा सावित्रिर् एव च ॥

भारुण्डानि च सामानि गायत्रं रैवतं तथा ।

शतपर्वाथर्वशिरस् त्रिसुपर्णं महाव्रतम् ॥

अभिषङ्गापदस्तोभः सामानि व्याहृतिस् तथा ।

अब्लिङ्गा बार्हस्पत्यं च वाक्सूक्तं मध्वृतस् तथा ॥

तथा ।

पुरुषसूक्तम् अघनाशं च तथा देवव्रतानि च ।

गोसूक्तम् अश्वसूक्तं च ऐन्द्रशुद्धे च सामनी ॥

त्रीण्य् आज्यदोहानि रथन्तरं च

अग्निव्रतं वामदेव्यं बृहच् च ॥

एतानि जप्तानि पुनन्ति जन्तून्

जातिस्मरत्वं लभते य इच्छन् ॥

अर्चयित्वा विधानेन गन्धमाल्यैर् द्विजोत्तमान् ।

शक्त्या क्षीरं प्रदद्यात् तु ब्रह्मा मे प्रीयतां विभुः ॥

ततो भुञ्जीत गोक्षीरम् अनेन विधिना नृप ।

एष एव विधिः प्रोक्तः सर्वासु तिथिषु नृप ॥

[३३८] सर्वासु तिथिषु मार्गशीर्षादिप्रतिपत्सु ।

संवत्सरगते काले व्रतम् अस्य समाप्यते ।

व्रतान्ते यत् फलं यस्य तन् निबोध नराधिप ॥

विमुक्तपापशुद्धस्य दिव्यदेहस्य देहिनः ।

ब्रह्मा ददाति सन्तुष्टो विमानम् अमितौजसम् ॥

अव्याहतगतिं दिव्यम् अप्सरःकिन्नरैर् वृतम् ।

रमित्वा सुचिरं तत्र देवतैः सह देववत् ॥

इह चागत्य विप्रत्वं दशजन्मान्य् असौ लभेत् ।

वेदवेदाङ्गविद् यज्ञी विद्वान् दीर्घायुर् एव च ॥

भोगी धनपतिर् दाता जायते ऽसौ कृते युगे ।

क्षत्रियो वैश्यः शूद्रो वा ब्राह्मणत्वम् अवाप्नुयात् ॥

हैहयैस् तालजङ्घैश् च तुरुष्कैर् यवनैः शकैः ।

उपोषिता इहात्रैव ब्राह्मणत्वं लभन्ति ते ॥

इति भविष्यत्पुराणे क्षीरप्रतिपद्व्रतम् ।

सनत्कुमार उवाच ।

अथ त्वं प्रतिपत्कृत्यं शृणु सम्पत्करं व्रतम् ।

यत् कुर्वाणः श्रियं विन्देद् दुर्लभं मानुषैर् इह ॥

शालितन्दुलसंसिद्धे मण्डले चतुरस्रके ।

श्रीशं श्रियम् अथावाह्य पूजयेत् सपुरःसरम् ॥

[३३९] अप्रच्छन्नदसैः [-दलैः] पद्मैर् अयुतैस् तं प्रपूजयेत् ॥

अप्रच्छन्नदलैः विकसितैः ।

सहस्रैर् वा यथा योगं पयसा पायसेन च ।

ततश् च विधिनाभ्यर्च्य पार्श्वे देवीं सरस्वतीम् ॥

अथातः पूजयेद् इन्दुं गुरुं पश्चाद् अनन्यधीः ।

परिवारनियोगेन तांश् च सत्कारयेद् अथ ॥

प्रार्थनमन्त्रः ।

मम विद्यां प्रदिश तु देवो वागीश्वरो हरिः ।

विद्याधिदैवतं देवी विद्यां दिशतु मेन्दिरा ॥

सरस्वती प्रदिश तु वाग्वृद्धिम् अतिशालिनीम् ।

शीतांशुर् अपि मे पुष्टिं सर्वभोगप्रपूरिणीम् ॥

पूजा प्रणवादिनमोऽन्तैर् नाममन्त्रैर् एव कर्तव्या ।

इत्य् एवं कारयेत् साध्यं प्रसन्नः पूजितो गुरुः ।

साध्यं शिष्यम् उपदेश्यम् ।

विधिना चोपवासं तु कारयेन् नियमान्वितम् ॥

समभ्यर्च्य द्वितीयायां देवदेवं श्रियः पतिम् ।

भुञ्जीत पयसान्नेन शुचिर् आचम्य सन्निधौ ॥

साध्य इति शेषः ।

आचार्याय वरं दत्वा कुर्यात् सुप्रीणनं पुनः ।

[३४०] वरशब्देन हिरण्यम् अभिधीयते ।

अनधीतम् अनारब्धं तदानीम् आरभेत ह ।

विद्याव्रतप्रदं नित्यं गुरुं दैवतम् इत्य् अपि ॥

मन्येतेति शेषः ।

तन्मुखाद् धि तदा तस्य निःश्रेयससमागमम् ।

निःश्रेयसम् अतिशयितं श्रेयः ।

तदा तदुक्तकारी स्यान् न स्यात् तच्छासनातिगः ॥

तिष्ठेत् तिष्ठत्सु गुरुषु न चासीत तदग्रतः ।

न शयीत तदासीने कुर्वीत वचनान्य् अपि ॥

न लङ्घयीत वचनं गुरोः कृच्छ्रगतेन च ।

निवेद्य गुरवे सर्वं कुर्याद् आदौ हिताहितम् ॥

एवम् आचार्यनिष्ठस् तु मतिमान् प्राज्ञसम्मतः ।

उत्पन्नज्ञानवैराग्यो दीर्घम् आयुर् अवाप्य च ॥

यशश् च विपुलं लब्ध्वा सदाचारप्रवर्तनम् ।

पुत्रपौत्रश्रियाजुष्टः पुण्यां गतिम् अवाप्नुयात् ॥

एवं समापयेद् विद्वान् विद्याव्रतम् उदारधीः ।

दद्यात् फलानि विप्रेभ्यो ह्य् उत्कृष्टानि बहून्य् अथ ॥

कदलीचूतपनससम्भवानि शुचीनि च ।

यस् त्व् एवं कुरुते विद्वान् विद्याव्रतम् अनन्यधीः ।

समस्तविद्यानिपुणो वैष्णवं पदम् ऋच्छति ॥

[३४१]

** **गरुडपुराणोक्तं विद्याप्रतिपद्व्रतम् ।

पुष्कर उवाच ।

संवत्सरावसाने तु पञ्चदश्याम् उपोषितः ।

प्रातः प्रतिपदि स्नातः कुर्याद् व्रतम् अनन्यधीः ॥

पूजयेद् भास्करं देवं वर्णकैः कमले कृते ॥

शुचौ स्थण्डिलदेशे नानावर्णैः कमलं विधाय तत्र भास्करं ध्यात्वा पूजयेद् इत्य् अर्थः ।

शुक्लेन गन्धमाल्येन चन्दनेन सितेन च ।

तथा कुन्दुरुधूपेन घृतधूपेन भार्गव ॥

कुन्दुरुः सल्लकीनिर्यासः ।

अपूपैः सैकतैर् दध्ना परमान्नेन भूरिणा ।

सैकतैः शर्कराविकारैः ।

ओदनेन च शुक्लेन सता लवणसर्पिषा ॥

सता उत्तमेन ।

क्षीरेण च फलैः शुक्लैर् वह्निब्राह्मणतर्पणैः ।

पूजयित्वा जगद्धाम दिनभागे चतुर्थके ॥

आहारं प्रथमं कुर्यात् सघृतं मनुजोत्तम ।

सर्वं च मनुजश्रेष्ठ घृतहीनं विवर्जयेत् ॥

[३४२] भुक्त्वा च सकृद् एवान्नम् आहारं च समाचरेत् ।

पानीयपानं कुर्वीत ब्राह्मणानुमते पुनः ॥

प्रथमम् आहारं प्रथमग्रासम् । सर्वं प्रथमम् अप्रथमं चाहारं सकृद् एवान्नं भुक्त्वा एकम् एव ग्रासं भक्षयित्वावशिष्टम् अन्नं त्यजेत् । ब्राह्मणानुमत्या पुनर् आहारम् अवशिष्टान्नभोजनं पुनः पानीयपानं च कुर्याद् इत्य् अर्थः । ब्राह्मणानुमत्या भुञ्जानो ऽपि घृअहीनं च भुञ्जीत घृतहीनं विवर्जयेद् इति निषेधात् ।

संवत्सरम् इदं कृत्वा ततः साक्षात् त्रयोदशम् ।

पूजनं देवदेवस्य तस्मिन्न् अहनि भार्गव ॥

संवत्सरं प्रतिमासं शुक्लप्रतिपदि ततः साक्षात् त्रयोदशम् इति लिङ्गदर्शनात् ।

समापयेत् व्रतं पुण्यं राम इत्य् अभिधीयते ।

हे राम, शास्त्रे एवम् अधिधीयत इत्य् अर्थः ।

स हिरण्यं सवस्त्रं च तथा दद्याद् द्विजोत्तम ॥

सूर्यायेति शेषः ।

व्रतेनानेन धर्मज्ञ रोगम् एवं व्यपोहति ।

आरोग्यम् आप्नोति गतिं तथाग्र्यां

यशस् तथाग्र्यां विपुलांश् च भोगान् ।

व्रतेन सम्यक् पुरुषो ऽथ नारी

सम्पूजयेद् यस् तु जगत्प्रधानम् ॥

[३४३]

इति विष्णुधर्मोत्तरे सोद्यापनम् आरोग्यप्रतिपद्व्रतम् ।

मार्कण्डेय उवाच ।

अष्टपत्रं तु कमलं विन्यसेद् वर्णकैः शुभैः ।

ब्रह्माणं कर्णिकायां तु तस्य सम्प्रजयेद् विभुम् ॥

तस्य कमलस्य ।

ऋग्वेदं पूर्वपत्रे तु यजुर्वेदं तु दक्षिणे ।

पश्चिमे सामवेदं तु उदक् चाथर्वणं तथा ॥

आग्नेये च तथाङ्गानि धर्मशास्त्राणि नैरृते ।

पुराणं चैव वायव्ये ईशान्ये न्यायविस्तरौ ॥

एवं विन्यस्य धर्मज्ञः सोपवासस् तु पूजयेत् ।

चैत्रशुक्लम् अथारभ्य सोपवासो जितेन्द्रियः ॥

सदा प्रतिपदं प्राप्य शुक्लपक्षस्य यादव ।

संवत्सरं महाभाग शुक्लगन्धानुलेपनैः ॥

भूरिणा परमान्नेन धूपदीपैर् अतन्द्रितः ।

संवत्सरान्ते गां दद्याद् व्रते चीर्णे नरोत्तमः ॥

इदं व्रतं यस् तु करोति राजन्

स वेदवित् स्याद् भुवि धर्मनिष्ठः ।

कृत्वा तदा द्वादशवत्सराणि

त्रिरिञ्चिलोकं (?) पुरुषः प्रयाति ॥

[३४४]

इति विष्णुधर्मोत्तरोकं सोद्यापनं विद्याव्रतम् ।

मार्कण्डेय उवाच ।

एक एव जगत् सर्वं प्रकृतिः पुरुषः स्मृतः ।

चैत्रशुक्लसमारम्भे सोपवासो जितेन्द्रियः ॥

समारम्भे वर्षारम्भे । पूर्ववत् पञ्चदश्याम् उपवासः ।

पुरुषं पूजयेद् विष्णुं स्थले वा यदि वा जले ।

गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ॥

पौरुषं तु तथा सूक्तं जपेद् अन्तर्जले नरः ।

शुचौ जले विष्णुं ध्यायन् गन्धादिभिः पूजयेद् इत्य् अर्थः ।

तथार्चनं प्रत्यृचं च धूपं दद्याज् जजाञ्जलिम् ॥

तथा धूपानि धर्मज्ञ फलानि च महाभुज ।

धूपं दत्वा च नैवेद्यं जपेच् छक्त्या तथैव तत् ॥

जुहुयाच् च तथाज्येन द्विजे दद्याच् च काञ्चनम् ।

आहारं पयसा दद्यान् निशाकाले च भार्गव ॥

दद्यात् संवत्सरं कृत्वा नित्यव्रतम् अतन्द्रितः ।

पक्षयोर् उभयोर् वीर सर्वपापैः प्रमुच्यते ॥

प्रसादम् आसाद्य च वासुदेवात्

सर्वेश्वरात् सर्वगताद् अचिन्त्यात् ।

लोकेश्वराद् एव पदं प्रयाति

यां यान्ति सिद्धाः पुनर् एव सिद्धिम् ॥

[३४५] इति विष्णुधर्मोत्तरे पौरुषप्रतिपद्व्रतम् । अध्यापनमन्त्रः (?) पूर्ववत् ।

पौर्णमास्युपवासं तु कृत्वा भक्त्या नराधिप ।

अनेन विधिना यस् तु विरिञ्चिं पूजयेन् नरः ॥

पौर्णमासीग्रहणं पूर्वदिनोपलक्षणं तेन यदा शुक्लप्रतिपदि व्रतं क्रियते तदामावास्यायाम् उपवासः । अनेन वक्ष्यमानेन ।

परिपद्यां महाबाहो स्नातश् चैव समाहितः ।

अग्निर् विशेषतो देवो विरिञ्चिर् वात्र देवता ॥

कार्त्तिके मासि देवस्य रथयात्रा प्रकीर्तिता ।

यः कुर्यान्मानवो भक्त्या याति ब्रह्मसलोकताम् ॥

कार्त्तिके मासि राजेन्द्र पौर्णमास्यां चतुर्मुखम् ।

मार्गेण मुदितः सर्वं नानावासैः समन्वितम् ॥

स्थापयेद् ग्रामयित्वा तु सलोकं नगरं नृप ।

ब्राह्मणान् भोजयित्वा तु शाण्डिलेयं प्रपूज्य च ॥

शाण्डिलेयो वैश्वानरः ।

आमोदयेद् देवदेवं ब्रह्मवादित्रनिस्वनैः ।

रथाग्रे शाण्डिलीपुत्रं पूजयित्वा विधानतः ॥

ब्राःमणान् अर्चयित्वा तु कृत्वा पुण्याहमङ्गलम् ।

[३४६] देवम् आरोपयित्वा तु रात्रौ कुर्यात् प्रजागरम् ॥

नानाविधैः प्रक्षपैश् च ब्रह्मघोषैश् च पुष्कलम् ।

कृत्वा प्रजागन्त्व्येवं (?) प्रभाते ब्राह्मणान् नृप ॥

पूजयित्वा यथाशक्त्या भक्ष्यभोज्यैर् अनेकशः ।

पूजयित्वाजनं वीर वज्रेण विधिना नृप ॥

वाजेन च महाबाहो पयसा पायसेन च ।

वज्रम् आज्यम्, वाजम् अन्नम् ।

ब्राह्मणान् वाचयेद् रात्रौ नागेन विधिना नृप ।

कृत्वा पुण्याहशब्देन रथं च भ्रामयेत् पुनः ॥

चतुर्वेदविदैर् विप्रैर् भ्रामयेद् ब्राह्मणो रथम् ।

बह्वृचा यजुषा वीर छन्दोगाथर्वभिस् तथा ॥

भ्रामयेद् देवदेवस्य शुभश्रेष्ठस्य तं रथम् ।

प्रदक्षिणं पुरं सर्वं मार्गेण सुसमेन च ॥

आरोढव्यं रथं वीर शूद्रेण शुभम् इच्छता ।

नारोहयेद् रथं प्राज्ञो मुक्तकं भोजकं नृप ॥

ब्रह्मणो दक्षिणे पार्श्वे सावित्रीं स्थापयेन् नृप ।

भोजको ब्रामपार्श्वे तु पुरतः पङ्कजं न्यसेत् ॥

एवं रूपं निनादैश् च शङ्खशब्दैश् च पुष्कलैः ।

भ्रामयित्वा रथं वीर पुरं सर्वं प्रदक्षिणम् ॥

स्थापयेत् स्थापयेद् वीर कृत्वा नीराजनं बुधः ।

एवं यः कुरुते यात्रां भक्त्या यश् चापि पश्यति ॥

रथं वा कर्षयेद् यस् तु दीपं यस् तु प्रदापयेत् ।

[३४७] शालायां ब्राह्मणः कुर्यात् समिच्छेत् परमं पदम् ॥

प्रतिपद् ब्रह्मणश् चापि गुडमिश्रैः प्रपूजयेत् ।

वासोभिर् अहतैश् चापि स गच्छेद् ब्रह्मणः पदम् ॥

गन्धैः पुष्पैर् नवैर् वस्त्रैर् आत्मानं पूजयेच् च यः ।

तस्यां प्रतिपदायां तु स गच्छेद् ब्रह्मणः पदम् ॥

महापुण्या तिथिर् इयं बह्वी राज्यप्रवर्तिनी ।

ब्रह्मणस् तु प्रिया नित्यं बालेयी सा प्रकीर्तिता ॥

ब्राह्मणान् पूजयेद् यो ऽस्याम् आत्मानं च विशेषतः ।

स याति परमं स्थानं विष्णोर् अमिततेजसः ॥

चैत्रमासे महाबाहो पुण्या प्रतिपदा वरा ।

तस्यां यो ऽश्वपदं दृष्ट्वा स्नानं कुर्यान् नरो नृप ॥

न तस्य दुरितं किञ्चिद् आधयो व्याधयस् तथा ।

भवन्ति कुरुशार्दूल तस्मात् स्नानं हि तैलतः ॥

नारीनीराजनं तत्र सर्वरोगनिवारणम् ।

गोमहिष्यादि यत् किञ्चित् तत् सर्वं भूषयेन् नृप ॥

तैलवस्त्रादिभिः पुष्पैस् तोरणानि पुरा नयेत् ।

ब्राह्मणानां तथा भोज्यं दद्यात् कुरुकुलोद्वह ॥

तिस्रो ह्य् आद्याः पुरा प्रोक्तास् तिथयः कुरुनन्दन ।

कार्त्तिके चाश्वयुग्मासे चैत्रे मासि समाचरेत् ॥

स्नानं दानं शतगुणं कार्त्तिके या तिथिर् नृप ।

बलिर् आज्यात् तु शुभदा यामूलाशुभनाशिनी ॥

आमूलम् अशुभहव्वी (?) ।

[३४८]

इति भविष्यपुराणे बलिप्रतिपद्रथयात्राव्रतम् ।

युधिष्ठिर उवाच ।

ब्रह्मेशकेशवादीनां गौर् या गणपतेस् तथा ।

दुर्गासोमाग्निसूर्याणां व्रतानि मधुसूदन ॥

शास्त्रान्तरेण दृष्टानि भवेद् बुद्धिगतानि च ।

तानि सर्वाणि मे देवदेव देवकिनन्दन ॥

प्रतिपत्क्रमयोगेन विहिता यस्य या तिथिः ।

देवस्य यस्यां तत् कार्यं तद् अशेषेण मे वद ॥

कृष्ण उवाच ।

वसन्ते किंशुकाशोकशोभिते प्रतिपत्तिथिः ।

शुक्ला तस्यां प्रकुर्वीत स्नानं नियमम् आस्थितः ॥

नारी नरो वा राजेन्द्र सन्तर्प्य पितृदेवताः ।

नद्यास् तीरे तडागे वा गृहे वा तदलाभतः ॥

पिष्टातकेन विलिखेद् वत्सरं पुरुष्क्र्तिम् ।

पिष्टातकं पटवसको गन्धद्रव्यचूर्णविशषः ।

ततश् चन्दनचूर्णेन पुष्पधूपादिनार्चयेत् ॥

मासर्तुनामभिः पश्चान् नमस्कारान्तयोजितैः ।

मासर्तुनामभिश् चैत्रवसन्तादिनामभिः ।

पूजयेद् ब्राह्मणो विद्वान् मन्त्रैर् वेदोदितैः शुभैः ॥

संवत्सरो ऽसीति यजुर्मन्त्रैः । ब्राह्मणो ऽत्र द्विजः । मन्त्रस् तु संवत्सरो ऽसि परिवत्सरो ऽसीदावत्सरो ऽसि अनुवत्सरो ऽसि उदावत्सरो ऽसि । [३४९] उषस् ते कल्पन्तां अहोरात्रास् ते कल्पन्ताम् अर्धमासास् ते कल्पन्तां मासास् ते कल्पन्ताम् ऋतवस् ते कल्पन्तां संवत्सरास् ते कल्पन्ताम् ।

संवत्सरो ऽसीति पठन् मन्त्रं वेदोदितं द्विजः ।

नमस्कारेण मन्त्रेण शूद्रो ऽपि त्वां प्रपूजयेत् ॥

नमस्कारेण मन्त्रेण संवत्सरो ऽईत्यादिना ।

एवम् अभ्यर्च्य वासोभिः पश्चात् तम् अभिवेष्टयेत् ।

कालद्रव्यैर् मूलफलैर् नैवेद्यैर् मोदकादिभिः ॥

ततस् तं प्रार्थयेत् पश्चात् पुरः स्थित्वा कृताञ्जलिः ।

भवंस् त्वत्प्रसादेन वर्षाङ्के महिमास्तु मे ॥

संवत्सरोपसर्गा मे विलयं यान्त्व् अशेषतः ।

एवम् उक्त्वा यथाशक्त्या दद्याद् विप्राय दक्षिणाम् ।

ललाटपट्टे तिलकं कुर्याच् चन्दनपङ्कजम् ॥

चन्दनपङ्कोघृष्टचन्दनम् ।

ततः प्रभृत्य् अनुदिनं तिलकालङ्कृतं उखम् ।

धार्यं संवत्सरं यावच् छशिनेव नभस्तलम् ॥

एवं नरो वा नारी वा व्रतम् एतत् समाचरेत् ।

सदैव पुरुषव्याघ्र भोगान् भुवि भुनक्त्य् असौ ॥

भूतप्रेतपिशाचाद्याः दुर्वारा वैरिणो ग्रहाः ।

निरर्थका भवन्त्य् एते तिलकं वीक्ष्य तत्क्षणात् ॥

पूर्वम् आसीन् महीपालो नाम्ना शत्रुञ्जयो जयी (?) ।

चित्रलेखेति तस्याभूद् भार्या चारित्रभूषणा ॥

तया व्रतम् इदं चैत्रे गृहीतं द्विजसन्निधौ ।

[३५०] संवत्सरं पूजयित्वा ध्यात्वा हृदि जनार्दनम् ॥

हन्तुम् आक्षेप्तुकामो वा समागच्छति यः पुरः ।

प्रयाति प्रियकृत् तस्याः दृष्ट्वा तु तिलकं नरः ॥

सपत्नीदर्पापहरा वशीकृतमहीतला ।

भर्तुर् दृष्ट्वा प्रहृष्टा तु मुखम् आस्ते निराकुला ॥

यावत् करिणाभिभूतो भर्ता पुत्रः सवेदनः ।

शिरोर्त्तिना सम्प्रयातः सुहृदां सुखदायकः ॥

शिरोर्त्तिना सम्प्रयातः शिरोवेदनायुक्तः ।

धर्मराजपुरात् प्राप्ताः सर्वभूतापहारकाः ।

तस्मिन् क्षणे महाराज आगत्य यमकिङ्कराः ॥

तस्य द्वारम् अनुप्राप्ताः प्रविष्टा गृहम् अञ्जसा ।

शत्रुञ्जयं समानेतुं कालमृत्युपुरःसराः ॥

पार्श्वस्थितां चित्रलेखां तिलकालङ्कृताननाम् ।

दृष्ट्वा प्रनष्टसङ्कल्पाः परावृत्य गताः पुनः ॥

गतेषु तेषु स नृपः पुत्रेण सह भारत ।

नीरुजो बुभुजे भोगान् पूर्वकामार्जितान् [पूर्वकर्मा-?] शुभान् ॥

अक्रूरेण समाख्यातं (?) मम पूर्वं युधिष्ठिर ।

एतत् त्रिलोकी तिलकाख्यभूषणं

पुण्यं व्रतं सकलदुष्टहरं परं च ।

इच्छन् समाचरति यः स सुखं विहृत्य

मर्त्यः प्रयाति पदम् अच्युतम् इन्दुमोलेः ॥

[३५१]

इति भविष्योत्तरे चैत्रशुक्लप्रतिपदि विहितं तिलकव्रतम् ।

श्रीकृष्ण उवाच ।

अश्वयुक्शुक्लपक्षस्य प्रथमे ऽह्नि दिनोदये ।

अशोकं पूजयेद् वृक्षं प्ररूढशुभपल्लवम् ॥

प्ररूढैः सप्तधान्यैश् च गुणकैर् मोदकैः शुभैः ।

फलैः कालोद्भवैर् दिव्यैर् नारिकेलैः सदाडिमैः ॥

धूपदीपादिना तत्र पूजयेत् तरुम् उत्तमम् ।

अशोकं पाण्डवश्रेष्ठ शोकं नाप्नोति कुत्रचित् ॥

पितृभ्रातृपतिश्वश्रूसुतजामातृणां तथा ।

अशोकशोकशमनो भव सर्वत्र नः कुले ॥

इत्य् उच्चार्य ततो दद्याद् अर्घ्यं श्रद्धासमन्वितः ।

पताकाभिर् अलङ्कृत्य प्रच्छाद्य च सुवाससा ॥

दमयन्ती यथा स्वाहा यथा देवी च जानकी ।

तथा शोकव्रताद् अस्माज् जायते पतिवल्लभा ॥

वने वसन्त्या सहर्मः सीतया सम्प्रदर्शितः ।

दृष्ट्वाशोकं वने पार्थ पल्लवालङ्कृतं तरुम् ॥

कृत्वा समीपे भर्तारं देवरं च तिलाक्षतैः ।

दीपालक्तकनैवेद्यैर् धूपसूत्रफलार्चनैः ॥

अर्चयित्वाभ्यर्थितो ऽसौ (?) रक्ताशोको युधिष्ठिर ।

मैथिली प्राञ्जलिं कृत्वा शृण्वतो राघवस्य च ॥

प्राञ्जलिं बद्धम् अञ्जलिम् ।

[३५२] चिरञ्जीवतु मे वृद्धः श्वसुरः कोशलेश्वरः ॥

भर्ता मे देवराश् चैव जीवन्तु भरतादयः ।

कोशल्यामयि (?) जीवन्ती यस्येयम् इति मैथिली ॥

यया चेदं महाभागाद्रमंवनभूषणम् (?) ।

प्रदक्षिणम् उपावृत्य ततः सा प्रययौ गृहम् ॥

एवम् अन्यापि या नारी पूजयेद् अवनीनगम् ।

तिलतन्दुलसम्मिश्रैर् यवगोधूमसर्षपैः ॥

क्षमाप्य सेचयेन् मूले पादपं रक्तपल्लवम् ।

तदभावे च सौवर्णं राजतं वा स्वशक्तितः ॥

वर्णकैर् वा समालिख्य पूजितं विधिवत् ततः ।

मन्त्रेणानेन प्रणम्य या स्त्री कुर्यात् पतिव्रता ॥

महावृष महाशाख मकरध्वजमन्दिर ।

पार्थिवे त्वां महाभाग सर्वकामप्रदो भव ॥

एवम् आभाष्य तं वृक्षं दत्वा विप्राय दक्षिणाम् ।

तं च वृक्षं कृतं दत्वा वस्त्रयुग्मसमन्वितम् ॥

कृतं सुवर्णादिघटितम् ।

सखीभिः सहिता साध्वी भुञ्जीत ब्रह्मचारिणी ॥

याः शोकनाशनम् अशोकतरुं युवत्यः

सम्पूजयन्ति कुसुमाक्षतधूपदीपैः ।

ताः पार्थ सौख्यम् अतुलं भुवि भर्तृजात

गौरीपदं प्रमुदिताः पुनर् आप्नुवन्ति ॥

[३५३]

इति भविष्योत्तरे ऽशोकप्रतिपद्व्रतम् ।

भगवान् उवाच ।

ज्यैष्ठे मासे शुभे पक्षे प्रथमे ऽह्नि दिनोदये ।

देवोद्यानभवं हृद्यं करवीरं समर्चयेत् ॥

रक्ततन्तुपरीधानं गन्धधूपविलेपनैः ।

प्ररूढसप्तधान्यैश् च नारङ्गैर् (?) बीजपूरकैः ॥

गुणकैर् बदरैर् भक्ष्यैर् नारिकेलैः सुशोभनैः ।

अभ्युक्ष्याक्षततोयेन मन्त्रेणेत्थं क्षमापयेत् ॥

करवीर विषावास नमस् ते भानुवल्लभ ।

मौलिमण्डन दुर्गादिदेवानां सततं प्रिय ॥

आकृष्णेनेति वेदोक्तमन्त्रेणाभ्यर्च्य भक्तितः ।

एवं भक्त्या समभ्यर्च्य दत्वा विप्राय दक्षिणाम् ॥

प्रदक्षिणं ततः कुर्यात् ततः स्वभवनं व्रजेत् ।

एतद् व्रतं पुरा पार्थ सूर्याराधनकाम्यया ॥

दमयन्त्या सरस्वत्या गायत्र्या गङ्गया तथा ।

अन्याभिर् अपि नारीभिर् मर्त्यलोके ऽप्य् अनुष्ठितम् ॥

करवीरव्रतं पार्थ सर्वसौख्यफलप्रदम् ।

सम्पूज्य रक्तकुसुमार्चितसर्वशाखं

नीलैर् दलैस् तततनुं करवीरवृक्षम् ।

भुक्त्वा मनोऽभिलषितान् भुवि भव्यभोगान्

अन्ते प्रयान्ति भवनं सरताग्र्यभानोः ॥

[३५४]

इति भविष्योत्तरे करवीरप्रतिपत्व्रतम् ।

ब्रह्मोवाच ।

अग्निम् इष्ट्वा च हुत्वा च प्रतिपद्याम् इति स्मृतम् ।

हविषा सर्वधान्यानि प्राप्नुयाद् अमृतं धनम् ॥

इष्ट्वा पूजयित्वा । प्रतिपद्यां प्रतिपदि । इति स्मृतं कामानुसारेण हिरण्यरेतस्कतया विदितम् । हविषा घृतेन । सर्वधान्यानि हुत्वेत्य् अन्वयः ।

मूलमन्त्राः स्वसञ्ज्ञाभिर् अङ्गमन्त्राश् च कीर्तिताः ।

पूर्ववत् पद्मपत्रस्थः कर्तव्यश् च तिथीश्वरः ॥

मूलमन्त्राः प्रधानमन्त्राः । अङ्गमन्त्राः परिवारदेवतामन्त्राः अग्नये हृदयाय नम इत्येवमादयः । स्वसञ्ज्ञाभिः ॐ अग्नये नम इत्यादिपूजायाम् । ॐ अग्नये स्वाहा इत्यादि होमे । पूर्ववत् सूर्यव्रतवत् । पद्ममध्यस्थः कर्णिकायां स्वमूर्त्या पत्रेषु परिवारमूर्त्या स्थितः । तिथीश्वरो ऽत्र वह्निः । स च जटाश्मश्रुधारी त्रिलोचनो रक्ताङ्गश् चतुर्बाहुः प्रदक्षिणे शूलं तदपरे ज्वाला । उत्सङ्गगताया अन्नपात्रहस्तायाः स्वाहायाः स्कन्धे च न्यस्तपरोवरः । चत्वारः शुका रथस्य वोढारः । वायुः सारथिर् इत्य् एवं विष्णुधर्मोत्तराभिहितो वेदितव्यः ।

गन्धपुष्पोपहारैश् च यथाशक्ति विधीयते ।

पूजाशाठ्येन शाठ्येन कृतापि तु फलप्रदा ॥

अशाढ्येन अकपटेन, शाठ्येनेत्यादि स्तुतिः ।

[३५५] आज्यधारासमिद्भिश् च दधिक्षीरान्नमाक्षिकैः ।

पूर्वोक्तफलदो होमो विहितः शान्तचेतसा ॥

आज्यधारादिभिः षड्भिः पृथक्कृतो होमः पूर्वोक्तफलदो धनदः । माक्षिकं मधु । आदौ पूजा ततो घृताक्तधान्यहोमस् ततो आज्यधारादिहोमः ।

इति भविष्ये वैश्वानरव्रतम् ।

अगस्त्य उवाच ।

अथातः सम्प्रवक्ष्यामि धन्यव्रतम् अनुत्तम ।

येन सद्यो भवेद् धन्यो ऽधन्यो ऽपि हि यो भवेत् ॥

मार्गशीर्षे ऽमले पक्षे प्रतिपद्या तिथिर् भवेत् ।

तस्यां नक्तं प्रकुर्वीत रात्रौ विष्णुं च पूजयेत् ॥

वैश्वानराय् आदौ तु अग्नये चोत्तरं तथा ।

हविर्भुजे ततोरुश् च द्रविणोदाय वै भुजे ॥

सम्वर्तायेति च शिरो ज्वलनायेति सर्वतः ।

अभ्यर्यैवं विधानेन देवदेवं जनार्दनम् ॥

तस्यैव पुरतः कुण्डं कारयित्वा विधानतः ।

होमान्ते व्रतं कुर्वीत एतैर् मन्त्रैर् विचक्षणः ॥

एतैर् मन्त्रैर् वैश्वानरायेत्यादिप्रागुक्तैः ।

ततस् तु यावकं चान्नं भुञ्जीत घृतसंयुतम् ।

कृष्णपक्षे ऽप्य् एवम् एव चातुर्मास्यां तु यावकम् ॥

[३५६] चत्रादिषु (चैत्रादिष्?) तु भुञ्जीयात् पायसं सघृतं बुधः ।

श्रावणादिषु सक्तूंश् च ततश् चैव समाप्यते ॥

समाप्ते च व्रते वह्निकाञ्चनं कारयेन् नृपः ।

वह्निरूपं पूर्वोक्तम् ।

रक्तवस्त्रयुगच्छन्नं रक्तपुष्पानुलेपनम् ॥

कुङ्कुमेन तथा लिम्पेद् ब्राह्मणं त्व् एवम् एव तु ।

सर्वावयवसम्पूर्णं गुणिनं प्रियदर्शनम् ॥

पूजयित्वा विधानेन रक्तवस्त्रयुगेन च ।

पश्चात् प्रदद्यात् तत् तस्य मन्त्रेणानेन मन्त्रवान् ॥

धन्यो ऽसि धन्यधर्मा च धन्यो ऽस्मि धयवान् भवान् ।

धन्येनानेन चीर्णेन व्रतेन स्यां सदा सुखी ॥

एवम् उच्चार्य तं विप्र (?) न्यस्य कोशम् इवात्मनः ।

सद्यो धन्यत्वम् आप्नोति यो ऽपि स्याद् भाग्यवर्जितः ॥

इह जन्मनि सौभाग्यं धन्यं धान्यं च पुष्कलम् ।

अनेन कृतमात्रेण जायते नात्र संशयः ॥

वाङ्मनःसञ्चितं पापं वह्निर् दहति तस्य वै ।

दग्धपापः स शुद्धात्मा अमुत्रेह च विन्दति ॥

इति वराहपुराणोक्तं धन्यव्रतम् ।

पुलस्त्य उवाच ।

प्रतिपद्य् एकभक्ताशी समान्ते कपिलाप्रदः ।

[३५७] वैश्वानरपुरं याति व्रतं वैश्वानरं त्व् इदम् ॥

पद्मपुराणे वैश्वानरव्रम् इति ।

पृथिवीं भाजनं कृत्वा यो भुङ्क्ते पक्षसन्धिषु ।

अहोरात्रेण चैकेन त्रिरात्रफलम् अश्नुते ॥

इति पद्मपुराणे पक्षसन्धिव्रतम् ।

नन्दिकेश्वर उवाच ।

वैदिकेन विधानेन व्रतं पुण्यं महत्तमम् ।

कस्मिंस् तिथौ तु कर्तव्यं विधानं तद् वदस्व मे ॥

स्कन्द उवाच ।

मासि भाद्रपदे शुक्ले पक्षे च प्रतिपत्तिथौ ।

नैवेद्यं तु पचेन् मौनी षोडशत्रिगुणानि च ॥

फलानि पिष्टपक्वानि दद्याद् विप्राय षोडश ।

देवाय षोडशैतानि दातव्यानि प्रयत्नतः ॥

भुञ्जन्ते षोडश तथा व्रतस्य नियमाश्रयात् ।

सौवर्णं कारयेद् देवं यथाशक्त्या हिरण्मयम् ॥

सुवर्णं कर्षस् तद्घटितं यथाशक्त्या च कृतम् ।

नेत्रत्रयसमायुक्तं जटामण्डलमण्डितम्

पञ्चवक्त्रं चतुर्बाहुं षडाराञ्जस्य मध्यगम् ।

[३५८] त्रिशूलं चाक्षसूत्रं च वहन्तं दक्षिणे करे ॥

कपालं कुण्डिकां वामे शिखायां चन्द्रधारिणम् ।

पञ्चामृतेन स्नपनं कृत्वा संस्थापयेत् ततः ॥

कुम्भस्योपरि देवेशः शुक्लवस्त्रयुगान्वितः ।

गन्धपुष्पैः समभ्यर्च्य फलैर् नानाविधैस् तथा ॥

प्रसीद देवदेवेश चराचरजगद्गुरो ।

वृषध्वज महादेव त्रिनेत्राय नमो नमः ॥

पूजामन्त्रः ।

देवस्य च परीधानं दद्याद् धेनुं पयस्विनीम् ।

अनेन तु विधानेन यः कुर्याद् व्रतम् उत्तमम् ॥

स राजा लभते देव दीर्घम् आयुस् तथैव च ।

सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥

भुक्त्वा तु विविधान् भोगान् ततः शिवपुरं व्रजेत् ।

इति स्कन्दपुरानोक्तं महत्तमव्रतं सोद्यापनम् ।

श्रीभगवान् उवाच ।

श्रावणे मासि कृष्णपक्षे शङ्करः प्रथमे ऽहनि ।

त्रिपर्वणा त्रिशल्येन त्रिमुखेन शरेण च ॥

मुखानि त्रीणि चिच्छेद यज्ञस्य मृगरूपिणः ।

तैः शिरोभिस् तपस् तप्तं वरः प्राप्तो ऽथ शङ्करात् ॥

त्रिशल्येन त्रिमुखेन शल्यरूपत्रिमुखेनेत्य् अर्थः । मृगरूपिणस् त्रिमुखमृगरूपिण इत्य् अर्थः ।

स्त्रीभिः पूज्यानि तानीति न मनुष्यैः कदाचन ।

[३५९] मृगशीर्षं ततः कृत्वा लिङ्गाकारं तु मृन्मयम् ॥

क्षीरेण तपनीयं वै पूजनीयं यथाविधि ।

अर्घ्यैः पुष्पैश् च धूपैश् च नैवेद्यैर् (?) विविधैर् अपि ॥

शाकैः सौवर्चलालाभिश् च कृतैः पिष्टमयैः शुभैः ।

सौवर्चलाभिः अतसीमिश्रपिष्टविकृतिभिः ।

कांस्यभाजनवाद्यैश् च पश्चात् कार्यं च भोजनम् ॥

**इति श्रीहेमादिव्रतकाणे प्रतिपद्व्रतप्रकरणे **

**पद्मपुराणोक्तं मृगशीर्षव्रतम् **

[३६०]

**अथ पञ्चमो ऽध्यायः **

श्रीभगवान् उवाच ।

चैत्रे मासि जगद् ब्रह्मा ससर्ज प्रथमे ऽहनि ।

शुक्लपक्षे समग्रं तु तदा सूर्योदये सति ॥

प्रवर्तयामास तथा कालस्य गणनाम् अपि ।

ग्रहान् नागान् ऋतून् मासान् वत्सरान् वत्सराधिपान् ॥

ददौ स भगवान् ब्रह्मा सर्वदेवसमागमे ।

ब्राह्म्यां सभायां ब्रह्माणम् अनुद्दिश्य वपुस् ततः ॥

यथोक्तास् ते नमस्यन्तः स्तुवन्तश् च उपासते ।

ततस् तैः कृतशुश्रूषास् ततो गत्वा स्वम् आलयम् ॥

स्वानि स्वान्य् अथ कर्माणि ते नियुक्ताश् च चक्रिरे ।

ब्राह्मी सभा कामरूपा विशेषेण तदा नृप ॥

धारयन्त्यम् अन्तं रूपम् अनिर्देश्यं मनोहरम् ।

ततः प्रभृति यो धर्मः पूर्वैः पूर्वतरैः कृतः ॥

अद्यापि रूढः सुतरां कर्तव्यो ऽसौ प्रयत्नतः ।

तत्र कार्या महा शान्तिः सर्वकल्मषनाशिनी ॥

सर्वोत्पातप्रशमणी कलिदुःस्वप्ननाशिनी ।

आयुःप्रदा पुष्टिकरी धनसौभाग्यवर्धिनी ॥

मङ्गल्या च पवित्रा च लोकद्वयसुखावहा ।

तस्याम् आदौ तु सम्पूज्यो (?) ब्रह्मा कमलसम्भवः ॥

[३६१] पाद्याद्यैश् चैव धूपैश् च वस्त्रालङ्कारभोजनैः ।

होमैर् बल्युप्रहारैश् च तथा ब्राह्मणतर्पणैः ॥

ततः क्रमेण देवेभ्यः पूजा कार्या पृथक् पृथक् ।

कृत्वोङ्कारनमस्कारौ कुशोदकतिलाक्षतैः ॥

पुष्पधूपप्रदीपाद्यैर् भोजनैश् च यथाक्रमम् ॥

ओङ्कारनमस्कारौ कृत्वा ॐ ब्रह्मणे नम इत्यादि । मन्त्रं सम्पूजनार्थं तु बहुरूपं परिस्पृशेत् पठेद् इत्य् अर्थस् तथा च ब्रह्मणे नम इत्य् उपक्रम्य विष्णवे परमात्मने नम इत्यन्तवाक्यवृन्दोपात्तदेवतानामानि प्रणवादिचतुर्थ्यन्तनमोनतानि मन्त्रत्वेन ग्राह्याणि ।

ॐ नमो ब्रह्मणे तुभ्यं कामाय च महात्मने ।

नमस्वेस् (?) तु निमेषाय त्रिटये च नमो ऽस्तु ते ॥

लवाय च नमस् तुभ्यं नमस् ते ऽस्तु क्षणाय च ।

नमो नमस् ते काष्ठायै कलायै चाथ सर्वदा ॥

नाभिकायै सुसूक्ष्मायै मुहूर्ताय नमो नमः ।

नमो निशाम्यः पुण्येभ्यो दिवसेभ्यश् च नित्यशः ॥

पक्षाभ्यां चाथ मासेभ्यो ऋतुभ्यः षड्भ्य एव च ।

अयनाभ्यां च पञ्चभ्यो वत्सरेभ्यश् च सर्वदा ॥

नमस्कृत्य युगादिभ्यो ग्रहेभ्यश् च नमो नमः ।

नमः पुरन्दरेभ्यश् च तत्सख्येभ्यो नमो नमः ॥

पञ्चाशते नमो नित्यं दक्षकन्याभ्य एव च ।

[३६२] नमो देव्यै सुप्रभायै जपायै चाथ सर्वदा ॥

मृशास्त्राय नमस् तुभ्यं सर्वास्त्रजनकाय च ।

नमस् ते बहुपुत्राय पत्नीभिः सहिताय च ॥

नमो बुद्ध्यै तथा वृद्ध्यै निद्रायै धनदाय च ।

नलकूबरयज्ञाय गुह्यकस्वामिने नमः ॥

नमो ऽस्तु शङ्खपद्माभ्यां निधिभ्याम् अथ नित्यशः ।

भद्रकाल्यै नमो नित्यं सुरभ्यै च नमो नमः ॥

वेदवेदाङ्गवेदान्तविद्यासङ्ख्याभ्य एव च ।

नागयक्षसुपर्णेभ्यो नमो ऽस्तु गरुडाय च ॥

सप्तभ्यश् च समुद्रेभ्यः सागरेभ्यश् च सर्वदा ।

उत्तरेभ्यः कुरुभ्यश् च नमो हैरण्यताय च ॥

भद्राश्वकेतुमालाभ्यां नमः सर्वत्र सर्वदा ।

इलावृताय च नमो हरिवर्षाय चैव हि ॥

नमः किम्पुरुषेभ्यश् च भारताय नमो नमः ।

नमो भारतदेशेभ्यो नवभ्यश् चैव सर्वदा ॥

पातालेभ्यश् च सप्तभ्यो नरकेभ्यो नमो नमः ।

कालाग्निरुद्रशेषाभ्यां हरये क्रोधरूपिणे ॥

सप्तभ्यस् त्व् अथ लोकेभ्यो महाभूतेभ्य एव च ।

नमस् ते बुद्धये चैव नमः प्रकृतये तथा ॥

पुरुषायाभिमानाय नमो ऽस्त्व् अव्यक्तमूर्तये ।

हिमवत्प्रमुखेभ्यश् च पर्वतेभ्यो नमस् तथा ॥

पौराणीभ्यश् च गङ्गाभ्यः सप्तभ्यश् च नमो नमः ।

नमो ऽस्त्व् आद्यमुनिभ्यश् च सप्तभ्यश् चाथ सर्वदा ॥

[३६३] नमो ऽस्तु पुष्करादिभ्यस् तीर्थेभ्यश् च पुनः पुनः ।

निम्नगाभ्यो नमो नित्यं वितस्ताद्याभ्य एव च ॥

चतुर्दशभ्यो दीर्घाभ्यो धारिणीभ्यो नमो नमः ।

नमो धात्रे विधात्रे च छन्दोभ्यश् च नमो नमः ॥

सुरभ्यै रावणाभ्यां च नमो भूत्यै नमो नमः ।

नमस् तथोच्चैःश्रवसे ध्रुवाय च नमो नमः ॥

नमो ऽस्तु धन्वन्तरये शस्त्रास्त्राभ्यां नमो नमः ।

विनायककुमाराभ्यां विघ्नेभ्यश् च नमः सदा ॥

शाखाय च विशाखाय निगमेशाय वै नमः ।

नमः स्कन्दग्रहेभ्यश् च स्कन्दमातृभ्य एव च ॥

ज्वराय रोगपतये भस्मप्रहरणाय च ।

ऋषिभ्यो वालखिल्येभ्यः कश्यपाय नमः सदा ॥

अगस्ताय नारदाय व्यासादिभ्यो नमो नमः ।

अप्सरोभ्यः सोमपेभ्यो देवेभ्यश् च तथा नमः ॥

असोमपेभ्यश् च नमस् तुषितेभ्यो नमः सदा ।

आदित्येभ्यो नमो नित्यं द्वादशभ्यश् च सर्वशः ॥

एकादशेभ्यो रुद्रेभ्यस् तपस्विभ्यो नमो नमः ।

नमो नासत्यदस्राभ्याम् अश्विभ्यां नित्यम् एव हि ॥

साध्येभ्यो द्वादशेभ्यश् च पौराणेभ्यश् च सर्वदा ।

एकोनपञ्चाशते च मरुद्भ्यश्च नमो नमः ॥

शिल्पाचार्याय देवाय नमस् ते विश्वकर्मणे ।

अष्टभ्यो लोकपालेभ्यः सानुगेभ्यश् च सर्वदा ॥

आयुधेभ्यो वाहनेभ्यो धर्मेभ्यश् च नमः सदा ।

[३६४] आसनेभ्यो दुन्दुभीभ्यो देवेभ्यश् च नमः सदा ॥

दैत्यराक्षसगन्धर्वपिशाचेभ्यश् च नित्यशः ।

पितृभ्यः सप्तभेदेभ्यः प्रेतेभ्यश् च नमो नमः ॥

सुसूक्ष्मेभ्यश् च देवेभ्यो भावगम्येभ्य एव च ।

नमस् ते बहुरूपाय विष्णवे परमात्मने ॥

अथ किं बहुनोक्तेन मन्त्रेणानेन चार्चयेत् ।

प्राङ्मुखोदङ्मुखान् विप्रान् देवान् उद्दिश्य पूर्ववत् ॥

अथ वा किं मन्त्रविस्तारेण ब्राह्मणान् एव देवतोद्देशेन पूजयेद् इत्य् अर्थः । पूर्ववत् मन्त्रोक्तक्रमेणेत्य् अर्थः ।

अर्घैः पुष्पैश् च धूपैश् च वस्त्रैर् माल्यैः सहृष्टकम् ।

सहृष्टकं सरोमां च हृष्टरोमा सन्न् अर्चयेद् इत्य् अर्थः ।

धनधान्यान्नविभवैर् दक्षिणाभिश् च सर्वदा ॥

इतिहासपुराणाभ्यां तद्वक्तॄंश् च द्विजोत्तमान् ।

इतिहासपुराणाभ्यां तत्पुस्तकदानेनेत्य् अर्थः ।

कालज्ञान् वेदवेदज्ञान् भृत्यान् सम्बन्धिबान्धवान् ॥

अनेनैव तु मन्त्रेण स्वाहान्तेन पृथक् पृथक् ।

यविष्ठायाग्नये होमः कर्तव्यः सर्वतृप्तये ॥

वेदविच् चक्षुषी दत्वा स्थाने प्राधानिके सति ।

अविष्ठो ऽग्निर् अग्निविशेषः । वेदविद् वेदोक्तविधिज्ञः । चक्षुषी आज्यभागौ । प्राधानिके स्थाने प्रधानहोमारम्भे ।

होमारम्भे ततः कुर्यान् मङ्गलालम्भनं नरः ॥

भोजयित्वा द्विजान् सर्वान् सुहृत्सम्बन्धिबान्धवान् ।

[३६५] विशेषेण च भोक्तव्यं कार्यश् चापि महोत्सवः ।

नवसंवत्सरारम्भः सर्वसिद्धिप्रवर्तकः ॥

इति ब्रह्मपुराणोक्तः संवत्सराम्भविधिः ।

इति श्रीमहार्जाधिराजश्रीमहादेवस्य समस्तकरणाधीश्वरसकलविद्याविशारद-

श्रीहेमाद्रिपण्डितविरचिते

चतुर्वर्गचिन्तामणौ व्रतकाण्डे प्रतिपत्व्रतानि ।

[३६६]

अथ षष्ठो ऽध्यायः

अथ द्वितीयाव्रतानि ।

ब्राह्म्यं तेजो दिनकरकरस्पर्धया वर्धमानं

प्रौढं यस्य स्पुरति परितो रोदसीत्य् अश्रुवानम् (?) ।

प्रांशुर् वंशो जगति विजयी यस्य हेमाद्रिनामा

वक्ति व्यक्तं क्रमम् उपगतं स द्वितीयाव्रतानाम् ॥

शतानीक उवाच ।

ऋषे ऽहं तव पृच्छामि भगवन् ब्रूहि तत् व्रतम् ।

यथा व्रतप्रभावेन स्वर्गं प्राप्नोति मानवः ॥

अल्पायसं बहुफलं व्रतानाम् उत्तमं व्रतम् ।

प्रसादं कुरु मे देव येन व्रतं करोम्य् अहम् ॥

ऋषिर् उवाच ।

अस्ति व्रतं महापुण्यम् अशून्यशयनं नृप ।

चन्द्रोदये चार्घदानं पूनजीयो जनार्दन ॥

शतानीक उवाच ।

कस्मिन् मासे प्रकर्तव्यं पक्षश् चैव तिथिश् च का ।

किं दानं भोजनं चैव कथयस्व महाप्रभो ॥

[३६७] ऋषिर् उवाच ।

चातुर्मास्ये भवेद् राजन् वर्षायां व्रतम् उत्तमम् ।

श्रावणस्य द्वितीयायां कृष्णपक्षे नराधिप ॥

श्रावणादिकार्तिकान्तं कुर्यात् तत् व्रतम् उत्तमम् ।

पुष्पं धूपं च नैवेद्यं दीपमाला विशेषतः ॥

नानाफलं सनैवेद्यं नानारससमन्वितम् ।

मौक्तिकं रजतं चैव शङ्खं दुग्धसमन्वितम् ॥

ब्राह्मणाय प्रदातव्यं पूजनीयो जनार्दनः ।

ततो भाद्रपदे मासे यवदानं ददाति च ॥

दुग्धं दद्याच् च विप्राय दक्षिणां च विशेषतः ।

दधि चैव फलं चैव बीजपूरसमन्वितम् ॥

जनार्दनश् चातिभक्त्या पूजनीयो नराधिप ।

एवं यः कुरुते राजन् प्राप्नोति परमं पदम् ॥

ततश् चाश्विद्वितीयायां शय्यादानं विशेषतः ।

न तस्य शून्यं शयनम् अपुत्रो न भवेन् नरः ॥

जलमध्ये स्थितो विष्णुः पूजनीयो जनार्दनः ।

श्वेतपुष्पैः फलैर् वस्त्रैः सताम्बूलं सदक्षिणम् ॥

विप्राय भोजनं दद्यात् फलं शृणु नराधिप ।

एवं यः कुरुते राजन् लभते काञ्चनीं पुरीम् ॥

ततश् च कार्त्तिके मासि द्वितीयायां नराधिप ।

शर्कराखण्डाद्यानि दधिक्षीरघृतानि च ॥

उपहारं भगवते दद्यात् सर्वप्रयत्नतः ।

[३६८] पुष्पं फलं सनैवेद्यं गीतवाद्यसमन्वितम् ॥

छत्रं कमण्डलुं दद्याद् उपानहौ विशेषतः ।

चतुर्वर्षं प्रकुर्वन्तु पुरुषाश् च तथा स्त्रियः ॥

एवं यः कुरुते राजन्न् अशून्यशयनव्रतम् ।

न च दुःखं न दारिद्रं न च कष्टं भवेत् क्वचित् ॥

न तस्य शून्या शय्या स्याद् अपुत्रो न भवेन् नरः ।

शोकव्याधिभयं दुःखं न भवन्ति कदाचन ॥

न भवेद् विधवा नारी निर्धना न भवेत् क्वचित् ।

व्रतस्यास्य प्रभावेन स्वर्गं प्राप्नोति मानवः ॥

शतानीक उवाच ।

अत्युद्भुतं व्रतं कृष्ण न दृष्टं न श्रुतं मया ।

अशून्यशयनं नृणां नारीणां यत् प्रकीर्तितम् ॥

केन चेदं पुरा चीर्णं मर्त्यलोके प्रकाशितम् ।

फलं च कीदृशं प्राप्तं तत् सर्वं कथयस्व मे ॥

ऋषिर् उवाच ।

राजन् रूक्माङ्गदो नाम सत्यवादी जितेन्द्रियः ।

कदाचिन् मृगखेटेन गतो ऽसौ गहनं वनम् ॥

भव्यं सरोवरं दृष्टं जलपूर्णं महोहरम् ।

हंससारससङ्कीर्णं चक्रवाकोपशोभितम् ॥

आलीलं बुद्बुदाकारैर् नानाऋषिसमन्वितम् ।

तत्र स्नानं स कृत्वा तु चलितो वनगह्वरात् ॥

[३६९] द्वौ करौ सम्पुटौ कृत्वा गतो ऽसौ वामनाश्रमम् ।

उग्रं व्रतं चरन्न् अर्घपाद्यसत्कृतवान् ऋषिः ॥

नमस्कारं विधायाशु स्थितो ऽसौ वामनाग्रतः ॥

वामदेव उवाच ।

किं ते कार्यं समुत्पन्नं येन त्वम् इदम् आगतः ।

वनं मे गह्वरं स्थानं पर्वतं चातिदुर्गमम् ।

किमर्थं भवता राजन् मम पार्श्वे समागतम् ॥

रूक्माङ्गद उवाच ।

भगवन् त्वां च पृच्छामि वार्ताम् एकां सविस्मयाम् ।

केन पुण्यप्रभावेन लब्धो धर्माङ्गदः सुतः ॥

सन्ध्यावलीसमा भार्या मम प्राणस्य वल्लभा ।

सप्तद्वीपवती राजा मत्पुत्रो नवखण्डपः ॥

केन कर्मप्रभावेन सत्यं ब्रूहि महामुने ॥

वामदेव उवाच ।

अहो नृपवरश्रेष्ठ सत्यवादिन् जितेन्द्रियः ।

पृष्टवान् गहनं प्रश्नं दुर्विज्ञेयम् अबुद्धिभिः ॥

मनोऽनुकूला प्रवणा भार्या पुत्रश् च तादृशः ।

न ह्य् अल्पपुण्यैः राजेन्द्र प्राप्यते पुरुषैः क्वचित् ॥

येन पुण्येन सकलं प्राप्यते भुवि मान्वैः ।

तत् सर्वं शृणु भूपाल यथा राज्यं त्वम् आप्तवान् ॥

पुराजन्मनि शूद्रस् त्वं सत्यं न वदसि क्वचित् ।

[३७०] हव्यं कव्यं न जानासि तव भार्या पतिव्रता ॥

तव समीपे विप्राश् च चत्वारो वेदपारगाः ।

सत्कर्मनिरताः क्षान्ता विद्वांसश् च जितेन्द्रियाः ॥

चत्वारो वेदधर्मज्ञास् तव ते प्रतिवेशिनः ।

तेषां कृतवताम् एतद् अशून्यशयनव्रतम् ॥

श्रुत्वा महाफलं दृष्ट्वा त्वयाप्य् एतद् अनुष्ठितम् ।

अर्घ्यं दत्वा तु चन्द्रस्य उदये द्वितीयादिने ॥

उदकं च घृतं चैव माषक्षारविवर्जितम् ।

प्राशनं ते कृतं दत्वा ब्राह्मणाय विशेषतः ॥

चतुर्वर्षसमायुक्तं चातुर्मास्ये सदा नृप ।

व्रतस्यास्य प्रभावेन सुतो लब्धो ऽभिवाञ्छितः ॥

सन्ध्यावलीसमा भार्या धर्माङ्गदसमः सुतः ।

अन्ये ये च करिष्यन्ति फलं सर्वं लभन्ति ते ॥

पुत्रपौत्रसमायुक्तो धनधान्यसमाकुलः ।

व्रतस्यास्य प्रभावेन स्वर्गं प्राप्नोति मानवः ॥

गच्छ त्वं नृपशार्दूल भोक्ष्यसे सकलां महीम् ।

जायापुत्रसमायुक्तः स्वर्गं गच्छसि नान्यथा ॥

शतानीक उवाच ।

कथयस्व व्रतं देव प्रकारेण समन्वितम् ।

उद्यापनं कथं कुर्यात् परिपूर्णे व्रतोत्तमे ॥

ऋषिर् उवाच ।

चन्द्रोदये व्रतं कुर्याच् चतुर्वर्षम् इदं नृप ।

[३७१] आचार्यं वेदविदुषं धर्मज्ञं वरयेद् अथ ॥

ऋत्विजैश् च समायुक्तं ब्राह्मणैर् वेदपारगैः ।

यज्ञोपवीतं वस्त्रं च उपानहसमन्वितम् ॥

सुवर्णं रौप्यमुद्रां च हैमं कृत्वा तु वैष्णवम् ।

सौवर्णी विष्णुमूर्तिं च रूक्मलक्ष्मीसमन्विताम् ॥

शय्यां च तुलिकां चैव सप्तधान्यसमन्विताम् ।

गोप्रदानं च दातव्यम् अनुज्ञानी भवेन् नरः ॥

ब्राह्मणान् भोजनं दद्याद् घृतपूरैः सशर्करैः ।

एवं यः कुरुते पार्थ प्राप्नोति परमं पदम् ॥

इति भविष्यत्पुराणोक्तम् अशून्यशयनद्वितीयाव्रतम् ।

भविष्योत्तरात् ।

युधिष्ठिर उवाच ।

भगवन् भवता प्रोक्तं धर्मार्थादेः सुसाधनम् ।

गार्हस्थ्यं तच् च भवति दम्पत्योः प्रियमाणयोः ॥

पत्नीहीनः पुमान् पत्नी भर्त्रा विरहिता न च ।

दर्मार्थकामसंसिद्ध्यै तस्मात् तु मधुसूदन ॥

तच् छ्रोष्ये देवदेवेश विधवा स्त्री न जायते ।

व्रतेन येन गोविन्द पत्न्या विरहितो नरः ॥

[३७२] कृष्ण उवाच ।

अशून्यशयनां नाम् द्वितीयां शृणु भारत ।

याम् उपोष्य न वैधव्यं स्त्री प्रयाति नराधिप ॥

पत्नीवियुक्तश् च नरो न कदाचित् प्रजायते ।

अत्रोपवासदिने न पुनरशनं नक्तं भुञ्जीतेत्य् अग्रे ऽभिधानात् ।

शेते जगत्पतिः कृष्णः श्रिया सार्धं यदा नृप ॥

अशून्यशयना नाम तदा ग्राह्या तु सा तिथिः ।

उपवासेन नक्तेन तथैवायाचितेन च ॥

कृष्णपक्षे द्वितीयायां श्रावणे मासि भारत ।

यदा शेते तदेयं ग्राह्या शयनीसन्निहिता ग्राह्येत्य् अर्थः । तेन श्रावणो ऽत्र पौर्णमान्तपक्षेण ज्ञेयः ।

स्नानं नदीतडागे वा गृहे वा नियतात्मवान् ॥

स्थण्डिलं चतुरस्रं च मृन्मयं कारयेत् ततः ।

तत्रस्थं श्रीधरं श्रीशं भक्त्याभ्यर्च्य श्रिया सह ॥

नैवेद्यैः पुष्पधूपाद्यैः फलैः कालोद्भवैः शुभैः ।

इदम् उच्चारयेन् मन्त्रं प्रणम्य च जगत्पतिम् ॥

श्रीवत्सधारिन् श्रीकान्त श्रीवास श्रीपते ऽव्यय ।

गार्ह्स्थ्यम् आप्रनाशं मे यातु धर्मार्थकामदम् ॥

शुचयो मा प्रणस्यन्तु मा प्रणश्यन्तु निर्जराः ।

याम्यगा मा प्रणश्यन्तु मत्तो दाम्पत्यभेदतः ॥

शुचयो ऽग्नयः निर्जराः देवाः याम्यगाः पितरः ।

लक्ष्म्या वियुज्यन्ते देव न कदाचिद् यथा भवान् ।

तथा कलत्रसम्भन्धो देव मा मे वियुज्यताम् ॥

[३७३] लक्ष्म्या न शून्यं वरद यथा ते शयनं सदा ।

शय्या ममाप्य् अशून्यास् तु तथात्र मधुसूदन ॥

विष्णुरहस्ये पुनर् इमे मन्त्राः ।

पत्नी भर्तृवियोगं भर्ता भार्यासमुद्भवम् ।

नाप्नुवन्ति यथा दुःखं दाम्पत्यानि तथा कुरु ॥

यथा श्रियावियुक्तस् त्वं लक्ष्मीर् देव त्वया यथा ।

प्रसादात् तव देवेश स्थिरस् अस्तु तथावयोः ॥

मात्मपुत्राः प्रणश्यन्तु मा धनं माकुलक्रमः ।

अग्नयो मा प्रणश्यन्तु गृहभङ्गो ऽस्तु मावयोः ॥

शेषो ग्रन्थो भविष्योत्तरेण तुल्यार्थः ।

एवं प्रसाद्य पूजां च कृत्वा लक्ष्म्यास् तथा हरेः ।

फलानि दद्यात् शय्यायाम् अपीष्टानि जगत्पतेः ॥

नक्तं प्रणम्यायतने हरिं भूज्ञीत वाग्यतः ।

चन्द्रोदये स्नानपूर्वं पञ्चगव्येन संयुतम् ॥

विप्राय दक्षिणां दत्वा स्वशक्त्या फलसंयुतम् ।

हरिं प्रणम्य नक्तं भुञ्जीतेत्य् अन्वयः ।

अनेन विधिना राजन् यावन् मासचतुष्टयम् ।

कृष्णपक्षे द्वितीयायां प्रागुक्तविधिनार्चरेत् ॥

कार्त्तिके त्व् अथ सम्प्राप्ते शय्यां श्रीकान्तसंयुताम् ।

सोपस्करां सोदकुम्भां सान्नां दद्याद् द्विजातये ॥

प्रतिमांसं च सोमाय अर्घं दद्यात् समन्त्रकम् ।

[३७४] दध्यक्षतैर् मूलफलैः रत्नैः सौवर्णभाजनैः ॥

गगनाङ्गणसम्भूतदुग्धाब्धिमथनोद्भव ।

भाभासितदिगाभोग रसानुज नमो ऽस्तु ते ॥

ब्राह्मणाय द्वितीये ऽह्नि शक्त्या देया च दक्षिणा ।

यानि तत्र महाबाहो काले सन्ति फलानि च ॥

फलानि दद्यात् शय्यायाम् इत्य् अनेन सामान्येनोपात्तफलानां यानीत्यादिना विशेषाभिधानम् ।

मधुराणि न तीव्राणि न चापि कटुकानि च ।

दातव्यानि नृपश्रेष्ठ स्वशक्त्या शयने नृप ॥

मधुराणि च दत्वा तु मनोवल्लभतां व्रजेत् ।

तस्मात् कटुकतीव्राणि स्त्रीलिङ्गानि च वर्जयेत् ॥

खर्जूरमातुलङ्गानि स्थितेन शिरसा सह ।

फलानि शयने राजन् यज्ञभागं हरस्व तु ॥

स्थितेन शिरसा सह नालिकेरं यथास्थितं वर्जयेत् । अन्तर्गोलं दद्याद् हरस्य यज्ञभागं वर्जयेत् । रुद्रप्रीत्यर्थं कतिचिद् अवशेष्य परितस् त्यजेद् इत्य् अर्थः ।

एतान्य् एव तु विप्राय गाङ्गेयसहितानि च ।

द्वितीये ऽह्नि प्रदेयानि भक्त्या शक्त्या च भारत ॥

वासोदानं तथा धान्यफलदानसमन्वितम् ।

एतान्य् एव यानि शयने दत्तानि गाङ्गेयम् अत्र सुवर्णम् ।

एवं करोति यः सम्यक् नरो मासचतुष्टयम् ।

तस्य जन्मत्रयं वीर गृहभङ्गो न जायते ॥

मासचतुष्टयं कृष्णद्वितीयास्व् इति शेषः । [३७५] बोधिन्यनन्तरद्वितीयायां समाप्तिर् इत्य् अर्थः ।

तस्य जन्मत्रयं यावद् गृहभङ्गो न जायते ।

अशून्यशयनश् चैव धर्मकामार्थसाधकः ॥

भवत्य् अव्याहतैश्वर्यः पुरुषो नात्र संशयः ।

नारी च पार्थ धर्मज्ञा व्रतम् एव यथाविधि ॥

या करोति न सा शोच्या बन्धुवर्गस्य जायते ।

वैधव्यं दुर्भगत्वं च भर्तृत्यागं च सत्तम ॥

प्राप्नोति जन्मत्रितयं न सा पाण्डुकुलोद्वह ॥

एषा ह्य् अशून्यशयना नृपते द्वितीया

ख्याता समस्तकलुषापहरा द्वितीया ।

एनां सदाचरति यः पुरुषो ऽथ योषित्

प्राप्नोत्य् असौ शयनम् अग्र्यमहार्हभोगम् ॥

शङ्कर उवाच ।

गीतवादित्रनिर्घोषैर् देवदेवस्य कारयेत् ।

घण्टावादनशक्तस्य सर्वदेवमयीं नमः ॥

एवं सम्पूज्य गोविन्दम् अश्नीयात् तैलवर्जितम् ।

नक्तम् अक्षारलवणं यावत् तत् स्याच् चतुष्टयम् ॥

याम् उपोष्येति तु तैलादिवर्जनाद् दिवाभोजनवर्जनाच् च ।

ततः प्रभाते सञ्जाते लक्ष्मीपतिसमन्विताम् ।

दीपान्नभोजनैर् युक्तां शय्यां दद्याद् विचक्षणः ॥

पादुकोपानहछत्रचामरासनसंयुताम् ।

तथाभरणधान्यैश् च यथाशक्त्या समन्विताम् ॥

[३७६] अव्यङ्गाङ्गाय विप्राय वैष्णवाय कुटुम्बिने ।

दातव्या वेदविदुषे न बकव्रतिने क्वचित् ॥

तत्रोपवेश्य दाम्पत्यम् अलङ्कृत्य विधानतः ।

पत्न्याश् च भोजनं दद्याद् भक्षभोज्यसमन्वितम् ॥

ब्राह्मणस्यापि सौवर्णीम् उपस्करसमन्विताम् ।

प्रतिमां देवदेवस्य सोदकुम्भां निवेदयत् ॥

एवं यस् तु पुमान् कुर्याद् अशून्यशयनव्रतम् ।

न तस्य वित्तविरहः कदाचिद् अपि जायते ।

नारी वाविधवा ब्रह्मन् यावच् चन्द्रार्कतारकम् ॥

मत्स्यपुराणात् ।

न विरूपं न शोकार्थं दाम्पत्यं जायते क्वचित् ।

न पुत्रपशुरत्नानि क्षयं यान्ति नृपोत्तम ॥

सप्तकल्पसहस्राणि सप्तकल्पशतानि च ।

कुर्वन्न् अशून्यशयनं विष्णुलोके महीयते ॥

भविष्यपुराणे ।

अशून्यशयनं तस्य धर्मकामार्थसाधकम् ।

भवत्य् अव्याहतैश्वर्यः पुरुषो नात्र संशयः ॥

नारी च राजन् धर्मज्ञा व्रतम् एतद् यथाविधि ।

या करोति न शोच्यासौ बन्धुवर्गस्य जायते ॥

वैधव्यं दुर्भगत्वं च भर्तृत्यागं च सत्तम ।

नाप्नोति जन्मत्रितयम् एतत् कृत्वा महाव्रतम् ।

[३७७] इत्य् एषा कथिता राजन् द्वितीया तिथिर् उत्तमा ।

याम् उपोष्य नरो राजन्न् ऋद्धिवृद्दिं स्वयं व्रजेत् ॥

इति अशून्यशयनद्वितीयाव्रतम् ।

ब्रह्मा उवाच ।

ब्रह्माणं च द्वितीयायां सम्पूज्य ब्रह्मचारिणम् ।

भोजयित्वा तु विधिना सर्वासां पारगो भवेत् ॥

मूलमन्त्राः स्वसञ्ज्ञाभिर् अङ्गमन्त्राश् च कीर्तिताः ।

पूर्ववत् पद्मपत्रस्थः कर्तव्यश् च तिथीश्वरः ॥

तिथीश्वरो ब्रह्मा ।

गन्धपुष्पोपहारैश् च यथाशक्त्या विधीयते ।

पूजाशाठ्येन शाठ्येन कृतापि च फलप्रदा ॥

आज्यधारासमिद्भिश् च दधिक्षीरान्नमाक्षिकैः ।

पूर्वोक्तफलदो होमः कृतः शान्तेन चेतसा ॥

एतद् व्रतं वैश्वानरप्रतिपत्व्रतवत् व्याख्येयम् ।

इति भविष्यत्पुराणोक्तं ब्रह्मव्रतम् ।

अगस्त्य उवाच ।

अतः परं प्रवक्ष्यामि कान्तिव्रतम् अनुत्तमम् ।

[३७८] द्वितीयायाम् तु राजेन्द्र कार्त्तिकस्य सिते दिने ॥

नक्तं कुर्वीत यत्नेन अर्चयेद् बलकेशवौ ।

बलदेवाय पादौ तु केशवाय शिरो ऽर्चयेत् ॥

एवम् अभ्यर्च्य मेधावी वैष्णवं रूपम् उत्तमम् ।

परस्वरूपं सोमाख्यं द्विकलं तद्दिने ऽर्चयेत् ॥

सोमरूपं विष्णुरूपं कृत्वा तस्य पादौ बलदेवायेत्य् अर्चयेत् । शिरः केशवायेति एवम् अङ्गद्वयम् अभ्यर्च्य शेषरूपम् अर्चयेत् । तद्दिने द्वितीयादिने द्विकलं तत् द्वे कले यस्य तत् द्वे कले बलदेवकेशवाख्ये निग्रहानुग्रहशक्ती व्यक्ते भवतः ।

दद्याद् अर्घ्यं च मतिमान् मन्त्रेण परमेष्ठिनः ।

परमेष्ठिनः चन्द्ररूपस्य विष्णोः तम् एव मन्त्रम् आह ।

नमस् त्व् अमृतरूपाय सर्वौषधिधराय च ।

यज्ञलोकाधिपतये सोमाय परमात्मने ॥

अनेन खलु मन्त्रेण दत्वार्घ्यं शशिने नृप ।

रात्रौ स विप्रो मुञ्जीत यवान्नं सघृतं नृप ॥

स विप्रः स ब्राह्मणस् तेन ब्राह्मणाय भोजनं हुत्वा स्वयं भोक्तव्यम् इत्य् अर्थः

सिध्यति ।

फाल्गुनादिचतुष्काम् तु पायसं सघृतं शुचिः ।

तिलहोमं प्रकुर्वीत कार्त्तिआदौ यवैस् तथा ॥

आषाढादिचतुष्के तु घृतहोमं च कारयेत् ।

नक्तं तिलान्नं भुञ्जीत एष एव विधिक्रमः ॥

कार्त्तिकादिचतुष्के यवान्नं भुञ्जीतेय् अर्थसिद्दम् ।

अतः संवत्सरे पूर्णे सोमं कृत्वा तु राजतम् ।

[३७९] सितवस्त्रयुषछन्नं सितपुष्पानुलेपनम् ॥

एवम् एव द्विजं पूज्य ततस् तं प्रतिपादयेत् ।

कान्तिमान् अश्विलोके तु सर्वज्ञः प्रियदर्शनः ॥

त्वत्प्रसादात् सौम्यरूपी नारायण नमो ऽस्तु ते ।

अनेन खलु मन्त्रेण दत्वा विप्राय वाग्यतः ॥

कृतमात्रे ततस् तस्मिन् कान्तिमान् जायते नरः ।

आत्रेयेणापि सोमेन कृतम् एतत् पुरा नृप ।

ततस् व्रतान्ते तन्तुष्टः [सन्तुष्टः?] स्वयम् एव जनार्दनः ॥

इति वराहपुराणोक्तं सोद्यापनं कान्तिद्वितीयाव्रतम् ।

श्रीकृष्ण उवाच ।

कथयामि परं पार्थ सर्वविघ्नोपशान्तिदम् ।

श्रुणुष्वाभिनवस्येन्दोर् अर्घ्यदानविधिं परम् ॥

रवेर् द्वादशभिर् भागैर् वारुण्यां दृश्यते शशी ।

प्रदोषसमये पार्थ अर्घ्यं दद्यात् तथा विधोः ॥

चन्द्राद् द्वादशभागान्तरिते भूर्ये अर्घ्यं दद्यात् प्रतिपद्युतायां द्वितीयायाम् इत्य् अर्थः ।

द्वितीयायां सिते पक्षे सन्ध्याकाले ह्य् उपस्थिते ।

संस्थाप्याभिनवं चन्द्रं रूप्यं गोमयमण्डले ॥

रोहिणीसहितं देवं चन्दनेनाभिलेखयेत् ।

पुष्पचन्दनकर्कन्धुफलैस् तन्दुलमिशितैः [तण्डुल-?] ॥

दूर्वाङ्कुरै रत्नवरैः फलैर् वस्त्रैश् च पाण्डुरैः ।

मन्त्रेणानेन राजेन्द्र अर्घ्यं दद्याद् विचक्षणः ॥

[३८०] कर्कन्धुफलानि बदराणि ।

नवो नवो ऽसि मासान्ते जायमानः पुनः पुनः ।

आप्यायस्व समेत्य् एवं सोमराज नमो ऽस्तु ते ॥

अनेन विधिना चार्घ्यं सर्वकामफलप्रदम् ।

यः प्रयच्छति सोमाय मासि मासि समाहितः ॥

सर्वकामान् अवाप्नोति दीर्घम् आयुश् च विन्दति ।

दत्वार्घ्यं विप्र सहितः शाल्यन्नं [शाल्यान्नं?] क्षीरसंयुतम् ॥

नक्तं भुञ्जीत कौन्तेय प्रसन्नवदनेक्षणः ।

युक्तः सुकीर्त्या यशसा कान्त्या पुष्ट्या च मानवः ॥

पुत्रपौत्रैः परिवृतो गोधान्यधनसङ्कुलः ।

स्थित्वा वर्षशतं मर्त्ये मृतः शशिपुरं व्रजेत् ॥

तत्रास्ते दिवि द्वियांस् तु भोगान् भुञ्जन् नृपोत्तमः ।

वरस्त्रीभिः सहात्यर्थं यावद् आभूतसम्प्लवम् ॥

सर्वां समृद्धिम् अतुलां यदि वाञ्छति त्वं

मासानुमासम् इह मद्वचनं कुरुष्व ।

सोमस्य सोमकुलनन्दन चन्दनाद्यैर्

अर्घ्यं प्रयच्छ नवजातनवोदितस्य ॥

इति भविष्योत्तरे नवोदितचन्द्रार्घ्यदानविधिः ।

मार्कण्डेय उवाच ।

इमां तथान्यां वक्ष्यामि द्वितीयां सर्वकामदाम् ।

[३८१] याम् उपोष्य नरः कामान् सर्वान् आप्नोत्य् अभीप्सितान् ॥

चैत्रशुक्लद्वितीयायां सम्प्राप्य नृप मानवः ।

दिनावसाने कुर्वीत सम्यक् स्नानं नदीजले ॥

बालेन्दुमण्डलं कृत्वा पूजयेच् छ्वेतवर्णकैः ।

श्वतैः पुष्पैः फलैश् चैव परमान्नेन भूरिणा ॥

इक्षुणेक्षुविकारैश् च शुभ्रेण लवणेन च ।

दिनावसाने देवेशं पूजयेद् वा निशाकरम् ॥

अथ वा मण्डलं कृत्वा गगनस्थं प्रपूजयेत् ।

घृतेन हवनं कृत्वा नक्तं भुञ्जीत वाग्यतः ॥

नाममन्त्रेण पूजाहोमौ ततस् तैलेन पवितं भक्षयेन् न स दैववत् (?) । तैलपक्वं संवत्सरं वर्जयेत् ।

एतद् व्रतं नरः कृत्वा सम्यक् संवत्सरं शुचिः ।

सौभाग्यं महद् आप्नोति स्वर्गलोकं स गच्छति ॥

एतत् पवित्रं रिउप्नाशकारि

सौभाग्यदं रोगहरं च राजन् ।

प्रोक्तं व्रतं यादववंशमुख्य

कार्यं प्रयत्नेन तथा स्त्रियापि ॥

इति विष्णुधर्मोत्तरे बालेन्द्रद्वितीयाव्रतम् ।

कृष्ण उवाच ।

रूपं सुरूपं यो वाञ्छेत् सौभाग्यं प्रवराः स्त्रियः ।

[३८२] कार्त्तिके शुक्लपक्षे तु द्वितीयायां नराधिप ।

पुष्पाहारो वर्षम् एकं वसेत् सनियतात्मवान् ॥

कार्त्तिकशुक्लपक्षद्वितीयायां व्रतम् आरभ्यान्यास्व् अपि शुक्लपक्षद्वितीयास्व् एव वर्षपर्यन्तं पुष्पाहारो व्रतं कुर्याद् इत्य् अर्थः ।

कालप्राप्तानि यानि स्युर् हविष्यकुसुमानि तु ।

भुञ्जीत तानि दत्वा तु ब्राह्मणेभ्यो नाराधिप ॥

हविष्यकुसुमानि पूजार्हाणि भक्षणे चाविरुद्धानि । अश्विनौ चात्र नाममन्त्रेण पूजनीयौ तयोः फलदातृत्वेन श्रवणात् ।

सुवर्णस्य च पुष्पाणि गवा सह ददाति यः ।

व्रतान्ते तस्य सन्तुष्टौ देवौ त्रिभुवनेश्वरौ ॥

दद्युः कामांस् तथा दिव्यान् विमानम् अपि तैजसम् ।

सुचिरं देवनारीभिर् लोकं रमयताश्विनौ ॥

इह चागत्य कल्पान्ते द्विजो विप्रपुरस्कृतः ।

वेदवेदाङ्गविद्वान् स्यात् सप्तजन्मान्तराण्य् असौ ॥

दाता दान्तमतिर् वाग्मी आधिव्याधिविवर्जितः ।

पुत्रपौत्रैः परिवृतः सह पत्न्या रमेच् चिरम् ॥

मध्यदेशे सुरम्ये च धर्मिष्ठे राज्यभाग् भवेत् ।

कथिता ते मया तुभ्यं द्वितीया पुष्यसञ्ज्ञिता ॥

इति भविष्यत्पुराणोक्तं पुष्यद्वितीयाव्रतम् ॥

कृष्ण उवाच ।

सन्त्य् एतास् तिथयः पार्थ द्वितीयाद्याश् च विश्रुताः ।

मासैश् चतुर्भिश् चतस्रः प्रावृट्काले महामहाः ॥

[३८३] गोपतास् तिथयः पार्थ न प्रोक्ताश् च मया क्वचित् ।

प्रकाशयामि ताः सम्यक् श्रुणु सर्वाः समाहितः ॥

प्रथमा श्रावणे मासि तथा भाद्रपदे परा ।

तृतीयाश्वयुजे मासि चतुर्थी कार्त्तिके भवेत् ॥

श्रावणे कलुषा नाम् तथा भाद्रे च गोर् मला ।

आश्विने प्रेतसञ्चारा कार्त्तिके याम्यका मता ॥

युधिष्ठिर उवाच ।

कस्मात् सा कलुषा प्रोक्ता कस्मात् सा गोर् मला मता ।

कस्मात् सा प्रेतसञ्चारा कस्माद् याम्या प्रकीर्तिता ॥

कृष्ण उवाच ।

पुरा वृत्रवधे वृत्ते प्राप्तराज्ये पुरन्दरे ।

ब्रह्महत्यापनोदार्थम् अश्वमेधे प्रवर्तिते ॥

क्रोधाद् इन्द्रेण वज्रेण ब्रह्महत्या निसूदिता ।

षड्विधा सा क्षितौ क्षिप्ता वृक्षतोयमहीतले ॥

नारी ब्रह्मणे वह्नो संविभज्य यथाक्रमम् ।

तत् पापं श्रावणे व्यूढं द्वितीयायामिनोदये ॥

नारी वृक्षं नदीं भूमिं वह्निं ब्रह्महणं तथा ।

निर्मलीकरणं जातम् अतीर्थं कलुषा स्मृता ॥

मधुकैटभयोरक्ते पुरा मग्ना हि मेदिनी ।

अष्टाङ्गुलापवित्रास्मान् नारीणां तु रजोमलम् ॥

नद्यो जलमलाः सर्वा वह्नेर् धूमशिखामलम् ।

कलषाणिं चरन्त्य् अस्यां तेनैषा कलुषा मता ॥

[३८४] चरन्ति कृतप्रायश्चित्तान् परित्यज्य कृतप्रायश्चित्तान् ग्रहीतुं विचरन्ति । अत एव तस्यां प्रतिसंवत्सरं किञ्चित् प्रायश्चित्तं कर्तव्यम् ।

गीर् गिरां भारतीवाणी वरा मेधा सरस्वती ।

गीर् मलं वहते यस्माद् द्वितीया गीर् मला मता ॥

देवर्षिपितृधर्माणां निन्दका नास्तिकाः शठाः ।

तेषां सा वाग्मलं व्यूढा द्वितीया तेन गीर् मला ॥

अनध्यायेषु शास्त्राणि पाठयन्ति पठन्ति च ।

शाब्दिकास् तार्किकाः श्रौतास् तेषां ये शब्दजा मलाः ॥

ते च व्यूढा द्वितीयायां ततो ऽर्थं गीर् मला च सा ।

अस्तस् तस्यां सरस्वतीपूजा कार्येत्य् अर्थः ।

प्रेतास् तु पितरः प्रोक्तास् तेषां तस्यां तु सञ्चरः ॥

द्वितीयायां च लोकेषु तेन सा प्रेतसञ्चरा ।

अग्निष्वत्ता बर्हिषद आज्यपाः सोमपास् तथा ॥

पितॄन् पितामहान् प्रेतान् सञ्चारात् प्रेतसञ्चराः ।

पुत्रैः पौरैश् च दौहित्रैः स्वधामन्त्रैस् तु पूजिताः ॥

श्राद्धदानमखैस् तृप्ता यान्त्य् अतः प्रेतसञ्चरा ।

अतस् तस्याम् अपि श्राद्धं कर्तव्यम् इत्य् अर्थः ।

कार्त्तिके शुक्लपक्षस्य द्वितीयायां युधिष्ठिर ॥

यमो यमुनया पूर्वं भोजितः स्वगृहे सदा ।

द्वितीयायां महोत्सर्गे नारकीयाश् च तर्पिताः ॥

पापेभ्यो ऽपि विमुक्तास् ते मुक्ताः सर्वनिबन्धनात् ।

[३८५] भ्रंशिताश् चातिसन्तुष्टाः स्थिताः सर्वे यदृच्छया ॥

तेषां महोत्सवो वृत्तो यमराष्ट्रसुखावहः ।

अतो यमद्वितीया सा प्रोक्ता लोके युधिष्ठिर ॥

अस्यां निजगृहे पार्थ न भोक्तव्यम् अतो बुधैः ।

स्नेहेन बहिनीहस्ताद् भोक्तव्यं पुष्टिवर्धनम् ॥

दानानि च प्रदेयानि भगिनीभ्यो विधानतः ।

स्वर्णालङ्कारवस्त्राणि पूजासत्कारभोजनैः ॥

सर्वा भगिन्यः सम्पूज्या अभावे प्रतिपन्नकाः ।

प्रतिपन्नकाः मित्रभगिन्य इत्य् अर्थः ।

पितृव्यभगिनीहस्तात् प्रथमायां युधिष्ठिर ॥

मातुलस्य सुताहस्ताद् द्वितीयायां तथा नृप ।

पितुर् मातुः स्वसुः कन्ये तृतीयायां तयोः करात् ॥

भोक्तव्यं सहजायायाश् च भगिन्या हस्ततः परम् ।

पितृव्यभगिनी पितृव्यसम्बन्धेन भगिनी पितृव्यकन्येत्य् अर्थः ।

सर्वस्वभगिनीहस्ताद् भोक्तव्यं बलवर्धनम् ॥

धन्यं यशस्यम् आयुष्यं धर्मकामार्थसाधकम् ।

व्याख्यातं सकलं पार्थ सरहस्यं मया तव ॥

यस्यां तिथौ यमुनया यमराजदेवः

सम्भोजितः प्रतिजगत्स्वसृसौहृदेन ।

तस्यां स्वसृकरतलाद् इह यो भुनक्ति

[३८६] प्राप्नोति रत्नशुभगन्धनम् उत्तमं सः ॥

इति भविष्योत्तरे यमद्वितीयाव्रतम् ।

सनत्कुमार उवाच ।

अनन्तरं द्वितीयायां यत् कार्यं तच् छृणुष्व मे ।

सर्वविद्याप्रदं पुण्यं बुद्धिप्रभवदोषहृत् ॥

सुस्नातः कृतज्पयश् च कृतपूर्वाह्निकक्रियः ।

ब्रह्मचारी जितक्रोधो जितवाक्कायमानसः ॥

मण्डलं चतुरस्रं तु कुर्यात् तच्छेशतण्डुलैः (?) ।

तन्मध्ये ऽष्टदलं पद्मं विधाय कुसुमोत्करैः ॥

कर्णिकायां श्रियं देवीं पद्महस्तां हरिप्रियाम् ।

पद्माननां पद्मनेत्रां पद्मकिञ्जल्कसन्निभाम् ॥

सरस्वती रतिर् भूतिर् दान्तिः कान्तिश् च सर्वदा ।

मैत्री विद्येति चाख्याता दिव्यास् ताश् चाष्टशक्तयः ॥

तद्दलेषु यथायोगं न्यसेद् अष्टसु योजिताः ।

तत्तदाद्यर्णयुक्तेन नाममन्त्रेण पूजिताः ॥

तत्तदाद्यर्णयोगेनेति तत्तन्नामादिवर्णकृतमन्त्रेणेत्य् अर्थः यथा सं सरस्वत्यै नम इति एवं वक्ष्यमाणेष्व् अपि ज्ञेयम् ।

प्रज्ञां मेधां प्रभां सत्वाम् उत्तरस्याम् इति क्रमात् ।

स्मरेद् विदिक्षु छायाद्या मिश्रवर्णाः पृथक् पृथक् ॥

[३८७] नन्दी दक्षो ऽरुणः सिद्ध इति दिक्पतयः क्रमात् ।

विष्णुः शेषो रुरूश् चण्ड इति कोणाधिपाः स्मृताः ॥

द्वारपाला बहिश् चाष्टौ दिक्षु वै द्वन्द्वशः स्थिताः ।

द्वन्द्वशः दिशि द्वौ द्वौ ।

वक्रतुण्डो महादंष्ट्रो नीलजिह्वो बृहच्छिराः ॥

क्रोधेक्षणो दीप्तमुखो दीप्ताक्षः काल इत्य् अपि ।

शङ्खपद्मनिधी दिक्षु पङ्कजोपरि संस्मरेत् ॥

दिक्षु प्रतिदिशं निधिद्वयम् ।

व्यासः क्रतुर् मनुर् दक्षश् चत्वारो गुरवः स्मृताः ।

दिक्षु इत्य् अनुवर्तते ।

अत्रिर् द्युमत् कविः काण्ड इति दिक्कोणतः स्थिताः ॥

दिक्कोणतो विविक्षु (विदिक्षु ?) ।

वशिष्टो वामदेवश् च जीमूतश् च पराशरः ।

शाण्डिलको हरः कान्तो मित्र इत्य् अपि विश्रुताः ॥

एवमादिसुसंयुक्तं मण्डलं कारयेत् सुधीः ।

चन्दनागुरुधूपेन श्वेतपुष्पैः समर्चयेत् ॥

पायसं च पयःसिद्धं निवेद्य च यथोदयम् ।

श्रीलतापद्मकुसुमैः श्वेतपुष्पैश् च तण्डुलैः ॥

फलपुष्पदलैर् बिल्वैः नन्द्यावर्तप्रसूनकैः ।

जातिकेशरपुष्पैश् च मल्लिकाचम्पकोद्भवैः ॥

श्रीलता पद्मिनी, पद्मं तु पुष्पं कुसुमं तु केसरं तयोः पृथक्-**[३८८]**ग्रहणं फलाधिक्यार्थम् । सितं पुण्डरीकं नद्यावर्तं तगरं केशरो बलुकः, मल्लीका मुहुरकः ।

श्रीवीजेन यथायोगम् अर्चयेद् ईश्वरप्रियाम् ।

द्वारपालान् बहिश् चाष्टौ दिक्षु वै द्वादशस्थिताः ॥

वक्रतुण्डो महादंष्ट्रो नीलजिह्वो बृहच्छिराः ।

क्रोधेक्षणो दीप्तिमुखो दीप्राक्षः काल इत्य् अपि ॥

शङ्खपद्मनिधी दिक्षु पङ्कजोपरि संस्मरन् ।

व्यासः क्रतुर् मुनिर् दक्षश् चत्वारो गुरवः स्मृताः ॥

शक्तीश् च तत्तन्मन्त्रेण सर्वत्रैवं विधिः स्मृतः ।

प्रातर् एवं विधिः कार्यो नापराह्ने कदाचन ॥

एवम् अभ्यर्च्य विधिना देवीं शक्त्यादिसंयुताम् ।

प्रदक्षिणं नमस्कारान् स्तोत्रालापादि कारयेत् ॥

श्रीसूक्तम् अन्यसूक्तानि वैष्णवानि च कीर्तयेत् ।

श्रीसूक्तं हिरण्यवर्णां हरिणीम् इत्यादि प्रसिद्धम् । अन्यसूक्तानि पुरुषसूक्तानि ।

एवं समाप्य विधिवत् सपर्याम् अथानन्यधीः ॥

गाम् अघन्याम् उदकुम्भं च गुरुभ्यः प्रतिपादयेत् ।

गाम् अघ्न्याम् इति गौर् वृषः, अघ्न्या धेनुः, वृषधेनू प्रतिपादयेद् इत्य् अर्थः ।

लाजापूर्णानि पात्राणि तिलपूर्णानि पञ्च च ॥

हरिद्राचूर्णपूर्णानि योषिद् वा प्रतिपादयेत् ।

दद्यात् कुटुम्बिने हेम अन्नं हि क्षुधिताय च ॥

[३८९] अथ विद्याप्रदं शिष्यम् आचार्यम् अभिवाद्य च ।

देहि विद्यां प्रपन्नायेत्य् अर्थयेत विचक्षणः ॥

एवम् अभ्यर्चितः पूर्वम् आचार्यो देवसन्निधौ ।

विद्याम् उपदिशेत् तस्मै शिष्याय व्रतचारिणे ॥

नियमो विद्याधिगतिकारणम् ।

सम्यग् उक्तो मया ब्रह्मन् येन पारम्यम् ऋच्छति ।

पारम्यं परमता ।

यो विद्या वा कुलभूतिम् उच्चैः

प्राप्तुं परं वा परमस्य पुंसः ।

इत्थं द्वितीयानियमप्रभाव-

प्राप्तात्मविद्यः स परं समेति ॥

इति गारुडपुराणोक्तं विद्याव्रतम् ।

दद्यात् सितद्वितीयायाम् इन्दोर् लवणभोजनम् ।

समाप्ते गोप्रदो याति विप्राय शिवमन्दिरम् ॥

विप्राय लवणभोजनं दद्याद् इत्य् अन्वयः । सोमश् चात्र देवानां सोमव्रतम् इदं स्मृतिम् इति सोमस्य देवतात्वं गम्यते ।

कल्पान्ते राजराजस्य सोमव्रतम् इदं स्मृतम् ।

इति पद्मपुराणोक्तं सोमव्रतम् ।

पुष्कर उवाच ।

पौषशुक्लद्वितीयायां गवां शृङ्गोदकेन तु ।

[३९०] स्नात्वा शुक्लाम्बरो भूत्वा सूर्योत्तस् तम् उपागते ॥

बालेन्दोः पूजनं कृत्वा गन्धमाल्यानुलेपनैः ।

दीपधूपनमस्कारैस् तथा चैवान्नसम्पदा ॥

दध्ना च परमान्नेन गुडेन लवणेन च ।

पूजनैर् ब्राह्मणानां च पूजयित्वा निशाकरम् ॥

सोमरूपं कान्तिद्वितीयायां नाममन्त्रेण पूजा यावद् अस्तं न यातीन्दुस् तावद् एव समाचरेत् ।

आहारं गोरसप्रायम् अधःशायी निशां नयेत् ।

एवं संवत्सरे पूर्णे सोम्ये मासि द्विजोत्तम ॥

एवम् इति प्रतिमासं शुक्लद्वितीयायां सूर्यचन्द्रपूजनं विधिनेत्य् अर्थः । सौम्यो मार्गशीर्षः ।

बालेन्दोः पूजनं कृत्वा पूर्वस्मृतिविशेषतः ।

वाससी रसकुम्भं च काण्चनं च द्विजातये ॥

दत्वा तु पूर्ववद् भक्त्या व्रतपारगतो भवेत् ॥

पूजा भोजनं पूजयेत् । व्रतारम्भ इति गोरसः क्षीरादि ।

व्रतेनानेन धर्मज्ञो रोगम् एवं व्यपोहति ।

सौभाग्यम् आप्नोति तथा पुष्टिं च मनुजोत्तम ॥

कामं समाप्नोत्य् अथ चैकम् इष्टं

यशस् तथाग्र्यं प्रचुरं च धर्मम् ।

[३९१] अभ्यासतस् तस्य समस्तकामान्

नरस् तथाप्नोत्य् अथ वापि नारी ॥

इति विष्णुधर्मोतरारोग्यद्वितीयाव्रतम्

मार्कण्डेय उवाच ।

पुरुषः प्रकृतिश् चोभौ जगत् सर्वं प्रकीर्तितम् ।

अग्नीषोमात्मकं सर्वं तथा तच् च प्रकीर्तितम् ॥

वासुदेवश् च लक्ष्मीश् च ताव् एव परिकीर्तितौ ।

चैत्रशुक्लद्वितीयायां सोपवासो जितेन्द्रियः ॥

पुरुषेण च सूक्तेन वह्निं सम्पूजयेन्नरः ।

सोपवास इति प्रतिपदि कृतोपवासो द्वितीयायां वह्निं पूजयेद् इत्य् अर्थः । उपरिष्टाच् च क्षीरघृतभोजनस्य विहितत्वात् ।

गन्धमाल्यनमस्कारदीपधूपान्नसम्पदा ॥

लक्ष्मीं च वरदं देवं पूजयेद् उदकं हरिम् ।

श्रीसूक्तेन च धर्मजञ तथार्चन् मनुजोत्तमम् ॥

हरिसोमौ वह्निं जलकुम्भं च प्रतिहाप्य पुरुषम् अग्निं वासुदेवं चैकोपरि पूजयेत् ।

काञ्चनं रजतं ताम्रं दद्याद् विप्रेषु दक्षिणाम् ।

प्राणयात्रां बुधः कुर्यात् क्षीरेण सघृतेन च ॥

प्राणयात्राम् इति प्राणनिर्वहणम् ।

संवत्सरम् इदं कृत्वा व्रतं सम्यग् उपोषितः ।

मुच्यते पातकैः सर्वैर् मोक्षोपायं च विन्दति ॥

[३९२] कामान् अवाप्नोत्य् अथ वाञ्छितांश् च

लोकांश् च पुण्यान् वसुधां समग्राम् ।

विरूपवान् रूपम् अथापि वाग्र्यं

यशस् तथाग्रं तनयांश् च मुख्यान् ॥

इति श्रीविष्णुधर्मोत्तरोक्तप्रकृतिपुरुषद्वितीयाव्रतम् ।

मार्कण्डेय उवाच ।

नासत्यौ देवभिषजाव् अश्विनौ परिकीर्तितौ ।

ताव् एव कथितौ लोके सूर्यताराधिपौ नृप ॥

अश्वयानरतौ यस्माद् अश्विनौ परिकीर्तितौ ।

चैत्रशुक्लद्वितीयायां सोपवासो जितेन्द्रियः ॥

नासत्यौ देवभिषजौ पूजयेत् प्रयतः शुचिः ।

गन्धमाल्यनमस्कारधूपदीपान्नसम्प्रदा ॥

कृत्वा च रूपनिर्माणं नासत्यौ पूजयेन् नरः ।

नासत्यमूर्तिस् तु विश्वकर्मोक्ता ।

द्विभुजौ देवभिषजौ कर्तव्याव् अश्ववाहनौ ।

तयोर् ओषधयः कार्या दिव्या दक्षिणहस्तयोः ॥

वामदोः पुस्तकौ कार्यौ दर्शनीयौ तथा द्विजाः ।

दीपमालां तथा दद्यात् तयोर् निशि विशेषतः ॥

कनकं रजतं चोभे दद्याद् विप्रेषु दक्षिणाम् ।

स पूज्य तत्र युगलं विष्णोः संवत्सरं ततः ॥

[३९३] प्रदीप्ततेजा भवति चक्षुष्मांश् चैव जायते ।

प्राणयात्रां तु कुर्वीत दध्ना घृतयुतेन च ॥

नेत्रव्रतं द्वादश वत्सराणि

कृत्वा भवेद् भूमिपतिः प्रतीतः ।

ततः सुरूपो ऽरिगणप्रमाथी

धर्माभिरामो नृपवर्गमुख्यः ॥

इति विष्णुधर्मोत्तरे नेत्रव्रतम् ।

इति श्रीमहार्जाधिराजश्रीमहादेवस्य समस्तकरणाधीश्वरसकलविद्याविशारद-

**श्रीहेमाद्रिविरचिते चतुर्वर्गचिन्तामणौ **

व्रतकाण्डे द्वितीयाव्रतानि ।

[३९४]

अथ सप्तमो ऽध्यायः

अथ तृतीयाव्रतानि ।

परोपकाराय गृहीतसृष्टिः

सर्वत्र भूतेषु समानदृष्टिः ।

हेमाद्रिर् आक्यातिपुराणदृष्टं

कृती तृतीयाव्रतजातम् इष्टम् ॥

युधिष्ठिर उवाच ।

चैत्रे भाद्रपदे माघे रूपसौभाग्यसौख्यदम् ।

तृतीयात्रयम् एतन् मे कृष्ण कस्मान् न कीर्तितम् ॥

किम् अहं भक्तिरहितः त्रयीमार्गातिगो ऽथ वा ।

सुप्रसिद्धं जगत्य् एतद् गोपितं केन हेतुना ॥

कृष्ण उवाच ।

भवान् धर्मार्थकुशलः सर्वज्ञ इति मे मतिः ।

व्रतं चैतज् जगत्ख्यातं नाख्यातं तेन ते मया ॥

यद्य् अस्ति श्रवणे बुद्धिः श्रूयतां कुरुनन्दन ।

को वा श्रोता जगत्य् अस्मिन् भवता सदृशो मम ॥

[३९५] जया च विजया चैव उमायाः परिचारिके ।

आगत्य मुनिकन्याभिः पृष्टो ऽभीष्टफलेच्छया ॥

भवत्यै सर्वदा देव्याश् चित्तवृत्तिविदौ किल ।

केन व्रतोपवासेन कस्मिन्न् अहनि पार्वती ॥

पूजिता तोषम् आयाति मन्त्रैः कैश्चिद् वरानने ।

तासां तद्वचनं श्रुत्वा जया प्रोवाच सदरम् ॥

व्रतम् उत्सवसंयुक्तं नरनारीमनोरमम् ।

श्रूयताम् अभिधास्यामि सर्वकामफलप्रदम् ॥

चैत्रे मासि तृतीयायां दन्तधाअवनपूर्वकम् ।

उपवासस्य नियमान् गृह्णीयाद् भक्तिभावतः ॥

अञ्जनं च सताम्बूलं सिन्दूरं रक्तवाससी ।

बिभृयात् सोपवासापि अवैधव्यकरं परम् ॥

विधवा यतिमार्गेण कुमारी च यदृच्छया ।

कुर्याद् आर्यार्चनविधिं श्रूयताम् अत्र च क्रमः ॥

नेत्रपदपटीवस्त्रैः वस्त्रमण्डयिकां शुभाम् ।

कारयेत् कुसुमामोदवासितां भूषितां शूभाम् ॥

प्रवालालम्बितप्रोताम् अन्तर्दिव्यवितानकम् ।

विन्यस्तपूर्णकलसां पीठसंविष्टसद्विजाम् ॥

पुरतः कारयेत् कुण्डं हस्तमात्रं समेखलम् ।

यतः स्नात्वा शुचिर् भूत्वा परिधाय सुवाससी ॥

देवान् पितॄन् समभ्यर्च्य ततो देवीगृहं व्रजेत् ।

[३९६] नामाष्टकेन सम्पूज्य गौरी गोभर्तृवल्लभान् ॥

नामाष्टकेन वक्ष्यमाणेन, गोभर्तृवल्लभान् वृषध्वजवल्लभान् ।

तत्कालप्रभवैः पुष्पैः गन्धादलिकुलाकुलैः ।

कुङ्कुमेन समालभ्य कर्पूरागुरुचन्दनैः ॥

एवं सम्पूज्य विधिवत् सुधूपेनाधिवासयेत् ।

पार्वती ललिता गौरी गायत्री शङ्करी शिवा ॥

उमा सती समुद्दिष्टं नामाष्टकम् इदं सदा ।

लड्डूकैः खण्डवेष्टैश् च गुणकैः सिंहकेशरैः ॥

सोमालङ्कैश् चेक्षुरसैः दधिभक्तैः सपूपकैः ।

घृतपक्वैर् बहुविधैः शुचिभिः परिकल्पयेत् ॥

दृष्टिप्राणप्रियैर् हृद्यैर् नैवेद्यैः पूजयेद् उमाम् ।

सिंहकेसरैः सिंहकेसरवद् वलिताकृतिभिः ।

धान्यकं जीरकं भव्यं कुङ्कुमं लवणं गुडम् ।

कुसुम्भं वेक्षुकाण्डं च हरिद्रां च पुरो न्यसेत् ॥

भव्यम् उत्कृष्टम् ।

नालिकेरसनारङ्गं बीजपूरं च दाडिमम् ।

कुष्माण्डं त्रपुसं वृत्तं दधित्थं पनसं तथा ॥

वृत्तं वृत्तवत् नातिपक्वम् इत्य् अर्थः । त्रपुसम् कर्कटीफलं दधित्थं कपित्थम् ।

कालोद्भवान्य् अथान्यानि फलानि पुरतो न्यसेत् ।

यन्त्रकोलूखलशिलासूर्पाणान्ततिभिः सह ॥

[३९७] नेत्राञ्जनं शलाकां च नखसाधनकारि च ।

दर्पणं विमलं घण्टां भवान्यै विनिवेदयेत् ॥

शङ्खतूर्यनिनादैश् च गीतमङ्गलनिस्वनैः ।

भक्त्या शक्त्या च सम्पूज्य देवीं शङ्करवल्लभाम् ॥

ततो ऽस्तसमये भानोः कुमार्यः करकैर् नवैः ।

स्नानं कुर्युर् मुदायुक्ताः सौभाग्यभाग्यवृद्धये ॥

कुमार्य इति व्रचारिलीनाम् उपलक्षणम् ।

यामे यामे गते स्नानं देवीपूजनम् एव च ।

तैर् एव नामभिर् होमस् तिलाज्येन प्रशस्यते ॥

पद्मासनस्थिता साध्वी तेनैवार्द्रेण वाससा ।

गौरीवक्त्रेकणपरा तां रात्रिम् अतिवाहयेत् ॥

काश्चिद् गायन्ति संहृष्टाः काश्चिन् नृत्यन्ति हर्षिताः ।

कथयन्ति कथाः काश्चिद् धर्मकामार्थसंश्रयाः ॥

गीततालानुसम्बद्धम् अनुद्धतम् अनाकुलम् ।

नृत्यन्ति च पुरो देव्याः काश्चिद् विन्तुसितभ्रुवः (?) ॥

नृत्येन तुष्यन्ति हरो गौरी गीतेन तुष्यति ।

सद्भावेनाथ वा सर्वे गृणन्ति त्रिदिवौकसः ॥

सुवासिनीभ्यस् ताम्बूलं कुङ्कुमं कुसुमानि च ।

प्रदेयं जागरवताम् अन्येषाम् अथ वारितम् ॥

नटैर् विटैर् भटैश् चेटैः प्रेरणैः प्रेक्षणोत्सवैः ।

सखीभिः सह तां रात्रिं गीतनृत्यसहैर् नयेत् ॥

एवं प्रभातसमये स्नात्वा सम्पूज्य पार्वतीम् ।

[३९८] शक्त्या तुलां समारोहेद् वस्त्रालङ्कारभूषिताम् ॥

तोलयेत् शितयात्मानं सितेन लवणेन च ।

शितया शर्करया ।

कुङ्कुमेनाथ वा शक्त्या कर्पूरागुर्चन्दनैः ।

पर्वतानाम् अपीच्छन्ति दानं केचिच् च सूरयः ॥

कुण्डमण्डपसम्भारमन्त्रैर् अत्रैवम् एव तत् ।

लवणेन सहात्मानं तोलयन्त्या गुडेन च ॥

कयापि शक्तिपरया सौभाग्यम् अतुलीकृतम् ।

एवं देवीं प्रणम्याथ क्षमाप्य गृहम् आविशेत् ॥

आमन्त्र्य द्विजदम्पत्यं वासोभिर् भूषणैस् तथा ।

सम्पूज्य भोजयित्वा च दद्यात् तेभ्यो ऽपि दक्षिणाम् ॥

यद् यद् आत्माभीष्टतमं शयनं यानम् एव च ।

वस्त्रम् आभरणं गावः सर्वं तेभ्यो निवेदयेत् ॥

हैमं पत्रं रत्नफलं मुक्ताचूर्णावचूर्णितम् ।

ताम्बूलं केचिद् इच्छन्ति दीयमानं सखीजने ॥

पत्रस्थाने सुवर्णं पत्राणि, पूगफलस्थाने रत्नानि । चूर्णस्थाने मुक्ताफलानि एवंविधं ताम्बूलं सखीजने देयम् ।

अनम्लं मधुरप्रायं भोजयित्वा सुवासिनी ।

स्वयं भुञ्जीत सहिता ज्ञातिबन्धुजनैः स्वकैः ॥

यच् च देव्याः पुरो दत्तं नैवेद्यादि सुशोभनम् ।

प्रतिगेहं नयेत् सर्वं विभज्याश्रान्तमानसा ॥

[३९९] दन्तवायनकं दिव्यं कृतकृत्यो भवेत् ततः ।

वायनकं वायनम् इति लोके ।

विधिर् भाद्रपदे ह्य् एष सर्वसौख्यप्रदायकः ॥

सप्तधान्यविधिभ्यश् च सूर्पस्थां पूजयेद् उमाम् ।

पूर्णकलशस्थाने सूर्पम् इति शेषः ।

गोमूत्रं प्राशनं यस्मात् तस्माद् गोमूत्रसञ्ज्ञिता ॥

माघमासे तृतीयायां विशेषः श्रूयतां मया ।

पूर्वोक्तं सकलं कृत्वा प्रभाते यवसंस्तरे ॥

स्थापयित्वा कुन्दपुष्पैः पूजयेत् ससुताम् उमाम् ।

एतेन कारणेनोक्ता चतुर्थी कुन्दसञ्ज्ञिता ॥

पूर्वोक्तं सकलं तृतीयायां कृत्वा प्रभात इति चतुर्थिदिवसे । ससुतां विनायकसहिताम् उमां पूजयेद् इत्य् अर्थः ।

उमारूपं तु कर्तव्यं सौधासनगतं शुभम् ।

सौवर्णं च महाराज साक्षसूत्रकमण्डलुम् ॥

विनायकश् च कर्तव्यो गजवक्त्रश् चतुर्भुजः ।

तृतीयात्रयम् एतत् ते कथितं सर्वकामदम् ॥

जयया मुनिकन्यानां यत् पुरा समुदाहृतम् ।

एवं वा कापि कुरुते नारी व्रतम् इदं शुभम् ॥

सा रूपसौभाग्ययुता मृता स्वर्गे महीयते ।

न दुर्भगा कुले तस्याः काचिद् भवति भारत ॥

[४००] न दुर्विनीतश् च सुतो न भृत्यो विघ्नकृद् भवेत् ।

न दारिद्रं गृहे तस्मिन् न व्याधिर् उपजायते ॥

यत्र सा रमते नारी धौतचामीकरप्रभा ।

अन्याश् च याश् चरिष्यन्ति ब्राह्मणानुमते व्रतम् ॥

सम्पूज्य वाचकं भक्त्या भूषणाच्छादनादिभिः ।

तास् ताः स्युः सुखसम्पन्ना अविपन्नमनोरथाः ॥

भविष्यन्ति कुरुश्रेष्ठ कुलज्येष्ठ नमो ऽस्तु ते ॥।

माघे महार्हमणिमण्डितपादपीठाम्

चैत्रे विचित्रकुसुमोत्करचर्चिताङ्गीम् ।

सूर्यप्ररूढनवशष्यमयीं नभस्ये

सम्पूज्य शम्बुदयितां प्रभवन्ति नार्यः ॥

इति भविष्योत्तरे चैत्रभाद्रमाघतृतीयाव्रतम् ।

कृष्ण उवाच ।

बहुनात्र किम् उक्तेन किं बह्वक्षरमालया ।

वैशाकस्य सिताम् एकां तृतीयाम् अक्षयां शृणु ॥

तस्यां स्नानं जपो होमः स्वाध्यायः पितृतर्पणम् ।

दानं च क्रियते किञ्चित् तत् सर्वं स्याद् इहाक्षयम् ॥

आदिः कृतयुगस्येयं युगादिस् तेन कथ्यते ।

सर्वपापप्रशमनी सर्वसौख्यप्रदायिनी ॥

[४०१] पुरा महोदये पार्थ वणिग् आसीत् सुनर्धनः ।

प्रियंवदः सत्यवृत्तिर् देवब्राह्मणपूजकः ॥

पुण्याख्यानैकचित्तो ऽभूत् कुटुम्बव्याकुलो ऽपि सन् ।

तेन श्रुता वाच्यमाना तृतीया रोहिणीयुता ॥

यदा स्याद् बुधसंयुक्ता तदा सा सुमहत्फला ।

तस्यां यद् दीयते किञ्चिद् अक्षयं स्यात् तद् एव हि ॥

इति श्रुत्वा स गङ्गायां सन्तर्प्य पितृदेवताः ।

गृहम् आगत्य करकान् सान्नान् उदकसंयुतान् ॥

अप्सु पूर्णान् बृहत्कुम्भान् जलेन विमलेन च ।

यवगोधूमचणकान् सक्तुदध्योदनं तथा ॥

इक्षुक्षीरविकारांश् च सहिरण्यांश् च शक्तितः ।

शुचिः शुद्धेन मनसा ब्राह्मणेभ्यो ददौ वणिक् ॥

अन्नोदकाभ्यां उदकेन अन्नेन च पूर्णान् कलशान् अप्सु जलमध्ये पूर्णान् न तूद्धृतोदकेन ।

भार्यया वार्यमाणो ऽपि कुटुम्बासक्तिचित्तया ।

तावत् तस्थौ स्थिते सा च मत्वा सर्वं विनश्वरम् ॥

धर्मासक्तमतिः पार्थ कालेन बहुना ततः ।

जगाम पञ्चत्वम् असौ वासुदेवम् अनुस्मरन् ॥

ततः स क्षत्रियो जातः कुशावत्यां युधिष्ठिर ।

बभूव चाक्षया तस्य समृद्धिर् धर्मसंयुता ॥

इयाज स महायज्ञैः समाप्तवरदक्षिणैः ।

सदा दौ गोहिरण्यादिदानान्य् अन्यान्य् अहर्निशम् ॥

बुभुजे कामतो भोगान् दीनान्धांस् तर्पयञ् छनैः ।

[४०२] तथाप्य् अक्षयम् एवास्य क्षयं यान्ति न तद्धनम् ॥

श्रद्धापूर्वं तृतीयायां यद् दत्तं विभवं विना ।

इत्य् एतत् ते समाख्यातं श्रूयताम् अत्र यो विधिः ॥

तृतीयान्तां समासाद्य स्नात्वा सन्तर्प्य देवताः ।

एकभक्तं तदा कुर्याद् वासुदेवं प्रपूजयेत् ॥

उदकुम्भान् सकनकान् सान्नान् सर्वरसैः सह ।

ग्रैष्मकं सर्वम् एवात्र शस्यं दाने प्रशस्यते ॥

छत्रोपनत्प्रदानं वै गोभूकाञ्चनवाससाम् ।

यद् यद् इष्टतमं चान्यत् तद् देयम् अविशङ्कया ॥

एतत् ते सर्वम् आख्यातं किम् अन्यच् छ्रोतुम् इच्छसि ।

अनाख्येयं न मे किञ्चिद् अस्ति स्वस्त्य् अस्तु ते ऽनघ ॥

अस्यां तिथौ क्षयम् उपैति हुतं न दत्तं

तेनाक्षयेति कथिता मुनिभिस् तृतीया ।

उद्दिश्य यत् सुरपितॄन् क्रियते मनुष्यैस्

तच् चाक्षयं भरतभारत सर्वम् एव ॥

इति भविष्योत्तरोक्तम् अक्षयतृतीयाव्रतम् ।

युधिष्ठिर उवाच ।

केन धर्मेण नारीणां व्रतेन नियमेन च ।

सौभाग्यं जायते ऽतीव पुत्राश् च बहवः शुभाः ॥

[४०३] धनधान्यम् हिरण्यं च वस्त्रालङ्कारम् एव च ।

अवियोनश् च सततं भर्तृपुत्रैः सुहृज्जनैः ॥

सम्यग् आख्याहि मे कृष्ण दयातीव हि ते मयि ॥

कृष्ण उवाच ।

शृणु पार्थ प्रवक्ष्यामि व्रानाम् उत्तमं व्रतम् ।

यच् चीर्त्वा सुभगा नारी बह्वपत्या च जायते ॥

धनधान्यहिरण्यादिदासीदासैः समन्विता ।

लोके हितार्थं पार्वत्या उमामाहेश्वरव्रतम् ॥

समाख्यातं पुरा पार्थ नाद्यापि प्रथितं भुवि ।

मार्गशीर्षे सिते पक्षे तृतीयायां समाहिता ॥

कृतोपवासा राजेन्द्र सर्वभोगविवर्जिता ।

संवेष्ट्य श्वेतवस्त्रेण शिवं रक्तेन चाम्बिकाम् ॥

पश्चाद् धूपं दहेन् नारी भक्तिभावेन भाविता ।

भोजयेच् छिवभक्तांश् च ब्राह्मणान् वेदपारगान् ॥

भक्तेभ्यो दक्षिणां दद्याद् भक्त्या शाठ्यं विना कृताम् ।

कृतोपवासा सङ्कल्पितोपवासा ।

स्नात्वा सम्पूज्य ललितां हरकायार्धवासिनीम् ।

गीतवाद्यादिकं कृत्वा क्षपयित्वा क्षितौ क्षणम् ॥

ततः प्रभातसमये स्नानं चाकृत्रिमे जले ।

धृत्वा शुक्लाम्बरं नारी वाक्यम् एतद् उदीरयेत् ॥

नमो नमस् ते देवेश उमादेहार्धधारक ।

महादेव नमस् तुभ्यं हरकायार्धवासिनीम् ॥

[४०४] हृदि कृत्वा शिवं देवी जपेत् यावद् गृहं व्रजेत् ।

पूजयेद् देवम् ईशानं पुष्पैः कालोद्भवेस् ततः ॥

वामपार्श्वे स्थितां देवीं दक्षिणे तु महेश्वरम् ।

धूपं सगुग्गुलुं चाग्ने दहेद् ध्यानपरायणा ॥

नैवेद्यं विविधं देयं घृतपक्वं स्वशक्तितः ।

कारयेद् वैश्वदेवं तु तिलाज्येन सुसंस्कृतम् ॥

पञ्चगव्यं ततः प्राश्य हव्यं भुञ्जीत वाग्यता ।

एवं द्वादशमासांस् तु पूजयित्वा महेश्वरौ ॥

उद्यापनं ततः कुर्यात् प्रहृष्टेनान्तरात्मना ।

शिवं रौप्यमयं कुर्याद् उमां हेममयीं तथा ॥

आरूढो (?) वृषभे गौरी सर्वालङ्कारभूषिता ।

चन्दनेन शिवं चर्च्य (?) कुङ्कुमेन तु पार्वतीम् ॥

अर्चयेत् कुशुमैः पश्चात् सुगन्धैः सुमनोहरैः ।

ततः प्रदक्षिणं कृत्वा मन्त्रम् एतद् उदीरयेत् ॥

उमामाहेश्वरौ देवौ सर्वलोकपितामहौ ।

व्रतेनानेन सुप्रीतौ भवतां मम सर्वदा ॥

एवम् उक्त्वा जितक्रोधा ब्राह्मणे वेदपारगे ।

व्रतं निवेदयेद् भ्यक्त्या वाचके वा गुणान्विते ॥

एवं कृत्वा व्रतं नारी महेशार्पितमानसा ।

प्रयाति परमं स्थानं यत्र देवी शिवप्रिया ॥

तत्रैव सा वसेत् तावद् यावद् इन्द्राश् चतुर्दश ।

अप्सरोभिः परिवृता किन्नरोभिस् तथैव च ॥

[४०५] यदा मानुषतां याति जायते विमले कुले ।

नृप सौख्ये समाप्नोति पुत्रपौत्रसुतादिभिः ॥

मृता शिवपुरं याति शिवया सह मोदते ।

हैमीम् उमां रजतपिण्डमयं महेशम्

रप्ये सुरूपवृषभे समुपस्थितौ तौ ।

सम्पूज्य रक्तसितवस्त्रयुगोपगूढो

नारी भवत्य् अविधवा सुतसौख्ययुक्ता ॥

इति भविष्योत्तरोक्तम् उमामाहेश्वरव्रतम् ।

युधिष्ठिर उवाच ।

शुक्लपक्षे तृतीयासु बहवः समुदाहृताः ।

आनन्तर्यव्रतं ब्रूहि तृतीयोभयसंयुता ॥

हिताय व्रतशीलानां नारीणां च विशेषतः ।

नामप्राशननैवेद्यं मासि मासि पृथगिविधम् ॥

कृष्ण उवाच ।

ब्रह्मविष्णुमहेशाद्यैर् यन् नोक्तं सुरसत्तमैः ।

अपूर्वसर्वतन्त्राणाम् आनन्तर्यव्रतं शृणु ॥

मार्गशीर्षे महाराज व्रतम् एतत् समारभेत् ।

नक्तं कुर्याद् द्वितीयायां तृतीयायाम् उपोषिता ॥

[४०६] उमां देवीं समभ्यर्च्य पुष्पधूपादिभिः क्रमात् ।

शर्करापुत्रिकां दद्याद् यथाशाक्त्या च भक्तितः ॥

दधि सम्प्राशयेद् रात्रौ स्वपेद् एकाकिनी भुवि ।

प्रभाते विधिवद् विप्र मिथुनं भोजयेन् नृप ॥

अश्वमेधफलावाप्तिर् जायते नात्र संशयः ।

तथा कृष्णतृतीयायां सोपवासो जितेन्द्रियः ॥

यजेत् कात्यायिनीं नाम नारिकेलं निवेदयेत् ।

क्षीरं प्राश्य स्वपेद् रात्रौ कामक्रोधविवर्जिता ॥

भोजयेद् द्विजदाम्पत्यं गोमेधफलम् आप्नुयात् ।

पौषमासे तृतीयायां सोपवासो जितेन्द्रियः ॥

गोरीं नाम्ना तु सम्पूज्य खण्डवर्तिं निवेदयेत् ।

कण्डवर्तिः शर्करा (?) निर्मितो वलिताकृतिर् भक्षः ।

ततः कुशोदकं प्राश्य स्वपेद् भूमौ जितेन्द्रियः ।

प्रभाते रूपसम्पन्नं मिथुनं भोजयेत् ततः ॥

क्षमाप्य तं नमस्कृत्य बहुस्वर्णफलं लभेत् ।

पुनर् एव तुलामाघे कृष्णपक्षे यतव्रता ॥

आर्यां नाम्नाथ सम्पूज्य स्वाद्यकं च निवेदयेत् ।

स्वाद्यकं स्वतिकादि ।

मधुं पृआप्य स्वपेद् रात्रौ सर्वभोगविवर्जिता ।

मिथुनं भोजयित्वा तु वाजपेयफलं लभेत् ॥

तथैव फाल्गुने मासि सोपवासा शुचिव्रता ।

[४०७] भव्यां नाम्ना प्रपूज्याथ कासाङ्खं विनिवेदयेत् ।

शर्करां प्राशयित्वा तु स्वपेद् रात्रौ विमत्सरा ॥

प्रभाते मिथुनं भोज्य सौत्रामणिफलं लभेत् ।

पुनः कृष्णतृतीयायां फाल्गुनस्यैव भारत ॥

विशालाक्षीं समभ्यर्च्य पूरिकां विनिवेदयेत् ।

सम्प्राश्य तण्डुलजलं स्वपेद् रात्रौ मनस्विनी ॥

भोजयेन् मिथुनं प्रातर् अग्निष्टोमफलं लभेत् ।

चैत्रस्यादितृतीययां सुचिः स्नाता जितेन्द्रिया ॥

श्रियं नाम्ना तु सम्पूज्य वटकान् विनिवेदयेत् ।

बिल्वपत्रं ततः प्राश्य स्वपेद् ध्यानपरायणा ॥

ततः प्रभात्रे विमले द्विजदाम्पत्यपूजनात् ।

प्रणिपाताच् च तस्यैव राजसूयफलं लभेत् ॥

ततः कृष्णतृतीयायां चैत्रे सम्यग् उपोषिता ।

कालीं नाम्ना तु सम्पूज्य पिष्टं प्राश्य स्वपेद् निशि ॥

पूपकान् विनिवेद्याथ कुर्याद् जन्मकथां शुभाम् ।

भक्त्या सम्भोज्य मिथुनम् अतिरात्रफलं लबेत् ॥

एवं वैशाखमासं तु सोपवासा जितेन्द्रिया ।

पूजयेच् चण्डिकां देवीं मधुकार्या निवेदयेत् ॥

मधुकार्या मधुकपूरणपूरिकाः ।

श्रीखण्डं निश्हि सम्प्राश्य स्वपेद् देव्यग्रतो भुवि ।

भोजयित्वा च दप्यत्वं चान्द्रायणफलं लबेत् ॥

तथा कृष्णतृतीयायां सोपवासा विमत्सरा ।

[४०८] पूजयेत् कालरात्रिं तु पुष्पधूपैर् मनोरमैः ॥

गुडाढ्यं यावकं दत्वा तिलान् प्रास्य स्वपेन् निशि ।

प्रभाते मिथुनं भोज्यम् अतिकृच्छ्रफलं लभेत् ॥

ज्यैष्ठे सिततृतीयायां सोपवासा यतव्रता ।

स्कन्दमातेति सम्पूज्य इन्द्रज्योति निवेदयेत् ॥

प्राशयेत् पञ्चगव्यं च देवीं ध्यात्वा स्वपेन् निशि ।

प्रभाते मिथुनं भोज्य कन्यादानफलं लभेत् ॥

आषाढमासे सम्प्राप्ते तृतीयायां युधिष्ठिर ।

नाम्ना यशोधरां देवीं पूजयेद् भक्तितत्परः ॥

करम्भकं च नैवेद्यं गोशृङ्गाभिः पिबेन् निशि ।

करम्भकं दधिमिश्रा शक्तवः ।

प्रभाते मिथुनं भोज्य भूमिदानफलं लभेत् ॥

तथा कृष्णतृतीयायां कुष्माण्डीं नाम पूजयेत् ।

सक्तून् खण्डाज्यसंयुक्तान् पुरतो विनिवेदयेत् ॥

कुम्भोदकं च सम्प्राश्य स्वपेद् देव्याः पुरः क्षितौ ।

प्रभाते मिथुनं भोज्य गोप्रदानफलं लभेत् ॥

श्रावणे सोपवासाथ चण्डघण्डां प्रपूजयेत् ।

कुल्माषांस् तत्र नैवेद्यं पिबेत् पुष्पोदकं निशि ॥

कुल्माषाः अर्धस्विन्नानि धान्यानि ।

प्रभाते भक्तितो विप्र मिथुनं भोजयेन् नृप ।

द्विजानाम् अविदुषां प्राणत्राणफलं लभेत् ॥

[४०९] तद्वत् कृष्णतृतीयायां रुद्राणीं नाम पूजयेत् ।

सिद्धपिण्डानि दिव्यानि नैवेद्यं सम्प्रदापयेत् ॥

सिद्धपिण्डानि पिण्डीकृताः सक्तवः ।

पिण्याकं प्राशयित्वा तु स्वपेद् रात्रौ विमत्सरा ।

सम्पूज्य द्विजदाम्पत्यम् इष्टापूर्तफलं लभेत् ॥

तथा भाद्रपदस्यादौ तृतीयायाम् उपोषिता ।

पुष्पैर् नानाविधैर् हव्यैः पूजयेत् कमलामयाम् ॥

कर्णावर्तं ततो देव्या नैवेद्यं पललाचितम् ।

कर्णावर्तं वर्ण्याकृतिभक्षः पललं तिलपिष्टम् ।

गन्धोदकं ततः प्राश्य स्वपेत् संहृष्टमानसा ॥

प्रभाते मिथुनं भोज्य ग्रामदानफलं लभेत् ।

तद्वत् कृष्णतृतीयायां दुर्गां देवीं समर्चयेत् ॥

दद्यान् नन्दीफलं देव्या गुडाज्यपरिपूरितम् ।

नन्दीफलं नन्दीवृक्षफलम् ।

प्राशयित्वा च गोमूत्रं स्वपेत् कान्तेन चेतसा ॥

प्रभाते मिथुनं भोज्य सदा सत्रफलं लभेत् ।

मासि चाश्वयुजे भक्त्या नाम्ना नारायणीं यजेत् ॥

सोपवासा खण्डखाद्यं नैवेद्यं परिकल्पयेत् ।

खण्डकाद्यं शर्करानिर्मितं खाद्यम् ।

सम्प्राश्य चन्दनं रक्तं नक्तं स्वप्यात् तदाग्रतः ॥

प्रभाते द्विजदाम्पत्यं भोजयित्वा पतिव्रता ।

निदाधे निर्जले मार्गे प्रपादानफलं लभेत् ॥

[४१०] तथा कृष्ण तृतीयायां स्वस्ति ताम्रा (?) प्रपूजयेत् ।

शाल्योदनं गुडोपेतं नैवेद्यं विनिवेदयेत् ॥

कुसुम्भबीजयोयं च सम्प्राश्य प्रयतः स्वपेत् ।

सम्भोज्य मिथुनं प्रातर् अग्निहोत्रफलाप्तये ॥

कार्त्तिकस्य तृतीयायां स्वाहा नाम प्रपूजयेत् ।

पायसं घृतखण्डाद्यं नैवेद्यम् उपकल्पयेत् ॥

स्वपेद् रात्रौ जितक्रोधा प्राश्य कुङ्कुमजं जलम् ।

प्रभाते मिथुनं भोज्य प्रणिपत्य क्षमापयेत् ॥

अतीव दुर्धरे वर्षे नवाह्निकफलं लभेत् ।

तथा कृष्णतृतीयायां सोपवासा कृतव्रता ॥

विज्ञाप्य स्वगुरुं भक्त्या धर्मशास्त्रार्थकोविदम् ।

मण्डलं च ततो लिख्य नवनाभं वरप्रदम् ॥

सौवर्णं कारयेद् देवम् उमया सहितं शिवम् ।

तेभ्यो नेत्रेषु दातव्यं मौक्तिकं तिलम् एव च ॥

प्रवालम् ओष्ठयोर् दद्यात् कर्णयोर् एव कुण्डले ।

उपवीतं तु देवस्य देव्या हारं समुज्ज्वलम् ॥

रक्ताम्बरधरां देवीं सितवस्त्रं महेश्वरम् ।

चन्दनेन समालभ्य पुष्पैर् धूपैः समर्चयेत् ॥

मण्डलं पूजयित्वा च होमं कुर्यात् ततो गुरुः ।

तत्रापराजितां नाम्ना देवीं भक्त्या प्रपूजयेत् ॥

मधूदकं च सम्प्राश्य कुर्याद् रात्रौ च जागरम् ।

जययाद्युत्सवोपेतं वीणावेणमनोहरम् ॥

[४११] माङ्गल्यगीतनिनदैः प्रेक्षणैर् अतिशोभितम् ।

ताम्बूलाशनसिन्दूरपुष्पकुङ्कुमदीपकैः ॥

सखीजनैः सुवेशश् च समन्तात् परिपूजितम् ।

उत्सवं कारयित्वेत्थं नयेद् रात्रिं विमत्सरा ॥

ततः प्रभाते विमले कृतकौतुकमङ्गला ।

कृत्वा तु नूननां तूलीं कन्दुकादिसमन्विताम् ॥

मण्डले देवम् उद्धृत्य पर्यङ्कोपरि विन्यसेत् ।

वितानध्वजमालाभिः कुम्भदर्पणशोभना ॥

पुष्पमण्डयितां कृत्वा धूपगुग्गुलुवासिता ।

तस्याग्रे भोजयेद् भक्त्या मिथुनानि यथेच्छया ॥

प्रीणयेद् भक्ष्यभोज्यैश् च पक्कान्नैर् [पक्वान्नैर्?] मधुरै रसैः ।

ततो दत्वा कृतं हस्ते ताम्बूलं चन्दनं तथा ॥

इदम् उच्चारयेन् नाम्ना देवस्य च पुरो गुरोः ।

प्रीयतां मे उमाकान्तः पार्वत्या सहितस् तदा ॥

उच्छिष्टं शोधयित्वा च ततो भोज्यसमन्विताम् ।

रक्तवर्णां सुशीलां च सुरूपां सुपयस्विनीम् ॥

शृङ्गाभ्यां दत्तकनकां राजतखुरसंयुताम् ।

कांस्यदोहनकोपेतां रक्तवस्त्रां च गुण्ठिताम् ॥

घण्टाभरणशोभाढ्यां सितचन्दनचर्चिताम् ।

पूजितां पुष्पमालाभिः देवस्य पुरतः स्थिताम् ॥

पादुकोपानहछत्रभक्ष्यभोजनसंयुताम् ।

त्रिधा प्रदक्षिणीकृत्य गुरोः सर्वं निवेदयेत् ॥

पुनश् चोदाहरेद् देवं गुरोर् अग्रे कृतव्रता ।

[४१२] उमामहेश्वरं यद्वद् अवियोगं सुरार्चितम् ।

अवियोगः स्वभर्ता मे तद्वद् अस्तु सुसम्पदा ॥

प्रणम्य शिरसा भूमौ क्षमस्वेति गुरुं वदेत् ।

एवं समाप्यते सम्यग् आनन्तर्यव्रतोत्तमम् ॥

यः कुर्यात् पुरुषः स्त्री वा तस्य पुण्यफलं शृणु ।

गन्धर्वयक्षसिद्धानां विद्याधरमहोरगैः ॥

देवदैत्यमुनीनां च कन्याभिः परिवारितः ।

कामगेन विमानेन क्रीडयित्वा यथेप्सितम् ॥

समुद्धृत्य कुलं भर्तुः पितुश् चामरपूजिता ।

ब्रह्मादिभिर् अनुक्रान्ता विष्णुलोकं सनातनम् ॥

प्रयाति पुरुषो वापि नात्र कार्या विचारणा ।

भुक्त्वा भोगांस् ततो दिव्यान् पुण्यशेषेण पार्थिव ।

पार्थिवो जायते भूमौ शार्वभौमो ऽपराजितः ॥

नारी वा महिषी राज्ञः सर्वभौमस्य जायते ।

तरेतर्पं यथा देवी भोगांश् च पतिना सह ।

त्रैलोक्यपतिना भुङ्क्ते तथा स्वपतिना तु सा ॥

हरिः शच्या हरिर् लक्ष्म्या समं पत्न्या यथासुखम् ।

भुङ्क्ते निरन्तरं तद्वत् तया सार्धं नरेश्वर ॥

मुनिनारुन्धती यद् वसतां सन्ना हृदि स्थिता ।

तद्वद् भुनक्ति सौभाग्यं नैरन्तर्येण पाण्डव ॥

येनैव पतिना सार्धं करोत्य् एतद् व्रतोत्तमम् ।

सप्तजन्मनि तेनैव न वियोगम् अवाप्नुयात् ॥

एतत् ते सम्यग् आख्यातम् आनन्तर्यव्रतं महत् ।

[४१३] भक्तो ऽसि मे सखा चेति रहस्यं परमं मया ॥

नाविनीताय दातव्यं नाभक्ताय कथञ्चन ।

नास्तिके हैतुके पापे दाता भवति किल्बिषी ॥

एषा विशेषविधिना सहसा तृतीया

यानो करोत्य् अविधवाभिर् उदाहृतोच्चैः ।

एताम् उपोष्य विधिवत् प्रतिपक्षयोगान्

नैवान्तरं सुतसुहृत्स्वजनैर् उपेइति ॥

इति भविष्योत्तरोक्तम् आनन्तर्य्तृतीयाव्रतम् ।

उधिष्ठिर उवाच ।

किमर्थं मधुवृक्षस्थम् अर्चयन्ति वरस्त्रियः ।

गौरीं जगद्गुरोर् भार्यां भ्गवंस् तद् ब्रवीषि मे ॥

श्रीकृष्ण उवाच ।

पुरा क्षीरोदमथने मधुवृक्षो विनिर्गतः ।

स इहारोपितो मर्त्यैर् मधुना मुनिकारणात् ॥

विषदर्थोपहाराय व्याधिसङ्घवधाय च ।

स्त्रीणां सौभाग्यदानाय यत्र पुष्पफलार्चितः ॥

शोभितस्तवकै रम्यैः दृष्टो ललितया वने ।

तत्राश्रिता महादेवी पार्वती शङ्करप्रिया ॥

विजया जया गणेशेन संयुता पर्वतात्मजा ।

तत्रस्था देवताभिः सा पूजिता कुसुमैः फलैः ॥

भक्षैर् बहुविधै राजन् मनसेप्स्तितकारणात् ।

[४१४] स्वयं लक्ष्म्या सरस्वत्या सावित्र्या गङ्गया तथा ॥

रोहिण्या रम्भया राजन् अरुन्धत्या सुशीलया ।

स्त्रीभिर् एताभिर् आगत्य पूजिता मूलशङ्करी ॥

तासां प्रसन्ना वरदा ददाव् अभिमतं फलम् ।

फाल्गुनस्य सिते पक्षे तृतीयायाम् उपोषिता ॥

स्नाता स्थिता ब्रह्मचर्ये ततो ऽन्यस्मिन् दिने पुनः ।

व्रजेन् मधुवनं गौरीं पूजयेद् यतमानसा ॥

मन्त्रेणानेन ध्यायन्ती पार्वतीप्रतिमां शुभाम् ।

मृगाजिनावृतकुचां जटामुकुटशोभिताम् ॥

गोधारथगतां देवीं रुद्रध्यानपरायणाम् ।

पूजयेत् गन्धकुसुमैर् दीपालक्तकचन्दनैः ॥

केसरैर् मधुरद्रवैः स्वर्णमाणिक्यसंयुतैः ।

अम्बिका ऋषिका देवी मूषिका ललिता उमा ॥

तपोवनरता गौरी सौभाग्यं मे प्रयच्छतु ।

काली कासी सती देवी रुद्राणी पार्वती शिवा ॥

अष्टाङ्गैः प्रणता भक्त्या पतिपुत्रान् प्रयच्छतु ।

सौभाग्यं मे प्रयच्छन्तु सुप्रसन्नाननाः सदा ॥

अवैधव्यकुले जन्म ददातु प्रतिजन्मनि ।

अङ्गप्रत्यङ्गदेशेषु प्रतिपर्वस्थितामृता ॥

सुखदृष्टिस्पर्शरसं गौरी सौभाग्यम् ऋच्छतु ।

एवम् उच्चार्य मन्त्रेण नारी ज्ञानवती सती ॥

पूजयेद् ब्राह्मणीनां च भव्या मुख्याः सुवासिनी ।

[४१५] कुसुम्बैर् जीरकैश् चैव लवणैर् गुडसर्पिषा ॥

अद्यै रागैः फलैश् चूर्णैर् मनोज्ञैश् च सुचन्दनैः ।

अद्यैः भक्षैः चूर्णपक्वैः, रागैः पुष्पचन्दनैः चम्पकादिपुष्पवासितैश् चन्दनैः । कालेयं पीतचन्दनं चन्दनम्, श्वेतचन्दनम् ।

सिन्दूरेणाभिरक्तेन वस्त्रैर् नानाविधैः शुभैः ।

पवित्रकैः पीतवर्णैः पूपकैस् तिलतन्दुलैः ॥

अशौकवर्तिगुणकैः घृतपूरैः मलद्रुकैः ॥

अशौकवर्तिर् भक्षविशेषः पूजयित्वा महाद्रुमः ।

प्रदक्षिणं ततः कृत्वा दद्याद् विप्राय दक्षिणाम् ।

एतद् व्रतं समाख्यातं कांस्यायेन पुरा नृप ॥

याश् चरिष्यन्ति सर्वास् ता भविष्यन्ति निरामयाः ।

अङ्गप्रत्यङ्गसुगभा लोके दृष्टिमनोहराः ॥

स्थित्वा वर्षशतं मर्त्ये ततो रुद्रपुरं शुभम् ।

यास्यन्ति हंसयानेन किङ्कीणीशब्दनादिना ॥

तत्र गत्वा रमिष्यन्ति कल्पम् एकं युधिष्ठिर ।

पुनर् अभ्यागता मर्त्ये सर्वसौख्यकभाजना ॥

नार्यो भवन्ति सम्पूज्या मधुवृक्षं सुशोभनम् ।

अर्घ्यं महार्घ्यमणिकुङ्कुमकेसराढ्यम् ॥

पर्यङ्कं लुब्धः सुखरालिकुलोपगीतम् ॥

दत्वा फलाक्षतयुतं मधुपादपस्य

गौरीव कामसदृशा भवतीह नारी ।

[४१६]

इति भविष्योत्तरोक्तं मधूकव्रतम् ¦

युधिष्ठिर उवाच ।

मेघपालीव्रतं कृष्ण कदाचित् क्रियते नृभिः ।

किं पुण्यं कुम् अनुष्ठानं कीदृद् (?) वल्ली स्मृता तु सा ॥

श्रीकृष्ण उवाच ।

आश्वयुक्शुक्लपक्षे च तृतीयायां युधिष्ठिर ।

मेघपाली प्रदातव्या भक्त्या स्त्रीभिर् नृभिस् तथा ॥

अर्चेः विरूढैर् गोधूमैः सप्तधान्यसमन्वितैः ।

तिलतण्डुलमिश्रैश् (?) च दातव्या धर्मलिप्सुभिः ॥

युधिष्ठिर उवाच ।

कीदृशीं सा भवेद् वल्ली मेघपाली जनार्दन ।

लक्षणं कीदृशं तस्याः को मन्त्र इति मे वद ॥

श्रीकृष्ण उवाच ।

ताम्बूलसदृशैः पत्रै रक्तावल्ली समञ्जरी ।

वाटीषु या न मर्गेषु प्रेक्षिता पर्वतेषु वा ॥

यत वा दृश्यते राजन् शुचौ देशे समुत्थिता ।

मेघपालो समभ्यर्च्य फलैः पुष्पैस् तथाक्षतैः ॥

खर्जूरैर् नालिकेरैश् च नारङ्गैर् दडिमैस् तथा ।

बीजपूरैः कपित्थैश् च सप्तधान्यैर् विरूढकैः ॥

[४१७] त्रपुसीर्व्याचीनकैस् तु पिण्डैस् तु तिलपिष्टजैः ।

[लोओक्स् अलिके अ लिने इस् मिस्सिन्ग् हेरे]

त्रपुसम्बालकम् ईर्वा, कर्कटी चीनकं प्रसिद्धम् ॥

ततस् तैः प्रथमे पात्रे दूर्वादधिसमन्वितम् ।

तिलतण्डुलमिश्रं तु चन्दनेन सुगन्धिना ॥

सुगन्धैर् जातिपुष्पैश् च फलैर् कर्कन्धुकर् अपि ।

कृत्वार्चनं प्रदातव्यं मन्त्रेणानेन भारत ॥

अनेन भद्रा इति जपेन् मन्त्रं वेदोक्तम् आदरात् ।

स्त्रीशूद्रैः पूजयेत् तां च नमस्कारेण भारत ॥

इत्य् एवं पूजयित्वा तां मेघपालीं पुमांस् ततः ।

नारी वा पुरुषव्याघ्र प्राप्नोति परमां गतिम् ॥

हन्ति पापान्य् असङ्ख्यानि प्रमादाद् अन्यजान्य् अपि ।

अन्यजानि अपण्यजानि, अविक्रेयजानि ।

पूजिता मेघपालीयं ददाति हृदयेप्सितम् ॥

स्थित्वा वर्षशतं मर्त्यो (?) तस्यां सौभाग्यगर्विता ।

त्रिषु लोकम् अवाप्नोति पुनर् जाता कुलोत्तमे ॥

नारी नरो नरकभीरुतया ददाति

यो ऽर्घं फलात् शुभतनुर् ननु मेघपाल्यै ।

उन्मादकूटकपटानि कृतानि यानि

पापानि हन्ति स्वतेव भवप्रदोषात् ॥

इति भविषुओत्तरोक्तमेघपालीयतृतीयाव्रतम् ।

युधिष्ठिर उवाच ।

[४१८] अहम् अन्यच् च पृच्छामि व्रतं द्वादशमासिकम् ।

ललिताराधनं नाम कीदृक्मासक्रमेण तु ॥

श्रीकृष्ण उवाच ।

शृणु पाण्दव यत् तेन यथा व्रतं पुरातनम् ।

शङ्करस्य महादेव्याः संवादं पुण्यवर्धनम् ॥

कैलासशिखरे रम्ये बहुपुष्पफलाकुले ।

तत्र देवी स्वभर्तारं जगद्भर्तारम् अब्रवीत् ॥

देव्य् उवाच ।

स्वामिन् लोकोपकाराय मम प्रीतिविवृद्धये ।

कथयस्व प्रयत्नेन तृतीयाव्रतम् उत्तमम् ॥

भक्तास् त्रयो हि मां देवं पूजयन्ति सदा भिवि ।

दुर्भागा निरपर्याश् च पुरुषा निर्धनास् तथा ॥

आर्तिं तासां परिच्छेत्तुम् अतः पृच्छाम्य् अहं विभो ।

येन ताः सुखसंयोगरूपलावण्यसम्पदा ॥

पुत्रसौभाग्यवित्तौघैः प्रयुक्ताः सुरसत्तम ।

तन् मे कथय यत्नेन नूनं नारीसुखव्रतम् ॥

ईश्वर उवाच ।

माघमासे सिते पक्षे तृतीयायां यतव्रता ।

पादौ प्रक्षाल्य हस्तौ च मुखं चैव समाहितः ॥

उपवासं च नियमं दन्तधावनपूर्वकम् ।

[४१९] मध्याह्ने तु नदीं गत्वा तिलैर् आमलकैः शुभैः ॥

स्नात्वोत्तीर्य जलात् शुक्ले वाससी परिधाय च ।

सुगन्धैश् च सुपुष्पैश् च मनोज्ञैः कुङ्कुमादिभिः ॥

अर्चयीत तथा देवीं त्वां भक्त्या भक्तिवत्सले ।

कर्पूराद्यैः सुगन्धैश् च नैवेद्यैः शर्करादिभिः ॥

यथा विभवसम्पन्नैर् गीतवाद्यैर् मनोरमैः ।

ईशानी नाम जल्पन्ती प्रतिच्छेद् घटिकाजलम् ॥

पात्रं ताम्रमयं शुभ्रं जलाक्षतसमन्वितम् ।

सहिरण्यं द्विजस्याग्रे कुर्याद् वाञ्जलिभिस् तथा ॥

द्विजो ऽभिषेकं तेनैव कुर्यात् तस्यैव समन्त्रकम् ।

जलेन दर्भपूतेन शिवध्यानं परं पठन् ॥

नारी च ध्यायमाना त्वां शुभाभिध्यानतत्परा ।

रागादीन् दूरतस् त्यक्त्वा प्रतीच्छेच् छिरसा जलम् ॥

ब्रह्मावर्तात् समायाते ब्रह्मयोनिसमुद्भवे ।

भद्रेश्वरि महादेवि ललिते शङ्करप्रिये ॥

गङ्गाद्वाररते मातर् गङ्गाजलविशोधिते ।

सौभाग्यारोग्यपुत्रांश् च तथैवार्थान् मनेप्सितान् (?) ॥

प्रयच्छास्यै सुप्रसन्ना भवदेवि नमो नमः ॥

अभिषेकमन्त्रः ।

अभिषिक्ता ततो भक्त्या प्रीयमाणेन चेतसा ।

दत्वा हिरण्यं तत् तस्मै प्राशयीत कुशोदकम् ॥

आचम्य प्रयता भूत्वा बूशय्यां क्षपयेत् क्षपाम् ।

ईशानी ध्यायमाना च आत्तेसा दर्भसंस्तरे ॥

[४२०] द्वितीये ऽह्नि ततः स्नात्वा तथैवाभ्यर्च्य पार्वतीम् ।

यथाशक्त्या द्विजाः पूज्या भोजयित्वा सुवासिनीम् ॥

ततः कुटुम्बं शेषान्नं स्वयं भुञ्जीत वाग्यता ।

एवं हि प्रथमे मासि ईशानीं नाम पूजयेत् ॥

द्वितीयं पार्वती नाम तृतीये शङ्करप्रिया ।

भवान् यथा चतुर्थे तु स्कन्दमाता तु पञ्चमे ॥

दक्षस्य दुहिता षष्ठे मैनाकी सप्तमे स्मृता ।

अष्टमे ललिता नाम सती च नवमे तथा ॥

दशमे मासि विख्याता देवी सौभाग्यदायिनी ।

उमा त्व् एकादशे मासि गौरीति द्वादशे स्मृता ॥

कुशोदकं पयः सर्पिर् गोमूत्रं गोमयं फलम् ।

निम्नपत्रं कदम्बं वा गवां शृङ्गोदकं दधि ॥

पञ्चगव्यं तथा शाकं प्राशनानि ह्य् अनुक्रमात् ।

प्रतिमासम् उपोष्यैव यथाशक्त्या तु दक्षिणाम् ॥

ददाति श्रद्धयोपेता वाचके ब्राह्मणोत्तमे ।

कुसुम्भम् आर्द्रलवणं जीरकं गुडम् एव च ॥

सिन्दूरं च हरिद्रां च शूर्पस्थं देवम् आदिशेत् ।

मासि मासि भवेन् मन्त्रो गकारो द्वादशाक्षरः ॥

ओङ्कारपूर्विकां देवी नमस्कारान्तयोजिताम् ॥

ॐ गं ईशान्यै नमः गो पार्वत्यै नमः ॐ गुं शङ्करपिर्यायै नम

इत्यादि एभिस् तु पूजितैर् मन्त्रैस् तुष्यति ब्राह्मणैः प्रिये ।

[४२१] तुष्ट त्व् अभीप्सितान् कामान् दास्यामि प्रीतिपूर्वकान् ।

समाप्ते तु व्रते ह्य् अस्मिन् ब्राह्मणं वेदपारगम् ।

सहितं भार्ययाभ्यर्च्य गन्धधूपादिभिस् तथा ॥

द्विजं महेश्वरं विद्धि भार्यां गौरीं तथैव च ।

इति दत्वा ब्राह्मणानां दम्पत्योः (?) पूजयेत् प्रिये ॥

अन्नं सदक्षिणं देयं तथा शुक्ले च वाससी ।

ब्राह्मण्यै रक्तवासांसि देयानि मम वल्लभे ॥

एवं चीर्णं व्रतं सम्यग् यत् फलं लभते शृणु ।

भुक्त्वा भोगान् समस्तांश् च व्रजेद् भूपतिना सह ॥

शतवर्षसहस्राणां प्राप्य लोकान् परावरान् ।

मोदते भर्तृसहिता यथेन्द्रेण शची तथा ॥

मानुषत्वं पुनः प्राप्य तेन भर्त्रा सहैव सा ।

पुण्ये कुले श्रियायुक्ते निरजा स्वश्रुसत्कृता ॥

सप्तजन्मानि यावच् च न वैधव्यम् अवाप्नुयात् ।

पुत्रान् भोगान् तथा रूपं सौभाग्यारोग्यम् एव च ॥

एकपत्नी तथा बर्तुः प्राणेभ्यो ऽभ्यधिका भवेत् ।

शृणुयाद् वाच्यमानं तु भक्ताय ललिताव्रतम् ॥

मया स्नेहेन कथितं सापि सौभाग्यम् ऋच्छति ॥

सम्पूज्यपूज्यपूज्यललिताङ्गयष्टिं

गन्धोदसम्भृतघटां शिरसि क्षिपेद् या ।

सा सभ्यमर्त्यललनासु ललामभूता

भूताधिपं पतिम् अवाप्य भुवं भुनक्ति ॥

[४२२]

इति भविष्योत्तरोक्तं ललिताव्रतम् ।

भीष्म उवाच ।

सौभाग्यारोग्यफलदं विपक्षक्षपणं विभो ।

भुक्तिमुक्तिप्रदं किञ्चिद् व्रतं ब्रूहि महामुने ॥

पुलस्त्य उवाच ।

यद् उमायाः पुरा देवः प्रोवाचासुरसूदनः ।

कथासु सम्प्रवृत्तासु ललिताराधनं प्रति ।

तद् इदानीं प्रवक्ष्यामि भुक्तिमुक्तिप्रदं शुभम् ॥

ईश्वर उवाच ।

शृणुष्वावहिता देवि तथैवानन्तपुण्यकृत् ।

नराणाम् अथ नारीणाम् आराधनम् उत्तमम् ॥

नभस्ये वाथ वैशाखे मार्गशीर्षे ऽथ वा पुनः ।

शुक्लपक्षे तृतीयायां स्नातः सन् गौरसर्षपैः ॥

गोरोचनाथ गोमूत्रं मुस्ता गोः शकृतं दधि ।

चन्दनेन च सम्मिश्रं ललाटे तिलकं न्यसेत् ॥

सौभाग्यारोग्यकृद् यस्मात् सदा च ललिताप्रियम् ।

प्रतिपक्षतृतीयासु पुमान् वाथ सुवासिनी ।

धारयेद् रक्तवस्त्राणि कुसुमानि सितानि च ॥

मत्स्यपुराणे पुरुषस्य रक्तवस्त्रधारणम् उक्तम् ।

प्रतिपक्षतृतीयायां पुमान् वै पीतवाससौ ।

[४२३] इत्य् अनेन यत् तु पुरुषस्य रक्तवस्त्रधारणम् उक्तम् अतस् तयोः पुरुषे विकल्पः ।

विधवा शुक्लवसनम् (?) एकम् एव हि धारयेत् ।

कुमारी सूक्ष्मसूक्रे (?) च वाससी परिधाय वै ॥

देव्यर्चां पञ्चगव्येन ततः क्षीरेण केवलम् ।

स्नापयेन् मधुना तद्वत् पुष्पगन्धोदकेन तु ॥

पूजयेत् शुक्लवस्त्रैस् तु फलैर् नानाविधैर् अपि ।

धान्यकाजाजिलवणगुडक्षीरघनान्वितैः ।

शुक्लाक्षतैस् तिलैर् अर्चां ललितायै सदार्चयेत् ॥

धान्यकं कुस्तुवुरुम् । अजा जीरकम् । अर्चा प्रतिमा ।

आपादाद् अर्जनं कुर्यात् प्रतिपक्षं समाधिना ।

वरदायै नमः पादौ शिवायै गुल्फये नमः ॥

अशोकायै नमो जङ्घे भवान्यै जानुनी तथा ।

गुह्यं मङ्गलकारिण्यै वामदेव्यै तथा कटीम् ॥

पद्मोदरायै जठरम् उरः कामश्रिये नमः ।

करौ सौभाग्यं दायिन्यै बाहू शशिमुखप्रिये ॥

मुखं दर्पणवासिन्यै पार्वत्यै ऽनुस्मितं तथा ।

गौर्यै नमस् तथानासां सुनेत्रायै च लोचने ॥

तुष्ट्यै ललाटफलकं कात्यायन्यै शिरस् तथा ।

नमो गौर्यै नमस् तुष्ट्यै नमः कान्त्यै नमः श्रिये ॥

[४२४] रम्भायै ललितायै व वासुदेव्यै नमो नमः ।

इति सर्वाङ्गपूजामन्त्रः ।

एवं सम्पूज्य विधिवद् अग्रतः पद्मम् आलिखेत् ।

पत्रैर् द्वादशभिर् युक्तं कुङ्कुमेन सकर्णिकम् ॥

पूर्वेण विन्यसेद् गौरीम् अपर्णां च ततः परम् ।

भवानीं दक्षिणे तद्वद् रुद्राणीं च ततः परम् ॥

विन्यसेत् पश्चिमे सौम्यं ततो मदनवासिनीम् ।

वायव्ये पाटलाम् उग्राम् उत्तरेण ततो ह्य् उमाम् ॥

लक्ष्मीं स्वाहा स्वधां तुष्तिं मङ्गलां कुमुदां सतीम् ।

रुद्राणीं मध्यतः स्थाप्य ललितां कर्णिकोपरि ॥

अतर्दनचतुष्कोणे गोर्याद्यष्टदिशो लिखेत् ।

बहिर्दलाष्टके उमाम् एमेकम् (?) एकशो लिखेत् ॥

कुसुमैर् अक्षतैः शुभ्रैः नमस्कारेण विन्यसेत् ।

गीतमङ्गलघोषांश्च कारयित्वा सुवासिनी ॥

पूजयेद् रक्तवासोभिर् अरक्तमाल्यानुलेपनैः ।

सिन्दूरमालिकां श्रेष्ठं वासः शिरसि दापयेत् ॥

सिन्दूरं कुङ्कुमं स्नानम् इष्टं देव्याः सदा यतः ।

नभस्ये पूजयेद् गौरीम् उत्पलैर् असितैः सदा ॥

बन्धुजीवैर् आश्वयुजे कार्त्तिके शतपत्रकैः ।

माघे तु पूजयेद् देवीं कुन्दपुष्पैः सुभक्तितः ॥

सिन्धुवारेण जात्या वा फाल्गुने पूजयेद् उमाम् ।

क्षेत्रे तु मालिकाशाकैः वैशाखे गन्धपाठलैः ॥

[४२५] सिन्दुवाराणि गुण्डिमल्लिका महूवकः ।

ज्यैष्ठे कमलमन्दारैर् आषाढे च जवार्चनम् ।

कदम्बैर् अथ मालत्या श्रावणे पूजयेद् उमाम् ॥

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।

बिल्वपत्रार्ककुसुमं यवगोशृङ्गवारि च ॥

तिलोदकं पञ्चगव्यं प्राशयेत् क्रमशस् तदा ।

एतद् भाद्रपदाद्य् अन्नप्राशनं समुदाहृतम्

प्रतिपक्षं तृतीयायां कर्तव्यं चारुलोचने ।

ब्राह्मणं ब्राह्मणीं चैव शिवं गौरीं प्रकल्पयेत् ॥

भोजयित्वार्चयेद् भक्त्या वस्त्रमाल्यानुलेपनैः ।

पुंसः पीताम्बरे दद्यात् स्त्रियः कौशुम्भवाससी ॥

निष्पावाजाजिलवणम् इक्षुदण्डगुडान्वितम् ।

स्त्रियै दद्यात् फलं पुंसे सुवर्णोत्पलकं तथा ।

यथा न देवि देवेशस् त्वां परित्यज्य गच्छति ।

तथा मां सम्परित्यज्य पतिर् नान्यत्र गच्छतु ॥

कुमुदा विमला नन्दा भवानी वसुधा शिवा ।

ललिता कमला गौरी सती रम्भाथ पार्वती ।

नभस्यादिषु मालेषु प्रीयताम् इत्य् उदीरयेत् ॥

व्रतान्ते शयनं दद्यात् सुवर्णकमालान्वितम् ।

मिथुनानि चतुर्विंशत् तदर्धं वाथ शक्तितः ॥

अष्टाव् अष्टौ च मासान्ते चातुर्मास्ये ऽथ वार्चयेत् ।

तथोपदेष्टारम् अपि पूजयेच् च ततो गुरुम् ॥

न पूज्यते गुरुर् यत्र सर्वास् तत्राफलाः क्रियाः ।

[४२६] उक्तानन्ततृतीयैषा सुतानन्दफलप्रदा ॥

सर्वपापहरा देवी सौभागारोग्यवर्धनी ।

न चैनां वित्तशाठ्येन कदाचिद् अपि लङ्घयेत् ॥

नरो वा यदि वा नारी यतः शाठ्यात् पतत्य् अधः ।

गर्भिणी सूतिका नक्तं कुमारी वाथ रोगिणी ॥

यदा शुद्धा तदान्येन कारयेत् प्रयता स्वयम् ।

इमाम् अनन्तफलदां या तृतीयां समाचरेत् ॥

कल्पकोटिशतं सेयं गौरीलोके महीयते ।

वित्तहीनापि कुर्वीत वर्षत्रयम् उपोषणैः ॥

पुष्पमन्त्रविधानेन सापि तत् फलम् अश्नुते ॥

इति पठति शृणोति वा य इत्थं

गिरितनयाव्रतमण्डले लोकसंस्थः ।

मतम् अपि च ददाति सो ऽपि दैवी

ममरवधूजनकिन्नरैश् च पूज्यः ॥

इति पद्मपुराणोक्तम् अनन्ततृतीयाव्रतम् ।

युधिष्ठिर उवाच ।

स्त्रीणां सम्पद्यते येन मर्त्यलोके गृहे शुभम् ।

[४२७] सर्वोपस्करसंयुक्तं सुखसौभाग्यवृद्धिमत् ॥

सपत्नीरहितं कान्तं महिमानम् अनुत्तमम् ।

एतद् आचक्ष मे कृष्ण प्रसादात् सुमुखो भव ॥

कृष्ण उवाच ।

कैलाशशिखरे रम्ये नानाधातुविचित्रिते ।

शङ्करः पार्वतीं प्राह किं त्वया सद्व्रतं कृतम् ।

येन सौभाग्यम् अत्यन्तं (?) प्रियासि वरवर्णिणी ॥

देव्य् उवाच ।

पुराहं देव तिष्ठामि कुमारी पितुर् अन्तिके ।

तत्र पृष्टा मया नाथ जननी मुखम् आस्थिता ॥

कथयस्वाम्ब मे किञ्चिद् व्रतं सौभाग्यवर्धनम् ।

एवम् उक्त्वा मया देवी जननी माम् अथाब्रवीत् ॥

भद्रे कुरुष्व यत्नेन रम्भाव्रतम् अनुत्तमम् ।

मनोऽभिलषितं कामं येन प्राप्नोषि शङ्कर ॥

ज्यैष्ठशुक्लतृतीयायां स्नाता नियमतत्परा ।

कुरु पार्श्वेषु पञ्चाग्नीन् ज्वालमालान् ज्वलाहुतीन् ॥

गार्हपत्यं दक्षिणाग्निं सभ्यकाहवनीयकम् ।

पञ्चमं भास्करं तेज इत्य् एते पञ्च वह्नयः ॥

इत्य् एषां मध्यमा भूत्वा तिष्ठ पूर्वामुखी भवत् ।

चतुर्मुखं ध्यायमानं पङ्कजोपरिसंस्थितम् ॥

मृगाजिनछत्रकुचां जटावल्कलधारिणीम् ।

सर्वाभरणसम्पन्नां देवीम् अभिमुखं कुरु ॥

[४२८] महाकाली महालक्ष्मीर् महाकाया महामनाः ।

महामाया महादेवी महामहिषनाशिनी ॥

सरस्वती वतरणी सैव प्रोक्ता महासती ।

तदास्य प्रेक्षणपरा भवतो भावभाविता ।

होमं कुर्युर् महात्मानो ब्राह्मणाः सर्वतोदिशम् ॥

देव्याः पूजा च कर्तव्या पुष्पधूपादिना ततः ।

बहुप्रकारं नैवेद्यम् अनिन्द्यं घृतपाचितम् ॥

दापयेद् अग्रतो देव्याः सौभाग्याष्तकम् एव च ।

कुस्तुम्बरीं जीरकं च कुसुम्भं कुङ्कुमं तथा ॥

निष्पावाः पञ्चमी पुत्रि लवणं शर्करा गुडम् ।

पुष्पमण्डयिका कार्या गन्धधूपादिवासिता ॥

पद्मासनेति सन्तिष्ठेद् यावत् परिणतो रविः ।

ततः प्रणम्य रुद्राणीं मन्त्रम् एतद् उदीरयेत् ॥

वेदेशु सर्वशास्त्रेषु दिवि भूमौ रसातले ।

दृष्टः श्रुतश् च बहुशो न भक्त्या रहितः शिवः ॥

त्वं शक्तिस् त्वं स्वधा स्वाहा त्वं सावित्री सरस्वती ।

पतिं देहि गृहं देहि सुतान् देहि नमो ऽस्तु ते ॥

एवं क्षंआप्य तां देवीं प्रणिपत्य पुनः पुनः ।

देहि शक्त्या गृहं रम्यं विचित्रं बहुभूमिकम् ॥

छाद्य कह्लारकेदारप्रतोलीभिर् अलङ्कृतम् ।

कुड्यं स्तम्भगवाक्षाढ्यं मणिमण्डिततोरणम् ॥

पद्मरागमहानीलमणिवैदूर्यशोभितम् ।

गृहधानाविधानेन ब्राह्मणाय यशस्विणे ॥

[४२९] सपत्नीकाय सम्पूज्ये सर्वोपस्करसंयुतम् ।

प्रयच्छ प्रणता भूत्वा मनोवाञ्छितदायकम् ॥

सुवासिनीभ्यस् तद् देयं नैवेद्यं सूर्पसंस्थितम् ।

निवर्त्य विधिनानेन ततः पश्चात् क्षमापयेत् ।

दम्पत्यानि च सम्पूज्य सम्पत्या मधुरैः रसैः ॥

देव्य् उवाच ।

इत्य् उक्तया मया चीर्णं देव रम्भाव्रतं पुरा ।

व्रतान्ते देवदत्तस्य दत्तं गृहवरं मया ॥

लोपामुद्रा सभर्तृका चास्मिन् वेश्मनि पूजिता ।

व्रतेन तेन देवेश भर्ता लब्धो ऽस्मि शङ्कर ॥

अर्धकाये स्थिता ते ऽहं सौभाग्यबलगर्विता ।

एवम् एतन् मयाख्यातं यन् मात्रा कथितं मम ।

नीलकण्ठ नमस् तुभ्यं ममार्तिहर शङ्कर ॥

श्रीकृष्ण उवाच ।

पूर्वम् एव मया चीर्णं याश् चरिष्यन्ति योषितः ।

पुरुषास् त्व् अथ कौन्तेय ख्यातं रम्भाव्रतं भुवि ॥

भार्यापुत्रगृहं भोगान् कुलवृद्धिम् अवाप्नुयुः ।

स्त्रीणां चारुलसौभाग्यम् गार्हस्त्यं सार्वकामिकम् ॥

बालमध्यस्थवृद्धानां रूपलावण्यबृंहणम् ॥

अनेन व्रतधर्मेण परलोके युधिष्ठिर ।

कामयानविमानेन वाञ्छितार्थप्रदेन तु ॥

[४३०] रुद्रलोके महाभोगान् भुक्त्वा पाण्डवनन्दन ।

मर्त्यलोके शुभे देशे धनधान्यसमाकुले ॥

हिमवद्विन्ध्ययोर् मध्ये आर्यावर्ते महोहरे ।

कुले च धर्मशीलानां पार्थिवानां च पाण्डव ॥

उत्पत्स्यते न सन्देहो रूपसौभाग्यसंयुतः ।

नारी वेत्थं महाभागा प्राप्नोत्य् अविकलं फलम् ॥

व्रतस्यास्य प्रभावेन शिवधर्मपरो भवेत् ।

भुक्त्वा भोगान् सुविपुलान् रुदैकगतमानसः ॥

मृतो ऽत्र कर्मनिर्मुक्तो रुद्रस्यानुचरो भवेत् ।

भद्रं भवेद् भवभयापहरं नृलोके

गौर्या स्वमातृभवनस्थितया च चीर्णम् ।

या स्त्री व्रतं भुवि करोति रता स्वधर्मे

ब्रह्मेशकेशवसमं पतिम् आलभेत् सा ॥

इति भविष्योत्तरोक्तं पञ्चाग्निसाधनरम्भाव्रतम् ।

कृष्ण उवाच ।

रम्भातृतीयां वक्ष्यामि सर्वपापप्रणाशनीम् ।

सुखसौभाग्यफलदं सर्वामयनिवारिणीम् ॥

सर्वदुःखहरां पुण्यां पुत्रपौत्रप्रदां तथा ।

सपत्नीदर्पदलनां रूपैश्वर्यकरीं शुभाम् ॥

शङ्करेण पुराख्याता पार्वत्याः प्रियकाम्यया ।

ताम् इमां शृष्णु भूपाल भूतानां परमं हितम् ॥

[४३१] उपवासस्य नियमं गृह्णीयात् भक्तिभाविता ।

देवी संवत्सरं यावत् तृतीयायाम् उपोषिता ॥

प्रतिमासं करिष्यामि पारणं चापरे ऽहनि ।

तद् अविघ्नेन मे यातु समाप्तिं व्रतम् उत्तमम् ॥

शरणं त्वां प्रपन्नास्मि दौर्भाग्याद् उद्धरस्व माम् ।

एवं सङ्कल्प्य विधिवत् कौन्तेय कृतनिश्चया ॥

भक्त्या नारी ध्यानपरा स्नानं कृत्वा जितेन्द्रिया ।

नद्यां तडागे वाप्यां वा गृहे वा नियतेन्द्रिया ॥

पूजयेत् पार्वतीं नाम्ना रात्रौ प्राश्य कुशोदकम् ।

प्रभाते भोजयेद् विप्रान् शिवभक्तान् विशेषतः ॥

सहिरण्यं च लवणं दत्वा तेषां तु दक्षिणाम् ।

गौरीण्याश् च यथा शक्त्या भोजयेत् प्रयता सती ॥

गौरीण्याः सुवासिनीः ।

अनेन विधिना राजन् यः कुर्यात् पार्वतीव्रतम् ।

सा कुलानां शतं साग्रं तारयेन् नात्र संशयः ॥

इह लोके सुखं भुक्त्वा शिवलोके महीयते ।

पौषे मासे तृतीयायां गिरिजां नाम पूजयेत् ॥

गोमूत्रं प्राशयेद् रात्रौ प्रभाते भोजयेद् द्विजान् ।

हिरण्यं जीरकं चैव स्वशक्त्या दापयेत् ततः ॥

शक्रलोके वसेत् कल्पं ततः शिवपुरं व्रजेत् ।

माघमासे तृतीयायां सुदेवीं नाम पूजयेत् ॥

गोमूत्रं प्राशयेद् रात्रौ स्वपेद् रात्रौ विमत्सरा ।

[४३२] हिरण्यं च कुशुम्भं तु दिवा दद्याद् द्विजातये ॥

विष्णुलोके चिरं स्थित्वा प्राप्नोति शिवमन्दिरम् ।

गौरीति फाल्गुने नाम गोक्षीरं प्राशयेन् निशि ॥

प्रभाते भोजयेद् विप्रान् यथाशक्त्या सुवासिनीम् ।

कुस्तुम्बुरीः सकनकास् तेभ्यो दत्वा विसर्जयेत् ॥

वाजपेयातिरात्राभ्यां फलं प्राप्ता दिवं व्रजेत् ।

चैत्रे राजन् विशालाक्षीं पूजयेद् भक्तितत्परा ॥

दधि प्राश्य स्वपेत् प्रातर् दद्याद् हेमसकुङ्कुमम् ।

शुभसौभाग्यसम्पन्ना मृता शिवपुरं व्रजेत् ॥

वैशाखस्य तृतीयायां श्रीमुखीं नाम पूजयेत् ।

घृतं च प्राशयेद् रात्रौ पुनर् दद्याद् द्विजातये ॥

कनकं शर्करां चैव पूजयित्वा क्षमापयेत् ।

सर्वान् कामान् अवाप्नोति मृता शिवपुरं व्रजेत् ॥

ज्यैष्ठे नारायणीं नाम पूजयेत् पुष्पदीपकैः ।

प्राशयेल् लवणं रात्रौ ततश् चैका निषि स्वपेत् ॥

शिवभक्तान् द्विजान् प्रातर् भोजयित्वा यथेप्सितान् ।

स्ववासिनीर् यथाशक्त्या भक्ष्यभोज्यैश् च भोजयेत् ॥

ताम्बूलं कनकं दद्यात् प्रनिपत्य विसर्जयेत् ।

घृतं च प्राशयेद् रात्रौ पुनर् दद्याद् द्विजातये ॥

कनकं शर्करां चैव पूजयित्वा क्षमापयेत् ।

सर्वान् कामान् अवाप्नोति मृता शिवपुरं व्रजेत् ॥

मार्गशीर्षे शुभे मासि तृतीयायां नराधिप ।

शुक्लायां प्रातर् उत्थाय दन्तधावनपूर्वकम् ॥

[४३३] अन्तकाले सुखं याति यत्र देवी महेश्वरः ।

आषाढे माधवीं नाम प्राशयित्वा तिलोदकम् ॥

प्रभाते भोजयेद् विप्रान् हेमयुक्तं गुडं ददेत् ।

सर्वसम्पत्सुखं भुक्त्वा देव्याश् चानुचरी भवेत् ॥

श्रावणे तु श्रियं पूज्य पिबेद् गोशृङ्गजं जलम् ।

प्रभाते ब्राह्मणं भोज्यं दद्याद् धेमतिलैः सह ॥

भोगान् भुक्त्वा महीपृष्ठे गोलोकम् अधिगच्छति ।

तथा भाद्रपदे मासि सुभद्रां नाम पूजयेत् ॥

बिल्वपत्ररसं प्राश्य स्वपेत् तु ब्रह्मचारिणी ।

प्रभाते विप्रमुख्याय दद्याद् धेमफलैः सह ॥

सर्वलोकेश्वरी भूत्वा भुक्त्वा बोगान् अनेकधा ।

प्राप्नोति ब्रह्मसदनं व्रतस्यास्य प्रभावतः ॥

आश्विनस्य तृतीयायां पूजयित्वा शिवप्रियाम् ।

प्राशयेत् तण्डुलजलं प्रातर् विप्रांश् च भोजयेत् ॥

दक्षिणा चात्र निर्दिष्टा चन्दनं च सकाञ्चनम् ।

सर्वयज्ञफलं प्राप्य गौरीलोके महीयते ॥

पद्मोद्भवां कार्त्तिके च पञ्चगव्यं पिबेन् निशि ।

वादित्रैर् जागरं कृत्वा प्रभाते भोजयेद् द्विजान् ॥

सपत्नीकान् शुभाचारान् (?) माल्यवस्त्रैर् विभूषणैः ।

भूषयेद् भरतश्रेष्ठ गौरिणीर् भोजयेत् तथा ॥

उमामाहेश्वरं हैमं समाप्ते कारयेत् शुभम् ।

उमामाह्रेश्वरं रूपं विष्णुधर्मोत्तरोदितम् ॥

वामार्धे वार्वति कार्या शिवः कार्यश् चतुर्भुजः ।

[४३४] अक्षमालां त्रिशूलं च दर्पणं च करे दधत् ॥

एकवक्त्रस् त्रिनेत्रश् च वामार्धदयितातनुः ।

यथा विभवसारेण वितानं पञ्चवर्णकम् ॥

शय्या चात्र विनिर्दिष्टा सर्वोपस्करसंयुता ।

सवत्सां शीलसम्पन्नां गां च दद्यात् पयस्वनीम् ॥

आसनं च मृदुं दद्यात् श्वेतछत्रं कमण्डलुम् ।

पादुकोपानहौ दिव्ये वस्त्रयुग्मं च पाण्डुरम् ॥

पीतयज्ञोपवीतं च पट्टसूत्रसमुद्भवम् ।

शङ्खशुक्तिसमोपेतं दर्पणं च समुज्ज्वलम् ॥

रक्तं सकम्बुकं देयं स्त्रियाश् च परिधानकम् ।

उमामाहेश्वरं स्थाप्य आसने ताम्रजे नृप ॥

पूजां विरचयेद् भक्त्या ध्यायमाना महेश्वरम् ।

नानादिव्यैः सुगन्धैश् च पुष्पैः पत्रैः फलैस् तथा ॥

घृतपक्वैश् च नैवेद्यैर् दीपमालाविभूषितैः ।

कूष्माण्डैर् नालिकेरैश् च दाडिमैर् बीजपूरकैः ॥

जीरकैर् लवणैश् चैव कुसुम्भैः कुङ्कुमैस् तथा ।

रसपात्रैः सुमृष्टैश् च गीतवाद्यैर् अनेकधा ॥

पूजयेद् देवदेवेशं सपत्नीकं क्षमापयेत् ।

ततो द्विजं समाहूय वेदवेदाङ्गपारगम् ॥

वेदध्वनिसमायुक्तम् उपवेश्य वरानने ।

सपत्नीकं नृपश्रेष्ठ दिव्यचन्दनचर्चितम् ॥

परिधापयित्वालङ्कृत्य सर्वं तस्मै निवेदयेत् ।

[४३५] एवं कृते फलं यत् स्यात् तन् न शक्यं (?) मयेरितुम् ॥

सर्वोक्तफलसंयुक्ता सर्वदेवैः सुपूजिता ।

जाता जाता महकल्ये सर्वान् कामान् अवाप्नुयात् ॥

तदन्ते शिवसायोज्यं नारी प्राप्नोत्य् असंशयम् ।

पुरुषो वा नृपश्रेष्ठ शिवभक्तिश् च सुव्रत ॥

सो ऽपि तत्फलम् आप्नोति नान्यथा शिवभाषितम् ।

सौभाग्यार्थं पुरा चीर्णं रम्भया राजसत्तम ॥

तेन रम्भातृतीयेयं परं सौभाग्यदायिनी ।

यो ऽहं स एव भूतेशो गौरी सैव न संशयः ॥

इति मत्वा महाभाग शरणं व्रज पार्वतीम् ।

एषा हिमाद्रिदुहितुर् दयिता तृतीया

रम्भाभिधानम् अभवद् भुवि मत्कृतेति ।

सम्प्राशनैर् उचितनामयुताम् उपोष्य

प्राप्नोति वाञ्छितफलान्य् अबला बहूनि ॥

इति भविष्योत्तरोत्तरं [त्तरोक्तं?] नामव्रतम् ।

युधिष्ठिर उवाच ।

भगवन् हरिकालीति का देवी प्रोच्यते भुवि ।

आर्द्रधान्ये स्थिता कस्मात् पूज्यते स्त्रीजनेन सा ।

पूजिता किं ददातीह सर्वं मे ब्रूहि केशव ॥

श्रीकृष्ण उवाच ।

पार्थ पौराणिकीं दिव्यां मत्तः शृणु कथाम् इमाम् ।

[४३६] आसीद् दक्षस्य दुहिता काली नाम सुकन्यका ॥

वर्णेनापि च सा कृष्णा नवनीलोत्पलप्रभा ।

त्र्यम्बकाय च सा दत्ता महादेवाय शूलिने ॥

विवाहिता विधानेन शङ्खतूर्यनिनादिता ।

यज्ञयात्रां गतैर् देवैः ब्राह्मणानां च निस्वनैः ॥

निर्वर्तिते विवाहे तु कन्यासार्धं त्रिलोचनः ।

क्रीडते विविधैः कामैर् मनसः प्रीतिवर्धनैः ॥

अथ देवसमाजे तु कदाचिद् वृषभध्वजः ।

आस्थानमण्डपे रम्ये आश्ते विष्णुसदायवान् ॥

तत्रस्थान् आह्वयामास नर्मणा त्रिपुरान्तकः ।

काली नीलोत्पलश्यामां गणमातृगणान्विताम् ॥

एह्य् एहि त्वं मतिः काली भिन्नकृष्णाञ्जनप्रभे ।

कालम् अप्य् अतिसौन्दर्यात् तव रूपं मम प्रियम् ॥

इत्य् एवम् उक्त्वा सा देवी व्रीडिता क्रोधमानसा ।

निश्वासोच्छ्[व्]आसताम्राक्षी बाष्पगद्गदया गिरा ॥

रुरोद सस्वनं बाला प्रोवाच स्फुरिताधरा ।

किं देव नाम्ना या गोरी सा गोरीत्य् अभिधीयते ॥

यस्मान् ममोपमा दत्ता भिन्नकृष्णाञ्जनं विभो ।

समाजे देवसिद्धानां वासुदेवस्य सन्निधौ ॥

तस्माद् देहम् इमं कृष्णं जुहोमि ज्वलिते ऽनले ।

इत्य् उक्त्वा वार्यमाणापि हरिकाली रुषान्विता ॥

मुमोच हरितछायां कान्तिं हरति शाद्वले ।

[४३७] चिक्षेप देहं रोषेण ज्वलिते हव्यवाहने ॥

पुनः पर्वतराजस्य गृहे गौरी बभूव सा ।

महादेवस्य देहार्धे स्थिता सम्पूज्यते सुरैः ॥

या मुक्ता शाद्वले देव्या काली कान्तिः स्वदेहजा ।

सा बभूव माहवीर्या देवी कात्यायनी पुनः ॥

तथा कृतानि भूरीणि देवकार्याणि पाण्डव ।

तुष्टैर् देवगणैर् दत्तो वरस् तस्यै शृणुष्व मे ॥

यच् च शाहलसंस्था वै कालीति वरदायिनी ।

पूजयिष्यन्ति पुरुषा नार्यो वापि विशेषतः ॥

सर्वपापविनिर्मुक्ताः सुखसौभाग्यगर्विताः ।

चिरायुषो भविष्यन्ति भर्तृपुत्रसमन्विताः ॥

एवं सा हरिकालीति गौरी शस्ये व्यवस्थिता ।

पूजनीया महाराज मन्त्रेणानेन भक्तितः ॥

हरेर् नाम्नः समुत्पन्ने हरिकालि हरिप्रिये ।

सर्वदा शस्य मूर्तिस्थे प्रणतार्तिहरे नमः ॥

इत्थं सम्पूज्य तां देवीं दत्वा विप्राय दक्षिणाम् ।

ततो जलाशये रम्ये मन्त्रेणैवं विसर्जयेत् ॥

अर्चितासि मया भक्त्या गच्छ देवि सुरालयम् ।

मम दौर्भाग्यनाशाय पुनर् आगमनाय च ॥

एवं यः पाण्डवश्रेष्ठ हरिकालीव्रतं चरेत् ।

प्रतिवर्षं विधानेन नारी वा भक्तितत्परा ॥

नीत्वा यत् फलम् आप्नोति तदन्येन न लभ्यते ।

मर्त्यलोकाच् चिरं जीवेत् सर्वकामैः सुपूरिता ॥

[४३८] पुत्रपौत्रसुहृन्मित्रनप्तृदौहित्रसङ्कुलम् ।

सार्धं वर्षशतं जीवेद् भोगान् भुक्त्वा महीतले ।

ततो ऽवसाने देहस्य शिवलोके महीयते ॥

वीरभद्रमहाकालनदीश्वरविनायकाः ।

सर्वे प्रसादसुमुखा भवन्ति व्रतयोगतः ॥

सम्पूज्य शूर्पगतसप्तनिरूढशस्यां

देवीं हिमाद्रितनयां हरिकालिकाख्याम् ।

नैवेद्यजानरसमुद्यतगीतवाद्यैः

सम्प्राप्नुवन्ति मनुजाः सुचिरं सुखानि ॥

कृष्ण उवाच ।

शुक्लभाद्रपद्स्यैवं तृतीयायां समाचरेत् ।

रत्नधान्यैः स वैरूढैः कृत्वा विहितशाद्वले ॥

खर्जूरैर् नारिकेलैश् च फलैश् च मधुरैस् तथा ।

मातुलाङ्गकुसुम्भैश् च धान्यकैर् जम्बिकैस् तथा ॥

गन्धैः पुष्पैः फलैर् धूपैर् नैवेद्यैर् मोदकादिभिः ।

प्रीणयित्वा समासाद्य पद्मरागेण भाविता ॥

घण्टावाद्यादिभिर् गीतैः शुभैर् दिव्यैः कथानकैः ।

पूजनीया महाराज मन्त्रेणानेन भक्तितः ॥

हरेर् नाम्नः समुत्पन्ने हरकालि हरप्रिये ।

सर्वदा शस्यमूर्तिस्थे प्रणतार्तिकरे नमः ॥

इत्थं सम्पूज्य तां देवीं दद्याद् विप्राय दक्षिणाम् ।

कृत्वा जागरणं रात्रौ प्रभाते किञ्चिद् उद्गते ॥

[४३९] रात्रौ सुवासिनीभिश् च सा नेया तु जलाशये ।

ततो जलाशये रम्ये मन्त्रेणैव विसर्जयेत् ॥

अर्चिता च मया भक्त्या गच्छ देवि सुरालयम् ।

मम दौर्भाग्यनाशाय पुनर् आगमनाय च ॥

एवं यः पाण्डवश्रेष्ठ हरिकालीव्रतं चरेत् ।

प्रतिवर्षं विधानेन नारी वा भक्तितत्परा ॥

नीत्वा यत् फलम् आप्नोति तदन्येन न लभ्येत् ।

मर्त्यलोके चिरं जीवत् सर्वकामैः सुपूजितः ॥

पुत्रपौत्रसुहृन्मित्रनप्तृदौहित्रसङ्कुलम् ।

साग्रं वर्शशतं जीवेद् भोगयुक्ता महीतले ॥

ततो ऽवसाने देहस्य शिवलोके महीयते ।

वीरभद्रमहाकालनन्दीश्वरविनायकाः ॥

सर्वे प्रसादसुमुखा भवन्ति व्रतयोगतः ॥

सम्पूज्य शूर्पगतसप्तविरूढशस्यां (?)

देवीं हिमाद्रितनयां हरिकालिकाख्याम् ।

नैवेद्यजागरसमुद्गतगीतवाद्यैः

सम्प्राप्नुवन्ति मनुजाः सुचिरं सुखानि ॥

इति भविष्योत्त्तरोक्तं हरिकालिव्रतम् ।

तृणविन्दुर् उवाच ।

येनावियोगम् आसाद्य व्रतेन नियमेन वा ।

सदा नारी सुतान् तेन व्रजेद् येन पदं च तत् ॥

[४४०] विधवा च परे लोके भर्त्रैव मुनिपूज्यते (?) ।

सुखेनापि सदा ब्रह्मन् वद येन धनेन च ॥

अनिलाद उवाच ।

उमया चरितं यच् च भवान्या ललिताव्रतम् ।

बाल्ये हिमवतो जन्म दक्षकोपाद् विमुच्यया ॥

महासौभाग्यसन्दोहं दृष्ट्वा देव्या महात्मना ।

अरुन्धत्या वशिष्ठेन कथितं तत् व्रतं शृणु ॥

वशिष्ठ उवाच ।

अरुन्धति शृणुष्वेदं व्रतं सौभाग्यवर्धनम् ।

अवैधव्यपदं स्त्रीणाम् अवियोगव्रतं त्व् इदम् ॥

मार्गशीर्षे सिते पक्षे स्नाता शुक्लाम्बरप्रिया ।

दृष्टं (?) चन्द्रं द्वितीयायां नक्तं भुञ्जीत पायसम् ॥

आचम्य च शुचिर् भूत्वा दण्डवच् छङ्करं नमेत् ।

मुदान्विता नमस्कृत्य विज्ञाय परमेश्वरम् ॥

ॐ उदुम्बरमयं वृक्षं ग्राह्यम् अष्टाङ्गुलं शुभम् ।

उत्तराशागतं साग्रं सत्वचं निर्व्रणं दृढम् ॥

वाग्यता प्राङ्मुखी भूत्वा भक्षयेद् दन्तधावनम् ।

द्वितीयायां ततः स्वप्याद् भूमौ तद्व्रतमानसा ॥

तृतीयायां समुत्थाय मुहूर्ते ब्रह्मणः शुभे ।

कृतकार्या च सुस्नाता शुक्लमाल्याम्बरा ततः ॥

शालिपिष्टमये कृत्वा स्त्रीपुंसः प्रतिमे शुभे ।

वेणुपात्रे तु संस्थाप्य पूजयेद् भक्तितत्परा ॥

[४४१] उपवासं च कुर्वीत सर्वभोगविवर्जितम् ।

पाषण्डादिभिर् आलापं कृत्वा स्नाता विवर्जयेत् ॥

ततो निशायां शुश्रोणि कृतपूजां कृतोत्सवाम् ।

कृतवादित्रनिर्घोषां जागरं तत्र कल्पयेत् ॥

विधिवत् पूजयित्वा तत् पैष्टिकं पुत्रिकाद्वयम् ।

सुप्रभाते द्विजाग्राय सहिरण्यं प्रदापयेत् ॥

यथाशक्त्या महाभागे वित्तशाठ्यं विवर्जयेत् ।

उमामाहेश्वरं ह्य् एतत् कल्पयित्वा तु चेतसि ॥

ब्राह्मणो ऽपि जले ऽगाधे पैष्टं तन् मिथुनं क्षिपेत् ।

एवं कृते स्वस्त्ययना मिथुनानि तु भोजयेत् ॥

शिवभक्तान् द्विजान् भोज्य मिष्टान्नेन स्वशक्तितः ।

प्रतिमासं प्रकुर्वीत विविधान्नेन संयुतम् (?) ॥

मार्गशीर्षे पुनर् मासि कार्त्तिकान्ते समुद्यते ।

नामानि ते प्रवक्ष्यामि प्रतिमासक्रमेण तु ॥

पूजाजपनिमित्तं च सिद्ध्यर्थं चिन्तितस्य च ।

शङ्करं मार्गशीर्षे तु नाम गौरीसमन्वितम् ॥

गौरीं वा पार्वतीं चैव पुष्यमासे तु पूजयेत् ।

भवं चैव भवानीं च माघमासे प्रपूजयेत् ॥

फाल्गुने तु महादेवम् उमया सहितं यजेत् ।

चैत्रे त्रिलोचनं देवं ललितां च प्रपूजयेत् ॥

स्थाणुं वैशाखमासे तु लोलनेत्रा समन्वितम् ।

रुद्राण्या सहितं रुद्रं ज्यैष्ठे मासे जयेत् च ॥

आषाढे पशुनाथं च सत्या सार्धं सुचिस्मिते ।

[४४२] श्रीकण्ठं श्रावणे देवं सुभद्रां परमेश्वरीम् ॥

भीमं भाद्रपदे तद्वत् कालरात्रिसमन्वितम् ।

शिवम् आश्वयुजे भक्त्या गङ्गया सहितं यजेत् ॥

ईशानं कार्त्तिके मासि शिवां देवीं प्रपूजयेत् ।

प्रतिमासे विना नाम्ना व्रतसिद्धिर् न विद्यते ॥

प्रतिमासेषु पुष्पाणि यानि पूजासु योजयेत् ।

तानि ते सम्प्रवक्ष्यामि सद्यः प्रीतिकराणि वै ॥

आदौ नीलोत्पलं योज्यं तदभावे ऽपराण्य् अपि ।

पवित्राणि सुगन्धीनि योजयेद् भक्तितो वने ॥

करवीरं बिल्वपत्रं किंशुकं कुञ्जमल्लिकाम् ।

पाटलीं च कदम्बं च तरगन्द्रोणमालतीम् ॥

अशुं कुङ्कुमं द्रोणं कुरवकः ।

एतान्य् उक्तक्रमेणैव मासेषु द्वादशेष्व् अपि ।

भक्त्या योज्यानि रम्भोरु देवस्य प्रियकाम्यया ॥

तथा च पञ्चगव्यं तु प्राशनं प्रतिमासिकम् ।

नान्यद् धि पावनं किञ्चित् पञ्चगव्यात् परं स्मृतम् ॥

एवं व्रते कृते भद्रे शिवभक्तिसमन्विता ।

वत्सरान्ते वितानं च ध्वजं किङ्किणिमालिकम् ॥

घण्टां (?) दीपं वस्त्रयुग्मं शिवभक्त्या निवेदयेत् ।

तापयित्वानुलिप्ता च सौवर्णं विद्धिअ पङ्कजम् ॥

यथा विभवतो देयं देवदेवस्य तुष्टये ।

रौप्यं च रूपयुगलं देवस्य पुरतो न्यसेत् ॥

[४४३] बहुप्रकारनैवेद्यं गीतवाद्यसमन्वितम् ।

कुर्यान् नीराजनं शम्भोः स्नात्वा गच्छेद् गृहं स्वकम् ॥

चतुरस्रं महादेवम् उमां चैव त्रिकोणिकीम् ।

स्नात्वाचार्याय तद्युग्मं मौक्तिकादियुतं ददेत् ॥

व्रतिनो भोजयेत् पश्चाद् द्वादशैव द्विजोत्तमान् ।

मिथुनानि च यावन्ति भक्त्या शक्त्या च दक्षयेत् ॥

कर्षैकैकप्रमाणेन शातकुम्भमयं शुभम् ।

उमामाहेश्वरं चैव कारयित्वा सुशोभनम् ॥

उमामाहेश्वरं रूपं रम्भातृतीयाव्रतोक्तं वेदितव्यम् ।

मौक्तिकानि चतुःषष्टिस् तावन्तो ऽपि प्रवालकाः ।

तावन्ति पुष्परागाणि ताम्रपात्रोपति न्यसेत् ॥

वस्त्रण (?) वेष्टयित्वा च गन्धपुष्पैः समर्चयेत् ।

एतत् सर्वं सारयुक्तम् आचार्याय निवेदयेत् ॥

व्रतिनां ब्राह्मणानां वा मिथुनानाम् (?) अथापि वा ।

अशक्तो निष्क्रयं दद्याद् वित्तशाठ्यविवर्जितः ॥

दत्वा हिरण्यं वासांसि प्रणिपत्य क्षमापयेत् ।

चत्वारिंशत् तथाष्टौ च कुम्भान् छत्रम् उपानहौ ॥

सहिरण्यात् कृतान् सर्वान् दधिपुण्योदकार्चितात् ।

दीनान्धबधिरादीनां तद्दिने वानिवारितम् ॥

कल्पयेद् अन्नपानं च सुमृष्टं रुच्यम् आत्मनः ।

न्यूनाधिकं न कर्तव्यं स्ववित्तपरिमाणतः ॥

[४४४] सम्पूरयेत् कल्पनया यदि वित्तं न विद्यते ।

अवियोगकरं चैतद् रूपसौभाग्यवित्तदम् ।

आयुः पुत्रप्रदं काम्यं शिवलोकप्रदायकम् ॥

इति कालिकापुराणोक्तम् अवियोगतृतीयाव्रतम् ।

मत्स्य उवाच ।

तथैवान्यत् प्रवक्ष्यामि सर्वकामफलप्रदम् ।

सौभाग्यशयनं नाम यत् पुराणविदो विदुः ॥

पुरा दग्धेषु लोकेषु भूर्भुवःस्वर्महादिषु ।

सौभाग्यं सर्वलोकानाम् एकस्थम् अभवत् तदा ॥

तच् च वैकुण्ठम् आसाद्य विष्णुवक्षस्थले स्थितम् ।

ततः कालेन महता पुनः सर्गविधौ नृप ॥

अहङ्कारावृते लोके प्रधानपुरुषान्विते ।

विवादे सम्प्रवृत्ते च कमलासनकृष्णयोः ॥

लिङ्गाकारा समुद्भूता ज्वलतीवोग्ररूपिणी ।

तयाभितप्तदेहस्य विष्णोर् वक्षस्थलाश्रितम् ॥

सौभाग्याद् यद् द्रवीभूतं न्यायतत् [स्?] तस्य वक्षसः ।

रसरूपं न तद् यावत् प्राप्नोति वसुधातलम् ॥

उत्क्षिप्तम् अन्तरिक्षस्थं ब्रह्मपुत्रेण धीमता ।

दक्षेण पीतमात्रं तु रूपलावण्यकारकम् ॥

बलं तजो महज् जातं दक्षस्य परमेष्ठिनः ।

[४४५] शेषं तद् अपतद् भूमाव् अष्टधा तद् अजायत ॥

इक्षवस् तरुराजं [तवराजम्?] च निष्पावाजाजिधान्यकम् ।

विकारवच् च गोक्षीरं कुशुम्भं कुङ्कुमं तथा ।

लवणं चाष्टमं तत्र सौभाग्याष्टकम् उच्यते ॥

तवराजम् अत्युत्तमा शर्करा । विकारवत् विकारसहितम् ।

पीतं यद् ब्रह्मपुत्रेण योगज्ञानविदा तथा ।

दुहितास्याभवत् तस्माद् या सतीत्य् अभिधीयते ॥

लोकानान् अतीत्य ललिता ललिता तेन चोच्यते ।

त्रैलोक्यसुन्दरी राजन् उपयेमे पिनाकधृक् ॥

या सौभाग्यैकनिष्पन्ना भुक्तिमुक्तिफलप्रदा ।

ताम् आराध्य पुमान् भक्त्या नारी वा किं न विन्दति ॥

मनुर् उवाच ।

कथम् आराधनं तस्या जगद्धात्र्या जनार्दन ।

तद्विधानं च जगतो जायते तद् वदस्व नः ॥

मत्स्य उवाच ।

वसन्तमासम् आसाद्य तृतीयायां जनप्रियाम् ।

शुक्लपक्षस्य पूर्वाह्णे तिलैः स्नानं समाचरेत् ॥

तस्मिन्न् अहनि सा देवी किल विश्वात्मना सती ।

पाणिग्रहणकैः मन्त्रैर् उदूढा वरवर्णिनी ॥

तया सहैव देवेशं तृतीयायां समर्चयेत् ।

[४४६] फलैर् नानाविधैर् धूपैर् दीपैर् नैवेद्यसंयुतैः ॥

प्रतिमां पञ्चगव्येन तथा गन्धोदकेन च ।

स्नापयित्वार्चयेद् गौरीम् इन्दुशेखरसंयुताम् ॥

प्रतिमाम् इत्य् अविशेषोक्ताव् अपि गौरीशयोः सौवर्णम् एव प्रतिमाद्वयं कर्तव्यम्, सौवर्णप्रतिमाद्वयं प्रतिपादयेद् इत्य् अग्रे वक्ष्यमाणत्वात् ।

नमोऽस्तु पाटलायै तु पादौ देव्याः शिवस्य तु ।

शिवायेति च सङ्कीर्त्य जययै गुल्फयोर् द्वयोः ॥

त्रिगुणायेति रुद्रस्य भवान्यै जङ्घयोर् युगम् ।

शिवं रुद्रेश्वरायेति जयायै इति जानुनी ॥

सङ्कीर्त्य हरिकेशाय तथोरू वरदे नमः ।

ईशायै शङ्कटिं रत्यै शङ्करायेति शङ्खके ॥

कुक्षिद्वये च कोटिव्यै शूलिनं शूलपाणये ।

मङ्गलायै नमस् तुभ्यम् उदरं वापि पूजयेत् ॥

सर्वात्मने नमो रुद्रम् ईशान्यै च कुचद्वयम् ।

शिवं वेदात्मने तद्वद् भद्राण्यै कण्ठम् अर्चयेत् ॥

त्रिपुरघ्नाय विश्वेशम् अनन्तायै करद्वयम् ।

त्रिलोचनायेति हरं बाहू कालानलप्रिये ॥

सौभाग्यभवनायेति भूषणाहिं समर्चयेत् ।

भूषणाधिं शिवम् ।

स्वाहास्वधायै च मुखम् ईश्वरायेति शूलिनः ॥

आसोकमधुवासिन्यै पूज्या चौष्टौ च कामदौ ।

[४४७] स्थाणवे च हरं तद्वद् आस्यं चन्द्रमुखप्रिये ॥

नमो ऽर्धनारीशहरम् असिताङ्गीति नासिकम् ।

अर्धनारीशाय नम इति हरं पूजयेद् इत्य् अर्थः ।

नम उग्राय लोकेशं ललितेति पुनर्भ्रवौ ।

शर्वाय पुरहन्तारं वासुदेव्यै तथालकम् ॥

नमः श्रीकण्ठनाथाय शिवं केशांस् तथार्चयेत् ।

तथा अलकपूजामन्त्राभ्याम् उमेशयोः केशान् अर्चयेद् इत्य् अर्थः ।

भौमोग्रसौम्यरूपिण्यै शिरः सर्वात्मने नमः ।

शिवम् अभ्यर्च्य विधिवत् सौभाग्याष्टकम् अग्रतः ॥

स्थापयेद् घृतनिष्पावकुसुम्भक्षीरजीरकम् ।

तवराजेक्षुलवणं कुस्तुम्बुरुम् अथाष्टकम् ॥

दत्तं सौभाग्यकृद् यस्मात् सौभाग्याष्टकम् इत्य् अतः ।

अत्र घृतक्षीरयोर् एककोटिता । विकारवच् च गोक्षीरम् इति सौभाग्याष्टकमध्ये मत्स्यपुराण एव पूर्वत्राभिधानात् । कुस्तुम्बुरुं धान्यकम् । तवराजः शर्कराविशेषः ।

एवं निवेद्य तत् सर्वम् अग्रतः शिवयोः पुरः ।

चैत्रे शृङ्गोदकं प्राश्य स्वपेद् भूमाव् अरिन्दम ॥

पुनः प्रभाते उत्थाय कृतस्नातजपः शुचिः ।

सम्पूज्य द्विजदाम्पत्यं माल्यवस्त्रविभूषणैः ॥

[४४८] सौभाग्याष्टकसंयुक्तं सुवर्णप्रतिमाद्वयम् ।

प्रीयताम् अत्र ललिता ब्राह्मणाय निवेदयेत् ॥

एवं संवत्सरं यावत् तृतीयायां सदा मनो ।

प्राशने दानमन्त्रेण विशेषो ऽयं निबोध मे ॥

गोशृङ्गोदकम् आद्यं स्याद् विशाखे गोमयं पुनः ।

ज्यैष्ठे मन्दारकुसुमं बिल्वपत्रं शुचौ स्मृतम् ॥

श्रावणे दधि सम्प्राश्य नभस्ये च कुशोदकम् ।

क्षीरम् आश्वयुजे मासि कार्त्तिके पृषदाज्यकम् ॥

पृषदाज्यं दधिमिश्रं घृतम् ।

मार्गशीर्षे तु गोमूत्रं पौषे सम्प्राशयेद् घृतम् ।

माघे कृष्णतिलांस् तद्वत् पञ्चगव्यं च फाल्गुने ॥

ललिता विजया भद्रा भवानी कुमुदा शिवा ।

वासुदेवी तथा गौरी मङ्गला कमला सती ॥

उमा च दानकाले तु प्रीयताम् इति कीर्तयेत् ।

मल्लिकाशोककमलकदम्बोत्पलमालतीम् ॥

कुलत्थं करवीरं च बाणम् अम्लानकुङ्कुम ।

सिन्दुवारं च सर्वेषु मासेषु क्रमतः स्म्र्तम् ॥

बाणं नीलकुरण्टकम्, अम्लानं महासहापुष्पम्, सिन्दुवारं निर्गुणीपुष्पम् ।

जपाकुसुम्भकुसुममालतीशतपत्रिकाः ।

यथालाभं प्रशस्तानि करवीरं च सर्वदा ॥

एवं संवत्सरं यावद् उपोष्य विधिवन् नरः ।

[४४९] स्त्री वा भक्त्या कुमारी वा शिवाव् अभ्यर्च्य शक्तितः ।

व्रतान्ते शयनं दद्यात् सर्वोपस्करसंयुतम् ॥

उमामाहेश्वरं हैमं वृषभं च गवा सह ।

स्थापयित्वा च शयेने ब्राह्मणाय निवेदयेत् ॥

उपस्करम् उपधानादि । गोमिथुनम् अपि हैमम् एव मुख्यस्य शयने स्थापनासम्भवात् ।

अन्यान्य् अपि यथाशक्त्या मिथुनान्य् अम्बरादिभिः ।

धान्यालङ्कारगोदानैर् अभ्यर्च्य धनसञ्चयैः ॥

वित्तशाठ्येन रहितः पूजयेद् गतविस्मयः ।

एवं करोति यः सम्यक् सौभाग्यशयनव्रतम् ॥

सर्वान् कामान् अवाप्नोति पदम् आनन्त्यम् अश्नुते ।

फलस्यैकस्य च त्यागम् एतत् कुर्वन् समाचरेत् ॥

यत्र कीर्तिं समाप्नोति प्रतिमासं नराधिप ।

सौभाग्यारोग्यरूपायुर्वस्त्रालङ्कारभूषणैः ॥

न विमुक्ता भवेद् राजन्न् अब्दार्बुदशतत्रयम् ।

यस् तु द्वादशवर्षाणि सौभाग्यशयनव्रतम् ॥

करोति सप्त वाष्टौ वा श्रीकण्ठभवने ऽमरैः ।

पूज्यमानो वसेत् सम्यक् यावत् कल्पायुतत्रयम् ॥

नारी वा कुरुते वापि कुमारी वा नरेश्वर ।

सापि तत्फलम् आप्नोति देव्यानुग्रहलालिता ॥

शृणुयाद् अपि यश् चैव प्रदद्याद् अथ वा मतिम् ।

सो ऽपि विद्याधरो भूत्वा स्वर्गलोके चिरं वसेत् ॥

[४५०]

इति मत्स्यपुराणोक्तं सौभाग्यशयनव्रतम् ।

गौरीव्रतम् अथो वक्ष्ये स्त्रीणां सौभाग्यवर्धनम् ।

चैत्रशुक्लतृतीयायां गौरीव्रतं समाचरेत् ॥

उपोष्य तु प्रयत्नेन विधानम् इदम् आचरेत् ।

रक्ताम्बरधरो भूत्वा क्रोधलोभविवर्जितः ॥

स्थण्डिले हस्तमात्रे तु कर्तव्यं गन्धमण्डलम् ।

कुङ्कुमेन्दुशीतेन वर्तुलं परिवर्तयेत् ॥

इन्दुः कर्पूरम्, शीतं चन्दनम् ।

तत्र मध्ये पूजितव्या प्रतिमा हेमसम्भवा ।

मधुजा तदभावे तु पुरा केनापि निर्मिता ॥

रक्तचन्दनजा वाथ कर्तव्या सा प्रमाणतः ।

पञ्चामृताथ वा पूज्या तत्र मासं विधानतः ॥

पञ्चामृता पञ्चामृतजा ।

रक्तपुष्पैस् तु सम्पूज्या जातीचम्पकसंयुतैः ।

पाटलाकरवीरैश् च रक्तपद्मैर् यथा तथा ॥

पारिजैर् मल्लिकाक्ञ्जैस् तथा रक्तोत्पलैर् अलम् ।

स्थलपद्मैः किंशुकैश् च सुमनोत्पलकेतकैः ॥

एवं पुष्पैस् तथान्यैश् च पूजनीया प्रयत्नतः ।

इन्दुना कुङ्कुमेनैव भूयो भूयः समालभेत् ॥

नानाविधानि रत्नानि मुकुटाङ्गदकानि च ।

कुण्डलाभरणान्य् अत्र रशनादीनि दापयेत् ॥

[४५१] भक्ष्याणि यत्नात् कल्प्यानि घृतकुण्डयुतानि च ।

शीतलं च घनं दुग्धं मुग्धं च दधि पिच्छिलम् ॥

करम्भं नवनीतं च तथा शिखरिणीं पुनः ।

पानकं चैव पानीयं सचन्द्रं दापयेत् ततः ॥

रक्तवस्त्राणि देयानि सम्भारादीनि चाग्रतः ।

आचार्यश् चैव पूजान्ते पूजनीयः प्रयत्नतः ॥

हेमवस्त्रान्नपानैश् च वित्तशाठ्यं (?) विना ततः ।

रात्रौ जागरणं कार्यं कुमारीर् भोजयेत् तथा ॥

देवीनामानि वक्ष्यामि मासि मासि यथाक्रमम् ।

प्राशनं तु विशेषेण यथावद् अनुपूर्वशः ॥

गौरी उमा च ललिता सुभगा भगमालिनी ।

मनोन्मनी भवानी च कामदा भोगवर्धनी ॥

अम्बिका च तथा कृष्णा रुद्राणी पूजयेत् क्रमात् ।

इत्य् एताः सितपक्षे तु कृष्णपक्षे तथा शृणु ॥

रतिर् धृतिर् (?) बुद्धिर् मतिः पुष्टिश् च परिकीर्तिताः ।

प्रज्ञा मेधा तथा चर्या श्रीरक्ता कीर्तिर् एव च ॥

सितासिताभ्यां पञ्चाभ्यां व्रतं यत्रात्मम् आचरेत् ।

अशक्तत्वाद् अभावाच् च द्रव्याणां तु स्थितं हितम् ॥

प्राशनं तत्र कर्तव्यं शास्त्रोक्तेनैव वर्त्मना ।

तत्तन्मासोक्तद्रयस्यालाभे रोगादिजनकत्वेन प्राशनाशक्तौ च क्रमेण क्रमेण द्वादशेषु मालेषु यत् स्थितं लब्धं यत्र हितं तत् प्राशनीयम् इत्य् अशक्तत्वादित्वादेर् अर्थः ।

प्रतिमासि प्रवक्ष्यामि शुक्लपक्षे क्रमेण तु ।

[४५२] क्षीरं दधि घृतं चैव गोमूत्रं च कुशोदकम् ॥

बिल्वपत्रोदकं चैव तथान्यच् चन्दनोदकम् ।

जातीपत्रोदकं चैव पद्मकेसरम् एव च ॥

नागकेसरसज्ञं च लवङ्गं चन्द्रम् एव च ।

शुक्लपक्षे तु कथितं चैत्रात् प्रभृति षण्मुख ॥

प्राशनं कृष्णपक्षे तु कथ्यमानं शृणुष्व तत् ।

बलाकं कोलकं चैव प्राशयेत् तु शतावरीम् ॥

वनं लघुसुरं दारु सारिवां शङ्खपुष्पिकाम् ।

शिरीषं सुरभीयुक्तं रक्तं च मौक्तिकं तथा ॥

भारोदकं द्वादशमं प्राशनं कथितं तव ।

इति गौरीव्रतं ख्यातं सौभाग्यं स्त्रीषु पुत्रदम् ॥

आयुरारोग्यदं स्त्रीणाम् इह लोके परत्र च ।

इदं व्रतवरं त्यक्त्वा स्त्रीषु नान्यद् व्रतं हितम् ॥

तस्मात् सर्वप्रयत्नेन गौरीव्रतम् उपाचरेत् ।

अञ्जनं रक्तवस्त्रं च ताम्बूलं कुङ्कुमं तथा ॥

दर्पणं व्यजनं छत्रम् आसनं यानम् उत्तमम् ।

गृहोपकरणं सर्वं हेमजं वाथ ताम्रजम् ॥

व्रतान्ते चैव दातव्यम् आचार्याय प्रयत्नतः ।

स्त्रीणां चैव कुमारीणां वस्त्राण्य् आभरणानि च ॥

दातव्यानि प्रयत्नेन यदीच्छेद् भूतिम् आत्मनः ।

इत्य् एतत् सरहस्यं तु गौरीव्रतम् उदाहृतम् ॥

[४५३]

इति कालोत्तरोक्तं गौरीव्रतम् ।

मार्कण्डेय उवाच ।

शुक्लपक्षे तृतीयायां सोपवासो जितेन्द्रियः ।

मण्डलत्रितयं कुर्याद् वर्णकेन पृथक् पृथक् ॥

तथा मण्डलं दक्षिणे भागे श्वेतं कुर्यात् ततो नरः ।

रक्तं मध्ये रवेः कुर्यात् तादृक् श्वेतं ध्रुवस्य तु ॥

विष्णोः पदत्रयं तेषु पूज्यं स्यान् मण्डलेन तु ।

भूमौ तु प्रथमं पादं द्वितीयं सूर्यमण्डले ॥

तृतीये तु ध्रुवे देवे पूजयेत् प्रयतः शुचिः ।

होममन्त्रेण पूजा ।

यथा मण्डलवर्णोक्तगन्धमाल्यादिभिर् द्विज ।

तद् विष्णोः परम् इत्य् एव होममन्त्रो विधीयते ॥

त्रिविक्रमायेति तथा स्त्री शूद्रश् च द्विजोत्तम ।

अक्षतानि तिलान् आज्यं होमयेत् संयुतत्रयम् ॥

ताम्ररूप्यसुवर्णानि शक्त्या दद्यात् तु दक्षिणाम् ।

भोजनं च त्रिमधुरं भोजयेद् ब्राह्मणोत्तमान् ॥

प्राणयात्रां तु कुर्वीत त्रिगव्येन तु तद्दिने ।

तद्दिने व्रतदिने व्रतिनो उपवासित्वम् इतरान्नवर्जनात् । [४५४] द्वितीयायाम् उपोष्य तृतीयायाम् त्रिगव्यप्राशनं गव्यम् इति दधिक्षीरघृतम् ।

एवं वर्षत्रयं कृत्वा व्रतान्ते च त्रिहायनीम् ।

ब्राह्मणाय तु गां दत्वा सर्वकामान् (?) अवाप्नुयात् ॥

त्रिहायनीं त्रिवर्षाम् (?) ।

भुमौ तथान्तरिक्षे च दिवि चैव नरोत्तम ।

गतिस् तस्याप्रतिहता भवत्य् अरिनिसूदन ॥

त्रीणि वर्षसहस्राणि त्रिविक्रमव्रतचारिणी ।

मानसं वाचिकं चैव कायिकं च विमुञ्चति ॥

सर्वपापं महाभाग मनुष्यो जायते तथा ।

कुले धनाढ्ये महति रूपद्रविणसंयुतः ॥

विरोगः सर्वसिद्धार्थस् त्रिवर्गस्य च साधकः ।

कृत्वा द्वादशवर्षाणि शिवलोके महीयते ॥

तत्रापि नित्यं वरदं वरेण्यं

लक्ष्मीसहायं पुरुषं पुराणम् ।

प्श्यत्य् आमोघं विभुम् अप्रतर्क्यं

सनातनं दुःखविनाशहेतुम् ॥

इति विष्णुधर्मोत्तरोक्तं त्रिविक्रमतृतीयाव्रतम् ।

मार्कण्डेय उवाच ।

द्वितीयं च प्रवक्ष्यामि शृणु त्रैविक्रमं व्रतम् ।

भूमिस् तु प्रथमः पादः अन्तरिक्षं तथा परः ॥

[४५५] तृतीयादिविधिर् ज्ञेयो देवदेवस्य चक्रिणः ।

भुवः पतिः स्मृतो वह्निर् अतिरिक्तस्य चानलः ॥

दिशाम्पतिस् तथा सूर्यस् तव विष्णोः पदत्रयम् ।

ज्यैष्ठे शुक्लतृतीयायां सोपवासो जितेन्द्रियः ॥

कलेए कूपजलं स्नातो वह्निं सम्पूजयेन् नरः ।

सोपवासो द्वितीय्यां कृतोपवासः कल्यं प्रातःकालः ।

गन्धमाल्यनमस्कारं दीपधूपान्नसम्प्रदा ।

नदीजले ततः स्नात्वा मध्यं प्राप्ते दिवाकरे ॥

वायोः सम्पूज्नं कृत्वा सक्तून् दत्वा द्विजातये ।

स्नात्वा तुसारतोये च सायं सूर्यं समर्चयेत् ॥

ततश् च नक्तं प्राश्नीयाद् धविष्यं वाग्यतः शुचिः ।

एवं संवत्सरं राजन् कृत्वा व्रतम् अनुत्तमम् ॥

समापयित्वा वैशाखे दद्याद् विप्रेषु दक्षिणाम् ।

ताम्रं रूप्यं सुवर्णं च त्रीणि लोहानि यादव ॥

वासोयुगं तथोष्णीषं त्रीणि चैतानि भक्तितः ।

एतत् संवत्सरं कृत्वा नरस् त्रैविक्रमं व्रतम् ॥

सर्वकामसमृद्धस्य यज्ञस्य फलम् अश्नुते ।

विमानेनार्कवर्णेन किङ्किणीजालमालिना ॥

देवरेण गुणाढ्येन वीणामुरजवादिना ।

स्वर्गलोकम् अवाप्नोति कामचारी विहङ्गमः ॥

कामत्रयम् उपासाद्य वरत्रयम् उपाश्नुते ।

अन्नम् आयुः श्रुतं चैव प्रसन्ने गरुडध्वजे ॥

आक्रान्तकोकत्रितयस्य पूज्यः

[४५६] पदत्रयं धर्मभृताम्बरिष्ठम् ।

सम्प्राप्य कामान् दनुजातहर्तुर्

गतिर् यथेष्टां पुरुषः प्रयाति ॥

इति विष्णुधर्मोत्तरोक्तं त्रिविक्रमतृतीयाव्रतम् ।

मार्कण्डेय उवाच ।

वक्ष्यतस् ते महाभाग तव त्रैविक्रमव्रतम् ।

तृतीयं नृपशार्दूल तन् मे निगदतः शृणु ॥

ज्यैष्ठे शुक्लतृतीयायां नरः सम्यग् उपोषितः ।

भुवः सम्पूजनं कुर्याद् धूपमाल्यानुलेपनैः ॥

दीपैः रत्नैश् च विविधैर् दद्याद् विप्रेषु दक्षिणाम् ।

बीजपूर्णानि पात्राणि सहिरण्यानि भक्तितः ॥

पूजैवम् अन्तरिक्षस्य मास्य् आषाढे विधीयते ।

दक्षिणा तत्र दातव्या तथा वासोयुगं द्विजः ॥

दिवः पूजा च कर्तव्या श्रावणे प्राग्वद् एव तु ।

छत्रं चोपानहं युग्मं दक्षिणां तत्र दापयेत् ॥

एवं मासत्रयेणेह पारणं प्रथमं भवेत् ।

मासत्रयेण चान्येन ततो मासत्रये पुनः ॥

ततो मासत्रये चान्यद् एवम् अन्यन् न चानघ ।

विज्ञेयं नित्यधर्मस्य पारणानां चतुष्टयम् ॥

प्रथमपारणन्यायेनैव देवतापूजनम् । दक्षिणादानादिना सर्वपारणसमापनम् ।

[४५७] प्रथमं पारणं कृत्वा वह्निष्टोमफलं लभेत् ।

अतिरात्रफलं राजन् द्वितीयपारणे तथा ॥

तृतीये पारणे विश्वं वाजपेयफलं लभेत् ।

चतुर्थे पारणे प्रोक्तं राजसूयस्य यत् फलम् ॥

विमानेनार्कवर्णेन किङ्किनीजालमालिना ।

हंसयुक्तेन दिव्येन वीणामुरजवादिना ॥

वराप्सरोगणाढ्येन कामगेनापि चारुणा ।

यथेष्टकामी भवति बहुकालम् असंशयम् ॥

मानुष्यजन्म चासाद्य त्रीणि शुक्तान्य् अवाप्नुयात् ।

शुक्तानि परिशुद्धानि ।

विद्या जन्म तथा कर्म नात्र कार्या विचारणा ॥

त्रिविक्रमस्याप्रतिमस्य तस्य

चराचरेशस्य पदत्रये तु ।

यः पूजयेत् तस्य भवन्ति कामाः

सर्वे समृद्धिर् न हि संशयो ऽत्र ॥

इति विष्णुधर्मोत्तरोक्तं त्रिविक्रमव्रतम् ।

मार्कण्डेय उवाच ।

ज्यैष्ठे शुक्लतृतीयायां निराहारो नरः शुचिः ।

त्रिमूर्तिपूजनं कृत्वा तृतीयायां यथाविधि ॥

[४५८] त्रिमूर्तिपूजनं तिसॄणां मूर्तिनां वायुसूर्यचन्द्रमसां पूजनम् ।

कूपनदतडागाद्यैर् मिश्रैः प्रातः शुचिर् जलैः ।

प्रत्यूषे पूजयेद् वायुम् अनुलिप्ते शुभस्थले ॥

गन्धमाल्यनमस्कारदीपधूपान्नसम्पदा ।

होमं कुर्याद् यवैर् मुख्यैर् वस्त्रं दद्याद् द्विजातये ॥

मध्याह्ने पूजयेद् वह्नौ दद्याद् विप्रेषु काञ्चनम् ।

सूर्यास्तमनवेलायां (?) जले चन्द्रं च पूजयेत् ॥

जले चन्द्रमसम् अभिध्याय पूजयेद् इति यावत् । वह्नाव् अभिध्याय मध्याह्ने सूर्यं प्रपूजयेद् इति यावत् ।

घृतेन होमं कुर्वीत रजतं दक्षिणा स्मृतम् ।

नक्तं भुञ्जीत धर्मज्ञः तैलहीनं ततो नरः ॥

पूर्णं संवत्सरं कृत्वा व्रतम् एतद् अतन्द्रितः ।

स्वर्गलोकम् अवाप्नोति सहस्रं परिवत्सरम् ॥

मानुष्यम् आसाद्य ततो राजा भवति भूतले ।

व्रतं कृत्वा महाभाग पूर्णं संवत्सरत्रयम् ॥

पञ्चवर्षसहस्राणि स्वर्गलोके महीयते ।

मानुष्यम् आसाद्य ततो राजा भवति भूतले ॥

विरोगो दर्शनीयश् च सुभतो धनवान् नरः ।

कृत्वा द्वादशवर्षाणि व्रतम् एतद् अनुत्तमम् ॥

व्रतावसाने विप्राणां सहस्रं भोजयेत् ततः ।

भोज्यं त्रिमधुरप्रायं दद्याच् छक्त्या च दक्षिणाम् ।

[४५९] ततः स्वर्गम् आप्नोति वर्षाणां च दशायुतम् ॥

ततो मानुषम् आसाद्य राजा भवति धार्मिकः ।

प्रदीप्तचक्रो धनवान् दर्मराजो जनप्रियः ॥

इति विष्णुधमोत्तरोक्तं राज्यव्रतम् ।

रम्भोवाच ।

देवलोके महादेवि गणिकाः सौख्यसंयुताः ।

मर्त्यलोके तथा सर्वाः स्त्रियः सौभाग्यवर्जिताः ॥

कथं भाग्यं च भोगांश् च लभन्ते परमेश्वरि ।

जन्मजन्मनि सौभाग्यं यथा भवति पार्वति ॥

तथा मे सर्वम् आख्याहि कारुण्याद् भक्तवत्सले ।

उपवासे व्रते चैव तथा नियम एव च ।

एतत् सर्वं यथान्यायं ब्रूहि मे परमेश्वरि ॥

पार्वत्य् उवाच ।

शृणु भद्रे परं गुह्यं सर्वकामफलप्रदम् ।

दुर्भगानां च नारीणां सौभाग्यकरणं परम् ॥

लक्षेश्वरीति विख्यातं ततः कोटीश्वरीव्रतम् ।

तृतीया शुक्लपक्षे तु मासि भाद्रपदे भवेत् ॥

तस्यां व्रतं तु सङ्ग्राह्यं यावद् वर्षचतुष्टयम् ।

उपवासेन कर्तव्यं वर्षे वर्षे तु सुन्दरि ॥

अखण्डानां तन्दुलानां तिलानां वा सुलोचने ।

लक्षम् एकं विरच्याथ क्षिपेत् पयसि शोभने ॥

[४६०] क्षीरसम्मिश्रितैः कार्या देव्या मूर्तिः सुलोचना ।

कृत्वा तु पुष्पप्राकारं पुष्पमालाभिमण्डितम् ॥

संस्थाप्य पार्वतीं देवीं पूजयेद् भक्तिशक्तितः ।

पूजयेद् विविधैः पुष्पैः कुङ्कुमागुरुचन्दनैः ॥

गन्धैर् धूपैश् च पुष्पैः कुङ्कुमागुरुचन्दनैः ।

गन्धैर् धूपैश् च नैवेद्यैः फलैश् च विविधैस् तथा ॥

वस्त्रेण चतुरेणैव पूजयेत् परमेश्वरीम् ।

नमो नमस् ते देवेशि लक्षेश्वरि नमो ऽस्तु ते ॥

कोटीश्वरि नमस् तुभ्यं नमस् ते हरवल्लभे ।

उमादेवि नमस् तुभ्यं कात्यायनि नमो ऽस्तु ते ॥

नमः कालि महाकालि शिवदुर्गे नमो ऽस्तु ते ।

नमः सर्वाणि रुद्राणि अपर्णे शङ्करप्रिये ।

सर्वभूतहिते देवि त्राहि संसारसागरात् ॥

पूजामन्त्रः ।

नमो लक्षेश्वरी देवि क्ōतीश्वरि नमो ऽस्तु ते ।

गृहाणार्घ्यं मया दत्तं शङ्करेण समं मम ॥

अर्घमन्त्रः ।

पुरा व्रतम् इदं भद्रे इन्द्राण्या च कृतं शुभम् ।

सन्ध्यावल्या च सावित्र्या। अरुन्धत्या कृतं पुरा ॥

दमयन्त्या च रोहिण्या कृतं व्रतवरं शुभे ।

गौरिणीर् भोजयेद् छक्त्या इज्यान्ते च मुदीक्षिताः ॥

गौरिणीः सुवासिनीः ।

एवंविधविधानेन करोति नियता व्रतम् ।

[४६१] ततो ऽस्याः स्याच् च दारिद्र्यं न च इष्टवियोजनम् ॥

अष्टपुत्रा भवेन् नारी भर्तारं च गुणाधिकम् ।

सुरूपं गुणिनं कान्तं पण्डितं प्रियदर्शनम् ।

ईश्वरं चैव राजानं भवेद् दीर्घायुषं प्रियम् ॥

भवेत् प्राप्नुयात् ।

दातारं चैव भोक्तारं समस्तजनवल्लभम् ।

सुशीलं धार्मिकं शूरं चन्द्रवत् प्रियदर्शनम् ॥

सुरूपा सुभगा (?) साध्वी भर्तृराज्यप्रदर्शिनी ।

धर्मशीला सुचरिता वाचयामृतभाषिणी ॥

दयाप्रदा च सर्वस्य सौभाग्यम् अतुलं भवेत् ।

सह पत्या वरारोहा कुरुते राज्यम् उत्तमम् ॥

अन्तकाले समं तेन मोदते त्रिदिवे तथा ।

षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ॥

इदं कृत्वा पुरेन्द्राणीन्द्रं लेभे पतिम् उत्तमम् ।

रोहिणी पतिम् आलेभे चन्द्रव्रतनिषेवणात् ॥

रण्या देवी सुभर्तारम् आदित्यं प्राप्य सत्पतिम् ।

इदं ते कथितं भद्रे व्रतं कोटीश्वरं चर ।

लक्षेश्वरीति विख्यातं कुरु रम्भे मनोहरम् ॥

इति स्कन्दपुराणोक्तं कोटीश्वरीव्रतम् ।

पुलस्त्य उवाच ।

अन्याम् अपि प्रवक्ष्यामि तृतीयां पापनाशनीम् ।

[४६२] रसकल्याणिनीम् एतां पुराकल्पविदो विदुः ॥

माघमासे तु सम्प्राप्य तृतीयां शुक्लपक्षतः ।

प्रातर् गव्येन पयसा तिलैः स्नानं समाचरेत् ॥

स्नापयेन् मधुना देवीं तथैवेक्षुरसेन च ।

गन्धोदकेन च पुनः पूजनं कुङ्कुमेन वै ॥

दक्षिणाङ्गानि सम्पूज्य ततो वामानि पूजयेत् ।

ललितायै नमो देव्याः पादौ गुल्फं ततो अर्चयेत् ॥

जङ्घाजानु तथा शान्त्यै तथैवोरुं श्रिये नमः ।

मदालसायै तु कटिं मङ्गलायै तथोदरम् ॥

स्तनं मदनवासिन्यै कुमुदायै च कन्धरम् ।

भुजं भुजाग्रं माधव्यै कमलायै मुखस्मिते ॥

भ्रूललाटं च रुद्राण्यै शङ्करायै तथालकान् ।

मुकुटं विन्ध्यवासिन्यै पुनः काल्यै तथालकान् ॥

मदनायै ललाटं तु मोहनायै पुनर् भ्रुवम् ।

नेत्रे चन्द्रार्धधारिण्यै तुष्ट्यै च वदनं पुनः ॥

उत्कण्ठिन्यै नमः कण्ठम् अभयायै नमः स्तनम् ।

रम्भायै वामबाहुं च विशोकायै नमः करम् ॥

हृदयं मदनगामिन्यै पाटलायै तथोदरम् ।

कटिं सुरतवासिन्यै तथ्ōरू चम्पकश्रिये ॥

जानुजङ्घे नमो गौर्यै गुल्फं गायत्रिकै (?) नमः ।

धराधरायै पादं तु विशोकायै नमः शिरः ॥

नमो भवान्यै कामिन्यै कामदेव्यै जगत्श्रियै ।

आनन्दायै सुनन्दायै शुभद्रायै नमो नमः ॥

[४६३] एवं सम्पूज्य विधिवद् द्विजदम्पत्यम् अर्चयेत् ।

भोजयित्वान्नपानेन मधुरेण विमत्सरः ॥

सलड्डुकं वारिकुम्भं शुक्लाम्बरयुग द्वयम् ।

दत्वा सुवर्णकमलं गन्धमाल्यैर् अथार्चयेत् ॥

प्रीयताम् अत्र कुमुदा गृह्णीयाल् लवणव्रतम् ॥

कुमुदा प्रीयताम् इति मन्त्रेण कुम्भत्रयं सुवर्णकमलं दत्वा मासं लवणं न भक्षयामीति व्रतं हृह्णीयात् ।

अनेन विधिना देवीं मासि मासि सदार्चयेत् ।

लवणं वर्जयेन् माघे फाल्गुने च गुडं पुनः ॥

तव राजं तथा चैत्रे वर्जं च मधुमाधवे ।

पानकं ज्यैष्ठमासे तु तथाषाढे च जीरकम् ॥

श्रावणे वर्जयेत् क्षीरं दधि भाद्रपदे तथा ।

घृतम् आश्वयुजे तद्वद् ऊर्णे वर्ज्याथ मर्जिका ॥

ऊर्णे कार्त्तिके, मर्जिका रसाला लोके शिखरिणीति प्रसिद्धा ।

धान्यकं मार्गशीर्षे तु पौषे वर्ज्याथ शर्करा ।

व्रताने करणं पूर्णम् एतेषां मासि मासि च ।

दद्याद् विकालवेलायां भक्ष्यपात्रेण संयुतम् ॥

व्रतान्ते करणम् इत्यादि । एतेषां लवणगुडादीनाम् मध्य् यस्मिन् मासे यत् त्यक्तं तन् मासव्रताने तेन लवणादिना पूर्वं करणं वक्ष्यमाणलड्डुकादि भक्षपात्रयुक्तं दद्याद् इत्य् अर्थः ।

लड्डुकान् श्वेतवर्तीश् च संयावम् अथ पूरिकाः ।

पारिकाघृतपूराश् च पिष्ठापूपांश् च मण्डकान् ॥

[४६४] क्षीरशाकं च दध्यन्नम् इन्दुर्थो शोकवर्तिकम् (?) ।

माघादिक्रमशो दद्याद् एतानि करकोपरि ॥

कुमुदा माधवी गौरी रम्भा भद्रा जया शिवा ।

उमा रतिः सती तद्वन् मङ्गला रतिलालसा ॥

क्रमान् माघादिसर्वत्र प्रीयताम् इति कीर्तयेत् ।

सर्वत्र पञ्चगव्यं तु प्राशनं समुदाहृतम् ॥

उपवासी भवन् नित्यम् अशक्तौ नक्तम् इष्यते ।

पुनर् माघे तु सम्प्राप्ते शर्करा करकोपरि ॥

कृत्वा तु काञ्चनीं गौरीं पञ्चरत्नसमन्विताम् ।

हैमीयाङ्गुष्ठमात्रां च साक्षसूत्रकमण्डलुम् ॥

चतुर्भुजाम् इन्दुयुतां सितनेत्रपटावृताम् ।

तद्वद् गोमिथुनं शुक्लं सुवर्णाढ्यं सिताम्बरम् ॥

सवस्त्रं भोजनं दद्याद् भवानी प्रीयताम् इति ।

अनेन विधिना यस् तु रसकल्पाणिनीव्रतम् ॥

कुर्यात् स सर्वपापेभ्यस् तत्क्षणाद् एव मुच्यते ।

भवार्बुदसहस्रं तु न दुःखी जायते क्वचित् ॥

अग्निष्टोमसहस्रेण यत् फलं तद् अवाप्नुयात् ।

नारी च कुरुते या तु कुमारी वा वरानने ॥

विधवा च वराकी वा सापि तत्फलभागिनी ।

सौभाग्यारोग्यसम्पन्ना गौरीलोके महीयते ॥

इति पठति य इत्थं यः शृणोति प्रसङ्गात्

[४६५] सकलकलुषमुक्तः पार्वतीलोकम् एति ।

मतिम् अपि च जनानां यो ददाति व्रतार्थम् ।

विपुलगतिजनानां नायकः स्याद् अमोघः ॥

इति पद्मपुराणोक्तं रसकल्पाणिनीव्रतम् ।

सनत्कुमार उवाच ।

तृतीयायां महाभाग कर्तव्यं च व्रतं शृणु ।

येनानन्तभवारब्धम् एनः क्षपयति द्विजः ॥

ग्रहपीडादिकैर् अन्यैर् उपसर्गैः प्रपीडितः ।

अस्यां शान्तिं प्रकुर्वीत यतवाक्कायमानसः ॥

स्थण्डिलं मण्डलं कुर्याद् अस्विन्नसिततण्डुलैः ।

चक्राञ्जं मण्डलं कुर्याद् अस्विन्नसिततण्डुलैः ॥

तत्र चावाहयेद् देवं नरसिंहाकृतिविभुम् ।

प्रसन्नमधुरोदारवीक्षणक्षपितार्तिकम् ॥

अशेषभयविध्वंसचतुरं पुरुषं हरिम् ।

अभयं भयतप्तानां ददतां ददतां वरम् ॥

प्रपन्नार्तिमुषां तत्र प्रसादपरमेण च ।

वदनेन च सुस्रोणि नयनेन विरजितम् ॥

विपक्षपक्षविक्षोदचतुरानन्तबाहुकम् ।

विद्युन्मालावृतोत्तुङ्गरजताद्रिम् इवापरम् ॥

किरीटहारकेयूरवनमालाविभूषितम् ।

[४६६] शङ्खचक्रगदाशार्ङ्गनन्दनाद्यैर् अलङ्कृतम् ॥

जातिप्रसूनकैश् चित्रैः सितान् भोजैर् अखण्डितैः ।

अचूतैर् मल्लिकाद्यैश् च नन्द्यावर्तप्रसूनकैः ॥

अक्षतैर् बिल्वपत्रैश् च तत्फलैश् च तदङ्कुरैः ।

तिलैः सतण्डुलैः सिद्धैः तुलसीश्रीलताङ्कुरैः ॥

निलोत्पलैः कुवलयैः कुमुदैश् च सकेसरैः ।

काश्मीरचन्दनक्षोदकर्पूरागुरुमिश्रितैः ॥

चित्रैः अपूर्वगन्धैश् च अस्वपिण्डितैः संवृतैः अक्षतैर् अनुपहतैः नन्द्यावर्तं तगरम् अक्षतैर् अपृथक्कृतैः सिद्धैः साधितैः श्रीलता पद्मिनी कुवलयैर् उत्पलैः केसरं वकुलम् । काश्मीरं केसरं क्षोदश् चूर्णम् ।

पयसा पायसान्नेन गुडत्रैमधुरोल्बणैः ।

श्राव्यगीतिपदैश् चारुनृत्यवाद्यप्रदर्शनैः ॥

प्रदक्षिणं नमस्कारस्तोत्राद्यैर् भक्तिभावितैः ।

सम्यग् अभ्यर्च्य देवेशं विधिदृष्टेन कर्मणा ॥

नानौषधिसमायुक्तं नानातीर्थोदकान्वितम् ।

नानारससमायुक्तं नानाकुसुमसंश्रितम् ॥

नानाबीजोपरिक्षिप्तं नानावस्त्रसमन्वितम् ।

नानाकूर्चयुतं पूर्णकुम्भं संस्थापयेत् पुरः ॥

तस्मिन्न् आवाहयेद् देवं सुदर्शनम् अनन्यधीः ।

पूर्वोक्तेनैव मार्गेण सम्यग् अभ्यर्च्य शक्तितः ॥

पूर्वादिक्रमयोगेन संस्थाप्य चतुरो घटान् ।

कोणेषु च तथा तेषु क्रमाद् एतांश् च संस्मरेत् ॥

[४६७] तेषु अष्टकुण्डेषु, तान् नन्दकादीन् ।

नन्दकं मुशलं पद्मं गदा शार्द्धं च शङ्खकम् ।

पाशश् च शक्तिर् इत्य् एते तद्भाह्ये ऽपि तथैव च ॥

लोकपालप्रतिष्ठानं कृत्वा सर्वत्र पूजयेत् ।

तथा च मध्यमे कुम्भे तथान्येष्व् अप्य् अलङ्कृतम् ॥

एवं समाप्य विधिवत् पूजां तत्र विचक्षणः ।

जपेद् दशसहस्रं च सुदर्शनम् अनन्यधीः ॥

जपेत् सहस्रम् अन्यत्र प्रतिकुम्भं विचक्षणः ।

अथ कुण्डप्रतिष्ठानम् अग्न्याधानं यथाविधि ॥

विधाय संस्कृते चाग्नौ जुहुयात् सर्वशान्तये ।

त्रिमध्वक्तैस् तिलैः शुद्धैर् आज्येन पयसापि च ॥

श्रीलताकुसुमापाणिबिल्वपत्रप्रसूनकैः ।

दूर्वाङ्कुरैस् त्रिमध्वक्तैः बीजतण्डुलसर्षपैः ॥

आयुः कामस् तु दर्वाभिः श्रीकामो बिल्वसभवैः ।

सौभाग्यकामो लक्ष्मीवान् श्रीलतापर्णसूत्रकैः ॥

लक्ष्मीवान् लक्ष्मीकामः ।

आरोग्यकामः पयसा गव्याज्येन तथा तिलैः ।

पुष्टिकामस् त्व् अपामर्गैर् अपमृत्युर् गद्रूचिभिः ॥

अपमृत्युः अपमृत्युयुक्तः ।

पद्मैश् चाव्याहता लक्ष्मीः पुष्टिश् च कुमुदैर् अपि ।

जातिपुष्पैर् धरालाभो नन्द्यावर्तप्रसूनकैः ॥

एकपत्रैः सितैः पद्मैर् अधिराजं समृच्छति ।

रजतं मक्षिकाद्यैश् च सुवर्णचम्पकोद्भवैः ॥

[४६८] बीजान्नतण्डुलाद्यैश् च तत्तल्लाभो भविष्यति ।

एतेष्व् अन्यतमैर् दृष्टैर् यम्यं कामयते वरम् ॥

दशसाहस्रयोगेन तन्तं विन्दत्य् असंशयम् ।

होमाच् च द्विगुणं प्राहुस् तर्पणं मन्त्रनिश्चयः ॥

तस्य तद्द्विगुणं प्राहुर् जप एष विधिक्रमः ।

नियोगारम्भसमये नियमान् प्रतिपालयेत् ॥

त्रयं वाहर् अहः कुर्वन् नक्तकालं समापयेत् ।

नियोगा मण्डले खनयः, नियमान् मौनादीन् ।

त्रयश् चाहर् अहः पूर्वं नककालान् समापयेत् ॥

त्रयं होमतर्पणजपान् । अहर् अहः प्रतिदिनं सङ्ख्या च सङ्कल्पितहोमसङ्ख्यापेक्षया ।

हविष्याशी जितक्रोधो यतवाक्कायमानसः ।

नित्यं त्रिःसवणं स्नायात् सदाचाररतो मुनिः ॥

न चानृतकथो ऽनग्निर् ब्रह्मचारी जितश्रमः ।

गौरी विमत्सरी नित्यं स्वाध्यायनिरतः शुचिः ॥

अनश्नन् वाथ शाकाशी फलस्य गुरुलाघवम् ।

मत्वाददीत नियमान् आसमाप्तेः प्रयत्नतः ॥

नियमान् हविष्यान्नाशनम् । शाकाशनम् अनशनं च । तथा सङ्ख्या समुत्कर्षः फलगौरवहेतुकः ।

अयुतं च वरं वाहुस् तद्बुद्धिस् तत्फलानुगा ।

कृत्वैवं सम्यग् आचार्यं समानीय च साधकम् ।

मध्यमं कुम्भम् आदाय स्नापयेद् देवसन्निधौ ॥

[४६९] साधकं यजमानम् ।

सुदीपितमहाज्वाला विदीपितदिगन्तरम् ।

त्रायस्व चैनम् आपद्भ्यो भद्रं प्रदिशते नमः ॥

अन्यैर् अपि यथायोगं कुर्यात् तस्याभिषेचनम् ।

तत्तन्मन्त्रेण वाचार्यस् तत्समक्षं महामतिः ॥

दैतेयनिकराभोगशैलनिर्भेददीक्षितः ।

पद्मशङ्खमनोनन्द त्राह्य् एनम् अपि नन्दक ॥

विपक्षकाथमथन तच्छिरोलुलितानन ।

कमलाकान्तदयित पाह्य् एनं मुषलायुध ॥

विश्वोद्भवभयत्राणलीलस्य परमात्मनः ।

लीलारविन्दसुभग पाह्य् एनम् अपि पङ्कजः ॥

कौमोदकी गदा सा वै देवी दिशतु मङ्गलम् ।

या मुकुन्दकराम्भोजविलसद्भूषणायते ॥

स्वविष्फारहृताशेषरक्षोदनुजजीवितम् ।

येनासौ रक्षताद् एनं विष्णोः शार्ङ्गं धनुर्वर ॥

दैत्यसीमन्तिनीगर्भनिर्भेदचतुरस्वन ।

स्रवद्व्यक्तरक्ताञ्जमधुपूर्णमुख स्वराट् ॥

दैत्यरक्षोधिपप्राणवसारुधिरभोजन ।

एनं सर्वत्र रक्षन्तु शार्ङ्गपाणेः शरोत्कराः ॥

अरातिहेतिप्रमुखशक्त्योजःक्षपणक्षमा ।

आपद्भ्यो (?) रक्षताद् एनं शक्तिः श्रीः सवरायुध ॥

एवं स्नात्वा हतैर् वस्त्रैर् भूषणाद्यैर् अलङ्कृतम् ।

[४७०] नीराजनविधिर् देयो दद्याद् विप्राय दक्षिणाम् ॥

गुरवे च वरं दत्वा बन्धुभ्यो दक्षिणादिकम् ।

अन्यथापि तदार्थिभ्यो दद्याद् भूरि यथोदयम् ॥

द्विजमध्यम् अथानीय तैः स्नातो मङ्गलाकृतिः ।

तिलचन्दनलाजाञ्जश्वेतसर्षपचन्दनैः ॥

ब्राह्मणैः स्वस्तिम् आवाच्यम् आशीर् अपि च कारयेत् ।

कूर्चोदकेन चाचार्यः कुर्याद् भद्रवचः कृती ॥

आयुश् च विपुलं देव श्रियं च विपुलां भुवि ।

अक्षय्यम् अपि चारोग्यं मनःशान्तिम् अथाक्षयाम् ॥

विद्यामानकुलबुद्धिरोगाद्यैर् अप्य् अनाहतम् ।

विद्याधिकं तथात्यर्थं श्रीशो दिशतु मङ्गलम् ॥

स्वस्ति चास्तु शिवं चास्तु भद्रम् अस्तु सदा तव ।

आपद्भ्यश् च भयेभ्यश् च रक्षन्तु त्वां श्रियःपतिः ॥

इति रक्षाविधिं कृत्वा लोकपालबलिं क्षिपेत् ।

पूर्वत्र तन्दुलैः कार्यः कृशरान्नेन दक्षिणा ॥

पश्चिमे पायसेनैव शुद्धान्नेन तथोदरे ।

कोणेषु शक्तिभिः कुर्याद् गुडमिश्रैस् ततो बहिः ॥

सर्वार्थे च बलिं दद्यात् सर्वैर् द्वव्यैर् महामतिः ।

इति शान्तिव्रतं प्रोक्तं तृतीयायां महामते ॥

सर्वदुःखप्रशमनं सर्वरोगविनाशनम् ।

सर्वसौख्यप्रदं स्त्रीणाम् अन्नकामफलप्रदम् ॥

सर्वार्तिशमनं धन्यं सर्वपापप्रणाशनम् ॥

[४७१] यस् त्व् एतत् कुरुते मर्त्यः श्रद्धाभक्तिसमन्वितः ।

स सर्वार्तिविनिर्मुक्तो शान्तिम् आप्नोति नैष्ठिकीम् ॥

दुःस्वप्ने वामयग्रासे उग्रपीडाद्युपद्रवे ।

विषाद्युपनिपाते च पुत्रनाशधनक्षये ॥

राज्यनाशे जनक्षोभे दुर्भिक्षे शत्रुपीडने ।

ज्वराक्षिरोगार्तिघोरप्लीहकुष्ठभगन्दरैः ॥

क्षयापस्मरणाद्यैश् च तीव्रदुःखचये सति ।

स्नानम् एतत् प्रकुर्वीत प्रज्ञासारस् तु पूरुषः ॥

मुकावारक्तपुरुषः प्रज्ञावाञ् छास्त्रसम्मतः ।

अत्युपद्रवसाहस्रम् अतीत्य सुखम् एधते ॥

इति गरुडपुराणोक्तं शान्तिव्रतम् ।

पुलस्त्य उवाच ।

तथैवान्यां प्रवक्ष्यामि तृतीयां पापनाशिनीम् ।

लोके तु नाम्ला विखातां सान्द्रानन्दकरीम् इमाम् ॥

यदा शुक्लतृतीयायाम् आषाढर्क्षं भवेत् क्वचित् ।

ब्रह्मर्क्षं वाथ वाप्यं वा हस्तो मूलम् अथापि वा ॥

आषाढर्क्ष उत्तराषाढा, ब्रह्मर्क्ष अभिजित्, आप्यं पूर्वाषाढा ।

दर्भगन्धोदकैः स्नानं तदा सम्यक् समाचरेत् ।

शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः ॥

[४७२] भवानीम् अर्चयेद् भक्त्या शुक्लपुष्पैः सुगन्धिभिः ।

भवेन सहितां राजन् उपविष्टाम्बरासने ॥

वासुदेव्यै नमः पादौ शङ्कराय ततो हरम् ।

जङ्घे शोकविनाशिन्यै आनन्दाय नमः प्रभो ॥

रम्भायै पूजयेद् ऊरू (?) शिवाय च पिनाकिने ।

आनन्दिन्यै कटिं देव्याः शूलिने शूलपाणये ॥

माधव्यै च तथा नाभिं तथा शम्भोर् भवाय च ।

स्तनाव् आनन्दकारिण्यै शङ्करायेन्दुधारिणे ॥

उत्कण्ठिन्यै नमः कण्ठं नीलकण्ठाय वै हरम् ।

कराव् उत्पलधारिण्यै रुद्राय यजतां पतौ ॥

बाहू च परिरम्बिण्यै नृत्यशीलाय वै हरम् ।

देव्या मुखं विनाशिन्ये वृषेशाय पुनर् विभो ॥

स्मितं च स्मरशीलायै विश्ववक्ताय तत्परे ।

नेत्रे दमनवासिन्यै विश्वधात्र्यै त्रिशूलिने ॥

भ्रुवौ नेतृप्रियायै च ताण्डवेशाय वै विभो ।

देव्या ललाटम् इन्द्राण्यै हव्यवाहाय वै विभो ॥

स्वाहायै मुकुटं देव्याः शम्भोर् गङ्गाधराय वै ।

विश्वकायौ विश्वमुख्यौ विश्वपादकरौ शिवौ ॥

प्रसन्नवदनौ वन्दे पार्वतीपरमेश्वरौ ।

एवं सम्पूज्य विधिवद् अग्रतः शिवयोः पुनः ॥

पद्मोत्पलानि रजसा नानावर्णानि वा लिखेत् ।

शङ्खं चक्रं स्वस्तिकं च तथा चैवार्धनाणकम् ॥

[४७३] यावन्तः पांशवस् तत्र रजसः पतिता भुवि ।

तावद्वर्षसहस्राणि शिवलोके महीयते ॥

चत्वारि घृतपात्राणि सहिरण्यानि भक्तितः ।

दद्याद् द्विजाय करकम् उदकेन समन्वितम् ॥

प्रतिपक्षं चतुर्मासं यावद् एतान् निवेदयेत् ।

ततस् तु चतुरो मासान् पूर्ववत् करकोपरि ॥

चत्वारिंशत् तु पात्राणि तिलपात्राणि तत्परम् ।

पूर्ववत् सहिरण्यानि करकोपरिधाय दद्यात् ।

गन्धोदकं पुष्पवारि चन्दनं कुङ्कुमोदकम् ।

अपक्वं दधि दुग्धं वा गोशृङ्गोदकम् एव च ॥

पिष्टोदकं तथा वारि कुष्ठचूर्णान्वितं पुनः ।

उशीरसलिलं तद्वद् यववल्ल्युदकं तथा ॥

तिलोदकं च सम्प्राश्य स्वपेन् मार्गशिरादिषु ।

मासेषु पक्षद्वितये प्राशनं समुदाहृतम् ॥

सर्वत्र शुक्लपुष्पाणि प्रशस्तानि शिवार्चने ।

दानकालेषु सर्वेषु मन्त्रम् एतम् उदीरयेत् ॥

गौरी मे प्रीयतां नित्यम् अनघा सर्वमङ्गला ।

सौभाग्याय सुललिता भवानी सर्वसिद्धये ॥

संवत्सरान्ते लवणं गुडकुम्भसमन्वितम् ।

चन्दनं नेत्रपट्टं च सहिरण्याम्बुजं तथा ॥

उमामहेश्वरं हैमं तद्वद् इक्षुफलैर् युतम् ।

सुशुक्लाम् आस्तृतां शय्यां सोपधानां निवेदयेत् ॥

[४७४] सपत्नीकाय विप्राय गौरी मे प्रीयताम् इति ।

आर्द्रानन्दकरी नाम तृतीयैषा सनातनी ॥

याम् उपोष्य नरो याति शम्भोस् तत् परमं पदम् ।

इह लोके सदानन्दं प्राप्नोति च न संशयः ॥

आयुरारोग्यसम्पन्नो न क्वचित् शोकम् आप्नुयात् ।

नारी वा कुरुते या तु कुमारी विधवा तथा ।

सापि तत् फलम् आप्नोति प्रसादाच् छूलपाणिनः ॥

प्रतिपक्षम् उपोष्यैवं मन्त्रार्चनविधानतः ।

रुद्राणीलोकम् आप्नोति पुनर् आवृत्तिदुर्लभम् ॥

य इदं शृणुयान् नित्यं श्रावयेद् वापि मानवः ।

रुद्राणीलोकम् आप्नोति पुनरावृत्तिर् दुर्लभम् ॥

य इदं शृणुयान् नित्यं श्रावयेद् वापि मानवः ।

शक्रलोकैः सगन्धर्वैः पूज्यते ऽब्दायुतावधि ॥

आनन्ददां सकलदुःखहरां तृतीयाम्

या स्त्री करोति विधवा सधवाथ वा वा (?) ।

सा स्वे गृहे सुखसुखान्य् अनुभूय भूयो

गौरीपुरं सदयिता मुदिता प्रयाति ॥

इति पद्मपुराणोक्तम् आर्द्रादानव्रतम् ।

सुमन्तुर् उवाच ।

पतिव्रता पतिप्राणा पतिशुश्रूषणे रता ।

[४७५] एवंविधा पिर्यायुक्ता शुचिसम्भोजना सती ॥

सोपवासा तृतीयायां लवणं परिवर्जयेत् ॥

सोपवासेति व्रतारम्भे द्वितीयाय्ं कृतोपवासा तृतीयायां लवणं परिवर्जयेत् ।

सा वै गृह्णातु वै भक्त्या व्रतम् आमरणान्तिकम् ।

गौरी ददाति सन्तुष्टा रूपसौभाग्यम् एव च ॥

लावण्यलवणं हृद्यं श्लाघ्यं पुंसां मनोनुगम् (?) ।

पुंसां मनोरमा नारी भर्ता भार्यामनोरमः ॥

गौरीव्रतेन लभते राजन् लवणवर्जनात् ।

उमया च पुरा प्रोक्तं यद् वा तच् च निबोधत ॥

इति व्रतं प्रति विभो धर्मराजस्य शृण्वतः ।

मयानन्तम् इदं सृष्टं सौभाग्यकरणं नृणाम् ॥

मर्त्ये तु नियता नारी व्रतम् एतच् चरिष्यति ।

सह मोदिष्यते भर्त्रा यावद् भर्ता हरो मम ॥

या वै कल्याणभर्तारं विन्दते शोभना सती ।

सात्विदं (?) व्रतम् उद्दिश्य भवेद् अक्षारभोजना ॥

मच्चित्ता मन्मना कुर्यान् मद्भर्ता मत्परिग्रहा ।

गौरीं संस्थाप्य सौवर्णीं गन्धालङ्कारभूषिताम् ॥

वस्त्रैः सुसूक्ष्मैः संवीतां पुष्पमण्डनमण्डिताम् ।

लवणामृतं गुडं तैलं देव्याः शुक्ले निवेदयेत् ॥

कदुखण्डं जीरकं च शङ्खं पत्रं च भारत ।

शुक्ले पक्षे इति शेषः । कदुखण्डम् आर्द्रकम् ।

[४७६] गुडपूपास् तथापूपाः खण्डवेष्टास् तथा नृप ।

ब्राह्मणे वेदसम्पन्ने प्रदेयाः सुबहुश्रुते ॥

शुक्ले शुक्ले सदा देया यथाशक्त्या हिरण्मयी ।

धनहीनैस् तु शक्त्या वै मधुक्षीरमयी नृप ॥

अक्षारलवणं रात्रौ भुङ्क्ते वीर सुवाग्यता ।

गौरी सन्निहिता नित्यं भूमौ संस्तरशायिनी ॥

भर्तारं लभते कन्या या वाञ्छति मनोनुगम् ।

सुचिरं सह भर्त्रा वै क्रीडयित्वा स हैव सा ॥

सन्ततिं च प्रतिष्ठाप्य सह तेनैव गच्छति ।

इह लोकान् परे लोके भोगश् चित्रशिखण्डिनाम् ॥

विधवा तु महाराज देव्या व्रतपरायणा ।

भर्तारं नियता नित्यं सदार्चनपरायणा ॥

इह वोत्सृज्य देहस्य दत्वा हरपुरे प्रियम् ।

आकृष्य यमदूतेभ्यः सा भर्तारं रमेद् दिवि ॥

वर्षकोटिं शतगुणां परीत्या पुनरागता ।

भर्त्रा सहैव पूर्वोक्तं लभते फलम् ईप्सितम् ॥

इत्य् एषा तिथिर् इत्य् एवं तृतीया लोकपूजिता ।

सदा विशेषतः पुण्या वैशाखे मासि वा भवेत् ॥

पुण्यभाद्रपदे मासि माघस्यैव न संशयः ।

माघभाद्रपदे वापि स्त्रीणां धन्यां प्रचक्षते ॥

साधारणा तु वै पूर्वा सर्वलोकस्य भारत ।

माघमासे तृतीयायां गुडस्य लवणस्य च ॥

दानं श्रेयस्करं राजन् स्त्रीणां च पुरुषस्य च ।

**[४७७] **गुडेन तुष्यते देवी लवणेन च शङ्करः ॥

गुडपूपास् तु कर्तव्या मासि भाद्रपदे तु या ।

तृतीया याक्षया लोके गीर्वाणैर् उपशब्द्यते ॥

यो ऽस्यां ददाति करकान् वारिधारासमन्वितान् ।

स याति पुरुषो वीर लोकान् वै हेतिमालिनः ॥

वारिदानं प्रशस्तं वै मोदकानां च भारत ।

वैशाखे मासि राजेन्द्र तृतीया चन्दनस्य च ॥

वारिणा तुष्यते देवी मोदकैर् भव एव हि ।

दानात् तु चन्दनस्येह नरयोनाव् असम्भवः ॥

यात्य् एषा कुरुशार्दूल वैशाखे मासि या तिथिः ।

तृतीया साक्षया लोके गीर्वाणैर् इह शम्यते ॥

यो ऽस्यां ददाति करकान् वारिधान्यसमन्वितान् ।

स याति पुरुषो वीर लोकान् वै हेतिमालिनः ॥

इत्य् एषा कथिता वीर तृतीया तिथिर् उत्तमा ।

याम् उपोष्य नरो राजन् बुद्धिवृद्धिं श्रियं व्रजेत् ॥

इति भविष्यत्पुराणोक्तम् अलवणतृतीयाव्रतम् ।

ब्रह्मोवाच ।

गौरी काली उमा भद्रा दुर्गा कान्तिः सरस्वती ।

[४७८] मङ्गला वैष्णवी लक्ष्मीः शिवा नारायणी क्रमात् ॥

मार्गतृतीयाम् आरभ्य पूजयेत् स्वर्गभाग् भवेत् ।

मार्गशीर्षतृतीयाम् आरभ्य प्रतिमासम् एकैकेन नाम्ना पूजयेद् इत्य् अर्थः ।

अर्धनारीश्वरं रुद्रम् अथ वा उमाशङ्करम् ।

पूजयेद् विधिवन् नारीम् अवियोगम् अवाप्नुयात् ॥

यथा वा विष्णुरूपेण पूजयेद् ईश्वरं सदा ।

ईशस्य वामभागस्थां सर्वान् कामान् अवाप्नुयात् ॥

अर्धनारीश्वरमूर्तिम् उमामहेश्वरं वा सुवर्णादिमयं विधाय वामभागस्थाम् देवीं गौर्यादिभिः पूजयेत् । अथ वा विष्णुरूपेण संयुतं ईश्वरम् इति । हरिहरमूर्तिं कृत्वा वामार्धस्थकेशवादिनामभिः प्रत्येकं पूजयेत् । केशवनारायणमाधवगोविन्दविष्णु-मधुसूदनश्रीधरहृषीकेशपद्मनाभदामोदराख्यान् देवान् धूपस्रग्दीपाद्यैर् उपोष्य पूज्य दक्षिणाभिर् नामभिः । अश्वमेधादिसर्वमखानां गोलक्षदानस्यापि नित्यसर्वनामस्मरणाद् अभिमतफलम् आप्नोति ।

इति भविष्यत्पुराणोक्तं नाम् तृतीयाव्रतम् ।

ब्रह्मोवाच ।

तृतीयायां तु वित्तेशं वित्ताढ्यो जायते ध्रुवम् ।

पूजयित्वेति शेषः ।

क्रयादिव्यवहारे च लाभो दिव्यगुणो भवेत् ॥

[४७९] मूलमन्त्राः स्वज्ञाभिर् अङ्गमन्त्राश् च कीर्तिताः ।

पूर्वतः पद्मपत्रस्थः कर्तव्यश् च तिथीश्वरः ॥

गन्धपुष्पोपहारैश् च यथाशक्ति विधीयते ।

पूजाशाठ्येन शाठ्येन कृतापि तु फलप्रदा ॥

आज्यधारां समिद्भिश् च दधिक्षीरान्नमाक्षिकैः ।

पूर्वोक्तफलदो होमो भवेच् छन्तेन चेतसा ॥

एतद् व्रतं वैश्वानरप्रतिपद्व्रतवद् व्याख्येयम् ।

इति भविष्यत्पुराणोक्तं कुबेरव्रतम् ।

अगस्त्य उवाच ।

अतः परं महाराज सौभाग्यकरणम् व्रतम् ।

शृणु येनाशु सौभाग्यं स्त्रीपुंसाम् अभिजायते ।

फाल्गुनस्य तु मासस्य तृतीया शुक्लपक्षतः ॥

उपोषितेन नक्तेन शुचिना सत्यभाषिणा ।

सश्रीकं च हरिं पूज्य रुद्रं वा उमया सह ॥

अत्र देवताया इति प्रतिमालक्षणविधानं ततस् तं ब्राह्मणे दद्याद् इति वक्ष्यमाणत्वात् । सा च प्राधान्येन सुवर्णमयी प्राप्नोति ।

गभीरायेति पादौ तु सुभगायेति वै कटिम् ।

उदरं देवदेवेति श्रीकण्ठेति च वै उरः ॥

त्रिलोचनायेति शिरो रुद्रायेति समन्ततः ।

एवम् अभ्यर्च्य मेधावी विष्णुं लक्ष्मीसमन्वितम् ॥

विष्णुपूजायां तु वैष्णवमन्त्रप्रयोगः ।

[४८०] हरं वा गौरीसंयुक्तं गन्धपुष्पादिभिः क्रमात् ।

ततस् तस्याग्रतो होमं कारयेन् मधुसर्पिणा ॥

तिलैः सह महाराज सौभाग्यपतयेति च ।

ततस् त्व् अक्षारसंयुक्तं निःस्नेहं धरणीतले ॥

गोधूमान्नं तु भुञ्जीत कृत्वाप्य् एवं विधिः स्मृतः ।

आषाढादिद्वितीया तु पायसं तत्र भोजयेत् ॥

यवान्नं तु ततः पश्चात् पात्रभूते विचक्षणे ।

अनङ्गहीने वेदानां पारगे साधुवर्तिनि ॥

सदाचारयुते दद्याद् अल्पचित्ते ऽपि भूपते ।

खड्गैः पात्रैर् उपेतं च ब्राह्मणाय निवेदयेत् ॥

एकं मधु घृतं पात्रं द्वितीयं घृतपूरितम् ।

तृतीयं तिलतैलस्य चतुर्थं गुडसंयुतम् ॥

पञ्चमं लवणापर्णं षष्ठं गोक्षीरसंयुतम् ।

एतान् दत्वा रसान् राजन् सप्तजन्मान्तरे भवेत् ।

सुभगो दर्शनीयश् च नारी वा पुरुषो ऽपि वा ॥

इति श्रीवराहपुराणोक्तं सौभाग्यतृतीयाव्रतम् ।

नारद उवाच ।

भगवन् श्रोतुम् इच्छामि व्रतानाम् उत्तमं व्रतम् ।

सौभाग्यजननं चैव अभीष्टफलदायकम् ॥

[४८१] ब्रह्मोचाच ।

शृणु विप्र विधानेन तृतीतां प्रहरात्मिकाम् ।

या योषितो विधानेन स्वर्गसौभाग्यदा भवेत् ॥

माघे शुक्लतृतीयायाम् उपवासं तु कारयेत् ।

रात्रौ सम्भारम् आहृत्य गौरीयागस्य मण्डपे ॥

अष्टपत्रं लिखेत् पद्मं मण्डपे मुनिपुङ्गव ।

उमामहेश्वरं तत्र पूजयेत् सुसमाहितः ॥

पूर्वपत्रे न्यसेद् गौरीम् आग्नेय्यां ललितां न्यसेत् ।

दक्षिणे तु उमानाम नैरृत्ये च स्वधां तथा ॥

पश्चिमे वामदेवीं तु वायव्यां मूलगौरिकाम् ।

उत्तरे तु शुभगां तु ऐशान्यां गिरिजां तथा ॥

उमामहेश्वरं मध्ये गन्धपुष्पैः प्रपूजयेत् ।

भृङ्गारं चैव संस्थाप्य तण्डुलैः परिपूरयेत् ॥

भृङ्गारः कलशः ।

ततस् तस्याग्रतः कुण्डं हस्तमात्रं समेखलम् ।

घण्टां कोणे तु संस्थाप्य चत्वारो वारिसम्भृताः ॥

घृतेनाज्याहुतीर् हुत्वा तिलहोमं तु कारयेत् ।

आहुतीनां शतं हुत्वा गायत्र्या तु समाहितः ॥

अथ वा गौरीनाम्ना तु जुहुयाद् ब्राह्मणो मुने ।

कुण्डस्य चोत्तरे भागे व्रती स्नानं समाचरेत् ॥

आग्नेय्यां दिशि संस्थेन घटेन प्रथमे विभो ।

यामे वै द्विजशार्दूल ततो होमं समाचरेत् ॥

[४८२] एवं यामानुयामं तु स्नानं होमं तु कारयेत् ।

प्रभाते विमले जाते सपत्नीकं द्विजोत्तमम् ॥

पूजयित्वा विधानेन वस्त्रालङ्कारभूषणैः ।

रक्तवस्त्रे गुरोः पत्न्यै गुरवे सितवाससी ॥

एवं कृत्वा विधानेन मुने वर्षचतुष्टयम् ।

आराधनं तु देव्याश् च सौभाग्यजननं परम् ॥

उद्यापनं ततः कुर्यात् तस्मिन्न् एव ततो दिने ।

उमामहेश्वरं हैमं स्वच्छन्दे मञ्चके स्थितम् ॥

वस्त्रैर् गन्धैश् च दूपैश् च दीपमालादिभिस् तथा ।

भक्षैर् नानाविधैः सम्यक् पूज्य भक्त्या ततो मुने ॥

तद्वद् गुरुं सभार्यं च पूजयेद् द्विजम् उत्तमम् ।

गां चैव गुरवे तद्वद् वस्त्रालङ्कारसंयुताम् ॥

मिथुनानीह चत्वारि भोजयेत् सुसमाहिता ।

उमामहेश्वरं हैमं दत्वा भक्त्या क्षमापयेत् ॥

या चरेद् विधिना सम्यक् सौभाग्यारोग्यभाग् भवेत् ।

इह जन्मनि सौभाग्यं मृता शिवपुरं व्रजेत् ॥

विधिहीना न कर्तव्या तृतीया फलम् इच्छता ।

व्यर्थः परिश्रमस् तस्य पर्वते खननं यथा ॥

नारी वा नरशार्दूल नरो वा विधिना मुने ।

फलं यथोक्तं प्राप्नोति सत्यम् उक्तं मया द्विजाः ॥

[४८३]

इति स्कन्दपुराणोक्तं हरतृतीयाव्रतम् ।

फाल्गुनादितृतीयायां लवणं यस् तु वर्जयेत् ।

समान्ते शयनं दद्याद् गृहं सोपस्करान्वितम् ॥

समान्ते वत्सरान्ते ।

सम्पूज्य विप्रमिथुनं भवानी प्रीयताम् इति ।

गौरीलोकप्रदं नित्यं सौभाग्यव्रतम् उच्यते ॥

इति गरुडपुराणोक्तं सौभाग्यव्रतम् ।

कार्त्तिकादितृतीयायां प्राश्य गोमूत्रयावकम् ।

नक्तं चरेद् अब्दम् एकं तदन्ते गोप्रदो भवेत् ॥

गौरीलोके वसेत् कल्पं ततो राजा भवेद् इह ।

एतद् भद्राव्रतं नाम सर्वकल्याणकारकम् ॥

इति पद्मपुराणोक्तं भद्राव्रतम् ।

आलेपनं च यः कुर्यात् तृतीयायां शिवालये ।

शिवा पार्वती ।

समान्ते धेनुदोयानि भवानीव्रतम् इत्य् उत ॥

[४८४[

इति पद्मपुराणोक्तं भवानीव्रतम् ।

अनग्निपक्वम् अश्नाति तृतीयायां तु यो नरः ।

गां दत्वा शिवम् अभ्येति पुनर् आवृत्तिदुर्लभम् ।

बृहदानन्दकृत् पुंसां शीलव्रतम् इदं स्मृतम् ॥

इति पद्मपुराणोक्तं शीलव्रतम् ।

माघे मास्य् अथ वा चैत्रे पुडधेनुप्रदो भवेत् ।

गुडव्रतस् तृतीयायां गौरीलोके महीयते ॥

गुडवतः गुडवर्जी ।

महाव्रतम् इदं नाम परमानन्दकारकम् ॥

इति पद्मपुराणोक्तं महातृतीयाव्रतम् ।

तृतीयायां तु शुक्लायां लिखेद् वस्त्रयुगे शुभे ।

रोचनासितकर्पूरैः शिवोमां पूजयेत् ततः ॥

हेमरत्नस्रजैर् वत्स मन्त्रयुग्मम् उदीरयेत् ।

समस्तकामफलदं यत् तत् पूर्वम् उदाहृतम् ॥

तद् एव मन्त्रद्वयं लिख्यते ।

नमः समस्तभुवनसर्गस्थित्यन्तकारण ।

[४८५] ईशान ध्यानपरम योगिगम्यायते शिव ॥

नमः शिवायै विश्वेशशरीरार्धापहारिणि ।

सत्यं चराचरस्येह जनन्यै कामदायिनि ॥

ततो जपार्चनं होमं कर्तव्यं द्विजसत्तम ।

अवियोगाय नारीणां व्रतराजं सदा हितम् ॥

सहेम पुष्परत्नाढ्यं सवस्त्रं दापयेत् तु तम् ।

महापुण्यं महाभाग्यं सर्वकामप्रदायकम् ॥

सुतभ्रातृवियोगस् तु नभवेत्तेन भो द्विज ।

न व्याधिर् नोपसर्गाश् च यावत् तन्तुरोजो भवेत् ।

तावत्कालम् उमालोके राजते मोदते चिरम् ॥

इति श्रीदेवीपुराणोक्तं व्रताजतृतीयाव्रतम् ।

सूत उवाच ।

अत्र यः कीर्तयिष्यामि इतिहासं पुरातनम् ।

यद्वत् तं काशिराजस्य भार्याया द्विजसत्तम ॥

काश्यां राजः पुरा ह्य् आसीज् जयमेन इति स्मृतः ।

तस्य भार्यासहस्रं तु आसीद् रूपसमन्वितम् ॥

तथैवान्या प्रिया तेन लब्धा भार्या सुशोभना ।

सुता मद्राधिराजस्य विश्वकोनस्य धीमतः ॥

सा स्वप्नात् प्रातर् उत्थाय गत्वा गङ्गातटं शुभम् ।

[४८६] पञ्चपिण्डात्मिकां गौरीं कृत्वा कर्दमसम्भवाम् ॥

यदा तु प्रभया भावो तदात्मानं करोत्य् असौ ।

पृथिव्याश् च तेजश् च वायुर् आकाशम् एव च ॥

सृष्ट्यर्थं सृजतीत्य् एषा ततस् तत्पञ्चपिण्डिका ।

ततः सम्पूजयामास मन्त्रैः पञ्चभिर् एव च ॥

ततो गन्धैः फलैर् माल्यैर् धूपैर् वस्त्रैः सुशोभनैः ।

नैवेद्यैः परमान्नैश् च गीतैर् नृत्यैः प्रचोदितैः ॥

ततो विसृज्य तां देवीं तदुद्देशेन वै ततः ।

दत्वा दानानि भूरीणि गौरिणीनां द्विजन्मनाम् ॥

ततश् च गृहम् अभ्येत्य भूरिवादित्रनिस्वनैः ।

यथा यथा सतीपूजां तस्या गौर्याः करोति या ॥

तथा तथा तु सौभाग्यं तस्याः प्रत्यस्हिकं भवेत् ।

अथ तस्याः सपत्न्यो याः सर्वा दुःखसमन्विताः ॥

दृष्ट्वा सौभाग्यवृद्धिं तां तस्या एव दिने दिने ।

एकाः प्रोचुर् वार्च्य चैनां यद् एषा कुरुते सदा ॥

मृन्मयीं च समादाय पूजयेत् पञ्चपिण्डिकाम् ।

अन्या प्रोचुर् मन्त्रसिद्धां तां वदन्ति महर्षयः ॥

अन्या वदति पुण्यानि नास्याः पूर्वकृतानि च ।

एवं तासां सुदुःखेन महाकालो जगाम ह ॥

कस्यचित् क्षणकालस्य सर्वाः सम्मन्त्र्य ता मिथः ।

तस्याः सन्निधिम् आजग्मुस् तस्मिन्न् एव जलाशये ॥

यत्र सा पूजयेद् गौरीं कृत्वा ताः पञ्चपिण्डिकाम् ।

[४८७] सा च सर्वाः समालोक्य त्यक्त्वा गौरीप्रपूजनम् ॥

सम्मुखी प्रयती तूर्णं कृताञ्जलिपुटस्थिता ।

स्वागतं निवेद्य तां शीघ्रं येनाशु प्रकरोम्य् अहम् ।

सपत्न्य ऊचुः ।

वयं सर्वाः समायाताः कौतुकेन तवान्तिकम् ।

दौर्भाग्यवह्निना दग्धास् तव सौभाग्यजे न च ॥

तस्माद् वद महाभागे मृन्मयीं पञ्चपिण्डिकाम् ।

नित्यम् अर्चयसीति त्वं सौभाग्यस्य विवर्धनम् ॥

किं ते कारणम् एतद् धि किं वा मन्त्रसमुद्भवः ।

प्रभावो ऽयं महाभागे गुह्यं चेत् तत् वदस्व नः ॥

पद्मावत्य् उवाच ।

रहस्यं परमं गुह्यं यत् पृष्टास्मि शुभाननाः ।

अव्यक्तव्यं वदिष्यामि भवतीनां तथापि च ॥

गौरीपूजनकाले तु यस्माच् चैव समागताः ।

सर्वा मम भगिन्यस् तु ईर्ष्या धर्मो न मे ऽस्ति वा ॥

अहम् आसं पुरा कन्या पुरे कुसुमसञ्ज्ञ्ते ।

वीरसेनस्य शूद्रस्य वणिक्पुत्रस्य धीमतः ॥

तेन दत्तास्मि धर्मेण विवाहार्थं महात्मना ।

ततो विवाहसमये मम दत्तानि वृद्धये ॥

पञ्चाक्षराणि श्रेष्ठानि योषितां दीक्षया सह ।

गौरीपूजा तथा चैव प्रोक्ता चाहं ततः परम् ॥

[४८८] यावत् तु पुत्रि गौरीं त्वम् एतैः पूजयसे ऽक्षरैः ।

जलपानं न कर्तव्यं तावच् चैव कथञ्चन ॥

येन सम्प्राप्स्यसे ऽभीष्टं तत्प्रभावाद् यथेप्सितम् ।

तथेति च मया प्रोक्तं तस्मात् प्रीता शुभाननाः ॥

ततो विवाहे निर्वृत्ते गताहं पतिना सह ।

श्वशुरस् तिष्ठते यत्रे श्वश्रूश् चैव सुदारुणा ॥

गौरीपूजाकृते मां च निवारयति सर्वदा ।

ततो ऽहं भयसन्त्रस्ता गौरीभक्तिपरायणा ॥

जलार्थं यत्र गच्छामि तस्मिंश् चैव जलाशये ।

तत्र कर्दमम् आदाय मन्त्रैः पञ्चभिर् एव च ॥

पञ्चपिण्डात्मिकां गौरीं विनिर्माय ततः पुनः ।

तैर् एव पूजयाम्य् एतां गौरीभक्तिपरायणा ॥

प्रक्षिपामि पुनस् तोये ततो गच्छामि मन्दिरम् ।

कल्पचित् त्व् अथ कालस्य भर्ता मे प्रथितः शुभाः ॥

देशान्तरं वणिग्वृत्त्या सो ऽपि मार्गं समाश्रितः ।

स गच्छन् मरुमार्गेण मां समादाय स्नेहतः ॥

सम्प्राप्तो निर्जलं देशं सुरौद्रं मरुमण्डलम् ।

तथा रौद्रतमे काले वृषस्थे दिवसाधिप ॥

ततः सार्थः समग्रश् च विश्रान्तः स्थलम् अध्वगः ।

कूपम् एकं समाश्रित्य गम्भीरं दूरतोयकम् ॥

एतस्मिन्न् एव काले तु मया दृष्टं समीपगम् ।

तोयाकारं मरुदेशं ततस् तोयं विचिन्तितम् ॥

[४८९] एतच् च दृश्यते तोयं समीपस्थं तथा बहु ।

तत्र स्नात्वा शुचिर् भूत्वा गौरीम् अभ्यर्च्य भक्तितः ॥

पिबामि सलिलं पश्चात् सुस्वादु सुरसी भवेत् ।

ततः सम्प्रस्थिता यावत् प्रयच्छति पदात् पदम् ॥

ततो दूरतरं याति क्षणेन मृगतृष्णिका ।

एतस्मिन्न् अन्तरे प्राप्ते नभोमध्यं दिवाकरः ।

वृषस्थस् तेन दग्धास्मि उपरिष्टात् शुभाननाः ॥

अधोभागे तु तप्ताभिर् वालुकाभिः समन्ततः ।

भ्रममाणा ततस् त्समिन् मरुदेशे समाकुला ॥

ततश् च पतिता भूमौ विष्फोटकसमावृता ।

ततो मया स्मृता चित्ते कथा भारतसम्भवा ॥

एतेन तु पुरा पञ्चवालुकाभिर् विनिर्मिता ।

कूपे तु क्षिप्यमाणेन बन्धुभ्यां तोयवर्तिते ॥

भक्तिग्राह्यास् ततो देवास् तुष्टास् तस्य महात्मनः ।

तद् एवं वालुकाभिश् च पूजयामि हरिप्रियाम् ॥

तेन तुष्टा तु सा देवी मम राज्यं प्रयच्छति ।

अन्यदेहतरं संस्थे मन्ये ऽभीष्ठम् अनन्तकम् ॥

ततस् तु पञ्चभिर् मन्त्रैस् तैर् एव स्मृतिम् आगतैः ।

पञ्चभिर् मुष्टिभिर् देवी वालुकोत्थैः प्रपूजिता ॥

ततः पञ्चत्वम् आपन्ना तत्काले ऽहं वराङ्गनाः ।

दशार्णाधिपतेर् जाता सदने लोकविश्रुते ॥

जातिस्मरणसंयुक्ता तस्या देव्याः प्रभावतः ।

[४९०] भवतीनां कनिष्ठास्मि ज्येष्ठा सौभाग्यतः स्थिता ॥

एतस्मात् कारणाद् गौरीं कृत्वैतां पञ्चपिण्डिकान् ।

कर्दमेन विधायाथ पूजयामि दिने दिने ॥

एतद् गुह्यं समाख्यातं भवतीनाम् असंशयम् ।

समेनानेन मे गौरी मनोऽभीष्टं प्रयच्छतु ॥

लक्ष्मीर् उवाच ।

ततः सर्वाः सपत्न्यस् ताः कृताञ्जलिपुटस्थिताः ।

ताम् ऊचुर् दीनया वाचा प्रणिपत्य मुहुर् मुहुः ॥

प्रसादं कुरु चास्माकं दीयतां मन्त्रपञ्चकम् ।

तद् एव येन ते गौरी सन्तुष्टा परमेश्वरी ॥

त्वया प्रोक्ता च यं सर्वाः प्रार्थयध्वं यथेच्छया ।

अहं सर्वं प्रदास्यामि तत् सत्यं वचनं कुरु ॥

ततो देव मया प्रोक्तं तासां तन् मन्त्रपञ्चकम् ।

शिष्यत्वं गमितानाम् तु वाङ्मनःकायकर्मभिः ॥

विष्णुर् उवाच ।

ममापि वद देवेशि कीदृक् तन् मन्त्रपञ्चकम् ।

यत् त्वयानुष्ठितं पूर्वं तासां गौर्या निवेदितम् ॥

लक्ष्मीर् उवाच ।

नमः पृथिव्यै क्षान्त्यै ते नम आपोमये शुभे ।

तेजस्विनि नमस् तुभ्यं नमस् ते वायुरूपिणि ॥

आकाशरूपसम्पन्ने पञ्चरूपे नमो नमः ।

एभिर् मन्त्रैर् मया पूर्वं पूजिता परमेश्वरी ॥

तेन राज्यं पुरा प्राप्तं सर्वस्त्रीणां (?) सुदुर्लभम् ।

[४९१] ततः स्वस्थापितां देवीं कृत्वा रत्नमयीं शुभाम् ॥

हाटकेश्वरजे क्षेत्रे मया तत्र सुरेश्वर ।

तां या पूजयते नारी सा चापि पतिवल्लभा ।

जायते नात्र सन्देहः सर्वपापविवर्जिता ॥

लक्ष्मीर् उवाच ।

एवं राज्यं मया प्राप्तं गौर्याः पूजाक्र्ते विभो ।

सौभाग्यं परमं चैव दुर्लभं सर्वयोषिताम् ।

न चापत्यं मया लब्धं तथापि परमेश्वर ॥

तादृशे ऽपि च सौभाग्ये तारुण्ये तादृशे स्थिते ।

तथापि तेन दुःखेन दिवानक्तं सुखेन मे ॥

कस्च्यचित् त्व् अथ कालस्य दुर्वासा मुनिपुङ्गवः ।

आनर्ताधिपते ईर्मे सम्प्राप्ते गौरवाय सः ॥

चातुर्मासीकृते चैव मृत्तिकाग्रहणाय च ।

ततः सम्पूजिओ राज्ञा आनर्तेन यथाक्रमम् ॥

दत्वार्घं मधुपर्कं च ततः प्रोक्तः प्रणम्य च ।

स्वागतं ते मुनिश्रेष्ठ भूयः सुस्वागतं च ते ॥

नान्यो धन्यतमो लोके भूपो ऽस्ति सदृशो मया ।

यत् ते पादौ रजोग्रस्तौ केशैर् मे निर्मलीकृतौ ॥

तद् ब्रूहि किम् करोस्य् अद्य गृहायातस्य ते मुने ।

अपि राज्यं प्रयच्छामि का वार्तान्येषु शुश्रुवुः (?) ॥

दुर्वासा उवाच ।

चातुर्मासीविधानं ते करिष्ये नृप मन्दिरे ।

[४९२] मृत्तिकाग्रहणं यावत् शुश्रूषा क्रियतां मम ॥

स तथेति प्रतिज्ञाय माम् ऊचे पार्थिवोत्तमः ।

शुश्रूषा चास्य कर्तव्या सर्वदैव वरानने ॥

चातुर्मासीकृतं यावद् देवतार्चनपूर्वकम् ।

बाढम् इत्य् एवम् उक्त्वाथ मया सर्वम् अनुष्ठितम् ॥

शुश्रूषार्थं च यत् कर्म दुहित्रा तु पितुर् यथा ।

चातुर्मास्यां व्यतीतायां यदा सम्प्रस्थितो मुनिः ।

तदा प्रोचे स मां तुष्टः पुत्रि किं करवाणि ते ॥

ततः स भगवान् प्रोक्तः प्रणिपत्य मया गुरुः ।

अपत्यं नास्ति मे ब्रह्मन् तेन दग्धास्म्य् अहर्निशम् ॥

तादृशे फलिते राज्ये यौवने ऽपि महत्तरे ।

तन् मे वद मुनिश्रेष्ठ येन स्यान् मम सत्कृतिः ॥

व्रतेन नियमेनाथ दानेन च हुतेन वा ।

ततः स सुचिरं ध्यात्वा माम् उवाच स्मयन्न् इव ॥

अन्यदेहान्तरे पुत्रि त्वया गौरी प्रपूजिता ।

तप्ताभिर् वालुकाभिश् च मृत्युकाल उपस्थिते ॥

तद्भक्त्या लब्धराज्यो ऽपि तापेन परिभूयसे ।

गौरी यत्तापसंयुक्ता वालुकाभिः कृता त्वया ॥

न देवो विद्यते काष्ठे पाशाने मृत्तिकासु च ।

भावेषु विद्यते देवो मन्त्रसंयोगतस् ततः ॥

तव भक्तिसमायुक्ता। मन्त्रसंयोजनेन च ।

देवी तत्र समायाता त्वया वालुकयार्चिताः ॥

[४९३] तप्तयानेन सन्तापा (?) भवत्याह् सर्वदा स्थिताः ।

तस्माद् रत्नमयीं कृत्वा देवीं त्वं पञ्चपिण्डिकाम् ॥

हाटकेश्वरजे क्षेत्रे संस्थापय शुभानने ।

वृषस्थे भास्करे पश्चात् तस्या उपरि स्रावि यत् ॥

जलयन्त्रं दिवानक्तं धारयस्व प्रयत्नतः ।

ततो यथा यथा तस्याः शैत्यभावो भविष्यति ॥

तथा तथा च ते देहः शान्तिं यास्यत्य् असंशयम् ।

देहात् ते भविता गर्भस् ततः पुत्रम् अवाप्स्यसि ॥

राज्यभारक्षयं श्रैष्ठं सुरलोकेषु विश्रुतम् ।

अन्यापि कामिनी यात्र एवं तां पूजयिष्यति ।

ज्यैष्ठे मासि तथा सापि यथा त्वं प्रभविष्यसि ॥

लक्ष्मीर् उवाच ।

ततो मया पुनः प्रोक्तो भगवान् स मुनीश्वरः ।

मानुषत्वे च मे रागविरक्तिर् महती स्थिता ॥

नदीवेगोपमं दृष्ट्वा जीवितं सर्वदेहिनाम् ।

तन् मे वद महाभाग किञ्चिद् व्रतम् अनुत्तमम् ॥

मानुषत्वं न येन स्यात् सम्यक् चीर्णेन स द्विजः ।

ततः स सुचिरं ध्यात्वा सा याहि परमेश्वरि ॥

अस्ति पुत्रि व्रतं पुण्यं गौरीतुष्टिकरं परम् ।

येन चीर्णेन वै सम्यक् योषिद् देवत्वम् आप्नुयात् ॥

गोमयाख्या महादेवी कृता गोमातृभिः पुनः ।

ततो गोलोकम् आपन्नाः सर्वास् ता वरवर्णिनि ॥

तां च कुरुष्व कल्याणि ततो देवत्वम् आप्स्यसि ।

[४९४] ततो मया पुनः प्रोक्तः स मुनिः सुरसत्तम ॥

कस्मिन् काले प्रकर्तव्या विधिना केन सन्मुने ।

सर्वं विस्तरतो ब्रूहि येन तां प्रकरोम्य् अहम् ॥

दुर्वासा उवाच ।

नभस्ये च सिते पक्षे तृतीयादिवसे स्थिते ।

प्रातर् उत्थाय पश्चाच् च भक्षयेद् दन्तधावनम् ॥

ततश् च नियमं कुर्याद् उपवाससमुद्भवम् ।

गौरीनाम समुच्चार्य श्रद्धापूतेन चेतसा ॥

ततो निशागमे प्राप्ते कृत्वा गौरीचतुष्टयम् ।

मृन्मयं यादृशं चैव तद् इहैकमनाः शृणु ॥

एका गौरी प्रकर्तव्या पञ्चपिण्डा यथोचिता ।

प्रहरे प्रहरे प्राप्ते तासु पूजां समाचरेत् ॥

यैर् मन्त्रैस् तान् निबोध त्वम् एकैकस्याः पृथक् पृथक् ।

हिमाचलगृहे जाता देवि त्वं शङ्करप्रिया ॥

मेनागर्भसमुद्भूता पूजां गृह्ण नमो ऽस्तु ते ।

धूपं दद्यात् ततश् चैव कर्पूरं श्रद्धया सह ॥

रक्तसूत्रेण दीपं च घृतेन परिकल्पयेत् ।

जातीपुष्पैः समभ्यर्च्य नैवेद्यं मोदकान् न्यसेत् ॥

रक्तवस्त्रं च सम्पाद्य अर्घ्यं दद्यात् ततः परम् ।

यस्य वृक्षस्य विहितं तस्य स्याद् दन्तधावनम् ॥

मातुलङ्गेन चार्घ्यं तु मन्त्रेणानेन भक्तितः ।

शङ्करस्य प्रिये देवी हिमाचलसुते शुभे ॥

अर्घ्यं तेन मया दत्तं परिगृह्य नमो ऽस्तु ते ।

[४९५] तद् एव प्राशनं कार्यं ततः कायविशुद्धये ॥

तद् एव मातुलङ्गम् एव ।

द्वितीये प्रहरे प्राप्ते अर्धनारीश्वरं ततः ।

सुरभ्या पूजयेद् भक्त्या मन्त्रेणानेन पार्वतीम् ॥

रमाद् वाराहिणी चैवं या हरस्य व्यवस्थिता ।

सा मे पूजां प्रगृह्णातु तस्यै देव्यै नमो नमः ॥

अगुरुं च ततो दद्याद् धूपं दद्यात् तदा सुते ।

नैवेद्यं गुणकाश् चैव नालिकेरेण चार्धकम् ॥

मन्त्रेणानेन दातव्यं तद् एव प्राशनं स्मृतम् ।

अर्धनारीश्वरौ यौ च संस्थितौ परमेश्वरौ ॥

अर्धं मे तु प्रगृह्णानां स्यातां सर्वसुखप्रदौ ।

तृतीय प्रहरे प्राप्ते शतपत्र्या प्रपूजयेत् ॥

उमामाह्रेश्वरौ देवौ यौ तौ सृष्टिलयात्मकौ ॥

तौ गृह्णीताम् इमां पूजां मया दत्तां प्रभक्तितः ।

गुग्गुलूत्थं ततो धूपं नैवेद्यं धारिकात्मकम् ॥

जातीफलेन चार्घं च तद् एव प्राशनं स्मृतम् ।

ततश् चार्घैः प्रदातव्यो मन्त्रेणानेन भक्तितः ।

उमामहेश्वरौ देवौ सर्वकामसुखप्रदौ ॥

गृहीत्वा दत्तम् अर्घं मे दयां कृत्वा महेश्वरौ ।

चतुर्थे प्रहरे प्राप्ते गौरीं पञ्च च पिण्डिकाम् ॥

भृङ्गराजेन सम्पूज्य मन्त्रेणानेन भक्तितः ।

पृथिव्यादीनि भूतानि यानि प्रोक्तानि पञ्च च ॥

[४९६] पञ्चरूपाणि देवेशि पूजां गृह्ण नमो ऽस्तु ते ।

नैवेद्यं गृतपूरं च दद्याद् देव्याः प्रभक्तितः ॥

ग्रन्थिचूर्णेन धूपं च अर्घ्यं मदनजं फलम् ।

तद् एव प्रशमं कार्यम् अर्घ्यमन्त्र इति स्मृतः ॥

पञ्चभूतमयी देवी पञ्चधा या व्यवस्थिता ।

अर्घ्यम् एनं मया दत्तं सा गृह्णातु सुरेश्वरी ॥

एवं सर्वां निशां वास्पि गीतवाद्यादिनिःस्वनैः ।

तासां चैवाग्रतो नेया नेव निद्रां समाचरेत् ॥

ततः प्रभाते विमले प्रोद्गते रविमण्डले ।

स्नात्वा सम्पूजयेद् विप्रं सह पत्न्या सुभक्तितः ॥

वस्त्रैर् आभरणैश् चैव स्वशक्त्या नृपनन्दिनि ।

गौरीभक्ते च दातव्यं मिष्टान्नं च शुचिस्मिते ॥

ततः करेणुम् आनीय वडवां वा सुमध्यमे ।

गौरीचतुष्टयं तच् च समारोप्य तदोपरि ॥

गीतवादित्रशब्देन वेदध्वनियुतेन च ।

नद्य्ं वाथ तडागे वा वाप्यां वाथ परिक्षिपेत् ॥

मन्त्रेणानेन सद्भक्त्या तत् ते ऽहं पच्मि सुन्दरि ।

आगतासि महादेवि पूजितासि मया शुभे ॥

मम सौभाग्यदानाय यत्रेष्टं तत्र गम्यताम् ॥

लक्ष्मीर् उवाच ।

एवं मया कृता देव सा तृतीया यथोदिता ।

नभस्ये मासि सम्प्राप्ते भक्त्या परमया विभो ॥

द्वितीये तु यथा प्राप्ते तृतीये तु विशेषतः ।

[४९७] तावद् व्योमगता वाणी समुत्तस्थौ सुरेश्वर ।

मा पुत्रि जलमध्ये त्वं मम मूर्तिचतुष्तयम् ॥

परिक्षिपाद्य मद्वाक्यं श्रुत्वा चैवं विधीयताम् ।

हाटकेश्वरजे क्षेत्रे स्थापयैतत् सदाक्षयात् ॥

अक्षयं जायते येन सर्वस्त्रीणां हिताय च ।

त्वं प्रार्थय यदाभीष्टं वरं सर्वं ददाम्य् अहम् ॥

ततः सा प्रणिपत्योच्चैर् मया प्रोक्ता सुरेश्वरी ।

यदि यच्छसि मे देवी वरं तुष्टा सुरेश्वरि ॥

तद् अहं मानुषे गर्भे मा भूयासं कथञ्चन ।

भर्ता भवतु मे विष्णुः शाश्वतो ऽभीष्टदः सदा ॥

नान्यत् किञ्चिद् अभीष्टं मे चेद् राज्यं त्रिदशोद्भवम् ।

अन्यापि कुरुते या तु व्रतम् एतत् समाहिता ॥

सर्वव्रतैर् यदा तुष्टिस् तव देवि प्रजायते ।

तथा तस्याः प्रकर्तव्या एकेनानेन पार्वति ॥

एवं भविष्यतीत्य् उक्त्वा ततश् चादर्शनं गता ।

स्वदेवी च मया तत्र तच् च देवीचतुष्टयम् ॥

हाटकेश्वरजे क्षेत्रे मया संस्थापिता प्रभो ।

तत्प्रभावान् मया लब्धो भर्तायं परमेश्वरः ॥

शाश्वतश् चाक्षयश् चैव सुखप्रेक्ष्यश् च सर्वदा ॥

इति पद्मपुराणीयनागरखण्दे पञ्चपिण्डिकागौरीव्रतम् ।

गुडेन तुष्यते देवी पार्वती सर्वमङ्गला ।

यावत् पश्यामि (?) प्रत्यूषं तावद् गौरीचतुष्टयम् ॥

[४९८] जातरत्नमयं तच् च मया तत्परिवर्जितम् ।

प्रस्थिता तत् समादाय परिक्षेप्तुं जलाशये ॥

गुडपूपास् तु दातव्या मासि भाद्रपदे तु या ।

तृतीया पायसेनापि वामदेवस्य प्रीतये ॥

इति भविष्यत्पुराणोक्तं गुडतृतीयाव्रतम् ।

साध्या द्वादश् प्रोक्ताः ब्रह्माण्डपुराणात् ।

मनोऽनुमन्ता प्राणश् च नरयानश् च वीर्यवान् ।

वित्तिर् हयो नयश् चैव हंसो नारायणस् तथा ॥

प्रभवो विष्णुर् विश्वश् च साध्या द्वादश यज्ञिरे ।

तृतीयायां महाभाग पूजयेत् तान् उपोषितः ॥

प्रतितृतीयायां यावद् वर्षं सोपवास इति शेषः ।

इति विष्णुधर्मोत्तरोक्तद्वादशाहयज्ञफलावाप्तितृतीयाव्रतम् ।

तृतीयायां तथाभ्यर्च्य ब्रह्मविष्णुमहेश्वरान् ।

पृथक् पृथक् नाम मन्त्रैर् नैवेद्यादि निवेदयेत् ॥

त्रीन् लोकांश् च तदा नाम सम्यक् सम्पूजयेन् नरः ।

ऐश्वर्यं महद् आप्नोति गतिम् अग्र्यां च विन्दति ॥

[४९९]

इति विष्णुधर्मोक्तम् ऐश्वर्यतृतीयाव्रतम् ।

तृतीया श्रावणे कृष्णा या स्यात् श्रवणसंयुता ।

श्रावणे ऽत्र पौर्णमास्यन्तो मासो ग्राह्यः अतः श्रावणकृष्णतृतीयायाः श्रवणयुक्तत्वं न दुर्घटम् ।

तस्यां सम्पूज्य गोविन्दं तुष्टिम् अग्याम् अवाप्नुयात् ।

पूजादिप्रणवादिनमोऽन्तैर् नाममन्त्रैः ।

इति विष्णुधर्मोक्ततुष्टिप्राप्तितृतीयाव्रतम् ।

वैशाखशुक्लपक्षे (?) तु तृतीयायाम् उपोषितः ।

अक्षयं फलम् आप्नोति सर्वस्य सुकृतस्य तु ॥

सा तथा कृतिकोपेता विशेषेण च पूजिता ।

तत्र दत्तं च जपं च सर्वम् अक्षयम् उच्यते ॥

अक्षया सा तिथिस् तस्मात् तस्यां सुकृतम् अक्षयम् ।

अक्षतैः पूजितो विष्णुस् तेन साथाक्षता स्मृता ॥

अक्षतैस् तु नरः स्नातो विष्णोर् दत्वा तथाक्षतान् ।

शक्तून् सुसंस्कृतांश् चैव हुत्वा चैव तथाक्षतान् ॥

विप्रेषु दत्वा तान् एव तथा शक्तून् सुसंस्कृतान् ।

पक्वान्नं तु महाभाग फलम् अक्षयम् अश्नुते ॥

एकाम् अप्य् उक्तां यः कृत्वा तृतीयां भृगुनन्दन ।

एतावत् तु तृतीयानां सर्वासां तु फलं लभेत् ॥

[५००]

इति विष्णुधर्मोत्तरोक्तम् अक्षयफलावाप्ति अक्षयतृतीयाव्रतम् ।

ईश्वर उवाच ।

फलतृतीयां या नारी कुरुते तत्र भाविता ।

वर्षम् एकं सिते पक्षे देवीं पूज्य विधानतः ॥

फलानि ब्राह्मणे दद्याद् अभीष्टानि च यानि तु ।

फलानि वर्जयेन् नक्तम् अत्रात्ति सुरसुन्दरि ॥

निष्पावानाढकीं मुद्गान् माषांश् चैव कुलत्थिकान् ।

मसूरान् राजमाषांश् च गोधूमांस् त्रिपुटांस् तथा ॥

चणकान् वर्तुलान् वापि मुकुटां भक्तितो ऽत्तिजः ।

नरो वा यदि वा नारी यावद् गौरीव्रतं चरेत् ॥

तस्याः पुण्यफलं वक्ष्ये कथ्यमानं शृणुष्व मे ।

धनं धान्यं गृहे तस्य न कदाचित् क्षयं व्रजेत् ॥

दुःखिता दुर्भगा दीना सदा जन्मनि नो भवेत् ।

कथानकं च श्रोतव्यं देव्या माहात्म्यसंयुतम् ॥

कृतपातकनाशाय सर्वकामसमृद्धये ॥

इति पद्मपुराणीयप्रभासखण्डोक्तं फलतृतीयाव्रतम् ।

इति श्रीमहार्जाधिराजश्रीमहादेवस्य सकलकरणाधीश्वरसकलविद्याविशारद-

**श्रीहेमाद्रिविरचिते चतुर्वर्गचिन्तामणौ **

व्रतखण्डे तृतीयाव्रतानि ।

[५०१]

अथ चतुर्थीव्रतानि

अनाथलोकोद्धरणैकबन्धुर्

अगण्यपुण्यामृतसारसिन्धुः ।

हेमाद्रिर् अज्ञानसमुद्रसेतुं

ब्रूते चतुर्थो व्रतम् इष्टहेतुः

स्कन्द उवाच ।

केन भोगान् अवाप्नोति निर्विघ्नं पुरसूदन ।

पुत्रपौत्रांस् तथारोग्यं व्रतेनाप्नोति शङ्कर ॥

ईश्वर उवाच ।

पुरा देवासुरे युद्धे असुरैर् निर्जिता रणे ।

शक्राद्या देवताः सर्वास् त्रिपुरावासिभिर् यदा ॥

तदा विवर्णवदनास् ते सर्वे माम् उपागताः ।

त्राहि त्राहि वदन्तस् ते मयाप्य् आश्वासितास् तदा ॥

विघ्नैर् उपहतानां च समादिष्टं व्रतं मया ।

तत् कृतं तैस् तदा स्कन्द तेषां तुष्टो गणाधिपः ॥

गणेशेन तु तुष्टेन विघ्नानां सङ्क्षयः कृतः ॥

स्कन्द उवाच ।

विधिना केन देवेश व्रम् एतन् महाफलम् ।

कृतं भवति देवेश तन् मे ब्रूहि वृषध्वज ॥

ईश्वर उवाच ।

मार्गशीर्षे शुभे मासि सिते पक्षे तु षण्मुख ।

[५०२] चतुर्थ्यां नियमं गृह्य विघ्नेशं पूज्य भक्तितः ॥

पुष्पैर् गन्धैश् च नैवेद्यैः लड्डुकैश् च सुसंस्कृतैः ।

पललैस् तिलपिष्टैश् च तथा सोहालकैः प्रभुम् ॥

पललं तिलपिष्टं षड् एते पिष्टादिमयाः ।

पूजयित्वा विधानेन प्रार्थयेत् तत्र मानवः ॥

त्वत्प्रसादेन देवेश व्रतं व्रतचतुष्टयम् ।

निर्विघ्नेन तु मे या तु प्रमाणं तु खग्ध्वज ॥

संसारार्णवदुस्तारं सर्वविघ्नसमाकुलम् ।

तस्माद् ध्यानजगन्नाथ त्राहि मां गणनायक ॥

एवं प्रार्थ्य गणाध्यक्षं भुञ्जीयाद् वाग्यतस् ततः ।

एवं क्रमेण सम्पूज्य एकभक्तो नरोत्तमः ॥

गणेशं मनसा ध्यायंस् ततो रात्रौ स्वपेद् बुधः ।

एवं संवत्सरं कृत्वा चतुर्थीव्रतं षण्मुख ॥

ततो मार्गशिरे मासि विधिना तस्य पूजनम् ।

नक्ताशी च भवेत् तद्वद् यावत् संवत्सरं पुनः ॥

मार्गशीर्षे तु सम्प्राप्ते तथैवायाचितो भवेत् ।

अयाचितेनाब्दम् एकं ततो मार्गशिरे पुनः ॥

आरभ्योपवसेद् अब्दम् एकं तद्वच् च पूजनम् ।

एवं क्रमेण विधिवच् चत्वार्य् अब्दानि मानवः ॥

समाप्य तु ततो ह्य् अन्ते व्रतस्नतो महाव्रत ।

कारयेद् धेमघटितं स्वशक्त्याखुरथं शुभम् ॥

[५०३] आखुरथं गणेशम् । तद्रूपं विष्णुधर्मोत्तरात् ।

विनायकस् तु कर्तव्यो गजवक्त्रश् चतुर्भुजः ।

शूलर्क्षं चाक्षमाला च तस्य दक्षिणहस्तयोः ॥

पात्रं चोदकपूर्णं च परशुं चैव वामतः ।

दम्भश् चास्य न कर्तव्यो वामो रिपुनिषूदन ॥

पादपीठकृतः पादोदकश् चामनगो भवेत् ।

लम्बोदरस् तथा कार्यस् तन्तुकर्णश् च यादव ॥

व्याघ्रचर्मधरः सर्पव्यालयज्ञोपवीतवान् ।

कारयेद् वर्णकैः शुभ्रैर् अरविन्दं सपत्रकम् ॥

तस्योपरि घटं स्थाप्य ताम्रपात्रेण संयुतम् ।

पूरयेत् शुभ्रशालेयैस् तन्दुलैर् एव वा खग ॥

तस्योपरि न्यसेद् देवं वासोभिर् वेष्ट्य सुव्रत ।

पूजयेत् पुष्पधूपाद्यैर् नैवेद्यैर् विविधैस् तथा ।

मोदकैश् च ततः शुभ्रैः पक्वान्नैर् गृतपाचितैः ॥

नैवेद्यं कल्पयेत् तत्र गणेशः प्रीयताम् इति ।

जागरं कारयेद् विद्वान् गीतवादित्रनिस्वनैः ।

पुराणाख्यापनं चैव तां रात्रिं क्xअपयेद् बुधः ॥

प्रभाते विमले स्नातो होमकार्याणि कारयेत् ।

तिलव्रीहियवैश् चैव तथा सिद्धार्थकैः शुभैः ॥

ॐ गणेशाय स्वाहा । ॐ गणपतये स्वाहा । ॐ मेघवर्णाय स्वाहा । ॐ कूष्माण्डाय स्वाहा । ॐ त्रिपुरान्तकाय स्वाहा । ॐ एकदन्ताय स्वाह । ॐ लम्बोदराय स्वाहा । ॐ रुक्मदंष्ट्राय [५०४] स्वाहा । ॐ विघ्नेश्वराय स्वाहा । ॐ ब्रह्मणे स्वाहा । ॐ इन्द्राय स्वाहा । ॐ यमाय स्वाहा । ॐ वरुणाय स्वाहा । ॐ सोमाय स्वाहा । ॐ गणेशपरमेष्ठिने स्वाह । गणपतिमन्त्रेण होमयेत् ।

अष्टोत्तरं शतं हुत्वा ततो व्याहृतिभिर् हुनेत् ।

यावत् शक्यं महाबाहो ततो होमं समाप्यते ॥

ततस् तम् अर्चयेद् विद्वान् आचार्यं भक्तिभावितः ।

वस्त्रैर् आभरणैर् दिव्यैः पूजयित्वा क्षमापयेत् ॥

तत्पत्न्यै पुरुषो भक्त्या रत्नैर् आभरणैः सुभैः ।

शय्या देया ततो राजन् सोपधानां सलुड्डुकाम् ॥

गां सवत्सां ततो दद्यात् सर्वालङ्कारभूषिताम् ।

प्रीयतां गणनाथो ऽत्र इति मन्त्रम् उदाहरेत् ॥

ब्राह्मणान् भोजयेद् भ्यक्त्या चतुर्विंशतिसङ्ख्यया ।

तेभ्यस् तु करकान् दद्यात् तिलपात्रसमन्वितान् ॥

अनेन विधिना यस् तु करोति व्रतम् उत्तमम् ।

न विघ्नैर् अभिभूयेत गणनाथप्रसादतः ॥

यः करोति समारम्भं निर्विघ्नं तत्फलप्रदम् ।

पूर्वं तथा कृतं सर्वैर् इन्द्राद्यैस् त्रिदशैर् विभो ॥

रुद्रेण ब्रह्मणा पूर्वं विष्णुना च पुरा कृतम् ।

अन्यैश् चैव महीपालै राजभिर् बहुभिः कृतम् ॥

एतद् एव व्रतं चीर्णं मनुष्यैर् भूतले मुने ।

अनेन क्रियमाणेन न विघ्नैर् अभिभूयते ।

स्वर्गलोकात् परिभ्रष्टस् ततो याति परां गतिम् ॥

[५०५]

इति स्कन्दपुराणोक्तं सोपधानं कृच्छ्रचतुर्थीव्रतम् ।

मार्कण्डेय उवाच ।

इदम् अन्यत् प्रवक्ष्यामि चतुर्मूर्तिव्रतं तदा ।

चैत्रस्यामलपक्षे तु सोपवासो जितेन्द्रियः ॥

चतुर्थ्यां वासुदेवस्य कृत्वा सम्पूजनं शुभम् ।

काञ्चनं दक्षिणां दद्याद् द्विजाय ब्रह्मचारिणे ॥

तथा सङ्कर्षणं देवं पूजयित्वा जगद्गुरुम् ।

वैशाखे तु गृहस्थाय दद्याच् छय्यां सुसंस्कृताम् ॥

सम्पूज्य देवं प्रद्युम्नं ज्यैष्ठे मासि यथाविधि ।

वनस्थाय तदा दद्यात् फलमूलं तु गोरसम् ।

अनिरुद्धं यथाषाढे पूजयित्वा जगद्गुरुम् ॥

दद्याद् अलाबुपात्रं तु योगस्थाय द्विजाय तु ।

इत्य् एव पारणं प्रोक्तं स्वर्गलोके महीयते ॥

द्वितीये पारणे प्राप्ते शक्रलोके महीयते ।

सालोकम् आयात्य् अथ केशवस्य

प्राप्ते तृतीये त्व् अथ पारणा स्यात् ।

पारणत्रयविधानाद् व्रतावृत्तिः ।

इत्य् आश्रमाणां व्रतम् उत्तमं ते

मयेरितं कल्मषनाशकारि ।

[५०६]

इति विष्णुधर्मोत्तरोक्तम् आश्रमव्रतम् ।

मार्कण्डेय उवाच ।

इदम् अन्यत् प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव ।

चतुरात्मा हरिः प्रोक्तश् चत्वारश् च हुताशनाः ॥

आहिताग्निर् द्विजो यस्य विद्यते ऽग्निचतुष्टयम् ।

सोपवासश् चतुर्थ्यां तु शुक्लपक्षस्य फाल्गुने ॥

अभ्यर्च्य चतुरात्मानं वासुदेवम् अतन्द्रितम् ।

तस्मै दद्याद् द्विजेन्द्राय तिलपस्थानि षोडश ॥

सुवर्णस्य सुवर्णं च वस्त्रं घृततुलाम् अपि ।

सुवर्णं कर्षोनम् ।

एवं संवत्सरं कृत्वा व्रतम् एतद् अतन्द्रितः ।

सर्वकामसमृद्धस्य यज्ञस्य फलम् अश्नुते ॥

विमानेनार्कवर्णेन स्वर्गलोकं च गच्छति ।

मनुष्यो दीप्ततेजाः स्याद् दीप्ताग्निः प्रमदाप्रियः ॥

रिपून् जयति सङ्ग्रामे धनवांश् च तथा भवेत् ।

ये त्व् अग्नयो वै चतुरप्रविष्टाः

स वासुदेवः कथितश् चतुर्धा ।

यः पूजयेद् ब्राह्मणम् आहिताग्निर्

देवः स तेनाप्य् अथ पूजितः स्यात् ॥

[५०७]

इति विष्णुधर्मोत्तरोक्तम् अग्निव्रतम् ।

इदम् अन्यत् प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव ॥

वासुदेवांशकाज् जाताः सर्वे देवगणा नृप ।

अधिकेन तु देशेन साध्या जातास् तथा सुराः ॥

तत्रापि वाधिकांशेन चतुरात्मा हरिः स्मृतः ।

नरो नारायणश् चैव हरिः कृष्णश् च वीर्यवान् ॥

चतुरात्मा हरिर् जातो गृहधर्मस्य यादव ।

आदित्येषु तु याव् उक्तौ मित्रावरुणसञ्ज्ञकौ ।

ताव् एव नान्यौ जानीहि हरिकृष्णौ च यादव ॥

आदित्येषु तु याव् उक्तौ शक्रविष्णू सुरोत्तमौ ।

ताव् एव सिद्धसाध्येषु नरनारयणौ पुनः ॥

चैत्रशुक्लचतुर्थ्यां तु सोपवासस् तु पूजयेत् ।

देवेशं चतुरात्मानं वित्तशक्त्या नराधिप ॥

व्रतम् एतन् नरः कृत्वा पूर्णद्वादशवत्सरम् ।

न दुर्गतिम् अवाप्नोति मोक्षोपायं च विन्दति ॥

ततः समासाद्य वनिप्रभुत्वं

परेण पुंसा समसत्वम् एति ।

सर्वेश्वरश् चाप्रतिमप्रभावो

विमुक्तदुःखो भुवनस्य गोप्ता ॥

[५०८]

इति विष्णुधर्मोत्तरोक्तं चतुर्मूर्तिव्रतम् ।

शुक उवाच ।

चतुर्थ्यङ्गारकदिने यदा भवति भारत ।

मृदा स्नानं तदा कुर्यात् पद्मरागविभूषितः ॥

अग्निर् मूर्धा दिवो मन्त्रं जपंस् तिष्ठेद् उदङ्मुखः ।

शूद्रस् तूष्णीजपं भौमम् आस्ते भोगविवर्जितः ॥

अथास्तमित आदित्ये गोमयेनोपलिप्य च ।

प्राङ्गणं पुष्पमालाभिर् अक्षताभिः समन्ततः ॥

अभ्यर्च्याभिलिखेत् पद्मं कुङ्कुमेनाष्टपत्रकम् ।

कुङ्कुमस्याप्य् अभावे तु रक्तचन्दनम् इष्यते ॥

चत्वारः करकाः कार्या भक्ष्यभोज्यसमन्विताः ।

तण्डुलै रक्तशालेयैः पद्मरागैश् च संयुताः ॥

चतुःकोणेषु तान् कृवा फलानि विविधानि च ।

गन्धमाल्यादिकं सर्वं तथैव विनिवेदयेत् ॥

सुवर्णशृङ्गी कपिलाम् अथार्च्य

रौप्यैः खुरैः कांस्यदोहां सवस्त्राम् ।

धुरन्धरं रक्तम् अतीव सौम्यं

धान्यानि सप्तावरसंयुतानि ॥

सप्त धान्यानि, यवगोधूमधान्यकम् ।

कङ्गुश्यामा चणकचीनकानि

अङ्गुष्ठमात्रं पुरुषं तथैव ।

[५०९] सौवर्णम् अत्यायतबाहुदण्डम्

चतुर्भुजं हेममये विविष्टम् ।

पात्रे गुडस्योपरि सर्पिषायुतम् ॥

सामस्वरज्ञाय जितेन्द्रियाय

पात्राय शीलत्रयसम्भवाय ।

दातव्यम् एतत् सकलं द्विजाय

कुटुम्बिने नैव च दम्भयुक्ते ॥

भूमिपुत्र महातेजः स्वेदोद्भव पिनाकिनः ।

रूपार्थी त्वां प्रपन्नो ऽहं गृहाणार्घ्यं नमो ऽस्तु ते ॥

मन्त्रेणानेन दत्वार्घ्यं रक्तचन्दनवारिणा ।

ततो ऽर्चयेद् विप्रवरं रक्तमाल्याम्बरादिभिः ॥

दद्यान् मन्त्रेण तेनैव भौमं गोमिथुनान्वितम् ।

शय्यां च शक्तितो दद्यात् सर्वोपस्करसंयुताम् ॥

यद् यद् इष्टतमं लोके यच् चास्य दयितं गृहे ।

तत् तद् गुणवते देयं तद् एवाक्षयम् इच्छता ॥

प्रदक्षिणं ततः कृत्वा विसर्ज्य द्विजपुङ्गवः ।

नक्तम् अक्षारलवणम् अश्नीयाद् घृतसंयुतम् ।

शक्त्या यस् तु पुमान् कुर्याद् एवम् अङ्गारकाष्टकम् ॥

अङ्गारकाष्टकम् इति अङ्गारकचतुर्थ्यष्टकम् ।

चतुरो वाथ वा तस्य यत् पुण्यं तद् वदामि ते ॥

रूपसौभाग्यसम्पन्नः पुनर् जन्मनि जन्मनि ।

वैष्णवो ऽथ शिवो भक्तः सप्तद्वीपाधिपो भवेत् ॥

सुप्तकल्पसहस्राणि रुद्रलोके महीयते ।

[५१०]

इति मत्स्यपुराणोक्तं अङ्गारकचतुर्थीव्रतम् ।

ब्रह्मोवाच ।

गणेशपूजनं कुर्याच् चतुर्थ्यां सर्वकर्मसु ।

अविघ्नं सुरलोके च गतिम् इष्टां प्रयच्छति ॥

कर्मस्व् अविदुषं विघ्नं कुर्याच् चैव न संशयः ।

सर्वेषां कर्मणाम् आदौ ततः पूज्यो गणाधिपः ॥

मूलमन्त्राः स्वसञ्ज्ञाभिर् अङ्गमन्त्राश् च कीर्तिताः ।

पूर्ववत् पद्मपत्रस्थः कर्तव्यश् च तिथीश्वरः ॥

तिथीश्वरो ऽत्र गणेषः । तद्रूपप्रकारस् तु कृच्छ्रचतुर्थीव्रते विलोकनीयः

गन्धपुष्पोपहारैश् च यथाशक्ति विधीयते ।

पूजाशाठ्येन शाठ्येन कृतापि तु फलप्रदा ॥

आज्यधारासमिद्भिश् च दधिक्षीरान्नमाक्षिकैः ।

पूर्वोक्तफलदो होमो यस् तु शान्तेन चेतसा ॥

एतद् व्रतं वैश्वानरप्रतिपद्व्रतवद् व्याख्येयम् ।

इति भविष्यत्पुराणोक्तं गणेशव्रतम् ।

सूत उवाच ।

चतुर्थ्यां न तु भुञ्जीत स्नात्वा नद्यां नृपोत्तम ।

[५११] रक्ताम्बरधरो भूत्वा रक्तगन्धानुलेपनः ॥

रक्तचित्तो गणाधीशं विनायकम् अथार्चयेत् ।

रक्तचन्दनतोयेन स्नानपूर्वविधानतः ॥

विलिप्य रक्तगन्धेन रक्तपुष्पैः प्रपूजयेत् ।

ततो ऽसौ दत्तवान् भूयः साज्ययुक्तं च चन्दनम् ॥

नैवेद्यं चैव हारिद्रगुडखण्डं घृतप्लुतम् ।

एवं संवत्सरं पूज्यं विनायकम् अथ स्तुवन् ॥

नमस्कृत्य महादेवं स्तोष्ये ऽहं त्वां विनायकम् ।

महागणपतिं शूरम् अञ्चितं जयवर्धनम् ॥

एकदन्तं द्विदन्तं च चतुर्दन्तं चतुर्भुजम् ।

अक्षत्रिशूलहस्तं च रक्तनेत्रं वरप्रदम् ॥

आविकेयं शङ्कुवर्णं प्रचण्डं दण्डनायकम् ।

आरक्तं दण्डिनं चैव वह्निवक्त्रं हुतप्रियम् ॥

अनर्चितो विघ्नकरः सर्वकार्येषु यो नृणाम् ।

तं नमामि गणाध्यक्षं भीमम् उग्रम् उमासुतम् ॥

मदमत्तं विरूपाक्षं भववक्तसमुद्भवम् ।

सूर्यकोटिप्रतीकाशं रकाञ्जनसमप्रभम् ॥

बुधं सुनिश्चलं शान्तं नमस्यामि विनायकम् ॥

नमो ऽस्तु ब्रह्मरूपाय विष्णुरूपाय ते नमः ।

नमो ऽस्तु गजरूपाय गजानां पतये नमः ।

मेरुमन्दररूपाय नमः कैलासवासिने ॥

नमो विघ्नविनाशाय नमस् ते ब्रह्मचारिणे ।

[५१२] भक्तस्तुताय देवाय नमस् तुभ्यं विनायक ।

त्वया पुराणं सर्वेषां देवानां कार्यसिद्धये ॥

गजरूपं समाख्याय त्रासिताः सर्वदानवाः ।

ऋषीणां देवतानां च कृताः सर्वे मनोरथाः ॥

यतस् ततः सुरैर् अग्र्यैः पूज्यसे त्वं भवात्मज ।

त्वाम् आराध्य गणाध्यक्षं सर्वज्ञं कामरूपिणम् ॥

कार्यार्थं रक्तकुसुमैः रक्तचन्दनवारिभिः ।

रक्ताम्बरधरो भूत्वा चतुर्थ्याम् अर्जयेज् जपन् ॥

त्रिकालम् एककालं वा नियतो नियतात्मनाः ।

राजानं राजपुत्रं वा राजमन्त्रिणम् एव च ॥

राज्यं वा सर्वविघ्नेशो वशी कुर्यात् सराष्ट्रकम् ।

अविघ्नं कुरु मे नित्यं कुरु विघ्नविनायक ॥

मया त्वं संस्ततो भक्त्या पूजितश् च विशेषतः ।

तत् फलं सर्वम् आप्नोति स्तुत्वा देवं विनायकम् ।

विषमं न भवेत् तस्य न च गच्छेत् पराभवम् ॥

न च विघ्नो भवेत् तस्य जातो जातिस्मरो भवेत् ।

य इदं पठति स्तोत्रं षड्भिर् मासैर् वरं लभेत् ॥

संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥

इति नरसिंहपुराणोक्तं गणेशचतुर्थीव्रतम् ।

सुमन्तुर् उवाच ।

शिवा शान्तासु स्त्री राजन् चतुर्थी त्रिविधा स्मृता ।

[५१३] मासि भाद्रपदे शुक्ला शिवा लोकेशपूजिता ॥

तस्यां स्नानं तथा दानम् उपवासो जपस् तथा ।

क्रियमाणं शतगुणं प्रसादाद् दन्तिनो नृप ॥

गुडलवणघृतानां तु दानं शुभकरं स्मृतम् ।

गुडपूपास् तथा वीर पुण्यं ब्राह्मणभोजनम् ॥

चतुर्थ्यां नरशार्दूल पूजयेत सदा स्त्रियः (?) ।

गुडलवणपूजाभिः श्वश्रुश्वशुरमातरः ॥

ताः सर्वाः सुभगाः स्युर् वै विघ्नेशस्यानुमोदनात् ।

कन्यकाश् च विशेषेण विधिनानेन पूजयेत् ॥

इति भविष्यत्पुराणोक्तं शिवाचतुर्थीव्रतम् ।

सुमन्तुर् उवाच ।

माघमासि तथा शुक्ला या चतुर्थी महीपते ।

सा सर्वशान्तिदा नित्याम् शान्तिं कुर्यात् सदैव हि ॥

स्नानं दानं बलिः कर्म सर्वम् अस्यां कृतं विभो ।

भवेत् सहस्रगुणितं प्रसादाद् दन्तिनः सदा ॥

कृत्वोपवासं यस् तस्यां पूजयेद् विघ्ननायकम् ।

तस्यां होमादिकं कर्म भवेत् साहस्रिकं नृप ॥

लवणं गुडपूर्णं च घृताक्तं तच् च भारत ।

दत्वा भक्ते तु विघ्नेशं फलं साहस्रिकं लभेत् ॥

[५१४] विशेषतः स्त्रियो राजन् पूजयेत् स्वगुरुं नृप ।

गुडलवणघृतैर् वीर सदास्यां कुरुनन्दन ॥

इति भविष्यत्पुराणोक्तं शान्तिचतुर्थीव्रतम् ।

सुमनतुर् उवाच ।

सुखावहां शृणु सुखां सौभाग्यकरणीं शुभाम् ।

चतुर्थीं कुरुशार्दूल रूपसौभागदां शूभाम् ॥

सुखव्रतं महापुण्यं रूपारोग्यप्रदायकम् ।

सुसूक्ष्मं सुकरं धन्यम् इदं पुण्यं सुखावहम् ॥

परत्र फलदं वीर दिव्यरूपप्रदायकम् ।

विलासं विभ्रम् आक्षेपं हसितं चेष्टितं शुभम् ॥

सुखव्रतेन सर्वं स्यात् शुभं कुरुकुलो हह (?) ।

कृतपूजे तु देवेशे विप्रेशशिवयोः सुते ॥

यदा शुक्लचतुर्थ्यां तु वारो भौमस्य भाग् भवेत् ।

तदा सा सुखदा ज्ञेया चतुर्थी वै सुखेति च ॥

पुरा मैथुनम् आश्रित्य स्थिताभ्यां तु हिनाचले (?) ।

भीमोमाभ्यां महाभाहो रविर् इन्दुश् च्युतः क्षितौ ॥

मेदिन्या सुप्रयत्नेन सुखेन तु भृतो यथा ।

[५१५] जातस् तस्यां महावीर रक्तो रक्तसमुद्भवः ॥

उमया आर्तवोत्पन्नस् तस्माद् अङ्गारको ह्य् अयम् ।

अङ्गदो ऽङ्गारकान्तिश् च अङ्गानां तु सदा नृप ॥

सौभाग्यादिकरो यस्मात् तस्माद् अङ्गारको मतः ।

भक्त्या चतुर्थीं नक्तेन यो वै श्रद्धासमन्वितः ॥

उपोष्यति नरो राजन् नारी वानन्यमानसा ।

पूजयेच् च कुजं भक्त्या रक्तपुष्पविलेपनः ॥

अङ्गारकस्वरूपं च वक्ष्यमाणमत्स्यपुराणोक्ताङ्गारकचतुर्थीव्रते द्रष्टव्यम् ।

गणेशं प्रथमं पूज्य भक्त्या श्रद्धासमन्वितः ।

स तु तुष्टः प्रयच्छेत सौभाग्यं रूपसम्पदम् ॥

पूर्वं तु कृतसङ्कल्पः स्नानं कृत्वा यथाविधि ।

गृहीत्वा मृत्तिकां वन्दे मन्त्रेणानेन भारत ॥

इह त्वं वन्दिता पूर्वं कृष्णेनोद्धरता किल ।

तस्मान् मे दह पाप्मानं यन् मया पूर्वसञ्चितम् ॥

इमं मन्त्रं पठन् वीर आदित्याय प्रदर्शयेत् ।

आदित्यरश्मिभिः पूतां गङ्गाजलकणोचिताम् ॥

दत्वा मृदं शिरसि तां सर्वाङ्गेषु नियोजयेत् ।

ततः स्नानं प्रकुर्वीत मन्त्रपूर्वं जले शुभे ॥

यूयम् आपः स्थ सर्वेषां दैत्यदानवसञ्चिताः ।

स्वेदाण्डजोद्भिदानां च जरायूणां च योनयः ॥

[५१६] स्नातो ऽहं सर्वतीर्थेषु सर्वप्रश्रवणेषु च ।

तथा काश्यादितीर्थेषु मानसादिसरःसु च ॥

नदीषु देवखातेषु स्नातो ऽहं तेषु तेषु वै ।

ध्यायन् पठन्न् इमं मन्त्रं ततः स्नानं समाचरेत् ॥

ततः स्नातः शुचिर् भूतो गृहम् आगत्य च स्पृशेत् ।

दर्वाश्वत्थशमीः स्पृष्ट्वा गां च मन्त्रेण मन्त्रवित् ॥

दूर्वां नमोन्तमन्त्रेण अश्वत्थशमयस् तथा ।

गां दृष्ट्वा तु ततो देवीं वन्द्याद् वीर प्रदक्षिणम् ॥

समालभ्य तु हस्तेन ततो मन्त्रम् उदीरयेत् ।

सर्वदेवमयी देवी निरृतिस् त्वं प्रपूजिता ।

तस्मात् स्पृशामि वन्दे त्वां वन्दिता पापहा भव ॥

नतो मौनेन चागच्छद् वन्दिता गृहदेवता ।

प्रक्षाल्य च मृदा पादाव् आचान्तो ऽग्निगृहं विशेत् ॥

होमं तत्र प्रकुर्वीत एतैर् मन्त्रपदैर् वरैः ।

सर्वाय सर्वपुत्राय पार्वतीयसुताय च ॥

कुजाय लोहिताङ्गाय ग्रहेशाङ्गारकाय च ।

ओङ्कारपूर्वकैर् मन्त्रैः स्वाहाकारसमन्वितैः ॥

अष्टोत्तरशतं वीर अर्धमात्रार्धम् एव च ।

एतैर् मन्त्रपदैर् भक्त्या कामतो ऽकामतो नृप ॥

खादिरीभिः समद्भिश् च आज्यदिग्धैर् (?) यवैस् तिलैः ।

भक्ष्यैर् नानाविधैश् चान्यैः शक्त्या भक्तिसमन्वितः ॥

[५१७] कृत्वा होमं ततो वीर देवं संस्थापयेत् क्षितौ ।

सौवर्णं राजतं ताम्रं भद्रदारुमयं नृप ॥

देवदारुमयं वापि श्रीखण्डघटितं तथा ॥

भद्रदारुः शरलः ।

गाङ्गेयपात्रे रौप्ये वा अर्च्यः कुङ्कुमकेसरैः ।

अन्यिअर् वा लोहितैर् भव्यैः पत्रैः पुष्पैः फलैर् अपि ॥

रक्तैश् च विविधैर् वीर अथ वा भक्तितश् चरेत् ।

यावद् धि विभृतं वित्तं चित्तं च वीर शक्तितः ॥

तावद् विवर्धते पुण्यं दातुः शतसहस्रकम् ।

यद् वा ताम्रमये पात्रे वंशजे मृन्मये ऽथ वा ।

पूजयेत नरो भक्त्या शक्त्या कुङ्कुमकेसरैः ॥

ॐ अङ्गारकाय नमः पादौ । ॐ कुञ्जराय नमः वदनम् । ॐ भीमाय नमः स्कन्धयोः । ॐ मङ्गलाय नमः बाह्वोः । ॐ वज्राय नमः ऊर्वोः । ॐ स्वेदजाय नमः जङ्घयोः । नमः निखायाम् ।

पुरुषाकृतिं कुब्जपात्रे एतैर् मन्त्रपदैर् यजेत् ।

भूमिपुत्र महादेव स्वेदोद्भव पिनाकिनः ।

रूपार्थी त्वां प्रपन्नो ऽहं गृहाणार्घ्यं नमो ऽस्तु ते ॥

अर्घमन्त्रः ।

महादेवाङ्गसम्भूत मेदिनीगर्भसम्भव ।

अङ्गारक महाराज लोहिताङ्ग नमो ऽस्तु ते ॥

[५१८] प्रार्थनामन्त्रः ।

सुगन्धपुष्पधूपाद्यैर् ब्राह्मणो यः प्रपूजयेत् (?) ।

गुडोदनघृतक्षीरगोधूमान् शालितण्डुलान् ॥

अपेक्ष्य शक्तिं द्रव्याद् वै ब्राह्मणेभ्यो यतेन्द्रियः ।

वित्तशाठ्यं न कुर्वीत विद्यमाने धने नृप ।

वित्तशाठ्यं च कुर्वाणो नामुत्र फलभाग् भवेत् ॥

शतानीक उवाच ।

अङ्गारकेण संयुक्ता चतुर्थी नक्तभोजनैः ।

उपोष्याः कतिसङ्ख्यास् तु उताहो सकृद् एव हि ॥

सुमन्तुर् उवाच ।

चतुर्थी तु चतुर्थी तु यदाङ्गारकसंयुता ।

उपोष्य तत्र तत्रैव प्रदेयो विधिवत् कुजः ॥

उपोष्य नक्तेन विभो चतस्रः कुजसंयुताः ।

चतुर्थ्यां तु चतुर्थ्यां तु विधानं शृणु यादृशम् ॥

एकश् चतुर्थीशब्दः तिथिविशेषवचनः, अपरस् तत्सङ्ख्यापर इति ।

दशसौवर्णिके मुख्यं दशार्धार्धं यथापि वा ।

सौवर्णपात्रे रौप्ये वा भक्त्या ताम्रमये ऽपि वा ॥

विंशत्पलानि पात्राणि विंशत्यर्थपलानि च ।

विंशत्कर्षाणि वा वीर अतो हीनं न कारयेत् ॥

शक्त्या वित्तस्य भक्त्या च पात्रे ताम्रमये ऽपि वा ।

प्रतिष्ठाप्य कुञ्जपात्रे रक्तवस्त्रेण वेष्टयेत् ॥

[५१९] पुष्पमण्डयिकां कृत्वा दिव्यैर् धूपैस् तु धूपिताम् ।

तत्तत्स्थम् अर्चयेद् देवं पूर्वमन्त्रैः क्रमेण तु ॥

बक्ष्यभोज्यैर् अनेकैश् च फलैर् अन्यैश् च सम्मतैः ।

वस्त्रैः प्रावरणैः पात्रैः शय्योपानद्वरासनैः ॥

छत्रैः पुष्पैर् गन्धवरैः शक्त्या वित्तानुसारतः ।

ब्राह्मणाय च तं दद्याद् दक्षिणासहितं नृप ॥

वाचकाय महाबाहो गुणिने श्रेयसेन च ।

अङ्गारकेन संयुक्तां धेनुं शीलसमन्विताम् ॥

अनेन विधिना दत्वा यथोक्तफलभाग् भवेत् ।

इति ते कथिता पुराण पुराण (?) तिथीनाम् उत्तमा तिथिः ॥

याम् उपोष्य नरो रूपं दिव्यम् आप्नोति भारत ।

कान्त्यात्रेयसमं वीर तेजसा रविसप्रभम् ॥

प्रभया हरितुऌयं च सर्वतो वलसस्मितः ।

ईदृग्रूपं वरं प्राप्य याति सीमसदो नृप ॥

प्रसादाद् विघ्नराजस्य गणेशस्य् गणायते ।

पठतां शृण्वतां राजन् कर्वतांश् च विशेषतः ।

ब्रह्महत्यादिपापानि क्षीयन्ते नात्र संशयः ॥ इति ।

इति भविष्तत्पुराणोक्तं सुखव्रतम् ।

चतुर्थ्यां तु महाराज निराहारो व्रतान्वितः ।

दत्वा तिलान्नं भुङ्क्ते यः स्वयं भुङ्क्ते तिलोदनम् ॥

[५२०] दिवा निराहारो रात्रौ भुङ्क्ते इति विरोधपरिहारः ।

वर्षद्वये समासिद्धिर् व्रातस्य तु यदा भवेत् ।

विनायकं तस्य तुष्टो ददाति फलम् ईप्सितम् ॥

इति भविष्तत्पुराणोक्तं गणपतिचतुर्थीव्रतम् ।

स्कन्द उवाच ।

केन व्रतेन भगवन् सौभाग्यम् अतुलं भवेत् ।

पुत्रपौत्रधनैश्वर्यं मनुजः सुखम् एधते ॥

तन् मे वद महादेव व्रतानाम् उत्तमं व्रतम् ।

येन चीर्णेन देवेश नरो राज्यं च विन्दति ॥

राज्ञीव जायते नारी अपि दासीकुलोद्भवा ।

राजपुत्रो जयेच् शत्रून् गरुडः पन्नगान् इव ॥

ब्राह्मणो ब्रह्मवर्चस्त्वं प्राप्य सर्वार्चको भवेत् ।

वर्णाश्रमविहीनो ऽपि सो ऽपि सिद्धिं च विन्दति ॥

ईश्वर उवाक ।

शृणु वत्स प्रवक्ष्यामि व्रतानाम् उत्तमं व्रतम् ।

अपूर्वं गणपतेर् व्रतं यत् त्रैलोक्यविश्रुतम् ॥

भगवत्या पुरा चीर्णं पार्वत्या पद्मया सह ।

सरस्वत्या महेन्द्रेण विष्णुना धनदेन च ॥

अन्यैश् च देवैर् मुनिभिर् गन्धर्वैः किन्नरैस् तथा ।

[५२१] चीर्णम् एतद् व्रतं सर्वैः पुराकल्पे षडानन ।

चतुर्थी या भवेद् उक्ता नभोमासस्य पुण्यदा ॥

तस्यां व्रतम् इदं कुर्यात् कार्तिक्यां वा षडानन ।

गजाननं चतुर्बाहुम् एकदन्तं विपाटिनम् ॥

विपाटिनं मददारास्राविणम् । आयुधानि कृच्छ्रचतुर्थी व्रतवद् विधाय हेम्ना विघ्नेशं हेमपीतासनस्थितम् ।

तथा हैमीम् अथो दूर्व्यां तदाधारे व्यवस्थिताम् ।

तदाधारे विघ्नेशासने ।

संस्थाप्य विघ्नहन्तारं कलसे ताम्रभाजने ।

वेष्टितं रक्तवस्त्रेण सर्वतोभद्रमण्डले ॥

पूजयेच् छुक्लकुसुमैः पत्रिकाभिश् च पञ्चभिः ।

बिल्वपत्रम् अपामार्गशमीदर्व्यहरिप्रिया ॥

हरिप्रिया तुलसी । एता एव पञ्चपत्रिकाः ।

अन्यैः सुगन्धकुसुमैः पत्रिकाभिः सुगन्धिभिः ।

फलैश् च मोदकैः पश्चाद् उपहारं प्रकल्पयेत् ।

यथावद् उपचारैश् च पूजयेद् गिरिजासुतम् ॥

आवाहनमन्त्रः ।

उमासुत नमस् तुभ्यं विश्वव्यापि सनातन ।

विघ्नौघं छिन्दि सकलम् अर्घ्यं पाद्यं ददामि ते ॥

[५२२] अर्घ्यमन्त्रः ।

गणेश्वराय देवाय उमापुत्राय वेधसे ।

पूजाम् अथ प्रयच्छामि गृहाण भगवन् नमः ॥

गन्धमन्त्रः ।

गणेश्वराय देवाय वरदाय गजानने (?) ।

उमासुताय देवाय कुमारगुरवे नमः ।

लम्बोदराय वीराय सर्वविघ्नविहारिणे ॥

पुष्पमन्त्रः ।

उमामङ्गलसद्भूतै (?) दानवानां वधाय वै ।

अनुग्रहाय लोकानां स देवः पातु वैश्वधृक् ॥

धूपमन्त्रः ।

परञ्ज्योतिःप्रकाशाय सर्वसिद्धिप्रदाय च ।

दीपं तुभ्यं प्रदास्यामि महादेवात्मने नमः ॥

दीपमन्त्रः ।

गणानां च गणपतिम् इव महाकविं कवीनाम् ।

उपमन्त्रवश्रवं ज्येष्ठ रागं ब्रह्मणां ब्रह्मणस्यातिश्राणं शृण्वन् ज्योतिभिः सिद्धदसादनम् ।

उपहारमन्त्रः ।

गणेश्वर गणाध्यक्ष गौरीपुत्र गजानन ।

व्रतं सम्पूर्णतां यातु त्वत्प्रसादादिम् आर्थिना ॥

[५२३] प्रार्थनामन्त्रः ।

एवं सम्पूज्य विघ्नेशं यथाविभवविस्तरैः ।

सोपस्करं गणाध्यकम् आचार्याय निवेदयेत् ॥

गृहाण भगवन् ब्रह्मन् गणराज प्रदक्षिणम् ।

व्रतं तद्वचनाद् अद्य सम्पूर्णं यातु सुव्रत ॥

दानमन्त्रः ।

एवं यः पञ्चवर्षाणि कृत्वोद्यापनम् आचरेत् ।

ईप्सितांल् लभते कामान् देदान्ते शाङ्करं पदम् ॥

अथ वा शुक्लप्रज्ञस्य चतुर्थ्यां संयतेन्द्रियः ।

कुर्याद् वर्षत्रयं चैवं सर्वसिद्धिम् अवाप्नुयात् ॥

उद्याप्नं विनायकस्य करोति व्रतम् उत्तमम् ।

तेन शुक्लतिलैः कार्यं प्रातःस्नानं षडानन ॥

हेम्ना वा रजतेनापि कृत्वा गणपतिं बुधः ।

पञ्चगव्यैस् तु संस्नाप्य दूर्वाभिः सम्प्रपूजयेत् ॥

मन्त्रैस् तु दशभिर् भक्त्या दूर्वायुक्तैः शिखिध्वज ।

दूर्वायुक्तैः पञ्चगव्यैः स्नपनं दूर्वायुक्तैर् दशभिर् मन्त्रैः पूजा एकस्य मन्त्रस्य दशत्वम् ।

इत्य् एवं कथितं वत्स सर्वसिद्धिप्रदं शुभम् ।

व्रतं दूर्वागणपतेः किम् अन्यच् छ्रोतुम् इच्छसि ॥

इति सौरपुराणोक्तं दूर्वागणपतिव्रतम् ।

भरण्यां तु चतुर्थ्यां तु शनैश्वरदिने यमम् ।

[५२४] पूजयन् सप्तजन्मोत्थैर् मुच्यते पातकैर् नरः ॥

इति कूर्मपुराणोक्तं यमव्रतम् ।

अगस्त्यः ।

अथ विघ्नहरं राजन् कथयामि तवानघ ।

येन सम्यक् कृतेनेह न विघ्नम् उपजायते ॥

चतुर्थ्यां फाल्गुने मासि ग्रहीतव्यं व्रतं त्व् इदम् ।

नक्ताहारेण राजेन्द्र तिलान्नं पारणं स्मृतम् ॥

पारणं नक्तभोजनम् ।

तद् एव वह्नौ होतव्यं ब्राह्मणाय च तद् भवेत् ।

दिव्याय शूराय गजाननाय

दंष्ट्राकरालाय नमः शिवाय ।

नगात्मजादेहमलोद्भवाय

कुमारहस्ताय नभश्चराय ॥

एवं सम्पूज्य मनुभिर् होमं कुर्याद् यथाविधि ।

मनुभिर् मन्त्रैः ।

एकस्यैव वृथा बहुत्वं ब्रवीमि तत् होमं ब्रवीमि होममन्त्रो होमद्रव्यं च तद् एव वह्नौ होतव्यं इत्यादिनोक्तं वर्तमानसमीपे वर्तमानवदिहातीते लट् ।

चतुर्मासव्रतं चैव कृत्वेत्थं पञ्चमे तथा ।

सौवर्णं राजतं वापि कृत्वा विप्राय दापयेत् ॥

[५२५] ताम्रपात्रे पायसाद्यैश् चतुर्भिः सहितं नृप ।

पञ्चमेन तिलैः सार्धं गणशान्तिकरेण च ॥

मृण्मयानि हरिद्रैस् तु विधिनानेन कारयेत् ।

होमं च राजतं शक्त्या विधिनानेन दापयेत् ॥

इत्थं व्रतम् इदं कृत्वा सर्वविघ्नात् स मुच्यते ।

हयमेधस्य यज्ञे तु सञ्जाते सगरः पुरा ॥

एतद् एव हरश् चक्रे त्रिपुरं येन हन्ति च ।

मया समुद्रमथने त्व् एतद् एव व्रतं कृतम् ॥

अन्यैर् अपि महीपालैर् एतद् एव पुरा कृतम् ।

ततो निर्विघ्नसिद्ध्यर्थं विघ्नोपशमनं परम् ॥

अनेन कृतमात्रेण सर्वविघ्नैः प्रमुच्यते ।

ततो रुद्रपुरं याति वाराहवचनं यथा ॥

विघ्नानि तस्य न भवन्ति गृहे कदाचित् ।

धर्मार्थकामसुखसिद्धिविघातकानि ।

यः सप्तमीन्दुशकलाकृतिकान्तदृप्तं (?)

विघ्नेशम् अर्चयति नक्तं कृती चतुर्थ्याम् ॥

इति वराहपुराणोक्तम् अविघ्नविनायकव्रतम् ।

ब्रह्मोवाच ।

माघमासे तु सम्प्राप्ते चतुर्थी कुन्दसञ्ज्ञिता ।

[५२६] सोपोष्या तु सुरश्रेष्ठ ततो राज्यं भविष्यति ॥

सर्वोपहारसम्पन्नं सर्वोपस्करम् आहरेत् ।

कन्दुपक्वं फलं शाकं लवणं गुडशर्करा ॥

खण्डं कुस्तुम्बरी जीरं धान्यानि विविधानि च ।

दातव्यानि रघुश्रेष्ठ कन्यकानां तु भक्तितः ॥

खण्डं शर्कराभेदः ।

सूर्यपात्रं तथा भाण्डं मृण्मयानि विशेषतः ।

उद्दिश्य दापयेद् देवीं प्रीयतां मे सदा इति ॥

अनेन विधिना शक्र सौभाग्यं पुत्रसन्ततिः ।

वर्धते नात्र सन्देहो नान्यथा मम भाषितम् ॥

इति देवीपुराणोक्तं कुन्दचतुर्थीव्रतम् ।

ऋषयः ऊचुः ।

निर्विघेन तु कार्याणि कथं सिध्यन्ति सूतज ।

अप्रसिद्धिः कथं नॄणां पुत्रसौभाग्यसम्पदाम् ॥

दम्पत्योः कलहे चैक्यं बन्धुभेदे तथा नृणां ।

उदासीनेषु लोकेषु कथं सम्मुखता भवेत् ॥

विद्यारम्भे तथा नॄणां वणिज्यायां कृषौ तथा ।

नृपतेः परचक्रस्य जयसिद्धिः कथं भवेत् ॥

कां देवतां नमस्कृत्य पूजासिद्धिकरी नृणाम् ।

[५२७] सूत उवाच ।

सन्नद्धयोः पुरा विप्राः कुरुपाण्डवसेनयोः ।

पृष्टवान् देवकीपुत्रं धर्मराजो युधिष्ठिरः ॥

निर्विघ्नेन जयो ह्य् एषां वद देव कथं भवेत् ।

कां देवतां नमस्कृत्य समग्रां ह्य् अलभन् महीम् ॥

श्रीकृष्ण उवाच ।

पूजयस्व गणाध्यक्षं विघ्नेशं सिद्धिदायकम् (?) ।

तस्मिन् सम्पूजिते राजन् सर्वान् कामान् अवाप्नुयात् ॥

युधिष्ठिर उवाच ।

देव केन विधानेन पूजनार्हो गणाधिपः ।

पूजितश् च तिथौ कस्यां सिद्धिदो गणपो भवेत् ॥

श्रीकृष्ण उवाच ।

गजवक्त्रं तु शुक्लायां चतुर्थ्यां पूजयेन् नृप ।

यदा वोत्पद्यते भक्तिर् मासे पूज्यो गणाधिपः ॥

प्रातः शुक्लतिलैः स्नात्वा मध्याह्ने पूजयेन् नृप ।

स्वशक्त्या गणनाथस्य स्वर्णरौप्यां यथाकृतिम् ॥

कृत्वा पूजां प्रयत्नेन स्नाप्य पञ्चामृतैः पृथक् ।

गणाध्यक्षेति नाम्ना वै गन्धं दद्याच् च भक्तितः ॥

विनायकेति पुष्पाणि धूपं चोमासुतेति च ।

दीपं रुद्रप्रियायेति नैवेद्यं विघ्ननाशन ॥

वस्त्रं सर्वप्रदे रक्तं पुष्पं दद्यात् शुभावृतम् ।

ततो दूर्वां कुशान् गृह्य विंशतिं चैकम् एव च ॥

[५२८] पूजयेत प्रयत्नेन एभिर् नामपदैः पृथक् ।

गणाधिप नमो ते ऽस्तु (?) उमापुत्राघनाशन ॥

विनायकेशपुत्रेति सर्वसिद्धिप्रदायक ।

एकदन्तेभवक्त्रेति नमो मषिकवाहन ॥

कुमारगुरवेत्य् अन्तं पूजनीयः प्रयत्नतः ।

दूर्वायुग्मं ग्रहीत्वा तु गन्धयुक्तं प्रपूजयेत् ॥

एकैकेन च नाम्ना वै पूज्य एकेन सर्वतः ।

एकेन दूर्वाङ्कुरेण युग्मेनावशिष्टेन । सर्वतः सर्वैर् नामभिः पूजा कार्या ।

तथैकविंशतिर् गृह्य मोदकान् घृतपाचितान् ।

स्थापयित्वा गणाध्यक्षं समीपे कुरुनन्दन ॥

दश विप्राय दातव्या स्वयं चाद्यात् तथा दश ।

एकं गणाधिपे दद्यात् सनैवेद्यं नृपोत्तम ॥

विप्राय भोजनं दद्याद् भुञ्जीयात् तैलवर्जितम् ।

कृत्वा नैमित्तिकं कर्म पूजयेद् इष्टदेवताम् ॥

एवं कृते धर्मराज विघ्ननाथस्य पूजने ।

विजयस् ते भवेन् न्यूनं सत्यं सत्यं मयोदितः ॥

विद्याकामो लभेद् विद्यां धनकामो धनं यथा ।

जयं विजयकामस् तु पुत्रार्थी विन्दते सुतान् ॥

पतिकामा च भर्तारं सौभाग्यं च सुवासिनीम् ।

विधवा पूजयित्वा तु वैधव्यं नाप्नुयात् क्वचित् ॥

वैष्णवाद्यासु दीक्षासु आदौ पूज्यो गणाधिपः ।

यस्मिन् सम्पूजिते विष्णुर् ईशो भानुस् तथा उमा ॥

[५२९] हव्यवाहमुखा देवाः पूजिताः स्युर् न संशयः ।

चण्डिकाद्या मातृगणाः परितुष्टा भवन्ति च ॥

यस्मिन् सम्पूजिते भक्त्या विप्राः सिद्धिविनायके ।

य इदं शृणुयान् नित्यं श्रावयेद् वा समाहितः ॥

सिद्ध्यन्ति सर्वकार्याणि सिद्धिदस्य प्रसादतः ।

इति स्कन्दपुराणोक्तं सिद्धिविनायकव्रतम् ।

अथास्याम् एव भविष्योत्तरोक्तं कृत्यान्तरम् ।

मासि भाद्रपदे शुक्ला शिवलोके प्रपूजिता ।

तस्यां स्नानं तथा दानम् उपवासो ऽर्चनं तथा ।

किर्यमाणं शतगुणं प्रसादाद् दत्तिनो नृप ॥ इति ।

चतुर्थीत्य् अत्रानुषङ्गः । अस्यां चन्द्रदर्शनं न कर्तव्यम् । अत एवोक्तं मार्कण्डेयेन ।

सिंहादित्ये शूक्लपक्षे चतुर्थ्यां चन्द्रदर्शनम् ।

मिथ्याभिदूषणं कुर्यात् तस्मात् पश्येन् न तं तदा ॥ इति ।

पराशरस्मृताव् अपि ।

कन्यादित्ये चतुर्थ्यां तु शुक्ले चन्द्रस्य दर्शनम् ।

मिथ्याभिदूषणं कुर्यात् तस्मात् पश्येन् न तं तदा ॥

अत्र सिंहादित्यकन्यादित्यशब्दाभ्यां चान्द्रो भाद्रपद् उपलभ्यते,

[५३०] सौरमासग्रहणे शिष्टाचारविरोधप्रसङ्गात् । दोषस्य शान्तये सिंहः प्रसेनम् इति वै पठेत् । स च श्लोको विष्णुपुराणे ।

सिंहः प्रसेनम् अवधीत् सिंहो जाम्बवता हतः ।

सुकुमारकम् आरोदीस् तव ह्य् एष स्यमन्तकः ॥ इति ।

अथ कार्तिकशुक्लचतुर्थ्यां कूर्मपुरानोक्तं नागव्रतम् ।

कार्त्तिकशुक्लपक्षं उपक्रम्य ।

तिथौ युगाह्वयायां तु समुपोष्य यथाविधि ।

शङ्खपालादिनागानां शेषस्य च महात्मनः ॥

पूजा कार्या पुषगन्धक्षीरप्यायनपूर्वकम् इति । युगाह्वयायां चतुर्थ्यां प्रातर् मध्याह्नव्यापिन्यां च कर्तव्यम् । तथा च स्कन्दपुराणे ।

प्रातर् मध्यन्दिने तत्र तत्रोपोष्य फणीश्वरान् ।

क्षीरेणाप्याय्य पञ्चम्यां पारयेत् प्रयता नरः ।

विषाणि तस्य नश्यन्ति न तं हि सन्ति पन्नगाः ॥

इति नागव्रतम् ।

अथ मार्गशीर्षशुक्लचतुर्थ्याम् आरभ्य स्कन्दपुराणोक्तं वरचतुर्थीव्रतम् ।

चतुर्थ्यां मार्गशीर्षे तु शुक्लपक्षे नृपोत्तम ।

प्रारभ्य प्रतिमासं च चतुर्थ्यां गणनायकम् ॥

सम्पूज्य विधिना कुर्याद् एकभक्तं समाहितः ।

अक्षारलवणं त्व् एवं पूर्णसंवत्सरे ततः ॥

[५३१] द्वितीये वत्सरे चाथ नक्तं प्रतिचतुर्थि च ।

कुर्याद् गणेशम् अभ्यर्च्य तृतीये ऽयाचितं तथा ॥

एवम् एव प्रकुर्वीत चतुर्थे स्याद् उपोषणम् ।

ततश् चतुर्थं सम्पूर्णं तद् उद्यापनम् आचरेत् ।

इदं वरचतुर्थ्याख्यं व्रतं सर्वार्थसाधकम् ॥

इति स्कन्दपुराणोकं वरचतुर्थीव्रतम् ।

अथास्याम् एव ब्रह्मपुराणोक्तं गौरीचतुर्थीव्रतम् ।

उमाचतुर्थ्यां माघे तु शुक्लायां योगिनीगणैः ।

प्राग् भक्षयित्वा सृष्ट्वा च भूयः स्वाङ्गात् स्वकैर् गुणैः ॥

तस्मात् सा तत्र सम्पूज्या नरैः स्त्रीभिर् विशेषतः ।

कुन्दपुष्पैः प्रयत्नेन सम्यग् भक्त्या समाहितैः ॥

कुङ्कुमालङ्क्तकाभ्यां च रक्तसूत्रैः सकङ्कणैः ।

अर्घैः पुष्पैस् तथा धूपैर् दीपैर् वलिभिर् एव च ॥

गुडार्धकाभ्यां पनसलवलीभ्यां च पालकैः ।

पूज्या स्त्रियश् च विधवास् तथा विप्राश् च शोभनाः ॥

सौभाग्यवृद्धये पश्चाद् भाक्तव्यं बन्धुभिः सह ॥ इति

पालकैः कुण्डलैर् मृद्भाण्डविशेषैर् इत्य् अर्थः ।

इति गौरीचतुर्थीव्रतम् ।

लवणैर् धान्यकैर् युक्तं जीरकं मरीचानि च ।

हिङ्गुं (?) शूण्ठीं हरिद्राञ् च सर्वं परिकरं तथा ॥

चतुर्थ्याम् एकभक्ताशी सकृद् दत्वा कुटुम्बिने ।

गृहेषु सप्तसु तथा शिलायुक्तानि भारत ॥

[५३२] शिला मनःशिला ।

एतच् छिलाव्रतं नाम लक्ष्मीलोकप्रदायकम् ।

इति भविष्योत्तरोक्तं शिलाव्रतम् ।

चतुर्थ्यां नक्तभुग् दद्याद् अब्दान्ते हेमवारणम् ।

वारणः करी ।

व्रतं वैनायकं नाम सर्वविघ्नोपशान्तिदम् ॥

इति पद्मपुराणोक्तं वैनायकव्रतम् ।

नन्दिकेश्वर उवाच ।

विनायकचतुर्थ्याख्यं व्रतं वक्ष्यामि ते ऽनघ ।

धन्यं यशस्यम् आयुष्यं समीहितफलप्रदम् ॥

विघ्नोपशमनायालं सर्वसिद्धिप्रदायकम् ।

प्रियं गणपतेर् नित्यम् ऋषिभिश् चाप्य् उपासितम् ॥

मार्गशुक्लचतुर्थ्यां तु ग्राह्यं व्रतम् इदं महत् ।

नक्ताहारेण विप्रेन्द्र तिलान्नं पारणं स्मृतम् ॥

तद् एव वह्नौ होतव्यं ब्राह्मणाय ददेत् सदा ।

नद्यां नदे वा नैवेद्यं विघ्नराजाय संयमी ॥

पूजयेद् गणपतिं रात्रौ गन्धैः पुष्पैर् यथाक्रमम् ।

स्थापितं कुम्भसंस्थं तं स्थापितं कुङ्कुमाम्भसा ॥

[५३३] सुमार्गादिष्व् अथो तैस् तु नामभिश् चार्चयेत् ततः ।

विनायकश् चैकदन्तः कृष्णपिङ्गो गजाननः ॥

लम्बोदरो बालचन्द्रो (?) हेरम्बो विकटस् तथा ।

वक्रतुण्डश् चाखुरथो विघ्नराजो गणाधिपः ॥

इत्य् एवं मासनाम्ना तु जपहोमम् अथार्चनम् ।

कृत्वैवं प्रार्थयेत् पश्चान् मन्त्रेणानेन भक्तिमान् ॥

द्वैमातुराय वीराय परशुहस्ताय वै नमः ।

विघ्नेशायैकदंष्ट्राय नमो लम्बोदराय च ॥

नमस् ते गजवक्त्राय सर्वज्ञायाष्टमूर्तये ।

समीहितार्थसम्प्राप्तौ निर्विघ्नं कुरु मे सदा ॥

भोजयित्वा ततो विप्रान् यथाशक्त्या विमत्सरः ।

भुञ्जीत च स्वयं नक्तं वाग्यतो ऽन्नम् अकुत्सयन् ॥

सायं प्रातश् च सर्वेषां भोजनं श्रुतिचोदितम् ।

एकभक्तं पुनस् तस्माद् उपवासस् ततो ऽधिकः ॥

उपवासात् परं भैक्ष्यं भैक्ष्यात् परम् अयाचितम् ।

अयाचितात् परं नक्तं तस्मान् नक्तं तपो भवेत् ॥

देवैश् तु भुक्तं पूर्वाह्णे मध्याह्ने मानुषैस् तथा ।

अपराह्णे च पितृभिः सन्ध्यायां प्रेतराक्षसैः ॥

वेलाश् चैता अतिक्रम्य नक्तभोजी च यो भवेत् ।

स तैस् तु तर्पितैः सर्वैर् यत् पुण्यं तद् अवाप्नुयात् ॥

हविष्यभोजनं स्नानम् आहारस्य च लाघवम् ।

अधिकार्थम् अधःशय्यां नक्तभोजी समाचरेत् ॥

एवं संवत्सरस्यान्ते व्रते पूर्णे गजानन ।

[५३४] अत्रापि कृच्छ्रचतुर्थ्याम् उक्तरूपं निर्माणम् ।

सौवर्णरौप्ये वारोप्यम् अधिवास्य प्रयत्नतः ।

ताम्रपात्रैर् द्वादशभिर् मृण्मयैर् वाथ वैणवैः ॥

तिलसम्मोदकभृतैः प्रातर् विप्राय दापयेत् ।

दद्याच् च विधिवद् भक्त्या वृषभं च गवा सह ॥

अष्टाङ्गपदसंयुक्तसप्तधान्यसमन्वितम् ।

भोजयेद् ब्राह्मणान् पश्चाद् वित्तशाठ्यविवर्जितः ॥

इत्थं व्रतम् इदं चीर्त्वा सर्वविघ्नैः प्रमुच्यते ।

विद्यां श्रियं यशः सौख्यं प्राप्नोत्य् अविकलं सदा ॥

अपुत्रो लभते पुत्रं दरिद्रस् तूत्तमं धनम् ।

कन्यार्थी लभते कन्यां परत्र च शुभां गतिम् ॥

श्रूयते ऽत्र पुरावृत्तं पुष्पधूपादिसाधनम् ।

मल्लिकारक्तसम्भोजजातितगरम् एव च ॥

पुष्पिकां केतकीं वानसुवर्णकुसुमानि च ।

प्रतिमासं तु कार्याणि पुष्पाण्य् एतानि नारद ॥

फलानाम् अप्य् अभावे तु बीजपूरं प्रशस्यते ।

अलाभे तूक्तपुष्पाणां शतपत्रं विशिष्यते ॥

नारिकेलं बीजपूरं नारङ्गं दाडिमं तथा ।

सार्वां पनसं चैव सहकारं तथैव च ॥

क्षीरीफलं वामलकं कुष्माण्डं त्रपुषं तथा ।

भूमीफलं क्रमाच् चात्र अर्घकाले प्रयोजयेत् ॥

[५३५] एकदन्त महादन्त गौरीसुत गणाधिप ।

चतुर्थीव्रतपूजार्थम् अर्घं गृह्ण नमो ऽस्तु ते ॥

अर्घमन्त्रः ।

शतपत्रं तथा कुण्डं मरुकङ्कणवीरकम् ।

स्फारविन्दं वकुलाशोकान् आदाय पूजयेत् ततः ॥

अर्थान् संवर्धयति वर्धयतीह धमं

कामं प्रसाधयति तस्य पिनष्टि पापम् ।

यः पूजयन् निखिललोकनुताङ्घ्रिपद्मम्

गौरीसुतं फणितनूदरम् आदिदेवम् ॥

विघ्नाश् च तस्य न भवन्ति गृहे कदाचिद्

धर्मार्थकामसुखसिद्धिविधायकाय ।

यः सप्तमीं दुशकलाकृतिकान्तिदन्तम्

विघ्नेशम् अर्चयति तं सुकृती चतुर्थ्याम् ॥

आनन्ददां सकलपापहरां चतुर्थीं

या स्त्री करोति विधवा सधवा च कन्या ।

सा स्वे गृहे सुखशतान्य् अनुभूय भूयो

हेरम्बमातृभवनं मुदितः प्रयाति ॥

एवं च यः प्रकुरुते वरदां चतुर्थीं

वैनायकीं विविधपुत्रसुकान्तिकीर्तिः ।

शम्भोः शशाङ्ककलिकाङ्कितशेखरस्य

स्थानं प्रयाति परमैकसुखस्वरूपम् ॥

[५३६] स्थविरगणपतिं पूजयन्तु यज्जयन्यां

सकृद् अपि समुपेत्य ध्वस्तदोषास् तु मर्त्याः ।

द्विरदवदनम् आद्यं ते प्रयान्तीह धन्याः

सुरनगरपुरन्ध्रीलोचनैः प्रीयमानाः ॥

इति स्कन्दपुराणोक्तं नक्तचतुर्थीव्रतम् ।

इति श्रीमहार्जाधिराजमहादेवस्य समस्तकरणाधीश्वरसकलविद्याविशारद-

**श्रीहेमाद्रिविरचिते चतुर्वर्गचिन्तामणौ **

व्रतखण्डे चतुर्थीव्रतानि ।

[५३७]

अथ नवमो ऽध्यायः

अथ पञ्चमीव्रतानि ।

चेतो लक्ष्मीरमणचरणद्वन्द्वराजीबलीनम् ।

हर्षोत्कर्षाद् अतिरसलसद्भृङ्गभङ्गीम् उपति (?) ॥

यस्य स्फारस्फुरितमतिना तेन हेमाद्रिणेह ।

प्रस्तूयन्ते विपुलफलकृत् पञ्चमीषु व्रतानि ॥

युधिष्ठिर उवाच ।

कथं सा प्राप्यते लक्ष्मीर् दुर्लभा यामरैर् विभो ।

दानेन तपसा वापि व्रतेनापि वदस्व तत् ॥

जपहोमनमस्कारैः संस्कारैर् वा पृथग्विधैः ।

एतद् वद यदुश्रेष्ठ सर्ववित्त्वं मतिर् मम ॥

कृष्ण उवाच ।

भृगोः ख्याता समुत्पन्ना पूर्वं स्त्री श्रीपतेः शुभा ।

वासुदेवाय दत्ता सा मुनिनां मम वृद्धये ॥

वासुदेवो ऽपि ताम् प्राप्य पीनोन्नतपयोधराम् ।

पद्मपत्रविशालाक्षीं पूर्णचन्द्रनिभाननाम् ॥

भाभासितदिगाभोगाम् अर्काद् भानोः प्रभाम् इव ।

[५३८] नितम्बाडम्बरवतीं मत्तमातङ्गगामिनीम् ।

रेमे सह मया राजन् विभ्रमोद्भ्रान्तिचिन्तया ॥

सा च विष्णुं जगच्जिष्णुं पतिं श्रीजगतां पतिम् ।

प्राप्य कृतार्थम् आत्मानं मेने मानयशोधरा ॥

कृष्ण कृष्ण जगत् सर्वं भगवन् धारितं त्वया ।

लक्षि मां पाल पञ्चभ्यां सद्वृष्ट्येव महीतलम् ॥

क्षेमं सुभिक्षम् आरोप्यम् अनाक्रन्दम् अनामयान् ।

रसाज् जलं जायते ऽस्माद् हविर् वह्णौ हुनेत् ततः ॥

चातुर्वर्ण्यं ससङ्कीर्णं पाल्यते पार्थ पार्थिवैः ।

विरोचनप्रभृतिभिर् दृष्ट्वैव दैत्यसत्तमैः ॥

तपसस् तम् अथाभ्यर्च्यम् अग्निम् आश्रित्य संयमैः ।

सोमसंस्था हविः संस्था पाकसंस्थादिभिर् मखैः ॥

समाचारैः समभ्यर्च्य येषु भिक्तिप्रकारिभिः (?) ।

पञ्चधर्मप्रधानैस् तैर् देवदानवराक्षसैः ॥

जगद् आसीत् समाक्रान्तं विक्रमेन क्रमेण च ।

लक्ष्मी विलासप्रभवो देवानां च सदा मदः ॥

शीलं शर्म च सत्यं च सद्यो लक्ष्मीश् च सद्गृहे ।

सत्यशौचविहीनांस् तान् देवान् सन्त्यज्य चञ्चला ॥

जगाम दीना वाकूलं कुदेवानुरागतः ।

लक्ष्म्या भावितदेहैस् तैः पुनर् उद्धतमानसैः ॥

व्यवहर्तुं समारं दामन्यायेन मदोद्धतैः ।

वयं देवा वयं यज्ञाः वयं विप्रा वयं जगत् ॥

ब्रह्मविष्णू सशक्राद्या वयं सर्वदिवौकसः ।

[५३९] अहङ्कारविमूढांस् तान् ज्ञात्वा दानवसत्तमान् ॥

सागरे सलिले पार्थं भ्रान्तचित्ता भृगोः सुता ।

क्षीरोदमध्ये गतया लब्धः क्षीणार्थसम्भयम् ॥

निरामदं गतश्रीकम् अभवद् भुवनत्रयम् ।

गतश्रीकम् अथात्मानं मत्वा शम्बरसूदनम् ॥

पप्रच्छाङ्गिरसं विप्रं ब्रूहि किञ्चिद् व्रतं मम ।

येन सम्प्राप्यते लक्ष्मीर् लब्धा न चलते पुनः ॥

निश्चलापि सुहृन्मित्रभोग्या भवति सा मुने ।

न सा स्त्रीत्य् अभिमन्तव्या कन्या सा पाल्यते गृहे ॥

परार्थं या सुहृन्मित्रभृत्यैर् नैवोपमुच्यते ।

शक्रस्यैतद् वचः श्रुत्वा बृहस्पतिर् उदारधीः ।

कथयामास सञ्चित्य शुभं श्रीपञ्चमीव्रतम् ॥

यत् पुरा कस्यचिन् नोक्तं व्रतानाम् उत्तमं व्रतम् ।

तद् अहं कथयामास सरहस्यम् अशेषतः ॥

तच् छ्रुत्वा कर्तुम् आरब्धं शुभं नरवरैः सह ।

दैत्यदानवगन्धर्वैर् यज्ञैः पक्षीणकल्मषैः ॥

सिद्धैः प्रसिद्धचरितैर् विष्णुना प्रभविष्णुना ।

ब्राह्मणैर् ब्रह्मतत्त्वज्ञैः समर्थैः पार्थिवैः सह ।

कैश्चित् सात्विकभावेन राजसेनापरैर् अपि ॥

तामसेन तथा कैश्चित् कृतं व्रतम् इदं तथा ।

व्रते समासभूयिष्ठे निष्ठया परया प्रभो ॥

देवानां दानवानां च युधि चासीद् अमोघता ।

निर्मथ्य भुजवीर्येण सागरं सरितां पतिम् ।

[५४०] समाहरामो ह्य् अमृतं हित्वा यतिदिवौकसः ॥

इत्य् एतत् समयं कृत्वा ममन्थुर् वरुणालयम् ।

मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ॥

मघ्यमाने जलाज् जातश् चन्द्रः शीतांशुर् उज्जवलः ।

अनन्तरे समुत्पन्ना लक्ष्मीः क्षीराब्धिमध्यतः ॥

तया चालोकिताः सर्वे दैत्यदानवसत्तमाः ।

आलोक्य तान् जनामासौ विष्णोर् वक्षस्थलं शुभम् ।

विधिना विष्णुना चीर्णं व्रतं तेनाब्धिसम्भवा ॥

शरीरस्था बभूवास्य विभ्रमोद्भ्रान्तलोचना ।

किं च राजसभावेन शक्रेणैव कृतं यतः ॥

तेन स्वर्गबलैश्वर्यं प्राप्यते स्म महर्द्धिमत् ।

तमसावृतचित्तैस् तु सञ्चीर्णं दैत्यदानवैः ॥

तेन तेषाम् अथैश्वर्यं दष्टनष्टम् अभूत् किल ।

एवं स श्रीकम् अभवत् सदैवासुरमानुषम् ॥

जगति जगतां श्रेष्ठ व्रतस्यास्य प्रभावतः ॥

युधिष्ठिर उवाच ।

कथम् एतद् व्रतं कृष्ण क्रियते मनुजैः कदा ।

प्रारभ्यते पार्थ कस्मिन् सर्वं वद जनार्दन ॥

कृष्ण उवाच ।

यद् इन्द्रेण पुरा चीर्णं श्रीवियुक्तेन पार्थिव ।

श्रीसमृद्धिकरं तद् धि शृणु श्रीपञ्चमीव्रतम् ॥

मार्गशीर्षे सिते पक्षे पञ्चम्यां पन्नगोत्सवे ।

[५४१] उपवासस्य नियमं कुर्यात् पद्मां स्मरेद् धृदि ॥

स्वर्णरौप्यां यथाशक्त्या ताम्रां मृत्काष्ठजाम् अथ ।

चित्रपट्टगतां देवीं लक्ष्मीं क्ष्मापाल कारयेत् ॥

पद्मासनां पद्महस्तां पद्मां पद्मदलेक्षणाम् ।

दिग्गजेन्द्रैः स्नाप्यमानां काञ्चनैः कलसौत्तमैः ॥

लक्ष्मीरूपनिर्माणं तु विष्णुधर्मोत्तरोक्तं वेदितव्यम् । तद् यथा ।

समुत्थिता श्रीः कर्तव्या शङ्खाम्बुजकरा शुभा ।

सुखस्थिता महाभाग पद्मे पद्मकरा शुभा ॥

द्विभुजा चारुसर्वाङ्गी सर्वाभरणभूषणा ।

द्वौ च मूलकरो मूर्ध्नि कर्यौ विद्याधरौ शुभौ ॥ इति

ततो यामत्रये याते निम्नगायाः मृदाथ वा ।

स्नानं कुर्याद् असम्भ्रान्तः शक्तिमद् उपचारतः ॥

देवान् पितॄंश् च सन्तर्प्य ततो देवगृहं व्रजेत् ।

तत्रस्थां पूजयेद् देवीं पुष्पैस् तत्कालसम्भवैः ॥

चपलायै नमः पादौ चञ्चलायै च जानुनी ।

कटीं कमलवासिन्यै नाभिं ख्यात्यै नमो नमः ॥

स्तनौ मन्मथवासिन्यै ललितायै भुजद्वयम् ।

उत्कण्ठितायै कम्बुं च माधव्यै मुखपङ्कजम् ॥

नमः श्रियै शिरः पूज्य दद्यान् नैवेद्यम् आदरात् ।

फलानि च यथालाभं विरूढं धान्यसञ्चयम् ॥

ततः स्ववासिनी पूज्या कुङ्कुमैः कुसुमेन च ।

भोजयेन् मधुरान्नेन प्रणिपत्य विसर्जयेत् ॥

[५४२] ततस् तु तण्डुलप्रस्थं घृतपात्रेण संयुतम् ।

ब्राह्मणाय प्रदातव्यं सा श्रीर् मे प्रीयताम् इति ॥

निर्वर्त्यैतद् अशेषेण ततो भुञ्जीत वाग्यतः ।

मासानुमासं कर्तव्यं विधिनानेन भारत ॥

श्रीर् लक्ष्मीः कमला सम्पत् पद्मा नारायणी तथा ।

पद्मधृतिः स्थितिः पुष्टिस् तुष्टिः सिद्धिः क्षमा क्रमात् ॥

मासानुमासं राजेन्द्र प्रीयताम् इति कीर्तयेत् ।

ततो द्वादशमे मासि सम्प्राप्ते पञ्चमीदिने ॥

वस्त्रमण्डयिकां कृत्वा पुष्पगन्धादिवासिनाम् ।

शय्यायां स्थापयेल् लक्ष्मीं सर्वोपस्करसंयुताम् ॥

सौभाग्याष्टकसंयुक्तां नेत्रपट्टावृतस्तनीम् ।

सप्तधान्यसमोपेतां रसधातुसमन्विताम् ॥

पादुकोपानहच्छत्रभाजनासनसंस्कृताम् ।

देवीं सम्पूज्य विधिवद् ब्राह्मणाय कुटुम्बिने ॥

व्यासाय वेदविदुषे यस्मै वा रोचते स्वयम् ।

सोपस्करां सवत्सां च धेनुं दत्वा क्षमापयेत् ॥

क्षीराब्धिमथनोद्भूते विष्णोर् वक्षस्थलालये ।

सर्वकामप्रदे देवि सिद्धिं यच्छ नमो ऽस्तु ते ॥

ततः स्ववासिनीः पूज्या वस्त्रैर् आभरणैः शुभैः ।

भोजयित्वा स्वयं पश्चाद् भुञ्जीत सह बन्धुभिः ॥

य एवं कुरुते पार्थ भक्त्या श्रीपञ्चमीव्रतम् ।

तस्य श्रीर् भवने भाति कुलानाम् एकविंशतिम् ॥

[५४३] नारी वा कुरुते या तु प्राप्यानुज्ञां स्वभर्तृतः ।

सुभगा दर्शनीया च बहुपुत्रा च जायते ॥

यः पञ्चमीव्रतम् इदं दयितं मुरारेर्

भक्त्या समाचरति पूज्य भृगोस् तनूजाम् ।

राज्यश्रियं स भुवि भव्यजनोपभोग्यं

भुक्त्वा प्रयाति भवनं मधुसूदनस्य ॥

इति श्रीभविष्यपुराणोक्तं श्रीपञ्चमीव्रतं सम्पूर्णम् ।

श्रीकृष्ण उवाच ।

माहात्म्यम् (?) अभिवक्ष्यामि पञ्चम्यास् तव भारत ।

जयेति या च विख्याता व्रतिनां जयदायिनी ॥

यस्माज् जयाजयाशब्दं कुर्वन्ति व्रतिनो बुधाः ।

परिपूर्णं व्रतं यस्यां सा ज्ञेया जयपञ्चमी ॥

जया च विजया चैव जयन्ती पापनाशिनी ॥

जया कार्त्तिकशुक्लपञ्चमी ।

केशवो भगवान् शम्भूर् गङ्गाद्याः सरितस् तथा ।

प्रभासाद्यानि तीर्थानि जम्बूद्वीपसरांसि वा ॥

प्रयागं पुष्करं गङ्गां गयाक्षेत्रं कुरुष्व् अथ ।

एतान्य् अन्यानि तीर्थानि व्रतिनः स्नापयन्त्वत (?) ॥

तस्मात् सर्वप्रयत्नेन स्नानं कुर्याज् जयादिने ।

स्नेहेनोद्वर्तनेनैव द्विजान् संस्नापयेद् बहून् ॥

तीर्थे प्रस्रवणे गत्वा स्नापयेत् स्वयं हरिम् ।

[५४४] जयासहितम् इत्य् अर्थः ।

शङ्खचक्रगदापाणिं वामभागे जयां स्थिताम् ।

वरदाभयहस्तां च श्वेतां हंसोपरिस्थिताम् ॥

पूजयेद् विविधैः पुष्पैर् धूपनैवेद्याजादिभिः ।

एभिर् मन्त्रैस् तु तं देवं जयां च प्रतिपूजयेत् ॥

पादौ वै पद्मनाभाय जानुभ्यो माधवीति च ।

ऊरू वै नारसिंहाय मध्ये वै मन्मथाय वा ॥

दामोदरायेत्य् उदरं चक्षुः श्रीवत्सधारिणे ।

श्रीकण्ठायेति कण्ठं वा बाहू सर्वास्त्रधारिणे ॥

मुखं पद्ममुखायेति शिरः सर्वात्मने नमः ।

अनेन विधिना चैव पूजयेद् गरुडध्वजम् ॥

अनन्तरं तु तां देवीं वेणुपात्रोपरिस्थिताम् ।

जातीलताधोभागस्थितां देवीं प्रपूजयेत् ॥

नमः पुष्ठै (पुष्ट्यै?) पादयुग्मे जानुभ्यां च श्रिये नमः ।

नदायै च कटीदेशे विजयायै च वक्षसि ॥

शिरः सर्वार्थदायिन्यै सर्वाङ्गे विजयां तथा ।

विधिनानेन सम्पूज्य अर्चयेद् विजयां हरिम् ॥

ॐ जयायै जयरूपाय जय गोविन्दरूपिणे ।

जय दामोदरायेति जय सर्व (?) नमो ऽस्तु ते ॥

अर्घ्यमन्त्रः ।

वेणुपात्राणि सर्वाणि सप्तधान्यभृतानि च ।

रक्तसूत्रेण सम्पूज्य सफलानि निवेदयेत् ॥

तथा वेणुफलं दृष्टा तुष्यते मधुसदनः ।

[५४५] तथा मे अशुभं सर्वं वेणुपात्रप्रदानतः ॥

वेणुपात्रदानमन्त्रः ।

अनेन विधिना चैव दत्वा पात्राणि गोसुरे ।

गोसुरे ब्राह्मणे ।

रक्षाबन्धम् अतः कुर्यात् सुहृत्स्वजनबन्धुषु ।

अक्षताः सर्षपा दूर्वा रक्षामध्ये च रोचना ॥

ॐ येन बद्धो बलीराजा दानवेन्द्रो महाबलः ।

तेन त्वाम् आशु बध्नामि रक्षे माचल माचल ॥

रक्षाबन्धनमन्त्रः ।

रक्षाबन्धं नरो यस् तु कुर्याद् भक्तिसमन्वितः ।

न तस्य ग्रहपीडा स्यान् न च मृत्युभयं भवेत् ॥

भूतवेतालरक्षाद्यैः पिशाचैर् नाभिभूयते ।

रक्षायाबन्धनं कृत्वा सङ्ग्रामे प्रविशेत् तु यः ॥

जयते स रिपून् सर्वान् जीयते न स केनचित् ।

तस्मात् सर्वप्रयत्नेन रक्षाबन्धं तु कारयेत् ॥

यस् तु वै भक्तिसंयुक्तः स्नानं कुर्याज् जयादिने ।

कुतस् तस्यैव पापानि माघमासप्लवे यथा ॥

यथाश्वमेधावभृथं तादृशं कारयेद् बुधः ।

जलाञ्जलिस् तु व्रतिना क्षिप्यते तस्य मूर्धनि ॥

ब्रह्महत्यादिपापेभ्यो मुच्यते नात्र संशयः ।

अपुत्रो लभते पुत्रान् वन्ध्या गर्भं विविन्दति ॥

[५४६] रोगी रोगैर् विमुच्येत प्रयाति हरिमन्दिरम् ॥

इति भविष्योत्तरोक्तं जयापञ्चमीव्रतम् ।

भरद्वाज उवाच ।

आचक्षतो विधिं ब्रह्मन् पञ्चम्याः परमं व्रतम् ।

स एष महिमा यस्य सर्वान् कामान् प्रवर्षति ॥

सनत्कुमार उवाच ।

शृणु वक्ष्यामि भगवन् पञ्चम्याः परमं विधिम् ।

यस्य श्रवणमात्रेण नरः पापात् प्रमुच्यते ॥

श्रवणेन यदा युक्ता शुक्लपक्षे तु पञ्चमी ।

उत्तराफाल्गुनौ यस्याम् इन्दुवारसमागमः ॥

आरभेत नरस् तस्यां व्रतं पूर्वम् उपोषितः ।

चतुर्थ्याम् एकभक्ताशी ब्रह्मचारी जितेन्द्रियः ॥

घृतिमान् कृतसङ्कल्पो भवेन् नियमवान् नरः ।

ततः कल्यं समुत्थाय स्नात्वा नियतमानसः ॥

धृतसङ्कल्पया पत्न्या कुर्याद् बिल्वस्य चार्चनम् ।

बिल्वमूले ततः कुर्याद् वेदिं पुष्पाक्षतैर् युताम् ॥

स्थापयेत् कलशान् अष्टौ तस्याम् अष्टसु दिक्षु वा ।

तन्मन्ध्ये बिल्वमूलं तु स्थापयेच् च महाघटान् ।

सौवर्णं राजतं ताम्रमार्तिकं वा सुभान्वितम् ॥

[५४७] वस्त्रयुग्मेन सञ्छन्नं नवरत्नसमन्वितम् ।

कलशांश् (?) च तथा कुर्यात् तीर्थोदकसमन्वितान् ॥

दूर्वा च विष्णुपर्णी च श्रीलता पङ्कजं सितम् ।

शालपत्रम् अपामार्गस् तुलसी जातिर् इत्य् अपि ॥

विष्णुपर्णी प्रश्निपर्णी, श्रीलता पद्मिनी । शालपत्रं शालवृक्षपत्रम् ।

बिल्वाम्रतालतिन्दूकधात्रोरम्भाफलान्य् अथ ।

तिन्दुकं टिबुरुणीफलम् ।

जम्बूपनसजातानि बुद्धिः शक्तिः सरस्वती ।

श्रद्धा लक्ष्मीर् धृतिस् तुष्टिः पुष्टिर् इत्य् अष्ट शक्तयः ।

एलासर्षपकक्कोलतिलकर्पूरपद्मकाः ॥

पद्मको वृक्षविशेषः ।

लोध्रमांसीसमायुक्तान् इति सर्वान् विनिक्षिपेत् ।

पूर्वादीशानपर्यन्तं कलशेषु महामतिः ॥

मध्यमे तु क्षिपेत् सर्वं दर्व्यादि यद् उदीरितम् ।

अथ तत्र श्रियं देवीम् अष्टशक्तिसमन्विताम् ॥

श्रीबीजेन समावाह्य तत्र पूजादि साधयेत् ।

एवं सर्वत्र शक्तीनां बीजेनावाहनं विदुः ॥

स्वनामाद्याक्षरं बीजम् अनुस्वारसमन्वितम् ।

तत्र तत्र च तत्पूजां विधिना सम्यग् आचरेत् ॥

श्रीलताजातिबकुलैर् नन्द्यावर्तप्रसूनकैः ।

[५४८] नन्द्यावर्तं तगरम् ।

एलापत्रसितान् भोजैः (?) मल्लिकाकुसुमान्वितैः ।

श्रीशूक्तेन श्रियं देवीम् अर्चयेत् प्रत्यृचं (?) सुधीः ॥

श्रीसूक्तं हिरण्यवर्णां हरिणीम् इत्यादि ।

गुडान्नपायसापूपमुद्गान्नदधिसम्युतैः ।

शाल्यन्नैः क्षीरमधुरैः श्रियं देवीं समर्चयेत् ॥

बुद्ध्यादिशक्त्यर्चनं नाममन्त्रैः ।

एवं कृत्वा यथायोगं ततः संवृणुयाद् वरम् ।

देवि पद्मपलाशाक्षि नमस् ते श्रीधरप्रिये ॥

सिद्धार्थं मां वृणुष्व त्वं व्रतेनानेन सुव्रते ।

बोध्यं बुद्ध्या च भूतानां बोधयन्ति हृदि स्थिते ॥

सिद्धार्थं मां कुरुष्व त्वं व्रतेनानेन सुव्रते ।

शक्तिः सती सती देवि वेष्टयन्त्य् अनिशं प्रजाः ॥

सिद्धार्थं मां कुरुष्व त्वं व्रतेनानेन सुव्रते ।

सिद्धाशये ऽमृतकले पद्मवासे सरस्वती ॥

सुद्धार्हं मां कुरुष्व त्वं व्रतेनानेन सुव्रते ।

श्रद्धे श्रद्धावतीशानि सत्त्वानि कुर्वतीवशे ॥

सुद्धार्हं मां कुरुष्व त्वं व्रतेनानेन सुव्रते ।

लक्षितासि सति लक्ष्मीर् दीव्यन्ती स्वस्तिमज् जगत् ॥

सुद्धार्हं मां कुरुष्व त्वं व्रतेनानेन सुव्रते ।

घृत्यैमां वृंहति (?) धात्री मन्दिरे दिवसे शुभे ॥

[५४९] सुद्धार्हं मां कुरुष्व त्वं व्रतेनानेन सुव्रते ।

सती तोषयतां तुष्टिप्रदात्री कमले ऽमले ॥

सुद्धार्हं मां कुरुष्व त्वं व्रतेनानेन सुव्रते ।

सन्धुक्ष्यसि सुसम्पृष्टमङ्गलायतनं जगत् ॥

सुद्धार्हं मां कुरुष्व त्वं व्रतेनानेन सुव्रते ।

इति मन्नीतसकलाः सम्पूर्णा मे मनोरथाः ॥

इन्दिरायाः प्रसादेन व्रतेनासम् अहं सुखी ।

ततः परिसमाप्यैवं श्रियः पूजां समाहितः ॥

मध्यमस्य समीपे तु सहितं स्थापयेद् घटम् ।

तस्मिन्न् आवाहयेद् देवं श्रीधरं श्रीपतिं प्रभुम् ॥

वस्त्रयुग्मेन सञ्छन्नं सर्वरत्नसमन्वितम् ।

विधाय विधिना कुम्भं तत्र पूजां समाचरेत् ॥

अथावस्थापिते पूर्वं देवम् आवाह्य पूजयेत् ।

समाप्य विधिवत् पूजां ततश् च शृणुयाद् वरम् ॥

भगवन् श्रीपते श्रीश श्रीनिवास जगन्मय ।

प्रसादात् तव ते सन्तु सम्पूर्णा मे महोरथाः ॥

अत्र सम्पूजयेद् विद्वान् ब्राह्मणान् वेदपारगान् ।

नवकं मिथुनं कृत्वा तत्र मन्त्रेण वैष्णवान् ॥

तेभ्यो दद्याद् यथायोग्यं भूषणानि धनं बहु ।

वर्धितस् तत्तदाशीर्भिर् विसृज्य द्विजसत्तमान् ।

ततस् तु लोकपालानां बलिं दिक्षु विनिक्षिपेत् ॥

उपवासश् च कर्तव्यः सह वध्वा वरेण वा ।

पाषण्डादिभिर् आलापो न कर्तव्यः कथञ्चन ॥

[५५०] यदि स्यात् पतनं गच्छेन् निरयं चाप्य् अधोमुखः ।

वृथाजल्पपरो न स्याद् वृथारम्भो वृथामतिः ॥

न स्वपेत् तु दिवारात्रौ नाद्याद् अपि कथञ्चन ।

न क्रीडां नोपहासं च न मिथ्याभाषणं क्वचित् ॥

श्रीधराय नमो नित्यं श्रियै नम इतीरयेत् ।

एवम् एव दिनं नीत्वा ततः षष्ट्यां समाहितः ॥

समभ्यर्च्य श्रियं देवीं तथा देवं यथा पुरा ।

ब्राह्मणान् भोजयेत् पश्चाद् विधिवत् सपरिग्रहात् ॥

दत्वा धनादिकम् अथ स्नात्वा कुम्भोदकेन वा ।

पत्न्या सह हविःशेषं ततो भुञ्जीत वाग्यतः ॥

तथा दानं दरिद्रेभ्यो योषिद्भ्यश् चान्नम् उत्तमम् ।

गुरवे दक्षिणां दद्यात् पितृभ्यश् च स्वधाम् अपि ।

बिल्वं च दृष्ट्वा प्रणमेत् तदग्रे प्रणतो व्रजेत् ॥

न कुर्यात् ताडनं तस्य तथा पादाभिमर्शनम् ।

न लङ्घयीत तच्छायां नाद्यात् तस्य फलादिकम् ॥

प्रशस्तं बिल्वपात्राणां वारणं मूर्ध्नि नित्यशः ।

शतपत्रं चैकपत्रं श्रीलताकुसुमान्य् अपि ।

दूर्वां च कूर्चकुसुमं तिलसर्षपतण्डुलान् ॥

शिरसा धारयेन् नित्यं श्रियम् इच्छन्न् अनाकुलः ।

आयुर् विद्यां श्रियं तुष्टिम् आरोग्यं कान्तिम् उत्तमाम् ॥

सौभाग्यं क्षेमसम्पत्तिं व्रतेनाप्नोति मानवः ।

विन्दते व्रतकृद् राजा राज्यं श्रियम् अनुत्तमाम् ॥

[५५१] देशे च लभते वित्तं शूद्रः सुखम् अवाप्नुयात् ।

कन्या च लभते सौम्यं पतिं हृदयहारिणम् ॥

वन्ध्या वाभिमतं (?) पुत्रं विन्देताशु न संशयः ।

योषित् परममाङ्गल्यं प्राप्नुयाद् व्रतसम्पदा ।

अपत्यं गर्भिणी नारी यावद् बहुसुतार्थिनी ॥

पायसेन श्रियं देवीं देवेशं च समर्चयेत् ।

श्रियं कामयमानेन पूर्वोक्तविधिनार्चनम् ।

सौभाग्यम् इच्छता कार्यं घृतान्नेन समर्चनम् ॥

हविष्यफलमूलाद्यं कार्यं राजन्यपार्थिवैः ॥

विद्यार्थिना च देवानि हवींषि मधुराणि च ।

आयुःकामेन विधिना पयसा कार्यम् अर्चनम् ॥

एवम् एव च वर्षाण्तम् अनुतिष्ठेत् तु पञ्चमीम् ।

अथ वा सकृद् उक्तेन न विधिना कार्यम् इष्यते ॥

अथ यावत् फलप्राप्तिः कार्यम् एतद् व्रतं मतम् ।

सर्वं भाग्यवशाद् एव फलं भुङ्क्ते नरो भुवि ॥

तद्योगात् तत्क्षणात् तावद् अचिरं स्याच् चिरं फलम् ।

अपि च क्षीणभाग्यानाम् असताम् अपि सम्पदः ॥

भवेयुः सर्वसत्त्वानां व्रतेनानेन वै ध्रुवम् ।

एवम् उक्तेन विधिना व्रतं च व्रतिनाम्बरः ॥

सर्वसिद्धिकरं पुंसाम् उक्तम् एतन् महाव्रतम् ।

[५५२]

इति श्रीगरुडपुराणोक्तं श्रीपञ्चमीव्रतम् ।

श्रीमार्कण्डेय उवाच ।

अतः परं प्रवक्ष्यामि पञ्चमूर्तिस् तथार्चनम् ।

पृथिव्य् आपस् तथा तेजो वायुर् आकाशम् एव च ॥

एता वै देवदेवस्य कथिताः पञ्चमूर्तयः ।

चैत्रे तु पञ्चमीं शूक्लां (?) समासाद्य विचक्षणः ॥

सोपवासो हरिं देवं पञ्चात्मानं समर्चयेत् ।

पञ्चमण्दलकाः कार्याः पञ्चभिर् वर्णकैः पृथक् ॥

पार्थिवं मण्डलं कर्यं शुक्लवर्णं महीपते ।

वारुणं च तथा श्वेतं रक्तम् आग्नेयम् इष्यते ॥

पीतं भवति वायव्यं कृष्णम् आकाशदैवतम् ।

समानवर्णगन्धैश् च पुष्पैस् तान् अर्चयेत् पृथक् ॥

शक्त्या च धूपदीपान्नैर् यथालाभम् अरिन्दम ।

यवैर् माषैस् तिलैश् चैव सर्षपैश् च घृतेन च ॥

पञ्चभिर् जुहुयान् मन्त्रैः सर्वेषां च पृथक् पृथक् ।

हुत्वा ॐ पृथिव्यप्तेजोवाय्वाकाशेभ्यः स्वाहेति सर्वेषां मिश्रैर् जुहुयात् ।

तल्लिङ्गैर् एव मन्त्रैश् च अथ वा नृप नामभिः ।

ओङ्कारपूर्वकैर् हुत्वा शक्त्या विप्रांश्च भोजयेत् ॥

एवं संवत्सरं कृत्वा पूर्णसंवत्सरे ततः ।

[५५३] दत्वा विप्रेषु वस्त्राणि देवरङ्गसमानि तु ॥

महाभूतव्रतम् इदं यः करोत्य् अथ पञ्चकम् ।

पञ्चयज्ञान् अवाप्नोति क्रमशो ये तु कीर्तिताः ॥

बहून्य् अब्दसहस्राणि स्वर्गलोके महीयते ।

मानुष्यम् आसाद्य भवत्य् अरोगो

बलान्वितो वैरिगाणादिहन्ता ।

श्रुतेन रूपेण धनेन युक्तो

जनाभिरामः प्रमदाप्रियश् च ॥

इति विष्णुधर्मोत्तरोक्तं पञ्चमहाभूतव्रतम् ।

श्रीभीष्म उवाच ।

मधुरा भारती केन व्रतेन मधुसूदन ।

तथैव जनसौभाग्यं सर्वविद्यानुकौशलम् ॥

अभेदश् चापि दम्पत्योस् तथा बन्धुजनैः सह ।

आयुश् च विपुलं पुंसां तन् मे कथय सत्तम ॥

पुलस्त्य उवाच ।

सम्यक् पृष्टं त्वया राजन् शृणु सारस्वतं व्रतम् ।

यस्य सङ्कीर्तनाद् एव तुष्यतीह सरस्वती ॥

यो यद्भक्तः पुमान् कुर्याद् एतद् व्रतम् अनुत्तमम् ।

तद्वासरादौ सम्पूज्य विप्रान् एतत् समारभेत् ॥

अथ वादित्यवारेण ग्रहताराबलेन च ।

[५५४] पायसं भोजयित्वा तु कुर्याद् ब्राह्मणवाचनम् ॥

शुक्लवस्त्राणि दद्याच् च सहिरण्यानि शक्तितः ।

गायत्रीं पूजयेद् भक्त्या शुक्लमाल्यानुलेपनैः ॥

एभिर् मन्तर्पदैः पश्चात् सर्वं कुर्यात् कृताञ्जलिः ।

यथा न देवि भगवान् ब्रह्मा लोकपितामहः ॥

त्वां परित्यज्य सम्तिष्ठेत् तथा भव वरप्रदा ।

वेदाः शास्त्राणि सर्वाणि नृत्यगीतादिकं च यत् ॥

न विहीनं त्वया मातस् तथा मे सन्तु सिद्धयः ।

लक्ष्मीर् मेधा धरा पुष्टि गौरी तुष्टिः प्रभा मतिः ॥

एताभिः पाहि तनुभिर् अष्टाभिर् मां सरस्वती ।

एवं सम्पूज्य गायत्रीं वीणाक्षमणिधारिणी ॥

शुक्लपक्षे ऽक्षतैर् भक्त्या सकमण्डलुपुस्तकाम् ।

मौनव्रतेन भुञ्जीत सायं प्रातश् च धर्मवित् ॥

पञ्चम्यां प्रतिपक्षे च पूजयित्वा सुवासिनीः ।

तस्यां तु तण्डुलप्रस्थं घृतपात्रेण संयुतम् ॥

क्षीरं दद्याद् हिरण्यं च गायत्री प्रीयताम् इति ।

सन्ध्ययोश् च तथा माउनम् एतत् कुर्वन् समारभेत् ॥

नान्तरा भोजनं कुर्याद् यावन् मासास् त्रयोदश ।

समाप्ते तु व्रते दद्याद् भाजनं शुभतण्डुलैः ॥

पूर्णं सवस्त्रयुग्मं तु गां सवत्सां सुशोभनाम् ।

विप्राय वेदविदुषे वाचकायाथ पार्थिव ॥

[५५५] देव्यै वितानं घण्टां च सितचामरसंयुताम् ।

चन्दनं वस्त्रयुग्मं (?) च दध्य् अन्नं शिखरं तथा ॥

शिखरं दधिक्षीरघृतानां सन्तानिका शिवा, शिकरं चिरसंस्थस्य द्रवस्योपरिपीडिकेत्य् आयुर्वेदस्मृतेः ।

तथोपदेष्टारम् अपि भक्त्या सम्पूजयेद् गुरुम् ॥

वित्तशाठ्येन रहितो वस्त्रमाल्यानुलेपनैः ।

अनेन विधिना यस् तु कुर्यात् सारस्वतं व्रतम् ॥

विद्यावान् धनयुक्तश् च रक्तकण्ठश् च जायते ।

सरस्वत्याः प्रसादेन व्यासवत्सकविर् भवेत् ॥

नारी वा कुरुते या तु सापि तत्फलभागिनी ।

ब्रह्मलोके वसेत् तावद् यावद् युगशतत्रयम् ॥

सारस्वतं व्रतं यस् तु शृणुयाच् छ्रावयेत् तथा ।

विद्याधरपुरं सो ऽपि प्राप्नोति गतकल्मषः ॥

सारस्वतव्रतवरेण सरस्वतीं ये

सम्पूजयन्ति विधिवज् जगतो जनित्री ।

विद्योवदातहृदया मधुरस्वरास् ते

रूपान्विता बहुगुणाः कुशला भवन्ति ॥

अत्र व्रते शुक्लपक्षे स्वेष्टदेवतातिथौ । रविदिने शुभदिने वा आरम्भः प्रतिदिनं सम्ध्ययोर् भोजने च मौनं शुक्लपञ्चम्यां सरस्वतीपूजा सुवासिनी पृजा (?) च ।

[५५६]

इति पद्मपुराणोक्तं सारस्वतं व्रतम् ।

अगस्त्य उवाच ।

शान्तिव्रतं प्रवक्ष्यामि शृणुष्वैकमना नृप ।

येन चीर्णेन शान्तिः स्यात् सर्वदा गृहमेधिनः ॥

पञ्चम्यां शुक्लपक्षस्य कार्त्तिके मासि पार्थिव ।

आरभ्य वर्षम् एकं तु भुञ्जीयाद् अम्लवर्जितम् ॥

नक्तं तु पूजयेद् देवं हरिं शेषोपरिस्थितम् ।

देवप्रतिमा शेषोपरिसुप्ता चतुर्भुजा लक्ष्म्युत्सङ्गगतस् तत्रैकपादः शेषोपरिस्थित एवापरो, जानूपरि तस्यैकः करो नाभिदेशस्थो अपरः, शीर्षधरः सन्तानमञ्जरीधरश् चान्यः नाभौ पद्मम्, पार्श्वे ऽस्त्राणीति ।

अनन्तायेति पादौ तु धृतराष्टाय वै कटीम् ।

तक्षकायेति जठरम् उरः कर्कोटकस्य तु ॥

पद्माय कण्ठं सम्पूज्य महापद्माय दोर्युगम् ।

शङ्खपापाय वक्त्रं तु कुलिकायेति वै शिरः ॥

विष्णुं सर्वाङ्गम् अप्य् एवं पृथक् चैव प्रपूजयेत् ।

पृथक् चैवेति अनन्ताद्यान् अष्टौ नागान् पृथग् अपि पूजयेद् इत्य् अर्थः ।

क्षीरेण स्नपनं कुर्याद् धरिम् उद्दिश्य वाग्यतः ।

नागान् अपि हरिभुद्ध्या स्नापयेत् ।

तदग्नौ होमयेत् क्षीरं तिलैः सह नृपोत्तम ।

एवं संवत्सरस्यान्ते कुर्याद् ब्राह्मणतर्पणम् ॥

[५५७] नागं तु काञ्चनं कृत्वा स्वकर्णेन विधारयेत् ।

गां सवत्सां वस्त्रयुगां कांस्यपात्रां पयस्विनीम् ॥

हिरण्यं च यथा शक्त्या ब्राह्मणाय निवेदयेत् ।

एवं यः कुरुते भक्त्या व्रतम् एतन् नराधिप ।

तस्य शान्तिर् भवेन् नित्यं नागेभ्यश् चाभयं तथा ॥

शेषाहिभोगशयनस्थम् अपां प्रसूतिं

सम्पूज्य यज्ञपुरुषं पतगेन्द्रकेतुम् ।

ये ऽश्रन्त्य् अनम्लमधुरं सितपञ्चमीषु

तेषां न नागजनितं भयम् अस्ति किञ्चित् ।

इति वराहपुराणोक्तं शान्तिव्रतम् ।

सुमन्तुर् उवाच ।

पञ्चमी दयिता राजन् नागानां नन्दवर्धिनी ।

पञ्चम्याः किल नागानां भवतीत्य् उत्सवो महान् ॥

वासुकिस् तक्षश् चैव कालियो मनिभद्रकः ।

धृतराष्टुश् चैरावतः कर्कोटकधनञ्जयौ ॥

एते प्रयच्छन्त्य् अभयं प्राणिनां प्राणदाः सदा ।

पञ्चम्यां स्नापयन्तीह नागान् क्षीरेण ये नराः ॥

तेषां कुले प्रयच्छन्ति अभयं प्राणदक्षिणाम् ।

शस्ता नागा यदा मात्रा दह्यमाना दिवानिशम् ।

[५५८] निर्वापिता गवां क्षीरैस् तेषां क्षीरं तु दुर्लभम् ॥

शतानीक उवाच ।

मात्रा त्रासाः कथं नागाः किम् उद्दिश्य च कारणम् ।

कथं शापस्य शावस्य विनाशो वै महामुने ॥

सुमन्तुर् उवाच ।

उच्चैश्रवो ऽश्वराजा च श्वेतपर्णो ऽमृतोद्भवः ।

तं दृष्ट्वा धवलं कद्रुर् नागानां जननीस्वसा ॥

उवाचेति शेषः ।

अश्वरत्नम् इदं श्वेतं पश्य पश्यामृतोद्भवम् ।

कुलस्य यस्य ते बालाः सर्वश्वेतयुतास् तथा ॥

सर्वश्वेताकृतिवरो नायं कृष्णो न लोहितः ।

कथं त्वं यस्य कृत् कृष्णं विनतोवाच तत् स्वमाम् (?) ॥

कद्रुर् उवाच ।

यस्याहम् एकनयनं कृष्णत्वचसमन्वितम् (?) ।

द्विनेत्रा त्वं सविनते यदि पश्य पणं कुरु ॥

विनतोवाच ।

अहं दासी भवित्री ते कृष्णे केशप्रदर्शितम् ।

न च दर्शयसे कद्रुर् मम दासी भविष्यसि ॥

एवं ते च पणं कृत्वा गते क्रोधसमन्विते ।

शपिते प्राक् प्रदेवो ऽपि कद्रुर् जिह्मम् अचिन्तयत् ॥

आहूय पुत्रान् प्रोवाच वालो भूत्वा हयोत्तमे ।

[५५९] तिष्ठध्वं विपणं ज्येष्ठां विनतां जयवर्धिनीम् ॥

प्रोचुस् ते जिष्णुबुद्धीनां नागमातां विगृह्य च ।

स्वधर्मपृष्ठः सुमहान् न करिष्यामि तं वचः ॥

एवं पुत्रवचः श्रुत्वा कद्रूः क्रोधसमाकुला ।

शशाप पुत्रान् सकलान् वचकीशं प्रधक्ष्यति ॥

गते बहुतिथे काले पाण्डवो जनमेजयः ।

सर्पसत्त्रं च कर्ता वै यद् अन्यैर् बुवि दुष्करम् ॥

तस्मिन् यज्ञे पावको वै दहिष्यति न संशयः ।

एवम् उक्त्वाभवत् तूष्णीं कद्रुः क्रोधपरायणा ॥

तान् उवाच तदा सर्वान् ब्रह्मलोकपितामहः ।

पञ्चम्यां शुक्लपक्षे तु सत्त्रं चोपरमिष्यते ॥

तत्र वो भविता नन्दस् तेनानन्दो भविष्यति ।

इत्य् उक्त्वा पन्नगान् सर्वान् देवदेवपितामहः ।

जगाम त्रिदिवं भूयो नागाः स्वस्थानम् आस्थिताः ॥

तस्माद् इयं महाराज पञ्चमी दयिता सताम् ।

नागानां हर्षजननीं दत्ता वै ब्रह्मणा पुरा ॥

अपरं ते प्रवक्ष्यामि नियमं पञ्चमीं प्रति ।

यं कृत्वा न बिभेति स्म नरो नागकुलात् क्वचित् ॥

नागान् सौवर्णरौप्यान् वा अथ वा मृण्मयान् नृप ।

नागान् वासुक्स् तक्षकश् चैवेत्यादिप्रथमश्लोकपठितान् ।

करवीरैः शतपत्रैः जातीपत्रैश् च सुव्रत ॥

तथा गन्धप्रधूपैश् च पन्नगान् पूज्य चोत्तमान् ।

ब्राह्मणान् भोजयेत् पश्चाद् घृतपायसमोदकैः ॥

[५६०] कृत्वा तु भोजनं पूर्वं ब्राह्मणानां तु कामतः ।

विसृज्य नागा प्रीयन्तां ये केचित् पृथिवीतले ॥

हिमाचले तु ये विन्ध्ये ये ऽन्तरिक्षे दिविस्थिता ।

ये नदीषु समुद्रेषु ह्रदेषु च सरःसु च ॥

ये वापीषु तडागेषु तेभ्यः सर्वेषु वै नमः ।

नागान् इति नमस्कृत्य विप्रान् पूज्य विसर्जयेत् ॥

ततः स्वयं च भुञ्जीयात् सह भृत्यैर् नराधिप ।

प्रथमं मधुरं भोज्यं स्वेच्छया तदनन्तरम् ॥

एवं नियमयुक्तस्य यत् फलं तन् निबोध मे ।

मृतो नागपुरं याति पूज्यमानो ऽप्सरोगणैः ॥

विमानवरम् आरूढो रमते सूर्यपर्ययम् ।

इह वागत्य राजासौ मण्डलाधिपतिर् भवेत् ॥

सर्वरत्नसमृद्धस् तु वाहनाद्यैश् च जायते ।

पञ्चजन्मानि भूपालो द्वापरे द्वापरे भवेत् ॥

आधिव्याधिविनिर्मुक्तः पुत्रपौत्रसहायवान् ।

तस्मात् पूज्याश् च मान्याश् च घृतपायसगुग्गुलैः ॥

इति भविष्यत्पुराणोक्तम् आनन्दपञ्चमीव्रतम् ।

सुमन्तुर् उवाच ।

नागदष्टो नरो राजन् प्राप्य मृत्युं व्रजत्य् अधः ।

अधोगत्या भवेत् सर्पो निर्विषो नात्र संशयः ॥

[५६१] शतानीक उवाच ।

नागदष्टः पिता यस्य भ्राता च दुहितापि वा ।

माता पुत्रो ऽथ वा भार्या कर्तव्यं तद् वदस्व मे ॥

मौनाय तस्य विप्रेन्द्र दानं व्रतम् उपोषितम् ।

ब्रूहि मे द्विजशार्दूल येन तद् वै करोम्य् अहम् ॥

सुमन्तुर् उवाच ।

उपोष्य पञ्चमीं सम्यङ् नागानां बलवर्धनम् ।

स्वम् एकम् एकं यावच् च विधानं शृणु भारत ॥

स्वम् एकं संवत्सरम् ।

मासि भाद्रपदे राजन् शुक्लपक्षे तु पञ्चमी ।

सापि पुण्यतमा प्रोक्ता ग्राह्यासौ गतिकाम्यया ॥

चतुर्थ्याम् एकभक्तं च तस्यां नक्तं प्रकीर्तितम् ।

तस्यां पञ्चम्याम् उपोष्येति दिवा भोजनवर्जनात् ।

कुर्याच् चान्द्रसमं नागम् अथ वा कलधौतजम् ॥

अथ दारुमयं भव्यं मृण्मयं वाप्य् अशक्तितः ।

चान्द्रसमं सौवर्णम्, कलधौतजं रूप्यमयम् ।

पञ्चम्याम् अर्चयेद् भक्त्या नागं पञ्चपणं तथा ॥

करवीरैस् तथा पद्मैः जातीपुष्पैः सुगन्धिभिः ।

गन्धैर् धूपैः सनैवेद्यैः स्नाप्य क्षीरादिभिर् नृप ॥

ब्राह्मणान् भोजयेत् पश्चाद् घृतपायसमोदकैः ।

अनन्तं वासुकिं शङ्खं पद्मं कम्बलम् एव च ॥

तथा कर्कोटकं नागं नागम् अश्वतरं नृप ।

[५६२] धृतराष्ट्रं शङ्खपालं कालियं (?) तक्षकं तथा ॥

पिङ्गलं च महानागं मासि मासि क्रमाद् यजेत् ।

पूजयित्वा प्रयत्नेन पञ्चम्यां नक्तभुग् भवेत् ॥

एवं द्वादश कृत्वा वै मासि भाद्रपदे नृप ।

वत्सरान्ते यथाशक्त्या महाभाज्यं तु कारयेत् ॥

ब्राह्मणानां यतीनां च नागान् उद्दिश्य भक्तितः ।

इतिहासवेदे नागं काञ्चनं रत्नचित्रितम् ॥

गां च दद्यात् सवत्सां वै सर्वोपस्करसंयुताम् ।

दानकाले पठेद् एतत् स्मरन् नारायणं विभुम् ॥

सर्वगं सर्वधातारम् अनन्तम् अपराजितम् ।

ये केचिन् मे कुले सर्पैः दष्टाः प्राप्ता ह्य् अधोगतिम् ॥

व्रतदानेन गोविन्द मुक्तिभाजो भवन्तु ते ।

इत्य् उच्चार्याक्षतैर् युक्तं तिलचन्दनमिश्रितम् ॥

वासुदेवाग्रतो भूयस् तोयं तोये विनिक्षिपेत् ।

अनेन विधिना सर्वे ये ऽर्चयिष्यन्ति चामृताः ॥

सर्पतस् ते ऽपि यास्यन्ति स्वर्गतिं नृपसत्तम ।

कृत्वा सर्वान् समुद्धृत्य कुलजान् कुलनन्दन ॥

प्रयाति विष्णुसान्निध्यं सेव्यमानो ऽप्सरोगणैः ।

वित्तशाठ्यविहिनो यः सर्वम् एतत् फलं लभेत् ॥

नक्तेन भक्तिसहिताः सितपञ्चमीषु

ये पूजयन्ति भुजगान् कुसुमोपचारैः ।

तेषां गृहेष्व् अभयदा हि भवन्ति सर्पाद्

अर्थान्विता मणिमयूखविभाविताङ्गाः ॥

[५६३]

इति भविष्योत्तरपुराणोक्तं नागदष्टोद्धरणपञ्चमीव्रतम् ।

सुमन्तुर् उवाच ।

तद्वद् भाद्रपदे मासि पञ्चम्यां श्रद्धयान्वितः ।

यस् ताल् लिख्य नरो नागान् कृष्णवर्णादिवर्णकैः ॥

पूजयेद् गन्धधूपैस् तु सर्पिर् गुग्गुलपायसैः ।

तस्य तुष्टिं समायान्ति पन्नगास् तक्षकादयः ॥

आसमासकुलात् तस्य न भयं नागतो भवेत् ।

तस्मात् सर्वप्रयत्नेन न नागान् सम्पूजयेद् बुधः ॥

तथा वाश्वयुजे मासि पञ्चम्यां कुरुनन्दन ।

कृत्वा कुशमयान् नागान् इन्द्राण्या सह पूजयेत् ॥

नागान् पूर्वव्रतोक्तान् अनन्तादीन् ।

शची द्विबाहुः सन्तानमालाहस्ता गजस्थिता ।

घृतोदकाभ्यां पयसा स्नापयित्वा विशाम्पते ॥

गोधूमैः पयसा स्विन्नैर् भक्ष्यैश् च विविधैस् तथा ।

यस् तस्यां विधिवन् नागान् शुचिर् भक्त्या समन्वितः ॥

पूजयेत् कुरुशार्दूल तस्य शेषादयो नृप ।

नागाः प्रीता भवन्तीह शान्तिम् आप्नोति वा विभो ॥

प्रशान्तिलोकम् आसाद्य मोदते शास्वतीः समाः ।

यत्रायं कथ्यते मन्त्रः सदा विषनिषेधतः ॥

ॐ कुरुकुल्ले हुं फट् स्वाहा ।

नक्ते न भक्तिम् अहितं सितपञ्चमीषु

[५६४] ये पूजयन्ति भुजगान् कुशुमोपहारैः ।

तेषां गृहेष्व् अभयदा हि भवन्ति नागाः ।

सर्वे फणामणिमरीचिरुचो भवन्ति ॥

इति भविष्यत्पुराणोक्तं शान्तिपञ्चमीव्रतम् ।

ईश्वर उवाच ।

यो नरः पूजयेद् दिव्यं पञ्चम्यां फाल्गुने सिते ।

पञ्चोपचारविधिना मिताहारो जितेन्द्रियः ॥

न तं दशन्ति फणितो दशवर्षाणि पञ्च च ।

विषं न क्रमते तस्य कुले मातृकुले ऽपि च ॥

तस्मात् तं पूजयेद् यत्नात् पञ्चम्यां च विशेषतः ।

इति स्कान्दे प्रभाषखण्डोक्तम् अनन्तपञ्चमीव्रतम् ।

ईश्वर उवाच ।

श्रावणे मासि पञ्चम्यां शूक्लपक्षे वरानने ।

आरभ्योभयतो लेख्याः गोमयेन विषोल्वना ॥

कृत्वा च कौस्तुभान् नागान् निद्राली च प्रपूजयेत् ।

घृतोदकाभ्यां पयसा स्नापयित्वा वरानने ॥

गोधूमैः पयसा पूज्य लाजभिर् विविधैस् तथा ।

पूजयेद् विधिवद् देवि दिधिदूर्वाङ्कुरैः क्रमात् ॥

[५६५] गन्धपुष्पोपहारैश् च ब्राह्मणानां च तर्पणम् ।

अथ वा श्रावणे मासि पञ्चम्यां श्रद्धयान्वितः ॥

यश् चालेख्य नरो नागान् कृष्णवर्णादिवर्णकैः ।

गुरुकल्पान् तथा वीथ्यां स्वगृहे विलिखेद् बुधः ॥

पूजयेद् गन्धधूपैश् च पयसा पायसेन च ।

तस्य तुष्टिं समायान्ति पद्मकास् तक्षकादयः ॥

आसप्तमात् कुलं तस्य न भयं नागतो भवेत् ।

प्रमुच्यते मन्त्रः सर्पविषं च प्रतिषेवकः ॥

तस्य प्रजपमात्रे तु न विषं क्रमते सदा ।

ॐ कुकुलं हुं फट् स्वाहा।

इत्य् एवं कथितं (?) देवि नागव्रतम् अनुत्तमम् ।

यत् श्रुत्वा च पठित्वा च मुच्यते सर्वपातकैः ॥

इति स्कान्दे प्रभाषखण्डोक्तं सर्पविषापहप्ञ्चमीव्रतम् ।

ईश्वर उवाच ।

मासि भाद्रपदे यापि शुक्लपक्षे तु पञ्चमी ।

सा तु पुण्यतमा प्रोक्ता ख्याता स्वर्गतिकाम्यया ॥

या च द्वादशवर्षैस् तु पञ्चम्यां च वरानने ।

चतुर्थ्याम् एकभक्तं तु तस्यां नक्तं प्रकीर्तितम् ॥

तस्यां पञ्चम्याम् ।

भूरिचन्द्रमयं नागम् अथ वा कलधौतजम् ।

[५६६] कृत्वा धातुमयं वापि अथ वा मृण्मयं प्रिये ॥

पञ्चम्याम् अर्चयेत् शक्त्या नागं पञ्चफणं स्मृतम् ।

करवीरैः शतपत्रैः जातीपुष्पैश् च शोभनैः ॥

गन्धैः पुष्पैश् च धूपैश् च पूजयेन् नागम् उत्तमम् ।

ब्राह्मणान् भोजयेत् पश्चाद् घृतपायसमोदकैः ॥

अनन्तं कर्कोटकं नाम नागम् अश्वतरं नरः ।

धृतराष्ट्रं शङ्खपालं कालिकं तक्षकं तथा ॥

पिङ्गलं च महानागं मासि मासि प्रकीर्तितम् ।

व्रतस्याने पारणं स्यात् क्षीरैर् ब्राह्मणभोजनैः ॥

सुवर्णतारनिष्पन्नं नागं दद्याच् च गां तथा ।

तथा वस्त्राणि देयानि विप्रायामिततेजसे ॥

पूजयेत् पन्नगान् सर्वान् सदा भक्त्या समन्वितः ।

विशेषतस् तु पञ्चम्यां पञ्चम्यां पायसेन च ॥

इति स्कान्दे प्रभाषखण्डे नागपञ्चमीव्रतम् ।

सुमन्तुर् उवाच ।

पञ्चमी सा तिथिर् धन्या सर्वपापहरा शुभा ।

एतस्यां सर्वतो यस् तु कर्माणि परिवर्जयेत् ॥

क्षीरेण स्नापयेन् नागान् ते च यास्यन्ति मित्रताम् ।

[५६७]

इति भविष्यत्पुराणे नागमैत्रीव्रतम् ।

सुमन्तुर् उवाच ।

तथा भाद्रपदे मासि पञ्चम्यां श्रद्दयान्वितः ।

यस् त्व् आलेख्य नरो राजन् कृष्णवर्णादिवर्णकैः ॥

पूजयेद् गन्धधूपैश् च सर्पिभिः फलपायसैः ।

पायसेन घृताढ्येन पूजयित्वा द्विजोत्तमम् ॥

नकं स्वयं तद् अश्नीयाद् यतवाग् वीतमत्सरः ।

तस्य तुष्टिं समायान्ति पन्नगास् तक्षकादयः ॥

आसप्तमं कुलं तस्य न भयं नागतो भवेत् ॥

इति भविष्यत्पुराणोक्तम् आलेख्यपञ्चमीव्रतम् ।

पयोव्रतं तु पञ्चम्यां दत्वा नागं द्विजातये ।

सौवर्णं सर्पजनितं भयं तस्य न जायते ।

एतत् सर्पव्रतं प्रोक्तं सर्वमैत्रीकरं परम् ॥

इति भविष्यत्पुराणोक्तं सर्पपञ्चमीव्रतम् ।

तिलपिष्टमयं कृत्वा गजं हैमविभूषितम् ।

कक्षाङ्कुशयुतं तद्वद् आरोहकसमन्वितम् ॥

तद्वद् इति निरन्तरव्रतोक्तमन्त्रगजस्वरूपं गृह्यत (?) ।

[५६८] नक्षत्रमालासहितं चामरापीठधारिणम् ।

दशनाग्रबद्धनेत्रं रक्तवस्त्रयुगावृतम् ॥

ताम्रपात्र्यां कुण्डके वा कृतदन्ताग्रमोदकम् ।

प्रदद्याद् द्विजदम्पत्योः पूज्य मालाविभूषणैः ॥

कर्णाभरणकम् दद्याद् वस्त्रं च मलवर्जितम् ।

कान्तारतरुरतं ह्य् एतत् कथितं हि युधिष्ठिर ॥

कान्तारगिरिदुर्गेषु तारयत्य् अपि दुःखितान् ।

इह लोके परे चैतन् नात्र कार्या विचारणा (?) ॥

ये कुर्वन्ति दिने पुण्ये व्रतं पौरन्दराह्वयम् ।

तेषां पौरन्दरे लोके वासः स्यात् सुचिरं नृप ॥

दिने पुण्ये पञ्चम्यां प्रकरणवशात् ।

इति भविष्योत्तरोक्तं पौरन्दरव्रतम् ।

लक्ष्मीम् अभ्यर्च्य पञ्चम्याम् उपवासी भवेन् नृपः ।

समान्ते हेमकमलं दद्याद् धेनुसमन्वितम् ॥

स वैष्णवं पदं याति लक्ष्मीर् जन्मनि जन्मनि ।

एतल् लक्ष्मीव्रतं नाम दुःखशोकविनाशनम् ॥

इति यमपुराणोक्तं लक्ष्मीव्रतम् ।

सिताश्व उवाच ।

श्रुतानि देवदेवेश (?) व्रतानि सुबहूनि च ।

साम्प्रतं मे समाचक्ष व्रतं पापप्रणाशनम् ॥

[५६९] ब्रह्मोवाच ।

शृणु राजन् प्रवक्ष्यामि व्रतानाम् उत्तमं व्रतम् ।

ऋषिपञ्चमीति विख्यातं सर्वपापहरं परम् ॥

येन चीर्णेन राजेन्द्र नरकानि व्यपोहति ।

अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् ॥

वैदेहे ऽत्र द्विजवर उतङ्को नाम नामतः ।

तस्य भार्यां सुशीलेति पतिव्रतपरायणा ॥

तस्या अपत्ययुगलं पत्नी हि सुविभूषणम् ।

अधीतवान् सुतस् तस्य वेदान् साङ्गपदक्रमात् ॥

समाने च कुले तेन सुता वापि विवाहिता ।

विवाहितैव सा दैवाद् वैधव्यं प्राप सत्वरम् ॥

तां पालयति ह्य् आस्ते सा सुतां निजपितुर् गृहे ।

तस्या दुःखेन सन्तप्तः सुतं संस्थाप्य वेश्मनि ॥

गङ्गातीरे वनं प्राप्तः सकलत्रस् तया सह ।

स तत्राध्यापयामास शिष्यान् वेदान् द्विजोत्तमः ॥

सुता बहुमतं तस्य पितुः शुश्रूषणे रता ।

शुश्रूषणं ततः कृत्वा परिश्रान्ता कदाचन ॥

निशीथे किल संसुप्ता कृमिराशिर् अजायत ।

तथाविधां च तां दृष्ट्वा विवस्त्रां प्रस्तरं विना ॥

शिष्या निवेदयामासुस् तन्मातुः करुणान्विताः ।

न जानीमो वयं किञ्चिद् देवीं साध्वीं तथाविधाम् ॥

कृमिराशिर् अथो जाता मातः सम्प्रति दृश्यते ।

बजपातसदृक्षं तत् श्रुत्वा शिष्यैर् उदीरितम् ॥

[५७०] सम्भ्रान्तमनसा शीघ्रं तत्समीपम् उपागता ।

सा तां तथाविधां दृष्ट्वा विललाप सुदुह्खिता ।

उरश् च ताडयामास सुतरां मा मोहम् आप च ॥

क्षणेन प्राप्य चैतन्यं ताम् उत्थाप्य प्रमृज्य च ।

समालम्ब्य च बाहुभ्यां निन्ये तत्पितुर् अन्तिकम् ॥

स्वामिन् कथय मे साध्वी केन दुष्कृतकर्मणा ।

निशीथे सम्प्रसुप्तेयं जायते कृमिसङ्कुला ॥

एतत् श्रुत्वा ततो वाक्यम् ऋषिर् ध्यानपरायणः ।

ज्ञात्वा निवेदयामास तस्याः प्राग् जन्मचेष्टितम् ॥

ऋषिर् उवाच ।

प्राग् इयं सप्तमे ऽतीते जन्मनि ब्राह्मणी ह्य् अभूत् ।

तद् अभागा द्रपदे (द्रुपदे?) सञ्जाता च रजस्वला ॥

अस्यास् तत्पापभावेन जायते कृमिवद् वपुः ।

रजस्वला च भावेन युक्ता भवति सानघ ॥

प्रथमे ऽहनित् चाण्डाली द्वितीये ग्रामशूकरी ।

तृतीये रजकी प्रोक्ता चतुर्थे ऽहनि शुध्यति ॥

तथानया सखीसङ्गाद् गतं दृष्टावमानितम् ।

दृष्टव्रतप्रभावेन जाता द्विजकुले ऽमले ॥

अवमानाद् व्रतस्यास्य कृमिराशिभयाधुना ।

एतत् ते कथितं सर्वं कारणं कन्यकाकृते ॥

सुशीलोवाच ।

दर्शनेनापि यस्य स्याद् विप्राणां निर्मल् कुले ।

[५७१] जन्मभुक् मद्विधानां हि जायते ब्रह्मतेजसाम् ॥

अयज्ञया प्रजायन्ते विग्रहे कृमिराशयः ।

महाश्चर्यकरं नाथ तद् व्रतं कथयस्व मे ॥

ऋषिर् उवाच ।

सुशीले शृणु तत् सम्यग् व्रतानाम् उत्तमं व्रतम् ।

येन चीर्णेन सहसा पापाद् अस्माद् विमुच्यते ॥

दुःखचयाभिघातश् च जायते सात्र (?) संशयः ।

कल्याणानि विवर्धन्ते सम्पदश् च निरापदः ॥

नभस्ये शुक्लपक्षे तु यदा भवति पञ्चमी ।

नद्यादिषु तदा स्नानं कृत्वा नियमम् एव च ॥

विधाय नित्यकर्मादि गत्वा द्वारवतीम् ऋषीन् ।

स्नापयेद् विधिवद् भक्त्या पञ्चामृतरसैः शुभैः ॥

द्वारवतीं अग्निहोत्रशालां धूमनिर्गमद्वारैर् बहुभिर् युतत्वात् ।

चन्दनागुरुकर्पूरैर् विलिप्य च सुगन्धिभिः।

पूजयेद् विविधैः पुष्पैर् गन्धधूपादिदीपकैः ॥

समाच्छाद्य शुभैर् वस्त्रैः सोपवीतैर् यथाविधि ।

ततो नैवेद्यसम्पन्नम् अर्घ्यं दद्याच् छुभैः फलैः ॥

अर्घ्यमन्त्रः ।

कश्यपो ऽत्रिर् भरद्वाजो विश्वामित्रस् तु गौतमः ।

जमदग्निर् वसिष्ठश् च सप्तैते ऋषयः स्मृताः ॥

श्रोतव्यम् इदम् आख्यानं शाकाहारं प्रकल्पयेत् ।

स्थातव्यं ब्रह्मचर्येण ऋषिध्यानपरायणैः ॥

[५७२] अनेन विधिना सम्यग् व्रतं चैतत् समाचरेत् ।

यस्य यज् जायते पुण्यं तद् वृणुष्व समाहितः ॥

सर्वव्रतेषु यत् पुण्यं सर्वतीर्थेषु यत् फलम् ।

सर्वदानेषु दत्तेषु तद् अस्य व्रतपारणात् ॥

कुरुते या व्रतं चैतत् सा नारी सुखभागिनी ।

रूपलावण्यसंयुक्ता पुत्रपौत्रादिसंयुता ॥

इह लोके सदैव स्यात् परत्राप्य् अक्षया गतिः ।

व्रतस्यास्य प्रभावेन जातिं स्मरति पौर्विकीम् ॥

इति ब्रह्माण्डपुराणोक्तम् ऋषिपञ्चमीव्रतम् ।

ब्रह्मोवाच ।

नागान् इष्ट्वा तु पञ्चम्यां न विषैर् अभिभूयते ।

स्त्रियं च लभते पुत्रं परमां श्रियम् आप्नुयात् ॥

मूलमन्त्राः स्वसञ्ज्ञाभिर् अङ्गमन्त्राश् च कीर्तिताः ।

पूर्ववत् पद्मपत्रस्थः कर्तव्यश् च तिथीश्वरः ॥

तिथीश्वरो ऽत्र नागः ।

गन्धपुष्पोपहारश् च यथाशक्ति विधीयते ।

पूजा शाठ्येन शाठ्येन कृतापि तु फलप्रदा ॥

आज्यधारासमिद्भिश् च दधिक्षीरान्नमाक्षिकैः ।

पूर्वोक्तफलदो होमो यतः शान्तेन चेतसा ॥

एतद् व्रतं वैश्वानरप्रतिपद्व्रतवद् व्याख्येयम् ।

[५७३]

इति भविष्यत्पुराणोक्तं नागव्रतम् ।

अश्वराड् अमृताज् जातो वातरंहा मनोजवः ।

उच्चैःश्रवाः पूजनीयश् चैत्रशुक्लस्य पञ्चमी ॥

तत्रैव पूज्या गन्धर्वास् तुरङ्गाणां तु बान्धवाः ।

पत्रवाणधराः केचित् केचित् पत्रैश् च संयुताः ॥

भीमश् चित्ररथश् चैव विख्यातः सर्वविद्दषम् ।

तथा सालिशिराः श्रीमान् प्रद्युम्नश् च महायशाः ॥

नारदश् च कलिन्दश् च गन्धर्वश् च हाहा हुहुः ।

सुवाहुस् तुम्बुरुश् चैव तथा चित्ररथः प्रभुः ॥

चित्राङ्गदश् च विख्यातश् चित्रसेनश् च वीर्यवान् ।

सिद्धपूर्णश् च बदरी पर्णाशश् च महायशाः ॥

ब्रह्मचारी रतिगुणः सुपर्णो ऽतिवलस् तथा ।

विश्वावसुः सुरेन्द्रश् च गन्धर्वो ऽतिपराक्रमः ॥

इत्य् एते पूजनीयाः स्युर् गीतैर् उच्चावचैः (?) सुभैः ।

गोदकैः पीलिकाभिश् च परमान्नेन चाक्षतैः ॥

दध्ना गुडेन पयसा शालिपिष्टेन भूरिशः ।

धूपैर् माल्यैस् तथा दीपैर् द्विजानां स्वस्तिवाचनैः ॥

एवं हि पूजिताः सम्यक् तुरगाणां हि बान्धवाः ।

बलम् आयुः प्रयच्छन्ति सङ्ग्रामेष्व् अपराजयम् ॥

आरोग्यं परमां पुष्टिं तथैव च विधीयते ।

[५७४] इति शालिहोत्रहयपञ्चमीव्रतम् ।

सर्वोषध्युदकस्नातः पञ्चम्यां पूज्य पद्मजम् ।

सर्वोपस्करदानं च यः करोति गृहाश्रमे ॥

गृहाटोदूखलं शूर्पं शिलां स्थालीं च पञ्चमीम् ।

गृहाटः पेषणयन्त्रम्, उदूखलं ध्यान्यकण्डनम् ।

उदकुम्भं च पूर्णं च एतेषाम् अनुगं च यत् ।

एतानि गृहिणां गेहे प्रस्थाप्य पुरुषोत्तम ॥

उपस्करकृते नारी न सीदति कदाचन ।

एतद् गृहव्रतं नाम सर्वसौख्यप्रदायकम् ॥

इति भविष्योत्तरोक्तं गृहपञ्चमीव्रतम् ।

पञ्चम्यां पूजनं कृत्वा तथा चन्द्रसमो नरः ।

आयुश् च विपुलां लक्ष्मीं यशश् चाग्र्यं च विन्दति ॥

इति विष्णुधर्मोत्तरोक्तं सौभाग्यव्रतम् ।

पञ्चम्यां पृथिवीं देवीं तथा सम्पूजयेन् नरः ।

तम् एवाप्नोति (?) यत्नेन नात्र कार्या विचारणा ॥

इति विष्णुधर्मोक्तं पृथिवीव्रतम् ।

विश्वेदेवाश् च ये प्रोक्ताः पूर्वम् एव मया दश ।

तेषां सम्पूजनं कृत्वा पञ्चम्यां दिवम् आप्नुयात् ॥

[५७५] वायुपुराणात् ।

क्रतुर् दक्षो वसुः सत्यः कालकामौ विरोचनौ ।

पुरूरवा भाद्रवाश् च विश्वेदेवाः प्रकीर्तिताः ॥

इति विष्णुधर्मोत्तरोक्तं रूपावाप्तिव्रतम् ।

वारुणैः पुस्करस्थां यः पूजां चैव समाचरेत् ।

सर्वकामसमृद्धस्य यज्ञस्य तु फलं लभेत् ॥

वारुणैः पुष्यैः । पुष्करम् उत्तमं तथा पूजाम् अपि कुर्यात् ।

इति विष्णुधर्मोत्तरोक्तं श्रीप्राप्तिव्रतम् ।

चैत्रशुक्लस्य पञ्चम्यां पूजयित्वा यथाश्रियम् ।

सकृद् एवाप्नुयाद् एतत् फलं संवत्सरोदितम् ॥

इति विष्णुधर्मोत्तरोक्तं श्रीव्रतम् ।

उमां मेधां भद्रकालीं तथा कात्यायनीम् अपि ।

धृतिं स्वाहां स्वधाम् ऋद्धिम् अनसूयां तथा क्षमाम् ॥

सुरभीं देवसेनां च वेलां ज्योत्स्नां तथा शचीम् ।

गौरीं वरुणपत्नीं च धूम्राणीं च तथैव च ॥

[५७६] अभीष्टदेवजननीं देवपत्नीं तथैव च ।

पूजयन् कामम् आप्नोति वीतशोको न संशयः ॥

इति विष्णुधर्मोतरोक्तं कामात्रिव्रतम् ।

ऐरावणं वायतुण्डम् उच्चैःश्रवसम् एव च ।

तदा सम्पूजयन् राजन् विजयं समुपाश्नुते ॥

इति विष्णुधर्मोत्तरोक्तं विजयव्रतम् ।

इति श्रीमहार्जाधिराजमहादेवस्य समस्तकरणाधीश्वरसकलविद्याविशारद-

**श्रीहेमाद्रिविरचिते चतुर्वर्गचिन्तामणौ **

व्रतखण्डे पञ्चमीव्रतानि ।

[५७७]

अथ षष्ठीव्रतानि ।

अध्यास्ते सततं यदीयरसना सिंहासनं भारती

यस्योत्फुल्लमनःसरोजनिलयं क्षीरोदशायी विभुः ।

श्लाघ्यं दक्षिणपाणिपल्लवतलं यस्यापि कल्पद्रुमो

हेमाद्रिः स निरूपयत्य् अभिमतं षष्ठीव्रतानां गणम् ॥

विक्रान्त उवाच ।

रूपसम्पदम् आरोग्यं स्वर्गवासं च पुष्कलम् ।

प्राप्नुवन्ति नरा येन नियमं तं वदस्व मे ॥

अगस्त्य उवाच ।

साधु साधु महाप्राज्ञ यत् पृष्टो ऽहं त्वयानघ ।

तत् सर्वं कथयिष्यामि ततः श्रेयो भविष्यति ॥

शृणु पार्थिव वक्ष्यामि सर्वमोक्षप्रदं नृणाम् ।

यच् च गुप्तं पुरा राजन् ब्रह्मविष्ण्विन्द्रदेवतैः ॥

असुराणां च सर्वेषां राक्षसानां तथैव च ।

शङ्करेण पुरा चैतत् षण्मुखाय निवेदितम् ॥

षण्मुखेन समाख्यातं महापातकनाशनम् ।

[५७८] यत् कृत्वा ब्रह्महा गोघ्नः सुरापो गुरुतल्पगः ॥

अगारदाही गरदः सर्वपापरतो ऽपि वा ।

मुच्यते सर्वपापेभ्यो व्रतं श्रुत्वा नरोत्तम ॥

सर्वपुण्यं पवित्रं च नृणाम् अद्भुतनाशनम् ।

उपकाराय लोकानां तथा तव नृपोत्तम ॥

शृणु भूप महापुण्यं व्रतमाहात्म्यम् उत्तमम् ॥

प्रोष्ठपदासिते पक्षे षष्ठी भौमेन संयुता ।

व्यतीपातेन रोहिण्या सा षष्ठी कपिला स्मृता ॥

प्रोष्ठपदो भाद्रपदः । स चात्र दर्शान्तो ग्राह्यः, रोहिणीयोगस्य (?) तत्रैव सम्भवात् ।

द्वितीया तु महापुण्या दुर्लभा व्रतिनः क्वचित् ।

षष्ठी संवत्सरस्यान्ते सा पुनस् तेन संयुता ॥

चैत्रवैशाखयोर् मध्ये सिते पक्षे शुभोदया ।

वैशाखे ऽपि च राजेन्द्र द्वारवत्यां परा स्मृता ॥

यदि हस्ते सहस्रांशुस् तदा कार्यं व्रतं बुधैः ।

अस्यां चैव हुतं दत्तं यत् किञ्चित् प्रतिपादितम् ॥

तस्य सर्वस्य पुण्यस्य सङ्ख्यां वक्तुं न शक्यते ।

यस्मिन् काले भवेद् एतैर् गुणैः षष्ठी युता तदा ॥

पञ्चम्याम् एकभक्तं तु कुर्यात् तत्र विचक्षणः ।

षष्ट्यां प्रातः समुत्थाय कृत्वादौ दन्तधावनम् ॥

जलपूर्णाञ्जलिं कृत्वा इमं मन्त्रम् उदीरयेत् ।

निराहारो ऽद्य देवेश त्वद्भक्तस् त्वत्परायणः ॥

[५७९] पूजयिष्याम्य् अहं भक्त्या शरणं भव भास्कर ।

अर्घ्यं दत्वेति सङ्कल्पं कृत्वा तत्र शुचिस् ततः ॥

स्नानं कृत्वा प्रयत्नेन नद्यां तीर्थे ऽथ वा ह्रदे ।

तडागे दीर्घिकायां वा गृहे वा नियतात्मवान् ॥

देवदारु तथोशीरकुङ्कुमैलामनःशिलाः (?) ।

पत्रकं पद्मकं यष्टी मधु गव्येन पेषयेत् ॥

क्षीरेणालोड्य कल्केन स्नानं कुर्यात् समन्त्रकम् ।

ॐ आपस् त्वम् असि देवेश ज्योतिषां पतिर् एव च ॥

पापं नाशय मे देव वाङ्मनःकायकर्मजम् ।

पञ्चगव्यकृतस्नानं पञ्चभङ्गैस् तु मार्जयेत् ॥

पञ्चभङ्गैः पञ्चपल्लवैः ।

आनयेन् मृत्तिकां शुद्धां स्नानार्थं तु प्रयत्नतः ।

मृत्तिके ब्रह्मपूतासि काश्यपेनाभिमन्त्रिता ॥

पवित्रं कुरु मां नित्यं सर्वपापात् समुद्धर ।

मन्त्रेणानेन वरुणं पूजयेद् बुद्धिमान् नरः ॥

पाशाग्रहस्त वरुण सर्ववारीश्वर प्रभो ।

अद्याहं प्रार्थयामि त्वं पूतं कुरु सुरेश्वर ॥

आदित्यो भाश्करो भानू रविः सूर्यो द्वाकरः ।

प्रभाकरो ऽसि तिमिरो देवः सर्वेश्वरो हरिः ॥

गोमयेनानुलिप्तायां भूम्यां वै कुङ्कुमेन तु ।

मण्डलं सर्वतोभद्रम् आलिखेद् बुद्धिमान् नरः ॥

तत्र मध्ये लिकेत् पद्मम् अष्टपत्रं सुकर्णिकम् ।

[५८०] पूर्वपत्रे न्यसेत् सूर्यम् आग्नेये तपनं न्यसेत् ।

सुवर्णरेतसं याम्ये नैरृत्ये च न्यसेद् रविम् ॥

आदित्यं वारुणे पत्रे वायव्ये च दिवाकरम् ।

सौम्ये प्रभाकरं तत्र सूरम् ईशानपत्रके ॥

तीव्ररश्मिधरं देवं ब्रह्मानं चैव विन्यसेत् ।

आधाररूपिणं देवं मध्यं तु वरुणं न्यसेत् ॥

सहस्ररश्मिं सूर्यं च सूक्ष्मस्थूलगुणान्वितम् ।

सर्वगं सर्वरूपं च मध्ये भास्करम् एव च ॥

सप्ताश्वरथम् आरूढं पद्महस्तं दिवाकरम् ।

अक्षसूत्रधनुःपाणिं कुण्डलैर् मुकुटेन च ॥

रत्नैर् नानाविधैर् युक्तं सौवर्णं तत्र कारयेत् ।

शक्तितस् तु पलाद् ऊर्ध्वं तदर्धं कर्षतो ऽपि वा ॥

सौवर्णं मारुतं कुर्याद् रौक्यं चैव तथा रथम् ।

सप्ताश्वैर् भूषितं कृत्वा रथं तस्याग्रतः स्थितम् ॥

अरुणं विनतापुत्रं गृहीताश्वम् अनूरुकम् ।

एवं रूपं रसं कृत्वा पद्मस्योपरि विनसेत् ॥

तस्योपरि न्यसेद् देवं रक्तवस्त्रविभूषितम् ।

रक्तचन्दनमाल्यादिमण्डितं वातिशोभितम् ॥

अग्रतः सारथिं कृत्वा पूजयेद् अरुणं शुचिः ।

रक्तपुष्पैः सुगन्धैश् च तथान्यैर् अपि शक्तितः ॥

ॐ विनतातनयो देवः कर्मसाक्षी तमोनुदः ।

सप्ताश्वः सप्तरज्जुश् च अरुणो मे प्रसीदतु ॥

मन्त्रेणानेन सम्पूज्य सारथिं तदनन्तरम् ।

[५८१] देवस्य वाचनं कल्प्य प्रभूतादिकपञ्चकम् ॥

प्रभूतं विमलं सारम् आराध्यं परमं शुभम् ।

दीप्ताभिः शक्तिभिश् चैव ततो भानुं प्रपूजयेत् ॥

दीप्ता सूक्ष्मा तथा भद्रा विनता विमलानघा ।

अमोघा वैद्युता चेति नवमी सर्वतोमुखी ॥

अपवित्रः पवित्रो वा सर्वावस्थां गतो ऽपि वा ।

यः स्मरेद् भास्करं देवं स बाह्याभ्यन्तरः शुचिः ॥

शिखायां भास्करं न्यस्य ललाटे सूर्यम् एव च ।

चक्षुर्मध्ये न्यसेद् भानुं मुखे तत्र रविं न्यसेत् ॥

कण्ठे न्यसेद् भानुमन्तं पद्मगर्भं द्विहस्तयोः ।

तिमिरं क्षयकृद् देवं स्तनयोर् एव विन्यसेत् ॥

जातदेवोभिधं नाभ्यां कट्यां भानुं तथा न्यसेत् ।

उग्रसूर्यं गुह्यदेशे तेजोरूपं द्विजङ्घयोः ॥

पादयोः सर्वरूपं तु सूक्ष्मस्थूलगुणान्वितम् ।

एवं यथोक्तं विन्यस्य पात्रं गृह्य तथार्चयेत् ॥

करवीरार्ककुसुमै रक्तचन्दनचम्पकैः ।

पुष्पैः सुगन्धैर् धूपैश् च कुङ्कुमैर् उपशोभितम् ॥

मार्तण्डं भानुम् आदित्यं भास्करं तपनं रविम् ।

हंसं दिवाकरं चेति पादतो मुकुटावधि ॥

पादौ जङ्घे तथा जानुद्वयम् ऊरुं कटिं तथा ।

नाभिवक्षस्थलं शीर्षम् एतेष्व् अङ्गेषु पूजयेत् ॥

आनयेद् अर्घ्यपात्रं तद् रौप्यं वा ताम्रम् एव च ।

अर्घ्यार्थं दैवतं पात्रम् उदकेन प्रपूरयेत् ॥

[५८२] पूजयेत् तत्र प्रागादि देवतास् ताः समाहितः ।

दिग्देवतास् ततः पूज्य गन्धपुष्पानुलेपनैः ॥

पात्रे तोयं समादाय सपुष्पं फलचन्दनम् ।

जानुभ्याम् अवनीं गत्वा सूर्यायार्घ्यं निवेदयेत् ॥

वेदगर्भ नमस् तुभ्यं वेदगर्भ नमो ऽस्तु ते ।

अव्यक्तमूर्तये तुभ्यम् अर्घ्यं गृह्ण नमो ऽस्तु ते ॥

ब्रह्ममूर्तिधर्मोमेश चतुर्वक्त्र सनातन ।

सृष्टिस्थितौ संस्थिताय गृहाणार्घ्यं नमो ऽस्तु ते ॥

विष्णुरूपधरो देवः पीतवस्त्रश् चतुर्भुजः ।

प्रभवः सर्वलोकानाम् अर्घ्यं गृह्ण नमो ऽस्तु ते ॥

यं रुद्ररूपिणं देवं भगवन्तं त्रिशूलिनम् ।

यो दहेच् च त्रिलोके वै अर्घ्यं गृह्ण नमो ऽस्तु ते ॥

त्वं ब्रह्मा त्वं च विष्णुश् च रुद्रस् त्वं च प्रजापतिः ।

त्वम् एव सर्वभूतात्मा अर्घ्यं गृह्ण नमो ऽस्तु ते ॥

कालात्मा सर्वभूतात्मा वेदात्मा सर्वतोमुखः ।

जन्ममृत्युजराशोकसंसारभयनाशनः ॥

दारिद्र्यव्यसनध्वंसी श्रीमान् देवो दिवाकरः ।

सुवर्णस्फटिको भानुः स्वर्णरेता देवाकर ॥

हरिदश्वो ऽंशुमाली च अर्घ्यं गृह्ण नमो ऽस्तु ते ।

चतुर्भिर् मूर्तिभिः संस्थाम् अष्टाभिः परिगीयते ॥

चतुर्भिर् मूर्तिभिः संस्थाम् अष्टाभिः परिमीयते ।

सामध्वनिस्रयो यज्ञे अर्घ्यं गृह्ण नमो ऽस्तु ते ॥

अथ गन्धं च पुष्पं च तथा धूपं च दीपकम् ।

[५८३] नैवेद्यं च यथाशक्त्या प्रार्थयेत् सूर्यदेवताम् ॥

अग्निम् ईऌए नमस् तुभ्यं नमस् ते जातवेदसे ।

ईषे चैव नमस् तुभ्यम् अग्ने चैव नमो नमः ॥

शन् नो देवी नमस् तुभ्यं जगज्जन्म नमो नमः ।

आत्मरूपिन् नमस् तुभ्यं विश्वमूर्त्ते नमो नमः ॥

त्वं ब्रह्मा त्वं च वै विष्णुस् त्वं धाता त्वं हुताशनः ।

मुक्तिकामम् अभीप्स्यामि प्रार्थयामि सुरेश्वर ॥

विश्वतश् चक्षुर् आख्यातो विश्वतश् चरणानन ।

विश्वात्मा सर्वतो देवः प्रार्थयामि सुरेश्वर ॥

इति मन्त्रं समुच्चार्य नमस् कुर्वीत भास्करम् ।

संवर्चसेति पाणिभ्यां तोयेन विस्रजेन् (?) मुखम् ॥

हंसः शुचिषाद् इत्य् ऋचा सूर्यस्यैवावलोकनम् ।

उद् उ त्यं चित्रम् इत्य् एतत् सूक्तं देवाग्रतो जपेत् ॥

प्रथमे चैव कोणे तु फलं चैव च कारयेत् ।

फलैः पुष्पैर् अक्षतादिभक्ष्यैर् नानाविधैर् अपि ॥

शय्यां तत्र च देवस्य शुभे देशे प्रकल्पयेत् ।

षट्धान्यं षड्रसं देवं रौप्यं चैव महाप्रभुम् ॥

पुरुषं खड्गहस्तं च कारयेच् चैव बुद्धिमान् ।

वस्त्रयुग्मेन सञ्छन्नं लवणोपरि विन्यसेत् ॥

अनेनैव च मन्त्रेण स्नानम् अर्घार्चनं ततः ।

नमस् ते क्रोधरूपाय खड्गहस्तजिघांसवे ॥

जिघांसकामस् त्वां दृष्ट्वा जुहुवुः सर्वदेवताः ।

त्वया व्याप्तं मेरुपृष्ठं चण्डभास्करसुप्रभम् ॥

[५८४] अतस् त्वां पूजयिष्यामि अर्घ्यं गृह्ण नमो ऽस्तु ते ।

क्षपयित्वा ततो रात्रिं गीतवादित्रनिस्वनैः ॥

ततस् त्व् अभ्युदिते सूर्ये होमं कुर्यात् स्वशक्तितः ।

पूजयेत् तत्र शक्त्या च देवांश् च विधिवद् गुरुम् ॥

होमो ऽर्कस्य समिद्भिश् च घृतमिश्रैस् तिलैस् तथा ।

संसिद्धचरुकं चैव घृतं च जुहुयाद् द्विजः ॥

आकृष्णेनेति मन्त्रेण शतम् अष्टोत्तरं शतम् ।

होमो व्याहृतिभिश् चाथ स्विष्टकृत् तदनन्तरम् ।

कपिलां पूजयेद् देवीं सवत्सां पापनाशिनीम् ॥

वस्त्रयुग्मां सघण्टां च स्वर्णशृङ्गविभूषिताम् ।

सुवर्णास्यां रौप्यखुरां कांस्यदोहनकल्पिताम् ॥

मन्त्रेणानेन तां दद्याद् ब्राःमणाय च शक्तितः ।

कपिले सर्वदेवानां पूजनीयासि रोहिणी ॥

सर्वतोऽर्थमयी यस्माद् अतः शाण्तिं प्रयच्छ मे ।

या लक्ष्मीः सर्वदेवानां या च देवेष्व् अवस्थिता ॥

धेनुरूपेण सा देवी मम शान्तिं प्रयच्छतु ।

देहस्था या च रुद्राणां शङ्करस्य च या प्रिया ॥

धेनुरूपेण सा देवी मम पापं व्यपोहतु ।

विष्णोर् वक्षसि या लक्ष्मीः (?) स्वाहा चैव विभावसोः ॥

चन्द्रार्कानलशक्तिर् या धेनुरूपास् तु सा श्रिये ।

चतुर्मुखस्य या लक्ष्मीर् या लक्ष्मीर् धनदस्य च ॥

[५८५] लक्ष्मीर् या लोकपालानां सा धेनुर् वरदास् तु मे ॥

स्वधा त्वं पितृमुख्यानां स्वाहा यज्ञभुजाम् अपि ।

वषट् या प्रोच्यते लोके सा धेनुस् तुष्टिदास् तु मे ॥

गावो मे अग्रतः सन्तु गावो मे सन्तु पृष्ठतः ।

गावो मे हृदये सन्तु नवां मध्ये वसाम्य् अहम् ॥

गोपूजनमन्त्रः ।

गावः स्पृष्ट्वा नमस् कृत्य यो वै कुर्यात् प्रदक्षिणम् ।

प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥

नमस् ते कपिले देवि सर्वपापप्रणाशिनि ।

संसारार्णवमग्नं मां गोमातस् त्रातुम् अर्हसि ॥

गोदानमन्त्रः ।

हिरण्यगर्भगर्भस् त्वं हेमबीजं विभावसोः ।

अनन्तपुण्यफलदम् अतः शान्तिं प्रयच्छ मे ॥

अलङ्कारदानमन्त्रः ।

रक्तवस्त्रयुगं यस्माद् आदित्यस्य च वल्लभम् ।

प्रदानात् तस्य मे सूर्य अतः शान्तिं प्रयच्छतु ॥

वस्त्रदानमन्त्रः ।

सुवर्णं वस्त्रयुग्मं च परिधानं च कार्येत् ।

सुवर्णम् अलङ्कारं परिधानं यथास्थानधृतं कारयेत् परिग्राहकेण ।

एतैः प्रकारैः संयुक्तां दद्याद् धेनुं द्विजातये ।

भानुं सदक्षिणं दद्यान् मन्त्रेणानेन यत्नतः ॥

भास्करो विधितो जातो द्रव्यस्थो भास्करः स्वयम् ।

भास्करस्य प्रदाता च तेन वै भास्करो मम ॥

दानमन्त्रः ।

भास्करं प्रतिगृह्णामि भास्करो वै ददति च ।

भास्करस् तारकोभाभ्यां तेन वै भास्करो मम ॥

प्रतिग्रहमन्त्रः ।

ब्राह्मणान् भोजयेत् पश्चात् पायसेन गुडेन च ।

शक्त्या च दक्षिणां दद्यात् तेभ्यश् चैव विशेषतः ॥

अल्पवित्तो ऽपि यः कश्चित् सो ऽपि कुर्याद् इमं विधिम् ।

आत्मशक्त्यनुसारेण सो ऽपि तत् फलम् आप्नुयात् ॥

आचार्यस्य ततो भक्त्या सर्वप्राणैर् विनिक्षिपेत् ।

गोभूहिरण्यवासांसि व्रीहयो लवणं तिलाः ॥

एतत् सर्वं प्रदत्वा च कपिलां प्रार्थयेत् ततः ।

कपिले पुण्यकर्मासि निष्पापे पुण्यकर्मणि ॥

मां समुद्धर दीनं वाददतो ह्य् अभयं कुरु ॥

अददतो अदातुर् अपि ।

दिव्यवादित्रशब्दैश् च सेव्यसे कथिता सदा ।

तथा विद्याधराः सिद्धा भूतनागगणा ग्रहाः ॥

कपिला रोमसङ्ख्यातास् तत्र देवाः प्रतिष्ठिताः ।

पुष्पवृष्टिं प्रमुञ्चन्ति नित्यम् आकाशम् आस्थिताः ॥

ब्रह्मनोत्पादिता देवी अग्निकुण्डा तु सुप्रभा ।

नमस् ते कपिले पुण्ये सर्वदेवनमस्कृते ॥

[५८७] जय नित्यमहासत्वे सर्वतीर्थादिमङ्गले ।

दातारं स्वजनोपेतं ब्रह्मलोकं नयाशु वै ॥

दातारं व्रताङ्गानाम् ।

प्रदक्षिणं ततः कृत्वा नत्वा ब्राह्मणपुङ्गवान् ।

आशीर्वादान् वदेयुस् ते पुत्रपौत्रधनागमान् ॥

आरोग्यं रूपसौभाग्यं सर्वदुःखविवर्जितः ।

अन्ते गोलोकम् आसाद्य विरायुः सुखभाग् भवेत् ॥

यदा स्वर्गात् प्रपतति राजा भवति धार्मिकः ।

सप्तद्वीपवतीं भुङ्क्ते भुक्त्वा राज्यम् अकण्टकम् ॥

अहो व्रतम् इदं पुण्यं सर्वदुःखप्रणाशनम् ।

अतः परं प्रवक्ष्यामि दानस्य फलम् उत्तमम् ॥

महावेदमये पात्रे सद्वृत्ते साक्षयं भवेत् ।

व्रतं सर्वव्रतश्रेष्ठम् इदम् अग्र्यं महाफलम् ॥

तारयिष्यति दातारं नूनम् अक्षयम् अव्ययम् ।

एवं देवगणाः सर्वे भूतसङ्घाश् च हर्षिताः ॥

आकाशस्थाः प्रनृत्यन्ति पुण्ये ऽस्मिन् दिवसागमे ।

पात्रभूताय ऋषये श्रोत्रियाय कुटुम्बिने ॥

एवं यः कपिलां दद्याद् विधिदृष्टेन कर्मणा ।

स याति परमं स्थानं यावन् न च्यवते पुनः ॥

स्कान्दे प्रभासखण्डे तु विशेषः ।

उपलिप्ते शुभे देशे पुष्पाक्षतविभूषिते ।

स्थापयेद् अव्रणं कुम्भं चन्दनोदकपूरितम् ॥

[५८८] पञ्चरत्नसमायुक्तं दूर्वापुष्पाक्षतान्वितम् ।

रक्तवस्त्रयुगछत्रं ताम्रपात्रेण संयुतम् ॥

रथो रौक्मफलस्यैव एकचक्रः सुचित्रितः ।

सौवर्णफलसंयुक्तां मूर्तिं सूर्यस्य कारयेत् ॥

कुम्भस्योपरि संस्थाप्य गन्धपुष्पैस् तथार्चयेत् ।

आदित्यं पूजयेद् देवं नामभिः स्वैर् यथोदितैः ॥

आदित्य भास्कर रवे भानो सूर्य दिवाकर ।

प्रभाकर नम तुभ्यं संसारान् मां समुद्धर ॥

भुक्तिमुक्तिप्रदो यस्मात् तस्माच् छान्तिं प्रयच्छ मे ॥

प्रार्थनमन्त्रः ।

नमो नमस् ते वरद ऋक्सामयजुषां पते ।

नमस् ते विश्वरूपाय विश्वधाम्ने नमो ऽस्तु ते ॥

एवं सम्पूज्य विधिवद् देवदेवं दिवाकरम् ।

पूजयेत् कपिलां धेनुं वस्त्रमाल्यानुलेपनैः ॥

दानमन्त्रः ।

दिव्यमूर्तिर् जगच्चक्षुर् द्वादशात्मा दिवाकरः ।

कपिलासहितो देवो मम मुक्तिं प्रयच्छतु ॥

तस्मात् त्वं कपिले पुण्या सर्वलोकस्य पावनी ।

प्रदत्ता सह सूर्येण मम मुक्तिप्रदा भव ॥

इति स्कन्दपुराणोक्तं कपिलाषष्ठीव्रतम् ।

ईश्वर उवाच ।

चैत्रशुक्लात् समारभ्य व्रतार्थम् अधुनोच्यते ।

उपोष्य विधिना षष्ठीं विशेषात् षण्मुखं यजेत् ॥

[५८९] मृण्मयीं प्रतिमां रम्यां तदा कुर्याद् विशेषतः ।

षण्मुखं द्वादशभुजं बालवत् काञ्चनप्रभम् ॥

मयूरवाहनं देवं सौम्यं लावण्यपूरितम् ।

शक्तिघण्टापताकास्त्रपाशकुक्कुटभूषितम् ।

दण्डाभयं सवरदं खड्गेषुधिशरासनम् ।

सम्पूज्य परया भक्त्या शुक्लपुष्पोपचारकैः ॥

नैवेद्यं गन्धवस्त्राणि सूक्लान्य् एव प्रदापयेत् ।

ब्राह्मीरसं समादाय कपिलाज्यफलं तथा॥

सारस्वण्मनुनामन्त्र्य सहस्राष्टोत्तरेण् अतु ॥

सारस्वण्मनुना सरस्वतीमन्त्रेण ।

आचार्यं पूजयेद् भक्त्या वस्त्रहेमान्नवाहनैः ।

ब्राह्मीरसघृतं पश्चाद् व्रतान्ते प्राशनं हितम् ॥

मासि मासि प्रकर्तव्यं यावत् संवत्सरावधि (?) ।

ब्रह्मचर्येण शुचिना अब्दम् एकं समाचरेत् ॥

महाकविर् भवेत् सो ऽपि भुवि वाचस्पतिर् यथा ।

सकृद् गृह्णाति शास्त्राणि वादिनां मूर्ध्नि तिष्ठति ॥

रक्षोविनायकास् तस्य न हिंसन्ति कदाचन ।

स्कन्दग्रहा महाघोरास् तथापस्मारदुर्ग्रहाः ॥

न हिंसन्ति महासेनव्रतस्यास्य प्रभावतः ।

इदं व्रतोत्तमं श्रेष्ठं कर्तव्यं भूतिवर्धनम् ॥

षण्मुखं पार्वतीपुत्रं गुहं स्कन्दं कुमारकम् ।

कार्तिकेयं तथा बालं तथा क्रौञ्चनिसुदनम् ॥

तारकारातिसञ्ज्ञं च तथान्यं कृत्तिकासुतम् ।

[५९०] वैशाखं च विशाखञ्च मासि मासि प्रपूजयेत् ॥

सूर्यं सूर्यकलायुक्तं शिशिना मूर्ध्नि भूषितम् ।

क्रमेण मन्त्रा बोद्धव्या द्वादशानां शिखिध्वज ॥

इति कालोत्तरोक्तं कुमारषष्ठीव्रतम् ।

स्कन्द उवाच ।

प्राप्तराज्यं च राजानं धर्मपुत्रं युधिष्ठिरम् ।

कदाचिद् आययौ द्रष्टुं दुर्वासा मुनिसत्तमः ॥

तं पप्रच्छ महातेजा धर्मसूनुः कृताञ्जलिः ।

तद् व्रतं (?) श्रोतुम् इच्छामि कर्तुं च मुनिसत्तम ॥

दुर्वासा उवाच ।

शृणु राजन् महाभाग व्रतानाम् उत्तमं व्रतम् ।

अस्तीह यच् चीर्णमात्रात् सर्वकामांस् तु पूरयेत् ॥

सर्वपापक्षयं कुर्याद् अखण्डितव्रतो ह्य् अपि ।

यदि लभ्येत जीवे ऽह्नि दैवेन नृपसत्तम ॥

षष्ठी भाद्रपदे शुक्ला वैधृतेन समन्विता ।

विशाखा भौमयोगेन सा चम्पेतीह विश्रुता ॥

देवासुरमनुष्याणां दुर्लभा षष्टिहायनी ।

कृते त्रेतायां पञ्चाशद्धायनी द्वापरे पुनः ॥

चत्वारिंशत् कलौ त्रिंशद्धायनी दुर्लभा ततः ।

आदौ कृतयुगे पूर्वं या चीर्णा विश्वकर्मणा ॥

तत्फलाद् विश्वकर्तृत्वं प्राजापत्यम् अवाप्तवा ।

[५९१] पृथुना कार्तवीर्येण भुवा नारायणेन च ॥

ईश्वरेणोमया सार्धम् इतरेतरलिप्सया ।

यश् चैनां विधिवत् कुर्यात् सो ऽनन्तं फलम् अश्नुते ॥

युधिष्ठिर उवाच ।

तद्विधिं श्रोतुम् इच्छामि विस्तराद् गदतो मुने ।

के मन्त्राः के च नियमाः सापि किंलक्षणा भवेत् ॥

दुर्वासा उवाच ।

द्विदैवत्यर्क्षभौमेन वैधृतेन सुमन्विता ।

नभस्ये वासिता षष्ठी सा चम्पेति निगद्यते ॥

द्विदैवत्यर्क्षं विशाखा ।

पञ्चम्यां नियमं कुर्याद् उपवासस्य च व्रति ।

उपवासस्याङ्गभूतनियमम् एकभक्तं कुर्याद् इत्य् अर्थः ।

चम्पाषष्ठीव्रतं कुर्याद् यथोक्तवचनाद् गुरोः ।

ततः प्रभाते विमले दन्तधावनपूर्वकम् ॥

कृत्वा सम्यग् व्रतं तस्य सङ्कल्पं कुरुते नरः ।

सम्यक् कृत्वा सर्वाङ्गोपेतव्रतनिष्पादनशक्तिं निर्धार्य ।

निराहारो ऽद्य देवेश त्वद्भक्तस् तत्परायणः ।

पूजयिष्याम्य् अहं भक्त्या शरणं भव भास्कर ॥

सङ्कल्पमन्त्रः ।

ततः स्नानं प्रकुर्वीत नद्यादौ विमले जले ।

मृदम् आलभ्य मन्त्रैश् च तिलैः शुक्लैश् च मन्त्रवित् ॥

सावित्रः परमस् त्वं हि परं धाम जले मम ।

त्वत्तेजसा परिभ्रष्टं पापं यातु सहस्रधा ॥

[५९२] प्रार्थनमन्त्रः ।

आपस् त्वम् असि देवेश ज्योतिषां पतिर् एव च ।

पापं नाशय मे देव वाङ्मनःकर्मभिः कृतम् ॥

स्नानमन्त्रः ।

ततः सन्तर्पयेद् देवान् ऋषीन् पितृगणान् अपि ।

ततश् चेत्य गृहं मौनी पाषण्डालापवर्जितः ।

स्थण्डिलं कारयेच् छुभ्रं चतुरस्रं सुशोभनम् ।

स्थापयेद् अव्रणं कुम्भं पञ्चरत्नसमन्वितम् ॥

रक्तवस्त्रयुगछन्नं रक्तचन्दनचर्चितम् ।

तस्योपरि न्यसेत् पात्रं सौवर्णं ताम्रम् एव वा ॥

कुङ्कुमेन लिखेत् पद्मं द्वादशारं सकर्णिकम् ।

तस्योपरि न्यसेत् सूर्यं सौवर्णं सरथारुणम् ॥

शक्त्या वा वित्तसारेण वित्तशाठ्यविवर्जितः ।

तम् अर्चयेद् गन्धपुष्पैर् विधिमन्त्रपुरःसरम् ॥

पञ्चामृतेन स्नपनं कुर्याद् अर्कस्य संयतः ।

ततस् तु गन्धतोयेन परां पूजां समाचरेत् ॥

गन्धैर् नानाविधैर् दिव्यैः कर्पूरागुरुकुङ्कुमैः ।

फलैस् तद् अनुसम्भूतैर् अनेकैश् च सुगन्धिभिः ॥

मण्डपं कारयेत् तत्र पुष्पमालाविभूषितम् ।

यथाशोभं प्रकुर्वीत अधश् चोपरिसर्वतः ॥

ततस् तु पूजयेद् देवं भास्करं कमलोपरि ।

आदित्याय नमः । तपनाय नमः । पुष्णे नमः । भानुमते नमः । भानवे नमः । अर्यम्ने नमः । विश्ववक्ताय नमः । अंशुमते नमः । **[५९३]** सहस्रांशवे नमः । खनायकाय नमः । मुकराय नमः । सूर्याय नमः । खगाय नमः।

एषु प्रथमेन मन्त्रेण मध्ये पूजनम् इतरैर् द्वादशभिः पूर्वादिदलक्रमेण पूजनम् ।

आदित्यप्पूजामन्त्रः ।

जन्मान्तरसहस्रेण दुष्कृतं यन् मया कृतम् ।

तत् सर्वं नाशम् आयातु दिवाकर तवार्चनात् ॥

प्रार्थनमन्त्रः ।

विनतातनयो देवः कर्मसाक्षी तमोनुदः ।

सप्ताश्वः (?) सप्तरज्जुश् च अरुणो मे प्रसीदतु ॥

रथपूजामन्त्रः ।

ततः सम्पूजयेद् देवम् अच्युतं तद्रथस्थितम् ।

अष्टाक्षरेण मन्त्रेण गन्धपुष्पादिभिः क्रमात् ॥

अष्टाक्षरो घृणिमन्त्रः सम्प्रदायाद् अवगन्तव्यः ।

कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः ।

जन्ममृत्युजरारोगसंसारभयनाशनः ॥

सूर्योदये अर्घ्यमन्त्रः ।

ततः सम्पूजयेच् छुक्लां सवत्सां गां पयस्विनीम् ।

सवस्त्रकण्ठाभरणां सृग्घण्टाभिर् (?) अलङ्कृताम् ॥

ब्रह्मणोत्पादिते देवि सर्वपापविनाशिनि ।

संसारार्णवमग्नं मां गोमातस् त्रातुम् अर्हसि ॥

[५९४] सुरूपा बहुरूपाश् च मातरो लोकमातरः ।

गावो माम् उपसर्पन्तु सरितः सागरं यथा ॥

या लक्ष्मीः सर्वदेवानां या च देवेषु संस्थिता ।

धेनुरूपेण सा देवी मम पापं व्यपोहतु ॥

या लक्xमीर् लोकपालानां या लक्ष्मीर् धदस्य च ।

चन्द्रार्कशक्रशक्तिर् या सा धेनुर् वरदास् तु मे ॥

धेनुपूजामन्त्रः ।

तिलहोमं ततः कुर्यात् सावित्र्याष्टोत्तरं शतम् ।

ततस् तां कल्पयेद् धेनुम् अर्को मे प्रीयताम् इति ॥

आचार्याय ततो दद्याद् आदित्यं सरथारुणम् ।

सकुम्भरत्नवस्त्रैश् च सर्वोपस्करणैः सह ॥

ददामि भानुं भवते सर्वोपस्करसंयुतम् ।

मनोऽभिलषितावासं करोतु मम भास्करः ॥

दानमन्त्रः ।

गृह्णामि भास्कर रवे अनन्त विश्वतोमुख ।

मनोऽभिलषितावाप्तिम् उभयोः कर्तुम् अर्हसि ॥

प्रतिग्रहमन्त्रः ।

सर्वतोऽर्थमयीं धेनुं सर्वयज्ञमयीं शुभाम् ।

सर्वदानमयीं देवीं ब्राह्मणाय ददाम्य् अहम् ॥

गोदानमन्त्रः ।

गृह्णामि सुरभिं देवीं सर्वयज्ञमयीं शुभाम् ।

[५९५] उभौ पुनीहि वरदे उभयोस् तारिका भव ॥

प्रतिग्रहमन्त्रः ।

ततस् तु भोजयेद् विप्रान् द्वादशैव स्वशक्तितः ।

दद्याच् च दक्षिणां तेभ्यः प्रणिपत्य विसर्जयेत् ॥

अवैकल्यं व्रतं तस्य सा धेनुर् द्विजसत्तमः ।

अभिनन्दतु ह्य् आशीर्भिर् अभिरम्येरनिन्दिता (?) ।

ततस् तु स्वयम् अश्नीयाद् द्विजानां शेषम् इष्टवान् ॥

सह पुत्रैः कलत्रैश् च अन्यैर् बहुजनैर् वृतः ।

एवं यः कुरुते चम्पां सो ऽत्यन्तं फलम् अश्नुते ॥

प्रभूणां च विधिः प्रोक्तस् तत्प्रभूणां च गोचरः ।

सर्वैर् ह्य् एतद् व्रतं कार्यं स्वशक्त्या दुःखभीरुभिः ॥

प्रभुः प्रथमकल्पस्य यो ऽनुकल्पेन वर्तते ।

विफलं तस्य तत्र स्याद् अनीशस् त्व् अनुकल्पिकः ॥

पञ्चम्यां नियमं कुर्याद् आचार्यवचनाद् व्रती ।

षष्ट्यां स्नानं प्रकुर्वीत सन्तर्प्य पितृदेवताः ॥

अभ्येत्य स्वगृहं मौनी सूर्यं मनसि चिन्तयेत् ।

स्थापयेद् अव्रणं कुम्भं मृत्पात्रं च तथोपरि ॥

तस्योपरि न्यसेत् सूर्यं पलैकेन विनिर्मितम् ।

सौवर्णं भक्तिसंयुक्तं वित्तसारं तथारुणम् ॥

तम् अर्चयेज् जगन्नाथं गृहीत्वाज्ञां गुरोः स्वयम् ।

षडक्षरेण मन्त्रेण गन्धपुष्पानुसम्भवम् ॥

[५९६] ॐ नमः सूर्यायेति मन्त्रः ।

सम्पूज्य विधिवद् देवं फलपुष्पादिकं च यत् ।

सूर्यायावेदयेत् सर्वं सूर्यो मे प्रीयताम् इति ॥

ततः प्रभाते विमले गत्वा गुरुगृहं व्रती ।

सर्वोपकरणैः सूर्यम् आचार्याय निवेदयेत् ॥

धान्यं पुष्पं फलं वस्त्रं रत्नं गवादिकं च येत् ।

गवां कोटिसहस्रेण कुरुक्षेत्रे ऽर्कपर्वणि ॥

चम्पादानस्य राजेन्द्र कलां नार्हन्ति षोडशीम् ।

सर्वतीर्थप्रदानानि तथान्यान्य् अपि षोडश ॥

चम्पायास् तुलना पार्थ चम्पैका त्व् अतिरिच्यते ।

आदित्यस् तपनः पूषा भानुमान् भानुर् अर्यमा ॥

विश्ववक्त्रो ऽंशुमान् देवः सहस्रांशुः खनायकः ।

सूरः सूर्यः खगः पूज्यः पूर्वपत्रादिषु क्रमात् ॥

देव इत्य् अंशुमतो विशेषणम् । आसिदित्यो मध्ये पूज्यस् तपनादयः पूर्वपत्रादिषु पूज्या इत्य् अर्थः । पञ्चम्याम् इत्यादिना पुनर् व्रतविधिर् धनहीनविषयः ।

इति स्कन्दपुराणोक्तं चम्पाषष्टीव्रतम् ।

कृष्ण उवाच ।

मार्गशीर्षे सिते पक्षे षष्ठी भरतसत्तम ।

पुण्या पापहरा ज्ञेया शिवा शीता गुहप्रिया ॥

[५९७] निहत्य तारकं षष्ठ्यां गुहस् तारकराजवत् ।

रराज तेन दयिता कार्त्तिकेयस्य सा तिथिः ॥

स्नानदानादिकं कर्म तस्याम् अक्षयम् उच्यते ।

ये ऽस्यां पश्यन्ति गाङ्गेयं दक्षिणाशां समाश्रितम् ॥

ब्रह्महत्यादिपापैस् ते मुच्यन्ते नात्र संशयः ।

तस्माद् अस्यां सोपवासः कुमारं स्वर्णसम्भवम् ॥

राजतं च महाराज मृण्मयं चाथ दारुजम् ।

कारयित्वार्थसारेण कामामर्षविवर्जितः ॥

अपराह्णे ततः स्नात्वा सम्यग् आचम्य बुद्धिमान् ।

पद्मासनस्थं गाङ्गेयं ध्यायंस् तिष्ठेच् च शक्तितः ॥

ब्राह्मणस् तु ततो विद्वान् गृहीत्वा करकन् नवं ।

दक्षिणास्यः स्वशिरसि धारां चैव निपातयेत् ॥

दन्द्रमण्डालसम्भूता भवभूतिपवित्रिता ।

गङ्गाकुमार धारेयं पातिता तव मस्तके ॥

एवं ध्यात्वा समभ्यर्च्य मार्तण्डमण्डलं दिवः ।

पुष्पधूपादिना पश्चात् पूजयेत् कृत्तिकासुतम् ॥

देव सेनापते स्कन्द कार्त्तिकेय भवोद्भव ।

कुमार गुह गाङ्गेय शक्तिहस्त नमो ऽस्तु ते ॥

एभिर् नामपदैः पूज्य नैवेद्यं विनिवेदयेत् ।

फलानि पनसादीनि दक्षिणाशाभवानि वै ॥

चन्दनं मलयोद्भूतं कर्पूरं स्वामिवल्लभम् ।

पार्श्वस्थौ पूजयेच् छागकुक्कुतौ सर्वदा प्रियौ ॥

[५९८] सकलापन् (?) मयूरं च प्रत्यक्षं हेमजं तथा ।

कृत्तिका शकटं पार्श्वे सम्पूज्य स्कन्दवल्लभम् ॥

तैर् एव नामभिर् होमः कार्यः साज्यैस् तिलैस् ततः ।

एवं निर्वर्त्य विधिवत् पलम् एकं युधिष्ठिर ॥

प्राशयित्वा स्वपेद् रात्रौ क्षितिस्थे दर्भसंस्तरे ।

नालिकेरं मातुलङ्गं नारङ्गं पनसं तथा ॥

जम्बीरं दाडिमं द्राक्षां श्रीफलामलकं तथा ।

कदल्याश् च फलं हृद्यं त्रपुषं क्रमशो नृप ॥

प्रतिमासं प्राशयित्वा मासम् एकं विवर्जयेत् ।

अलाभे देशकालोत्थैः फलैर् द्वादशभिः क्रमात् ॥

सम्पूर्णं जायते राजन् नक्तभुक्तस्य नान्यथा ।

प्रत्यक्षो हेमघटितः छागो वा कुक्कुटो ऽथ वा ॥

प्रातर् दद्याद् वाचकाय सेनानीः प्रियताम् इति ।

सेनानीश्वरसम्भूतः क्रौञ्चारिः षण्मुखो गुहः ॥

गाङ्गेयः कार्त्तिकेयश् च स्वामी बालो ग्रहाग्रणीः ।

छागप्रियः शक्तिधरः कुमारो द्वादश स्मृताः ॥

प्रीयताम् इति सर्वेषु क्रमान् मासेषु कीर्तयेत् ।

ब्राःमणान् भोजयित्वादौ पश्चाद् भुञ्जीत वाग्यतः ॥

एवं संवत्सरस्यान्ते कार्त्तिके मासि भारत ।

कार्त्तिकेयं समभ्यर्च्य वासोभिर् भूषणैस् तथा ॥

प्रतिमासम् अशक्तो यः सकृद् एतत् समाचरेत् ।

संअत्सरविधानेन पूजाहोमपुरःसरम् ॥

दद्यात् सर्वं द्विजेन्द्राय वाचकाय विशेषतः ।

[५९९] पारिते ऽस्मिन् ग्रते पार्थ तीर्णः स्याद् भवसागरात् ॥

य एवं कुरुते भक्त्या नरो योषिद् अथापि वा ।

सम्प्राप्येह शुभान् कामान् गच्छतीन्द्रसलोकताम् ॥

सदैव पूजनीयस् तु कार्त्तिकेयो महाभुजः ।

कार्त्तिकेयाद् ऋते नान्यो राज्ञां पूज्यः प्रचक्षते ॥

सङ्ग्रामे गच्छमानो यः पूजयेत् कृत्तिकासुतम् ।

स जयेच् छत्रुसङ्घातान् यथेन्द्रो दानवान् रणे ॥

तस्मात् प्रतिकृतिं कृत्वा कार्त्तिकेयस्य शोभनाम् ।

दक्षिणाशास्थितस्येव सम्यग् वीक्ष्य विचक्षणः ॥

हेमादिकां यथाशक्त्या गृहे संस्थाप्य पूजयेत् ।

पूज्यमानस् तु तां भक्त्या सर्वान् कामान् अवाप्नुयात् ॥

यस् तु षष्ठ्यां सदा नक्तं कुर्याद् उद्दिश्य तं विभुम् ।

सर्वपापविनिर्मुक्तो गाङ्गेयस्य प्रियो भवेत् ॥

त्रिःकृत्वो दक्षिणाम् आशां गच्छेत् श्रद्धासमन्वितः ।

यः पश्येद् देवदेवेशं पुत्रं पशुपतेः स्वयम् ॥

विहाय दुर्मतिं सद्यः प्रशान्तात्मा स जायते ।

विमुक्तो दुःखदौर्गत्या सुखम् आस्ते चिरायुषा ॥

मृतः शिवपुरं गत्वा मोदते स्कन्दवच् चिरम् ।

ततः कुले द्विजाग्र्याणांवेदवेदाङ्गपारगे ॥

समृद्धे धर्मशीले च यज्वनां दानशीलिनाम् ।

गुणैर् युक्तः समस्तैस् तु वेदवेदाङ्गपारगः ॥

सर्वभूतदयालुश् च स्कन्दैकगतमानसः ।

[६००] जायते भरतश्र्ष्ठ पुराणार्थैकनिष्ठितः ।

विमुक्तकर्मबन्धश् च प्रयाति परमं पदम् ॥

इति सर्वं मया ख्यातं स्कन्दमाहात्म्यम् उत्तमम् ।

यः पठेत् शृणुयाद् भक्त्या सो ऽपि पापैः प्रमुच्यते ॥

यः पूजयेच् चरवणोद्भवम् आदिदेवं

शम्भोः सुतं च दयितं गिरिराजपुत्र्याः ।

स्वर्गे निरर्गलसुखान्य् अनुभूय भूयः

सेनापतिर् भवति राज्यदुरन्धरो ऽसौ ॥

इति भविष्योत्तरे कार्त्तिकेयषष्ठीव्रतम् ।

युधिष्ठिर उवाच ।

षष्ठीविधानम् अधुना कथयस्व जनार्दन ।

सर्वव्याधिप्रशमनं सर्वकामफलप्रदम् ॥

श्रुतं मया पूज्यमानो भानुः कामान् प्रयच्छति ।

दिवाकराराधनं मे तस्मात् कथय केशव ॥

श्रीकृष्ण उवाच ।

विशोकषष्ठीम् अधुना वक्ष्यामि मनुजोत्तम ।

याम् उपोष्य नरः शोकं न कदाचिद् इह स्पृसेत् ॥

माघे कृष्णतिलैः स्नानं पञ्चम्यां शुक्लपक्षतः ।

कृताहारः कृशरया दन्तधावनपूर्वकम् ॥

कृशरया तिलतण्डुलान्नेन ।

उपवासव्रतं कृत्वा ब्रह्मचारी भवेन् निशि ।

[६०१] ततः प्रातः समुत्थाय कृतस्नानतपः शुचिः ॥

कृत्वा तु काञ्चनं पद्मम् अर्को ऽयम् इति पूजयेत् ।

करवीरेण रक्तेन रक्तवस्त्रयुगेन च ॥

यथा विशोकं भुवनम् उदिते त्वयि जायते ।

तथा विशोकता मे स्यात् त्वद्भक्तैः प्रतिजन्मनि ॥

एवं सम्पूज्य षष्ट्यां तु द्विजान् शक्त्या प्रपूजयेत् ।

सुप्यात् सम्प्राश्य गोमूत्रं समुत्थाय ततः शुचिः ॥

सम्पूज्य विप्रान् दानेन गुडपात्रेण संयुतम् ।

वस्त्रेणाच्छाद्य गुरवे सर्वम् एतन् निवेदयेत् ॥

अतैललवणं भुक्त्वा सप्तम्यां मौनसंयुतः ।

ततः पुराणश्रवणं कर्तव्यं भूतिम् इच्छता ॥

अनेन विधिना सर्वम् उभयोर् अपि पक्षयोः ।

कुर्याद् यावत् पुनर् माघशुक्लपक्षस्य सप्तमी ॥

व्रतान्ते कलशं दद्यात् सुवर्णकमलान्वितम् ।

शय्यां सोपस्करां तद्वत् कपिलां च पयस्विनीम् ॥

यस् त्व् अनेन विधानेन वित्तशाठ्यविवर्जितः ।

विशोकशष्ठी नाम्नीयं कृत्वा याति पराम् गतिम् ॥

इह लोके समायातः शोकभागी न जायते ।

जन्मद्वादशकं यावन् नात्र कार्या विचारणा ॥

यं यं प्रार्थयते कामं तं तं प्राप्नोति पुष्कलम् ।

निःकामः कुरुते यस् तु स याति परमं पदम् ॥

यः पठेत् शृणुयाद् वापि षष्ठी शोकविनाशिनी ।

[६०२] सो ऽपि पापविनिर्मुक्तः सुखी स्याद् भानुभक्तितः ॥

ये भास्करं करकदम्भकपूरिताशं

सम्पूजयन्ति मनुजाश् च कृतोपवासाः ।

ते दुःखशोकरहिताः स्वजनैः सुहृद्भिर्

भूमौ विहृत्य रविलोकम् अवाप्नुवन्ति ॥

इति भविष्योत्तरोक्तं विशोकषष्ठीव्रतम् ।

कृष्ण उवाच ।

अन्याम् अपि प्रवक्ष्यामि फलषष्ठीं शुभां तथा ।

याम् उपोष्य नरः पापैर् विमुक्तः फलभाग् भवेत् ॥

मार्गशीर्षे सिते पक्षे पञ्चम्यां नियमस्थितः ।

कृत्वा तु दन्तधावनं स्वपेद् रात्रौ विमत्सरः ॥

ततः प्रभाते विमले कारयित्वा तु काञ्चनम् ।

कमलं च फलं त्व् एकं स्वशक्त्या शाठ्यवर्जितः ॥

ततस् तु सङ्गमे स्नातो मध्याह्ने कृतनित्यकः ।

आगत्य भवनं देवं पूजयित्वा जगद्गुरुम् ॥

कृत्वा तु कमलं पात्रे सफलं शर्करान्वितम् ।

औडुम्बरे मृण्मये वा यथाशक्त्या नृपोत्तमः ॥

पूजयेत् पुष्पधूपाद्यैर् नैवेद्यैर् विविधैः फलैः ।

गीतनृत्योत्सवैर् युक्तं कारयित्वा तु जागरम् ॥

स्नात्वा प्रातः शुचिर् भूत्वा कृतकृत्यस् त्व् अनातुरः ।

गुरुं सम्पूज्य यत्नेन वस्त्रमाल्यविभूषणैः ॥

[६०३] देवं तत् सकलं तस्मै भानुर् म्र् प्रीयताम् इति ।

भक्त्या विप्रांस् तु सम्भोज्य स्वयं भुञ्जीत वाग्यतः ॥

सप्तम्यां कुरुशार्दूल यद् अभीष्टं स्वदेवताः ।

तावद् वर्ज्यं फलं त्व् एकं यावत् कृष्णा तु पञ्चमी ॥

पुनः प्राक् कथितं हुत्वा फलपञ्चकसंयुतम् ।

षष्ट्याम् उपोष्य दातव्यं सप्तभ्यां तद्विधानतः ॥

पुनर् अन्यत् फलं त्याज्यं यावच् छुक्ला तु पञ्चमी ।

एवं षष्ठ्योर् द्वयो राजन् वर्षम् एकं यतव्रतः ॥

उपोष्य दत्वा क्रमशः सूर्यमन्त्रम् उदीरयेत् ।

सोपस्करं यथाशक्त्या ताम्रवर्णां पयविनीम् ॥

तद्वर्णानि च दम्पत्योर् वासांस्य् आभरणानि वा ।

भानुर् अर्को रविर् ब्रह्मा सूर्यः शक्रो हरिः शिवः ॥

श्रीमान् विभावमुस् (?) त्वष्टा वरुणः प्रीयताम् इति ।

प्रतिमासं च सप्तम्याम् एकैकं नाम कीर्तयेत् ॥

यथा न विफलाः कामास् त्वद्भक्तानां सदा रवे ।

तथानन्तफलावाप्तिर् अस्तु मे प्रतिजन्मनि ॥

इमाम् अनन्तफलदां फलषष्टीं करोति यः ।

सर्वपापविनिर्मुक्तः सूर्यलोके महीयते ॥

इह चागत्य राजासौ पुत्रपौत्रसमन्वितः ।

सर्वत्र सफलारम्भो जायते नत्र संशयः ॥

क्रियमाणं तु यः पश्येद् यद् तथा चानुवर्तयेत् ।

[६०४] शृणुयाद् वा पठेद् वाइ सो ऽपि कल्याणभाग् भवेत् ।

हैमं फलं सकलशं कलशं वितानं

षष्ट्यान् उपोष्य विधिवद्द्विजपुङ्गवाय ।

दद्यात् सुरासुरशिरोमणिघृष्टपादम् ।

भानुं प्रणम्य फलसिद्धिम् उपैत् मर्त्यः ॥

इति श्रीभविष्योत्तरोक्तं फलषष्ठीव्रतम् ।

षष्ट्यां फलाशनो राजन् विशेषान् कार्त्तिके मृप ।

राज्यच्युतो विशेषेण स्वराज्यं लभते ऽचिरात् ॥

षष्ठीतिथिर् महाराज सर्वदा सर्वकामदा ।

उपोष्या सा प्रयत्नेन सर्वकालं जयार्थिना ॥

कार्त्तिकेयस्य दयिता एका षष्ठी महातिथिः ।

देवसेनाधिपत्यं हि प्राप्तम् अस्यां महात्मना ॥

अस्यां हि श्रीसमायुक्तो यस्मात् स्कन्दो भवेत् पुरा ।

तस्मात् षष्ठ्यां न भुञ्जीत प्राप्नुयाद् भार्गवीं सदा ॥

भार्गवी लक्ष्मीः ।

दत्वार्घ्यं कार्त्तिकेयाय स्थित्वा वै दक्षिणामुखः ।

दध्ना घृतोदकैः पुष्पैर् मन्त्रेणानेन सुव्रत ॥

सप्तर्षिदारज स्कन्द सेनाधिप महाबल ।

रुद्रोमाग्निज षद्वक्त्र गङ्गागर्भ नमो ऽस्तु ते ॥

प्रीयतां देव सेनानीः सम्पादय सुहृद्वृतम् ।

दत्वा विप्राय वामान्नं यच् चान्यद् अपि वर्तते ॥

[६०५] पश्चाद् भुङ्क्ते त्व् असौ रात्र्यां भूमिं कृत्वा तु भाजनम्॥

एवं षष्ठीव्रतस्थस्य उक्तं स्कन्देन यत् फलम् ॥

तन् निबोध महाराज प्रोच्यमानं मयाखिलम् ।

षष्ठ्यां फलाशनो यस् तु नक्ताहारो भविष्यति ॥

शुक्लायाम् अथ कृष्णायां ब्रह्मचारी समाहितः ।

तस्य सिद्धिर् घृतिः पुष्टिः राज्यम् आयुर् निरामयम् ॥

पारत्रिकं चैहिकं च दद्यात् स्कन्दो न संशयः ।

अशक्तो ह्य् उपवासस्य स नक्तेन व्रती भवेत् ॥

तैलं षष्ठ्यां न भुञ्जीत न दिवा कुरुनन्दन ।

यस् तु षष्ठ्यां नरो नक्तं कुर्याद् भरतसत्तम ॥

सर्वपापैर् विनिर्मुक्तो गाङ्गेयस्य सदा व्रजेत् ।

गाङ्गेयो ऽत्र स्वामिकार्तिकेयः ।

स्वर्गे च नियतं वासो भवते नात्र संशयः ॥

इह चागत्य कालेन यथोक्तफलभाग् भवेत् ।

देवानाम् अपि वन्द्यो ऽसौ राजराजो भविष्यति ॥

इति भविष्योत्तरपुराणोक्तं स्कन्दषष्ठीव्रतम् ।

ब्रह्मोवाच ।

सम्पूज्ये कार्त्तिकेयं तु द्विजश्रेष्ठः प्रजायते ।

मेधावी रूपसम्पन्नो दीर्थायुः कीर्तिवर्धनः ॥

मूलमन्त्राः स्वसञ्ज्ञाभिर् अङ्गमन्त्राश् च कीर्तिताः ।

[६०६] तिथीश्वरो ऽत्र कार्त्तिएयः ।

पूर्ववत् पद्मपत्रस्थः कर्तव्यश् च तिथीश्वरः ॥

गन्धपुष्पोपहारैश् च यथाशक्ति विधीयते ।

पूजाशाठ्येन शाठ्येन कृतापि च फलप्रदा ॥

आज्यधारा समिद्धिश् च दधिक्षीरान्नमाक्षिकैः ।

पूर्मोक्तफलदो होमः कृतः शान्तेन चेतसा ॥

एतत् व्रतं वैश्वानरप्रतिपद्व्रतवद् व्याख्येयम् ।

इति भविष्यत्पुराणोक्तं कार्त्तिकेयव्रतम् ।

कृष्ण उवाच ।

शृणु पार्थ प्रवक्ष्यामि सर्वपापप्रणाशिनीम् ।

सर्वकामप्रदां पुण्यां षष्ठीं मन्दारसञ्ज्ञिताम् ॥

माघस्यामलपक्षे तु पञ्चम्यां लघुभुक् नरः ।

दन्तकाष्ठं ततः कृत्वा स्वपेद् भूमौ जितेन्द्रियः ॥

सर्वभोगविहीनस् तु षष्ठीम् उपवसेन् नरः ।

प्राप्यानुज्ञां द्विजश्रेष्ठं मन्दारं प्रार्थयेन् निशि ॥

मन्दारो राजार्कः ।

ततः प्रभाते उत्थाय कृतस्नातः पुनर् द्विजान् ।

सम्पूज्य संहतं कृत्वा मन्दारं कुङ्कुमान्वितम् ॥

सौवर्णं पुरुषं तद्वत् पद्महस्तं सुशोभनम् ।

पद्मं कृष्णतिलैः कृत्वा ताम्रपात्रे दलाष्टकम् ॥

[६०७] पूज्यमन्दारकुसुमैः भास्करायेति पूर्वतः ।

नमस्कारेण तद्वच् च सूर्यायेत्य् आनले दले ॥

दक्षिणे तद्वद् अर्काय यज्ञेशाय च नैरृते ।

पश्चिमे वसुधाम्नेति वायव्ये चण्डभानवे ॥

कृष्णेत्य् उत्तरतः पूज्य आनन्दायेत्य् अतः परम् ।

कर्णिकायां च पुरुषं पूज्य सर्वात्मना हरिम् ॥

शुक्लवस्त्रैः समावेष्ट्य भक्षमाल्यफलादिभिः ।

एवम् अभ्यर्च्य तत् सर्वम् उपाध्याये निवेदयेत् ॥

भुञ्जीतातैललवणं वाग्यतः प्राङ्मुखः स्थितः ।

अनेन विधिना सर्वं सप्तम्यां मासि मासि च ॥

कुर्यात् संवत्सरं यात्वद् वित्तशाठ्यविवर्जितः ।

एतद् एव व्रतान्ते तु निधाय कलशोपरि ॥

रवियुक्तं द्विजेन्द्राय दातव्यं (?) भूतिम् इच्छाता ।

रवियुक्तम् इति सौवर्णरवियुक्तम् इत्य् अर्थः ।

नमो मन्दारनाथाय मन्दारभवनाय च ।

त्वं रवे तारयस्वास्मान् अस्मात् संसारसागरात् ॥

विधिनानेन तत् कुर्यात् षष्ठीं मन्दारसञ्ज्ञितां ।

विपाप्मा ससुखी धन्यो मृतः स्वर्गे महीयते ॥

इमां सम्मोहपटलध्वान्तोद्वासनदीपिकाम् ।

प्रगृह्य गच्छन् संसारगर्तायां न स्खलेन् नरः ॥

मन्दारषष्ठीं विख्याताम् ईप्सितार्थफलप्रदाम् ।

यः पठेच् छृणुयाद् वापि सर्वपापैः प्रमुच्यते ॥

षष्ठीम् उपोष्य तिलपङ्कजकर्णिकायां

[६०८] सम्पूज्य भास्करम् अहस् करवृक्षपुष्पैः (?) ।

ये प्राप्नुवन्ति पुरुषा न हि तत् कदाचिद्

गोभूहिरण्यतिलदाः फलम् आप्नुवन्ति ॥

इति श्रीभविष्योत्तरोक्तं मन्दारषष्ठीव्रतम् ।

युधिष्ठिर उवाच ।

आरोग्यरूपसौभाग्यविपक्षक्षयकारकम् ।

भुक्तिमुक्तिप्रदं नृणां व्रतं मे ब्रूहि केशव ॥

कृष्ण उवाच ।

यद् उमायाः पुरा देव उवाच त्रिपुरान्तकः ।

कथासु सुवृत्तासु भास्कराराधनं प्रति ॥

तद् इदानीं प्रवक्ष्यामि धर्मकामार्थसिद्धिदम् ।

नराणाम् अथ नारीणां समाराधनम् उत्तमम् ॥

शृणुष्वावहितओ भूत्वा सर्वपापप्रणाशनम् ।

मासि भाद्रपदे शुक्ले एकभक्ताशनो भवेत् ॥

दन्तधावनपूर्वं तु षष्ठ्याम् उपवसेन् नरः ।

गौरसर्षपकल्केन स्नायात् कायविशुद्धये ॥

रोचनाकृष्णगोमूत्रमुस्ताचन्दनगोसकृत् ।

दधिकालागुरुं चैव ललाटे तिलकं न्यसेत् ॥

शिलारुणदलैश् चैव सौभाग्यारोग्यकृद् यतः ।

स्रजं कुङ्कुमताम्बूलं सिन्दूरं रक्तवाससी ॥

वितरेत् सोपवासाद् धि नारीमङ्गल्यवर्धनम् ।

[६०९] विधवा तु विविक्तानि कुमारी शुक्लवाससी ।

ततः स्वभवने भानुं पूजयेत् शीतलौदकैः ॥

अपराह्णे ततः स्नात्वा सुमौनी नियतव्रतः ।

प्रतिमां स्थापयेद् भानोः पञ्चगव्येन वारिणा ॥

रक्तचन्दनपङ्केन कुङ्कुमेन समालभेत् ।

अगस्त्यकुसुमै रक्तैः करवीरैः प्रपूजयेत् ॥

दद्यात् तु गुग्गुलं धूपं तथा कुन्दुरुकेण च ।

रक्तांशुकैर् अलङ्कृत्य कालागुरुविभूषितैः ॥

तत्र ताम्रमयं पात्रं पुष्पाक्षतजलान्वितम् ।

करवीरोत्पलै रक्तैर् मिश्रं कोरण्डकैः शुभैः ॥

रक्तागस्त्यजवापुष्पैर् मालतीकुन्दमुद्गरैः ॥

मुचुकुन्दैर् अथान्यैश् च शतपत्रैः सुगन्धिभिः ।

गोरोचना कुशाग्राणि सिद्धार्थतिलपङ्कजैः ।

यथासम्भवसंलब्धैर् दधिकुङ्कुमकेसरैः ॥

एभिर् अर्घ्यः प्रदातव्यः उच्चैः कृत्वा करौ नृप ।

देवदेव जगन्नाथ सहस्रांशो दिवाकर ॥

पूजेयं परिपूर्णास्तु गृहाणार्घ्यं नमो ऽस्तु ते ।

भक्ष्यैर् नानाविधैर् युक्तं पायसं मधुसर्पिषा ॥

नैवेद्यं विनिवेद्याथ ततो नीराजयेद् रविम् ।

धातारम् इति सम्पूज्य प्रणिपत्य पुनः पुनः ॥

पुष्पमण्डयिकां कृत्वा रात्रौ जागरणं तथा ।

[६१०] श्रवणं च पुराणस्य वाचनं वास्य शस्यते ॥

श्रोतव्यं ब्राह्मणाद् एतद् वाचकाद् अन्यतः क्वचित् ।

गीतनृत्यैश् च वाद्यैश् च क्षपयेत् सकलां निशाम् ॥

एवम् आश्वयुजे मासि अर्यमेति प्रपूजयेत् ।

मित्रेति कार्त्तिके पूज्यो वारुणो मार्गशीषके ॥

पुष्ये ऽंशुमान् सुसम्पूज्यो माघे पूज्यो भगेति च ।

इन्द्रेति फाल्गुणे मासि विवस्वान् इति चैत्रके ॥

पूषेति पूज्यो वैशाखे ज्येष्ठै पर्य्यण्यम्[पर्जन्यम्?] अर्चयेत् ।

पूज्यस् त्वष्टेति चाषाढे श्रावणे विष्णुम् अर्चयेत् ॥

ततः प्रभाते विमले सप्तम्यां स्नानम् आचरेत् ।

देवं सम्पूजयेद् भूमौ गन्धपुष्पाक्षतादिभिः ॥

ततः प्रणम्य देवेशं सर्वाङ्गेष्व् अधिपूजयेत् ।

पादौ धात्रे ततः पूज्यो नमः कण्ठं विवस्वते ॥

पूष्णे नम इति घ्राणं पर्य्य्[ज्?]अन्यायेति लोचने ।

नमस् त्वष्ट्रे ललाटं तु विष्णवेति शिरो ऽर्चयेत् ॥

वाचकं पूजयेत् पश्चाद् व्रतमार्गोपदेशकम् ।

भूम्या हिरण्यवासोभिर् (?) वित्तशाठ्यं विवर्जयेत् ॥

वाचके पूजिते चैव सदा तुष्यति भास्करः ।

एवं सम्पूजयेद् यावद् वत्सरं मासि मासि च ॥

ब्राह्मणान् भोजयेत् पश्चात् पायसं सर्पिषा सह ।

दक्षिणां च यथाशक्त्या भास्करः प्रणीयताम् [?] अपि ॥

ततो हविष्यम् अश्नीयात् स्वयं बन्धुजनैः सह ।

[६११] अथोद्यापनम् आख्यामि श्रूयताम् अत्र च क्रमः ॥

नेत्रपट्टैः शुभैर् वस्त्रैः कृत्वा मण्डयिकां शुभाम् ।

कुङ्कुमामोद्दितां (?) कुर्याद् दिव्याभरणभूषिताम् ॥

कृत्वा देयं विमानं तु प्रान्तलम्बितपल्लवम् ।

तन्मध्ये रक्तकलशीं पञ्चरत्नसमन्विताम् ॥

घटस्योपरि विन्यस्य ताम्रपात्रसमन्विताम् ।

पद्मं कृष्णतिलैः कार्यम् अष्टपत्रं सकर्णिकम् ॥

सौवर्णं भास्करं कृत्वा पद्महस्तं रथे स्थितम् ।

कर्णिकायां न्यसेत् तं तु स्नापयित्वा घृतादिभिः ॥

ततः स्नातो ऽनुलिप्तश् च परिधाय सुवाससी ।

देवान् पितॄण् समभ्यर्च्य ततो देवगृहं व्रजेत् ॥

पञ्चगव्येन संस्नाप्य नामद्वादशकेन च ।

पूजयित्वार्चयेत् पश्चान् नैवेद्यं परिकल्पयेत् ॥

तर्पयेत् पायसैः साज्यैः लड्डुकैः खण्डहारकैः ।

सोमालकैः कोकरसैः शीघ्रघ्राणप्रियैः शुभैः ॥

श्रीफलैर् मातुलङ्गैश् च नारिकेलैः सदाडिमैः ।

कूष्माण्डैः कर्कटैर् वृत्तैर् नारङ्गपनसादिभिः ॥

कालोद्भवानि सर्वाणि फलानि विनिवेदयेत् ।

शङ्खतूर्यनिनादेन गीतनृत्यैः समर्चयेत् ॥

ततः प्रभातसमये भास्करं कलशैर् नवैः ।

स्नापयित्वा व्रतोपेतः सौभाग्यारोग्यकृद् यतः ॥

[६१२] तैर् एव नामभिर् होमस् तिलाज्येन प्रशस्यते ।

ततः सूर्यस्य पुरतः सूर्ययागं समाचरेत् ॥

रक्तचन्दनपङ्केन विलिखेत् समभूतलम् ।

हस्तमात्रं द्विहस्तं तु चतुर्हस्तम् अथापि वा ॥

मनःशिलाभिः सिन्दूरैः सूर्यमण्डलम् आलिखेत् ।

रक्तपुष्पैः सुगन्धैश् च धूपैः कुङ्कुमकादिभिः ॥

सम्पूज्य दद्यान् नैवेद्यं विधिवद् घृतपायसम् ।

पुरतः स्थापयेत् कुम्भं सहिरण्यं सवाससम् ॥

दद्यात् कन्थाभ्यस् ताम्बूलं कुङ्कुमं कुसुमानि च ।

वस्त्रैश् चैव सुहृद्भिश् च बन्धुभिस् तां क्षमापयेत् ॥

एवं षष्ट्यावसाने तु सप्तम्याम् उषसि व्रती ।

द्रव्यैः प्राक्विहितैः स्नात्वा द्विजैर् होमं च कारयेत् ॥

आकृष्णेनेति मन्त्रेण समिद्भिश् चार्कजादिभिः ।

तिलैर् आज्यगुडोपेतैर् दद्याद् अष्टशताहुतीः ॥

ततस् तु दक्षिना देया ब्राह्मणेभ्यो युधिष्ठिर ।

भोजयित्वा द्विजान् वस्त्रैर् विविधैः प्रैधापयेत् ॥

द्वादश्त्र प्रशंसन्ति गावो वस्त्रान्विताः शुभाः ।

छत्रोपनद्युगैः सार्धं दद्याद् विप्रेषु संयतः ॥

यदाशक्तस् तदैकां तु दद्याद् धेनुं पयस्मिनीम् ।

ततः सम्पूज्य गन्धद्यैर् ब्राह्मणं सीलसंयुतम् ॥

तस्मै तां प्रतिमां दद्यान् मन्ते खानेन पाण्दव ॥

ॐ नमो ऽर्काय सकलध्यान्तविच्छित्तिकारिणे ।

त्वद्दानेन रवेः सन्तु मम सर्वे मनोरथाः ।

[६१३] रथवस्त्रयुतां गां च भूमिं सस्योचिताम् अपि ॥

हिरण्यसहितां दद्याद् भास्करः प्रीयताम् इति ।

छत्रोपानद्युगं चैव मण्डलस्याग्रतो न्यसेत् ॥

अरुणं तत्पुरो न्यस्य तस्याग्रे सप्तवाजिनः ।

तदन्तरे तु रेवन्तं तत् पश्चाद् अश्विनौ न्यसेत् ॥

तद् दक्षिणे शनिं विन्द्यादिक्कालांश् [-दिक्पालांश्] च यथाक्रमम् ।

दानानि च प्रेदेयानि शयनानि गृहाणि च ॥

श्राद्धानि पितृदेवानां शाश्वतीं तृप्तिम् इच्छताम् ।

एवम् एषा तिथिः प्राज्ञ सर्वकामप्रदा नृणाम् ॥

वरा सुखप्रदा सौम्या भानुलोकप्रदायिनी ।

अल्पवित्तो ऽपि कुर्वीत षष्ठ्यां षष्ठ्याम् उपोषणम् ॥

सप्तम्यां भोजयेद् विप्रं यावत् संवत्सराष्टकम् ।

व्रतान्ते सुरभिं यच्छेद् विप्रायोज्वलवृत्तये ॥

अखण्डकरणाद् राजन् सो ऽपि तत्फलम् आप्नुयात् ।

उत्पद्यते सदा भक्तिर् भानोर् उप्रि शाश्वती ॥

एवं यः कुरुते पार्थ व्रतम् एतद् अनुत्तमम् ।

सूर्यकोटिप्रतीकाशैर् विमानैः सर्वकामिकैः ॥

अप्सरोगणसम्पन्नैर् देवगन्धर्वसेवितैः ।

हंससारससंयुक्तैर् वाद्यगीतरवाकुलैः ॥

गोधूममानचमरैर् नानारससमन्वितैः ।

सर्वैः सुहृद्भिः संयुक्तो नानाकिन्नरभास्करैः ॥

[६१४] विमानवरम् आरूढो विद्याधरगणैः सह ।

स याति परमं स्थानं यत्रास्ते रविर् अंशुमान् ॥

यावच् चन्द्रार्कताराणि यावच् च कुशसप्ततिः ।

तावद् युगसहस्राणि सूर्यलोके महीयेत् ॥

त्रिभिस् तु पुरुषैः सार्धं भोगान् भुक्त्वा तथेपितान् ।

ब्रह्मविष्णुहरादीनां लोके स्थित्वा सुखी चिरम् ॥

पुण्यक्षयाद् गोता राज्ञां राजा चैव ध्रुवं भवेत् ।

पश्चाच् च कीर्तयुक्तश् च लोदनानन्दकारकः ॥

पुत्रपौत्रसमायुक्तो यज्ञदाअक्रियारतः ।

प्रज्ञावान् धार्मिकः शूरः सर्वशास्त्रविशारदः ॥

ब्रह्मण्यः सत्कविश् चैव सत्यवक्ता जितेन्द्रियः ।

वक्ता शरण्यः सुमना दीनानाथदयापरः ॥

भुनक्ति वसुधां चीर्णां विग्रहे वाजितः परैः ।

नारी वा कुरुते पार्थ सापि तत्फलभागिनी ॥

भवितव्या हतैश्वर्या महिषी चक्रवर्तिनः ।

सपत्नी दलनीचैव सौभाग्यारोग्यपुत्रिणी ॥

मोदते सुचिरं कालं सुखेन वसते गृहे ।

यो दासो वा भवेत् कश्चिद् व्रतम् एतत् समाचरेत् ॥

तस्य श्रीर् विजयश् चैव त्रिवर्गश् च प्रवर्धते ।

मृतः स्वर्गम् अवाप्नोति विमानवरम् आस्थितः ॥

सूर्यलोकेषु निवसेत् सर्वकामसमन्वितः ।

[६१५] सेवितः सुरनारीभिः सिद्धगन्धर्वसेवितः ॥

वादित्रगेयनिनदैर् मन्वन्तरगणान् बहून् ।

ज्ञानयोगं तु सम्प्राप्य सूर्यमण्डलम् आविशेत् ॥

एतां नरेन्द्र समुपोष्य नभस्या मासे

षष्ठीं सितान्तरणिम् अर्चयितुं यदीच्छेत् ।

गोभूहिरण्यवसनैर् द्विजपुङ्गवानां

प्रीतिं विधाय स रवेर् भवनं प्रयाति ॥

इति भविष्योत्तरे सोद्यापनसूर्यषष्ठीव्रतम् ।

अगस्त्य उवाच ।

कामव्रतं महाराज शृणु मे गदतो ऽधुना ।

येन कामाः समृध्यन्ति मनसा चिन्तिता अपि ॥

षष्ठ्यां फलाशनो यस् तु वर्षम् एकं व्रतं चरेत् ।

माघमासे सिते पक्षे पञ्चम्यां नक्तभोजनः ॥

षष्ठ्यां तु प्राशयेद् धीमान् फलम् एकं तु पार्थिवम् ।

ततो भुञ्जीत यत्नेन वाग्यतः शुद्धमोदनम् ॥

ब्राःमणैः सह राजेन्द्र अथ वा केवलं फलम् ।

तम् एकं दिवसं स्थित्वा सप्तम्यां पारणं नृप ॥

अग्निकार्यं च कुर्वीत गुह्रूपेण केशवम् ।

पूजयित्वा विधानेन वर्षम् एकं व्रतं चरेत् ॥

गुहरूपेण केशवम् इति कार्त्तिकेयरूपं विष्णुं पूजयेद् इत्य् अर्थः ।

[६१६] वैष्णवपुराणेषु सर्वे देवा विष्णोर् एकरूपा इति निरूपणाद् इयं मुक्तिः ।

षट्वक्त्रः कार्त्तिको गुहः सेनानी पावकात्मजः ॥

कुमारः स्कन्द इत्य् एवं पूज्यो विष्णुश् च नामभिः ।

समाप्तौ तु व्रतस्यास्य कुर्याद् ब्राह्मणभोजनम् ॥

षण्मुखं सर्वसौवर्णं ब्राह्मणाय निवेदयेत् ।

सर्वै। कामाः समृध्यन्तां मम देव षडानन् ॥

त्वत्प्रसादाद् इदं भक्त्या गृह्यतां विधिना चिरम् ।

अनेन दत्वा मन्त्रेण ब्राह्मणाय सयुग्मकम् ॥

वस्त्रयुग्मसहितम् ।

ततः कामाः समृध्यन्ते सर्व एवेह जन्मनि ।

अपुत्रो लभते पुत्रान् अधनो लभते धनम् ॥

भ्रष्टराज्यो लभेद् राज्यं नात्र कार्या विचारणा ॥

इति वराहपुरानोक्तं कामषष्ठीव्रतम् ।

ब्रह्मोवाच ।

भाजनं यत्र सम्पूर्णं मधुना च समन्वितम् ।

दद्यात् कृष्णतिलानां तु प्रस्थम् एकं तु मागधम् ॥

त्रिगुणं तण्डुलानां च पृथक् प्रस्थं च कारयेत् ।

भाजनं प्रस्थचतुष्टयपूरणीयं पात्रम्, त्रिगुणं प्रथत्रयम् । पृथग् इति घृतमधुतिलतण्डुलपात्राणि पृथक् कुर्यात् । मागधं प्रस्थपरिमाणं परिभाषायाम् उक्तम् ॥

[६१७] गन्धपुष्पैस् तथा धूपैर् नानावाद्यैर् विशेषतः ।

ततः सम्पूजयेत् सूर्यं नानावाद्यसमन्वितम् ॥

सूर्यं गगनस्थम् ।

पूजयेच् च ततो व्योम बलिं दिक्षु प्रपूजयेत् ।

व्योमदेवगृहे चैव सर्वभूतानि योजयेत् ।

व्योमदेवगृहे तत्र यत्र व्योम प्रतिष्ठितम् ॥

व्योमनिर्माणं विष्णुधर्मोत्तरात् ।

चतुरस्रं भवेन् मूले तत्र वृत्तं महाभुजम् ।

ततो ऽन्यच् चतुरस्रं च प्रथमे संस्थितं शुभम् ॥

भद्रपीठमये प्रोक्तो व्योमभागस् तुरीयकः ।

स्तम्बे वैश्वानरो ऽथास्तु मध्यभागः प्रकीर्तितः ॥

भद्रपीठवद् अन्यच् च तत्र पद्मं निवेशयेत् ।

शुभाष्टपत्रं तन्मध्ये कर्णिकायां दिवाकरः ॥

पत्राष्टके न्यसेत् तस्य दिक्कालान् सर्वतोदिशम् ॥ इति ।

य एवं कुरुते षष्ठ्यां सन्ध्याकाले बलिं रवेः ॥

स सूर्यलोकम् आसाद्य मोदते शाश्वतीह् समाः ।

पुण्यक्षयाद् इहागत्य समृद्धे जायते कुले ॥

मेधावी सुभगः श्रीमान् पुण्यवान् दानशीलवान् ।

पुनर् लोकम् अवाप्नोति भास्करस्य न संशयः ॥

इति भविष्यत्पुराणोक्तं व्योमषष्ठीव्रतम् ।

कृष्ण उवाच ।

बाद्रबाद्रपदे मासि शुक्ले षष्ठ्यां सुसंयता ।

[६१८] नारी स्नात्वा प्रभाते च शुक्लमाल्याम्बरप्रिया ॥

सुवेषाभरणोपेता भूत्वा सङ्गृह्य वालुकाः ।

नवे वेणुमये पात्रे गृहं गच्छेद् अवाङ्मुखी ॥

सोपवासा प्रयत्नेन तत्र देवीं प्रपूजयेत् ।

कृत्वा वस्त्रयुगं रम्यं पुष्पमालाविचित्रितम् ॥

तत्र संस्थाप्य तां देवीं पुष्पैः सम्पूजयेद् धरिम् ।

तां देवीम् इति जलान्तरगतां वालुकाम् आनीय वंशपात्रे पञ्चपिण्डाकृतिं वालुकामयीं देवीं पूजयेद् इति ।

ध्यात्वा तु ललितां देवीं तपोवननिवासिनीम् ।

पङ्कजं करवीरं च नेपालीं मालतीं तथा ॥

नेपाली पुष्पविशेषम्, गृहीत्वा पूजयेद् इत्य् शेषः ।

नीलोत्पलं केतकीं च सङ्गृह्य तगरं वरम् ।

एकैकाष्टशतं ग्राह्यम् अष्टाविंशतिर् एव वा ॥

अक्षताः कलिका गृह्य ताभिर् देवीं समर्चयेत् ।

प्रार्थयेत व्रती भूत्वा गिरिजां गिरिशप्रियाम् ।

गङ्गाद्वारे कुशावर्ते बिल्वके नीलपर्वते ।

स्नात्वा कनखले तीर्थे हतिं पद्मावतीपतिम् ॥

ललिते ललिते देवि सौख्यसौभाग्यदायिनि ।

अनन्तं देहि सौभाग्यं भवत्व् अघहरं परम् ॥

मन्त्रेणानेन कुसुमैश् चम्पकस्यातिशोभनैः ।

एवम् अभ्यर्च्य विधिना नैवेद्यं पुरतो न्यसेत् ॥

त्रपुषैवालुकुष्माण्डनालिकेरैः सदाडिमैः ।

बीजपुरैः सतुण्डीरैः कारवेल्लैः सवर्वटैः ॥

[६१९] फलैस् तत्कालसम्भूतैः कृत्वा शोभां तदग्रतः ।

त्रपुषं वालुकम् । एकवालुः कर्कटी । तुण्डीरं वृक्षभेदः ।

विरूढैर् नान्यसम्भूतैर् दीपालीभिः समन्ततः ॥

सार्धं सगुणकैर् धूपैः सोमालककरङ्ककैः ।

गन्धपुष्पैः कर्णवेष्टैर् मोदकैरूपमोदकैः ।

बहुप्रकारैर् नैवेद्यैर् यथाविभवसारतः ॥

एवम् अभ्यर्च्य विधिवद् रात्रौ जागरणोत्सवा ।

गीतवाद्यनटैर् नृत्यैः प्रेक्षणीयैर् अनेकधा ॥

सखीभिः सहिता साध्वी तां रात्रिं प्रशयन् नयेत् ।

न च सम्मीलयेन् नेत्रे नारी यामचतुष्टयम् ॥

दुर्भगा दुर्गता वन्ध्या नेत्रसम्मीलनाद् भवेत् ।

एवं जागरणं कृत्वा सप्तम्यां सरितं नयेत् ॥

गन्धधूपैर् अथाभ्यर्च्य गीतवाद्यपुरःसरम् ।

तच् च दद्याद् द्विजेन्द्राय नैवेद्यादि नरोत्तम ॥

स्नात्वा गृहं समागत्य हुत्वा वैश्वानरं क्रमात् ।

देवान् पितॄन् मनुष्यांश् च पूजयित्वा सुवासिनीः ॥

कन्यकाश् चैव सम्भाज्या ब्राह्मण्यो दश पञ्च च ।

भक्ष्यभोज्यैर् बहुविधैर् दत्वा दानानि भूरिशः ॥

ललिता मे ऽस्तु सुप्रीता इत्य् उक्त्वा तु विसर्जयेत् ।

यः कश्चिद् आचरेद् एतद् व्रतं सौभाग्यसम्पदम् ॥

ललिताषष्ठीसञ्ज्ञं च सर्वपापनिबर्हणम् ॥

नरो वा यदि वा नारी तस्य पुण्यफलं शृणु ।

यद् अलभ्यं व्रतैश् चान्यैर् दानैर् वा नृपसत्तम ॥

[६२०] तपोभिर् नियमैर् वापि तद् एतेन हि लभ्यते ।

इह चैवातुलं सम्पत् सौभाग्यम् अनुभूय च ॥

कृत्वा मूर्ध्नि पदं पार्थ सपत्नीनां यशस्विनी ।

मृता शिवपुरं प्राप्य देवैर् असुरपन्नगैः ॥

प्राप्नोति दर्शनं देव्या तया तु सह मोदते ।

पुण्यशेषाद् इहागत्य पुण्या सौभाग्यभावना ॥

सत्यत्रेतायुगे नारी सीतेव प्रियवल्लभा ।

इदं यः शृणुयात् पार्थ पठेद् वा साधुसंसदि ।

सो ऽपि पापविनिर्मुक्तः शक्रलोके महीयते ॥

षष्ठ्यां जलान्तरगतां वरवंशपात्रे

सङ्गृह्य पूजयति या सिकतां क्रमेण ।

नक्तं च जागरम् अनुद्धतवेषशीला

कुर्याद् असौ त्रिभुवने सलितेव भाति ॥

इति भविष्योत्तरोक्तं ललिताषष्ठीव्रतम् ।

सनत्कुमार उवाच ।

अथ षष्ठ्यां तु राजन्यः समुपोष्य यथाविधि ।

चक्राब्जमण्डलं कृत्वा कर्णिकायां सुदर्शनम् ॥

[६२१] दलेषु लोकपालानाम् आयुधानि समर्चयेत् ।

चक्राज्यं चक्रनाभिघटिताञ्जम् ।

स्वान्य् आयुधानि पुरतः प्रतिष्ठाप्य प्रपूजकः ।

रक्तचन्दनसिद्धार्थरक्तपद्माङ्कुरैर् अपि ॥

रक्तवस्त्रैः सुगन्धाट्यैर् भूषणादिभिर् अर्चयेत् ।

अपूपफलसंयुक्तं गुडान्नं च निवेदयत् ॥

सुदर्शन महाचक्र ज्वालाव्याप्तदिगन्तरम् ।

दैत्यारिचक्रोन्मथन विद्विषो मे निबर्हय ॥

अनिशं लोकपालानां सर्वप्रहरणाण्य् अपि ।

अभयं विजयं युद्धे मङ्गलं प्रदिशं तु नः ॥

यथा विष्णुर् वरः पुंसां यथा लक्ष्मीश् च योषिताम् ।

तथा शत्रुहरं चक्रं विजयं मे करोत्व् अलम् ॥

चक्रप्रतिमरूपाणि शस्त्रान्य् अव्याकुलान्य् अपि ।

आयुधानि समस्तानि भवन्तु मम सर्वदा ॥

मत्तमातङ्गनिकररथवाजियुतं मम ।

हृष्टपुष्टपदात्योघं बलं रक्ष सुदर्शन ॥

इति सम्प्रार्थ्य तद्भक्त्या सालभेतायुधं स्वकम् ।

ततश् पुरतो वृत्तमण्डलं कारयेत् सुधीः ॥

तण्डुलेन समायुक्तान् तिलबीजेन पूरितान् ।

अव्रणान् वस्त्रसञ्छन्नान् सर्वौषधिसमन्वितान् ॥

चतुरः स्थापयेद् दिक्षु कलसांश् च चतुर्ष्व् अपि ।

मध्ये सर्वौषधियुतं पञ्चरत्नसमन्वितम् ॥

वस्त्रयुग्मेन सञ्छन्नं कुम्भं तत्र निधाप्य च ।

[६२२] तस्मिन्न् आवाहयेद् देवं सुदर्शनम् अनन्यधीः ॥

शङ्खश् च नन्दकं चैव शार्ङ्गं कौमोदकीं गदाम् ।

न्यसेत् प्राच्यादिकुम्भेषु तत्र तत्र प्रपूजयेत् ॥

पायसं च गुषान्नं च मुद्गान्नं दधिसम्भवम् ।

निवेदयेद् यथायोगं मधमे सकलं मतम् ॥

अथ वा पञ्चकुम्भेषु पूज्या वै पञ्च हेतयः ।

चक्रं शङ्खं तथा पद्मं शार्ङ्गं च नन्दकं गदां ॥

बहिस् तु लोकपालानाम् आयुधानि न्यसेद् युगम् । इति ।

युगम् इति प्रतिकुम्भं द्वे द्वे ।

तदग्रे महतीं यष्टिं पीतकौशेयसंवृताम् ॥

संस्थाप्य तार्क्ष्यसंस्थानं ध्वजम् अग्रे निबध्य च ।

तार्क्ष्यं सम्पूजयेत् पश्चाद् गन्धपुष्पाक्षतादिभिः ॥

अपूपफलमूलान्नं भूरि तत्र निवेदयेत् ।

प्रदक्षिणनमस्कारस्तोत्रालापादि कारयेत् ॥

घनं घनानां पटलं द्रावयन्न् अनिलो यथा ।

तथा मयि च विद्वेष्टॄन् विद्रावयतु पक्षिराट् ॥

इति सम्प्रार्थ्य विधिवत् पूजां परिसमाप्य च ।

लोकपालबलिं दद्यात् कृशरान्नेन साधकः ॥

कृशरान्नेन तिलतण्डुलान्नेन ।

तदग्रे वयम् आनीय सौवर्णं सिंहविष्टरम् ।

सिंहविष्टरं सिंहासनम् ।

तस्मिन् नृपं समारोप्य सर्वालङ्कारसंयुतम् ॥

सौवर्णपात्रम् आनीय तस्मिन् देवं सुदर्शनम् ।

[६२३] तन्मन्त्रेण समावाह्य गन्धपुष्पादिनार्चयेत् ॥

वर्तिं सिद्धार्थसंयुक्तां रक्तवस्त्रेण वेष्टिताम् ।

सिद्धार्थाः सर्षपाः ।

प्रज्वाल्य तत्र संस्थाप्य पूजां कुर्याद् यथाविधि ॥

मूर्ध्नि त्रिः परिवृत्याथ प्राच्यां योषिद् विनिक्षिपेत् ।

परिवृत्य नीराजनं कृत्वा ।

आयुधानां प्रदानं च हेतिराजस्य मन्त्रतः ॥

हेतिराजस्य सुदर्शनस्य ।

तत्तन्मन्त्रेण वावाह्य वाहनादिसमर्पणम् ।

तत्रैवं भूषणादीनाम् एष एव विधिः स्मृतः ॥

युद्धारम्भे महोत्पाते परसेनाप्रपीडने ।

राज्यभ्रंशपरिक्लेशे शोकव्याध्यादिपीडिते ॥

इष्टदारवियोगे च सुतनाशे बलक्षये ।

स्नानम् एव प्रकुर्वीत शुक्लषष्ठ्यां समाहितः ॥

निमित्ते लक्षिते वास्याज् जन्मर्क्षे वा त्व् अयं विधिः ।

तार्क्ष्यध्वजं च सम्पूज्य युद्धारम्भे च भूपतिः ॥

रणप्रमुखतः कृत्वा सुध्वजत्रयम् आवहेत् ।

ध्वजस्य चलनाद् आदौ फलाफलविनिश्चयः ॥

जयं शक्रचलाद् ब्रूयुर् दक्षिणे च पराजयम् ।

पश्चिमे परसैन्यानाम् उत्तरे च पलायनम् ॥

आग्नेय्याम् अधिपो नश्येन् नैरृत्यां बलनाशनम् ।

वायव्ये वाजिमरणं ऐशान्यां धनसङ्क्षयम् ॥

[६२४] अन्यद् विदिशि लाभः स्याद् ध्वजस्येति परीक्षणम् ।

छिन्ने बन्धे स्मरणं यष्टिच्छेदे परस्य वा ॥

तत् कृतं च स्वदेहस्थं विद्यादेवं विचक्षणः ।

आदौ सर्वं परीक्ष्यैव कुर्वीत रणपण्डितः ॥

कार्यान्तरे ऽप्य् एवम् एव भावो भवविनिश्चयः ।

ब्राह्मणैः स्वस्तिवचनं पश्चाद् ब्राह्मणभोजनम् ॥

एवं नाम्ना ततः कुर्यात् पूजां चैवापरे ऽहनि ।

विप्रशेषेण तत् कुर्याद् अशनं बान्धवैः सह ॥

विप्रशेषेण ब्राह्मणभोजनावसेषेण ।

गुरवे दक्षिणाम् दद्याद् ऋत्विग्भ्यो भूरिदक्षिणाम् (?) ।

वित्तशाठ्यं न कुर्वीत यावद् व्रतं समापयेत् ॥

न ब्रूयाद् अनृतं कुर्याद् ब्रह्मचर्यस्य दक्षिणाम् ।

एतत् स्वस्त्ययनं प्रोक्तं सर्वरोगविनाशनम् ॥

सर्वदुःखप्रशमनं सर्वस्य विजयावहम् ।

एतद् व्रतं पुष्टिकरं शृण्वतां कुर्वताम् अपि ॥

एतत् सर्वाधिकारः स्याद् राज्ञां श्रेयो ददात्य् अलम् ।

षष्ठीव्रतं समाख्यातं सर्वकामफलप्रदम् ॥

इति श्रीगारुडपुराणोक्तं सुदर्शनषष्ठीव्रतम् ।

आदित्य उवाच ।

कृष्णषष्ठ्यां प्रयत्नेन कृत्वा नक्तं विधानतः ।

मासि मार्गशिरस्य् आदाव् अंशुमान् इति पूजयेत् ॥

[६२५] विधिवत् प्राश्य गोमूत्रम् अनाहारो निशि स्वपेत् ।

अतिरात्रस्य यज्ञस्य फलं प्राप्नोति मानवः ॥

पुण्ये ऽप्य् एवं सहस्रांशुं भानुमन्तम् उशन्ति वै ।

वाजपेयफलं तत्र प्राप्तव्रते लभेन् नरः ॥

माघे दिवाकरं नाम कृष्णषष्ठ्यां नियोजयेत् ।

निशीथे चात्ति गोमूत्रं गोमेघफलम् आप्न्युआत् ॥

तिलैस् तु फाल्गुने मासि पूजयेद् भक्षयेत् तिलान् ।

राजसूयस्य यज्ञस्य तुल्यं फलम् अवाप्नुयात् ॥

चैत्रे च हंसनामानं कृष्णषष्ठ्यां प्रपूजयेत् ।

शुक्लपुष्पं नरः प्राश्य अश्वमेधफलं भवेत् ॥

वैशाखे सूर्यनामानं कृष्णषष्ठ्यां प्रपूजयेत् ।

पीत्वा कुशोदकं पुण्यं जितक्रोधो जितेन्द्रियः ॥

महामेधस्य यज्ञस्य वैनतेयफलं लभेत् ।

ज्यैष्ठे दिवस्पतिं पूज्य गवां शृङ्गोदकं पिबेत् ।

गवां कोटिप्रदानस्य निखिलं फलम् अश्नुते ॥

आषाढे अर्कनामानम् इष्ट्वा प्राश्य च गोमयम् ।

प्रयात्य् अर्कसलोकत्वं वर्षाणां द्विशतं शतम् ॥

श्रावणे ऽर्यमनामानं पूजयित्वा पयः पिबेत् ।

वर्षाणाम् अयुतं साग्रं मोदते भास्करालये ॥

मासि भाद्रपदे षष्ठ्यां भास्करं नाम पूजयेत् ।

दूर्वाङ्कुरं सकृत् प्राश्य राजसूयफलं लभेत् ॥

आश्विने देवदेवस्य सप्ताश्वम् इति पूजयेत् ।

दधि सम्प्राश्य विधिवत् पुण्डरीकफलं लभेत् ॥

[६२६] मासे तु कार्त्त्के षष्ठ्यां शक्राख्यं नाम पूजयेत् ।

गोमूत्रफलम् अश्नीयाद् अश्वमेधफलं लभेत् ॥

गोमूत्रभावितफलं गोमूत्रफलम् ।

वर्षान्ते भोजयेद् विप्रान् सूर्यभक्तिपरायणान् ।

पायसं मधुसंयुक्तम् आज्येन सुपरिप्लुतम् ॥
शक्त्या हिरण्यवासांसि भक्त्या तेभ्यो निवेदयेत् ।

निवेदयेत् तु सूर्याय गां च कृष्णां पयस्विनीम् ॥

वर्षम् एकं चरेद् एवं नैरन्तर्येण यो नरः ।

कृष्णषष्ठीव्रतं भक्त्या तस्य पुण्यफलं शृणु ॥

सर्वपापविनिर्मुक्तः सर्वकामसमन्वितः ।

मोदते सूर्यलोके तु स नरः शाश्वतीः समाः ॥

इति भविष्योत्तरोक्तं कृष्णषष्ठीव्रतम् ।

षष्ठीनामतिथिर् याज्या सामान्या दैवतैर् अपि ।

एकभक्तेन नक्तेन तथैवायाचितेन च ॥

उपवासेन दानेन तैलक्षारविवर्जितः ।

अयं हि भगवान् देवो भास्करश् च परद्युतिः ॥

येन शीघ्रेण दृश्येत तद् गुह्यं कथयाम्य् अहम् ।

गोपनीयं व्रतं दिव्यम् इह लोके फलप्रदम् ॥

यस्मिन् कृते व्रते चैष दरिद्रो न भवेत् कुले ।

षष्ठीतिथिं समुद्दिश्य ब्राह्मणस्य च भोजनम् ॥

[६२७] शाल्योदनं च पयसि कृत्वा च शर्करायुतम् ।

बाहुल्यघृतसंयुक्तं वर्षम् एकं प्रदापयेत् ॥

कुले तस्यैव ये जाता ये भविष्यन्ति मानवाः ।

इह तस्यैव ये सन्ति तान् दारिद्र्यं न गच्छति ॥

इति स्कन्दपुराणोक्तम् अदारिद्र्यषष्ठीव्रतम् ।

स्तुतिजप्योपहारेण पूजया च विवस्वतः ।

उपवासेन षष्ठ्यां वै सर्वपापैः प्रमुच्यते ॥

इति ब्रह्मपुराणोक्तं षष्ठीव्रतम् ।

कृतोपवासः पञ्चम्यां षष्ठ्यां यो ऽर्चयते रविम् ।

नियमव्रतचारी च रवेर् भक्तिसमन्वितः ।

सप्तम्यां वा महाभाग सो ऽश्वमेधफलं लभेत् ॥

इति ब्रह्मपुराणोक्तं षष्ठीव्रतम् ।

षष्ठ्यां च शुक्लपक्षस्य ये नरा भौमवासरे ।

व्रतं चरति यत्नेन तथा तासां पृथक् पृथक् ॥

न तेषां दुर्लभं किञ्चिद् भविष्यति सुरोत्तम ।

द्वियोगे हि गुणं तेषां फलं स्कन्द भविष्यति ॥

त्रियोगे पूजनं कृत्वा मासेषु सुरसत्तम ।

[६२८] अक्षयं जायते पुण्यं नात्र कार्या विचारणा ॥

इति विष्णुधर्मोत्तरोक्तं षष्ठीव्रतम् ।

वैशाखमासाद् आरभ्य पञ्चम्यां य उपोषितः ।

भवन्तं पूजयेत् षष्ठ्यां संवत्सरम् अतन्द्रितः ॥

पुत्रार्थी प्राप्नुयात् पुत्रान् धनकामो धनी भवेत् ।

स्वर्गार्थि प्राप्नुयात् स्वर्गम् अपि तुष्टो ममात्मजः ॥

स्तोत्रेण च मदीयेन ये स्तोष्यन्ति नरः प्रभोः ।

लोकद्वये ऽपि ते कामान् प्राप्नोति तमसः प्रियान् ॥

कुमारश् च तथा स्कन्दो विशाखश् च गुहस् तथा ।

चतुरात्मा विनिर्दिष्टो भगवान् क्रौञ्चसूदनः ॥

तम् अभ्यर्च्य नरः षष्ठ्यां पुत्रान् प्राप्नोत्य् अभीप्सितान् ।

बालकानां गृहे श्रेयो नरः प्राप्नोत्य् असंशयम् ॥

इति विष्णुधर्मोत्तरोक्तं पुत्रप्राप्तिव्रतम् ।

ऋषीणां पूजनं कृत्वा षष्ठ्यां सुखम् अवाप्नुयात् ॥

इति विष्णुधर्मोत्तरोक्तं सुखव्रतम् ।

स्कन्दपार्श्वे चरान् राजन् रुद्रपार्श्वे चरनघ ।

यमपार्श्वे चरांश् चैव रोगमुक्तिम् अवाप्नुयात् ॥

[६२९]

इति विष्णुधर्मोत्तरोक्तं रोगमुक्तिव्रतम् ।

कालपाशं तथाभ्यर्च्य ज्वरव्याद्ःईशम् एव च ।

रोगमोक्षम् अवाप्नोति वायुवह्निदवांस् तथा ॥

इति विष्णुधर्मोत्तरोक्तं रोगहरषष्ठीव्रतम् ।

इति श्रीमहार्जाधिराजसमस्तकरणाधीश्वर

**सकलविद्याविशारदश्रीहेमाद्रिविरचिते **

चतुर्वर्गचिन्तामणौ व्रतखण्डे षष्ठीव्रतानि ।

[६३०]

अथ एकादशो ऽध्यायः

अथ सप्तमीव्रतानि

आचारैः प्रथमयुवा युगेन सार्घं

न स्पर्धां कलिर् अपि साम्प्रतं विधत्ते ।

यस्योच्चैः स्वरितम् अवाप्य साधु सो ऽयं

हेमाद्रिः कथयति सप्तमीव्रतानि ॥

कृष्ण उवाच ।

पार्थ श्रुतं मया पूर्वं शाण्डिल्याद् व्रतम् उत्तमम् ।

गुह्याद् गुह्यतमं पुण्यं तपश् चरणसञ्ज्ञितम् ॥

युधिष्ठिर उवाच ।

कथं कार्यं व्रतं देव तपश्चरणचञ्ज्ञितम् ।

सविस्तरं मम ब्रूहि सरहस्यं समन्त्रकम् ॥

कृष्ण उवाच ।

शृणुष्वावहितो भूत्वा युधिष्ठिर तपोव्रतम् ।

मार्गशीर्षादिमासेषु कर्तव्यं भूतिम् इच्छता ॥

तस्मिंस् स्थितो वरत् विप्रो बह्वृचो वेदपारगः ।

ब्रह्मवित् कृष्णसप्तम्यां दद्याद् अर्घ्यं महीतले ॥

ऋग्वेदवर्गत्रितयं पठिता सूर्यवल्लभम् ।

[६३१] पादक्रमेण कौन्तेय कनिकृद् अदितिश्रुतम् ॥

पादक्रमेणातिप्रतिपादनम् अर्घ्यदानम् ।

एकभक्तेन नक्तेनायाचितेन तथा सुधीः ।

द्विजो वेदोक्तमन्त्रैस् तु प्रागुक्तैः पाण्डवाग्रज ॥

अर्घ्यं दद्युर् विना मन्त्रैः शूद्राः सूर्यपरायणाः ।

चतुर्थ्यन्तेन मन्त्रेण नाम चादौ व्यवस्थितम् ॥

शूद्राणां परमो मन्त्रः सर्वशाश्त्रेषु पठ्यते ।

कृत्वा ताम्रमये पात्रे सार्द्रपुष्पाक्षतैर् नृप ॥

रक्तचन्दनसम्मिश्रं दूर्वापल्लवशोभितम् ।

रक्तानि करवीराणि तथा रक्तोत्पलानि च ॥

कोरण्टकविमिश्राणि जवाशोकान्वितानि च ।

किंशुकागस्त्यकुसुमकरवीराणि मालतीः ॥

मुचकुन्दं च कुन्दं च शतपत्रं समल्लिकम् ।

एतानि च यथालाभं ताम्रपात्रे विनिक्षिपेत् ॥

गोरोचनाकुशाग्राणि श्रीखण्डकुङ्कुमं तथा।

तिलतण्डुलसिद्धार्थ दधिकुङ्कुमकेसरम् ॥

कुङ्कुमकेसरं कुसुम्भं ।

एभिर् अर्घ्यवरं दद्याद् उच्चैः कृत्वा भुजौ नृप ।

व्योममुद्रां पुनर् वध्वा नमस्कृत्य समापयेत् ॥

[६३२] व्योममुद्रां तु विष्णुधर्मोत्तरात् ।

करयोः सम्पुटो ऽन्योन्यमणिबन्धस्थिताङ्गुलिः ।

सान्तरालान्तरो यत्र व्योममुद्रेति तां जगुः ॥ इति ।

अत्र प्रतिमानुक्तेः प्रत्यक्षस्यैव सूर्यबिम्बस्यार्घ्यदानम् इति ।

एवं मासक्रमेणैव यावत् संवत्सरं नृप ।

समाप्ते तु व्रते दद्याद् विप्रेभ्यः श्रद्धयान्वितः ॥

द्वादश प्रणीताः पार्थ पायसेन प्रपूरिताः ।

सौवर्णं पङ्कजं शक्त्या विप्रेभ्यो दक्षिणा स्मृता ॥

वस्त्रयुग्मं च काषायं दद्याद् देवाय दानव ।

एवं यः कुरुते सम्यक् तपश्चरणसाञ्ज्ञितम् ॥

व्रतं नरो वा नारी वा सूर्यभक्त्या सुभावितः ।

स याति भवनं तत्र यत्र देवो दिवाकरः ॥

पूज्यमानो ऽप्सोरोवृन्दैः वृन्दारक इवापरः ।

सम्प्राप्य जन्म चैवाग्र्यं दुःखदौर्भाग्यवर्जितः ॥

आदित्यस्य प्रसादेन भक्तिः स्यात् तत्र निश्चला ।

औदुम्बरैः फलयुगैः समम् आचितं च

दर्भान्वितं च कुसुमाक्षतपूरितं च ।

अर्घ्यं विधाय विधिवन् नृप यः प्रदद्या ल्

लोकं प्रयात्य् अमलदीधितिनासित सः ॥

इति भविषोत्तरोक्तं तपश्चरणव्रतम् ।

कृष्ण उवाच ।

मुनीन्द्रो लोमशो नाम मथुरायां गतः पुरा ।

[६३३] सो ऽर्चितो वसुदेवेन देवक्या च युधिष्ठिर ॥

उपविष्टः कथाः पुण्याः कथयित्वा मनोरमाः ।

ततः कथयितुं भूप। कथाम् एतां प्रचक्रमे ॥

कंसेन ते हताः पुत्रि पुत्रा जाताः पुनः पुनः ।

मृतवत्सा देवकि त्वं पुत्रदुःखेन दुःस्थिता ॥

यथा चन्द्रमुखी दीना बभूव नहुषप्रिया ।

पश्चाच् चीर्णव्रता सैव बभूवाक्षतवत्सका ॥

त्वम् एव देवकि तथा भविष्यसि न संशयः ॥

देवक्य् उवाच ।

का सा चन्द्रमुखी ब्रह्मन् बभूव नहुषप्रिया ।

किं च चीर्णं व्रतं पुण्यं तथा सन्ततिवर्धनम् ।

सपत्नीदर्पदलनं सौभाग्यारोग्यदं विभो ॥

शोमश उवाच ।

अयोध्यायां पुरा राज नहुषो नाम विश्रुतः ।

तस्यासीद् रूपसम्पन्ना देवी चन्द्रमुखी प्रिया ॥

तथा तत्रैव नगरे विष्णुगुप्तो ऽभवद् द्विजः ।

आसीद् गुणवती तस्य पत्नी भद्रमुखी तथा ॥

तयोर् आसीद् दृढा प्रीतिः स्पृहनीया परस्परम् ।

अथ ते द्वे ऽपि सख्यौ वै स्नानार्थं शरयूतटे ॥

प्राप्ते प्राप्ताश् च तत्रैव वान्याश् च नगराङ्गनाः ।

ताः स्नात्वा मण्डलं चक्रुस् तन्मध्ये व्यक्तरूपिणम् ॥

लेखयित्वा शिवं शान्तम् उमया सह शङ्करम् ।

गन्धपुष्पाक्षतैर् भक्त्या पूजयित्वा यथाविधि ॥

[६३४] प्रणम्य गन्तुकामास् ताः पप्रच्छतो वरस्त्रियः ।

ता ऊचुः शङ्करो ऽस्माभिः पार्वत्या सह पूजितः ॥

बध्वा सूत्रमयं तन्तुं शिवस्यात्मा निवेदितः ।

धारणीयम् इदं तावद् यावत् प्राणविधारणम् ॥

तासां तद्वचनं श्रुत्वा सख्याव् एते ऽपि देवकि ।

कृत्वा च समयं तत्र बद्ध्वा दोर्भ्यां सुडोरकम् ॥

ततस् ताः स्वगृहं जग्मुः स्वसखीभिः समावृताः ।

कालेन महता तस्यास् तद् व्रतं विस्मृतं शुभम् ॥

चन्द्रमुख्याः प्रमत्तायाः विस्मृतः स च डोरकः ।

भद्रमुख्या तथा भद्रे विस्मृतं सर्वम् एव तत् ॥

मृते कैश्चिद् अहोरात्रैः सा बभूव प्लवङ्गमी ।

भद्रा स्यात् कुक्कुटी जाता व्रतभङ्गाच् छुभानने ॥

कालेन पञ्चतां प्राप्ते सखीभावस्य हेतवे ।

अदैवमातृके देशे जाते गोकुलसङ्कुले ॥

ब्राह्मणी ब्राह्मणी जाता क्षत्रिया क्षत्रियी तथा ।

राज्ञी जाया बभूवाथ पृथ्वीनाथस्य वल्लभा ॥

ईश्वरो नाम विख्याता यासीच् चन्द्रमुखी पुरा ।

नाम्ना भद्रमुखी यासीद् भूषणा नाम साभवत् ॥

अग्निमीलस्य सा दत्ता पित्रा तस्य पुरोधसा ।

अतीववल्लभा आसीद् भूषणा भूषणप्रिया ॥

भूषिता भूषितवरै रूपेणालङ्कृता स्वयम् ।

तस्या बभूव रस्याश् च पुत्राः सर्वगुणान्विताः ॥

मातृवद् रूपसम्पन्नाः पितृवद् धर्मशीलिनः ।

[६३५] सख्यौ ते चैव तद्वच् च जाते जातिस्मरे किल ॥

पुनर् निरन्तरा प्रीतिस् तयोर् आसीद् यथा पुरा ।

काले बहुतिथे याते त्यक्त्वा सा सत्यवल्लभा ॥

मध्ये वयसि सा राज्ञी पुत्रम् एकम् अजीजनत् ।

ईश्वरी रोगिणं मूकं प्रज्ञाहीनं च विस्वरम् ॥

तादृशो ऽपि महाभागे मृतो ऽसौ नववार्षिकः ।

ततस् तां भूषणभ्रष्टाम् ईश्वरीं पुत्रदुखिताम् ॥

सखीभावाद् अतिस्नेहात् पुत्रैश् च परिवारिता ।

अमुक्ताभरणा भद्रा स्वरूपेणैव भूषिता ॥

तां दृष्ट्वा सदृशीं भार्यां प्रजज्वालेश्वरी रुषा ।

ततो गृहं प्रेषयित्वा ब्राह्मणी तीव्रमत्सरा ॥

चिन्तयामास सा राज्ञी तस्याः पुत्रवधं प्रति ।

निश्चित्य चेतसा क्रूरा यातयामास तत्सुतान् ॥

हताहताश् च ते पुत्राः पुनर् जीवन्त्य् अनामयम् ।

तद् अद्भूततरं दृष्ट्वा सतीम् आहूय भूषणाम् ॥

उपवेश्यासने श्रेष्ठे बहुमानपुरःसरम् ।

अपृच्छद् विस्मयाविष्टा राज्ञी सा मृतवत्सका ॥

ब्रूहि तथ्यं महाभागे किं त्वया सुकृतं कृतम् ।

दानव्रतं तपो वापि शुश्रूषणम् उपोषितम् ॥

येन ते निहताः पुत्राः पुनर् जीवन्त्य् अनामयाः ।

तथा हि बहुपुत्रा च जीववत् सा शुभानने ॥

अमुक्ताभरणा नित्यं भर्तुश् चेतस्य् अवस्थिता ।

अतीव शोभसे देवि विद्युद् घर्मात्यये यथा ॥

[६३६] भूषणोवाच ।

शृणु देवि प्रवक्ष्यामि जन्मान्तरविचेष्टिनम् ।

किं तर्हि विस्मृतं सर्वम् अयोध्यायां च यत् कृतम् ॥

आवाभ्यां व्रतवैकल्यं प्रमत्ताभ्यां वरानने ।

येन त्वं प्लवगी जाताहं सा च कुक्कुटी तथा ॥

तथापि व्रतवैकल्यं त्वया च नान्यतः कृतम् ।

मया तु सर्वभावेन चेतसास्ह्याय शङ्करम् ॥

तिर्यग्योन्यं गता येन मनोवृत्त्या स्वनुष्ठितम् ।

एतद् धि कारणं भद्रे नान्यत् किञ्चित् करोम्य् अहम् ॥

लोमश उवाच ।

इत्य् आकर्ण्य च सङ्गृह्य पूर्वजन्मनि चेष्टितम् ।

ईश्वरी च तया सार्धं पुनः सम्यक् चकार ह ॥

व्रतस्यास्य प्रभावेन पुत्रपौत्रादिसम्भवैः ।

भुक्त्वा च सौख्यम् अतुलं मृता शिवपुरं गता ॥

तस्मात् त्वम् अपि कल्याणि व्रतम् एतत् समाचर ।

प्रारब्धे ऽस्मिन् व्रते दिव्ये जीवत्पुत्रा भविष्यति ॥

देवक्य् उवाच ।

ब्रह्मन् नास्याद्धि ते सम्यग् व्रतम् एतत् सुखप्रदम् ।

सन्तानवृद्धिकरणं शिवलोके स्थितिप्रदम् ॥

लोमश उवाच ।

भाद्र भाद्रपदे मासि सप्तम्यां सलिलाशये ।

स्नात्वा शिवं मण्डलके लेखयित्वा तथाम्बिकाम् ॥

[६३७] भक्त्या सम्पूज्य समयं कुर्याद् बद्ध्वा करे गुणम् ।

यावज्जीवं मयात्मा तु शिवस्य विनिवेदितः ॥

इत्य् एवं समयं कृत्वा शिवस्य विनिवेदितः ।

इत्य् एवं समयं कृत्वा ततः प्रभृति डोरकम् ॥

सौवर्णं राजतं चापि सौत्रं वा धारयेत् करे ।

मण्डकान् वेष्टिकान् अद्याद् अश्वपत्रे ऽथ वा द्विज ॥

स्वयं ताश् चैव भोक्तव्या व्रतभङ्गभयाच् छुभे ।

पारिते मुद्रिका वासो हैमीरौप्याः स्वशक्तितः ॥

ताम्रपात्रोपरि स्थाप्य ब्राह्मणेभ्यो निवेदयेत् ।

आचार्याय विशेषेण कर्तव्यं चाङ्गुलीयकम् ॥

पुष्पकुङ्कुमसिन्दूरताम्बूलाञ्जनसूत्रकैः ।

एवं तत् पारयित्वा तु व्रतं सन्ततिवर्धनम् ॥

सर्वपापविनिर्मुक्ता कृत्वा सौख्यं मनोरमम् ।

सन्तानं वर्धयित्वा च शिवलोके महीयते ॥

एतत् ते सर्वम् आख्यातम् आख्यानसहितव्रतम् ।

कुरु देवकि यत्नेन जीवपुत्रा भविष्यसि ॥

कृष्ण उवाच ।

इत्य् उक्त्वा स मुनिश्रेष्ठस् तत्रैवान्तरधीयते ।

चकार सर्वयत्नेन यद् उक्तं तेन धीमता ॥

व्रतस्यास्य प्रभावेण देवकी माम् अजीजनत् ।

तस्मात् पार्थ नरैः कार्यं स्त्रीभिः कार्यं विशेषतः ॥

व्रतं पापहरं भव्यं सुखसन्ततिदं सदा ।

इदं च शृणुयाद् भक्त्या यश् चैतत् प्रतिपादयेत् ॥

[६३८] व्रतम् आख्यानसहितं सो ऽपि पापैः प्रमुच्यते ।

सान्तानकं व्रतम् इदं सुखमोक्षकामा

या स्त्री चरिष्यति शिवं हृदये निधाय ।

विहाय दुःखम् अतुलं गतकल्मशौघा

सा स्त्री व्रताद् भवति शोभनजीववत्सा ॥

इति भविष्योत्तरे अमुक्ताभरणसप्तमीव्रतम् ।

भीष्म उवाच ।

भगवन् दुर्गसंसारसागरोत्तारकं तथा ।

किञ्चिद् व्रतं समाचक्ष्व स्वर्गारोग्यसुखप्रदम् ॥

पुलस्त्य उवाच ।

सौरधर्मं प्रवक्ष्यामि पार्थ कल्याणसप्तमीम् ।

विधानं तस्या वक्ष्यामि यथावद् अनुपूर्वशः ॥

यदा तु शुक्लसप्तम्याम् आदित्यस्य दिनं भवेत् ।

सा तु कल्याणिनी नाम विजया च निगद्यते ॥

प्रातर् गव्येन पयसा स्नानम् अस्यां समाचरेत् ।

शुक्लाम्बरधरः पद्मम् अक्षतैः परिकल्पयेत् ॥

प्राङ्मुखो ऽष्टदलं मध्ये तद्वृत्तं च सकर्णिकम् ।

सर्वेष्व् अपि दलेष्व् ईशं विन्यसेत् पूर्वतः क्रमात् ॥

पूर्वेण तपनायेति मार्तण्डायेति वै ततः ।

याम्ये दिवाकरायेति विधात्रे इति नैरृते ॥

पश्चिमे वरुणायेति भास्करायेति चानिले ।

**[६३९] **सौम्ये विकर्तनायेति रचयेद् अष्टमे दले ॥

आदाव् अन्ते च मध्ये च नमो ऽस्तु परमात्मने ।

मन्त्रैर् एभिः समभ्यर्च्य नमस्कारान्तदीपितैः ॥

शुक्लवस्त्रैः फलैर् भक्ष्यैर् धूपैर् माल्यानुलेपनैः ।

स्थण्डिले पूजयेद् भक्त्या गुडेन लवणेन च ॥

ततो व्याहृतिमन्त्रेण विसृजेद् द्विजपुङ्गव ।

शक्तितस् तर्पयेद् भक्त्या गुडक्षीरघृतादिभिः ॥

तिलपात्रं हिरण्यं च गुरवे विनिवेदयेत् ।

एवं तु नियमं कृत्वा प्रातर् उत्थाय मानवः ॥

कृतस्नानजपैर् विप्रैः सहैव घृतपायसम् ।

भुक्त्वा च वेदविद्वद्भिर् बैडालव्रतवर्जितः ॥

घृतपात्रं सकनकं सोदकुम्भं निवेदयेत् ।

प्रीयताम् अत्र भगवन् फलम् आह दिवाकरः ॥

अनेन विधिना सर्वं मासि मासि समाचरेत् ।

एवं संवत्सरस्यान्ते कृत्वैतद् अखिलं नृप ॥

उद्यापयेद् यथाशक्त्या भास्करं संस्मरन् हृदि ।

ततस् त्रयोदशे मासि गावो दद्यात् त्रयोदश ॥

वस्त्रालङ्कारसंयुक्ता हेमशृङ्गीः पयस्विनीः ।

एकाम् अपि प्रदद्याद् गां (?) वित्तहीनश् च (?) निःक्रियः ॥

वित्तशाठ्यं न कुर्वीत ततो लोभात् पतत्य् अधः ।

अनेन विधिना यस् तु कुर्यात् कल्याणसप्तमीम् ॥

श्रुत्वेति पठनाद् वापि सर्वपापैः प्रमुच्यते ।

कर्ता शिवपुरे स्थित्वा कल्पम् एकम् इहागतः ॥

[६४०] राजा भवति राजेन्द्र त्रेतायां राघवो यथा ।

पञ्चाष्टपत्रकमलोदरकर्णिकायां

सम्पूजयेत् कुसुमधूपविलेपनाद्यैः ।

षष्ठ्यां परे ऽहनि जनार्तिहरं दिनेशं

कल्याणभाजनम् असौ भवतीह नूनम् ॥

इति पद्मपुराणोक्तं कल्याणसप्तमीव्रतम् ।

पुलस्त्य उवाच ।

अतः परं प्रवक्ष्यामि व्रतं कमलसप्तमीम् ।

यस्य सङ्कीर्तनाद् एव तुष्यतीह दिवाकरः ॥

वसन्तामनसप्तम्यां स्नातः सन् गौरसर्षपैः ।

तिलपात्रे तु सौवर्णं निधाय कमले रविम् ॥

वस्त्रोपवीताभरणगन्धपुष्पैर् अथार्चयेत् ।

नमस् ते पद्महस्ताय नमस् ते विश्वधारिणे ।

दिवाकर नमस् तुभ्यं प्रभाकर नमो ऽस्तु ते ॥

ततस् तु कालवेलायाम् उदकुम्भसमन्वितम् ।

विप्राय दद्यात् सम्पूज्य वस्त्रमाल्यादिभूषितम् ॥

रविं सकमलं दद्याद् अलङ्कृत्य विधानतः ।

उपवासं प्रकुर्वीत परं नियमम् आस्थितः ॥

प्रभातायां तु शर्वर्याम् अष्टम्यां भोजयेद् द्विजान् ।

[६४१] यथाशक्त्या स्वयं पश्चाद् भुञ्जीत मांसवर्जितम् ॥

अनेन विधिना शुक्लसप्तम्यां मासि मासि तु ।

सर्वं समाचरेद् भक्त्या वित्तशाठ्यविवर्जितः ॥

व्रतान्ते शयनं दद्यात् सुवर्णकमलान्वितम् ।

गां च दद्याद् यथाशक्त्या सर्वालङ्कारभूषिताम् ॥

व्यजनासनदीपांश् च यच् चान्यत् कल्पितं गृहे ।

अनेन विधिना यस् तु कुर्यात् कमलसप्तमीम् ॥

आधिव्याधिविनिर्मुक्तः सुखसौभाग्यभाजनः ।

भुक्त्वा भोगांश् चिरं मर्त्ये मृतो रविपुरं व्रजेत् ॥

कल्पानेकं ततः स्थित्वा आगत्यात्र नराधिपः ।

सर्वसम्पत्समृद्धे च कुले भवति भूभुजाम् ॥

तत्रापि भानुनिरतो व्रतैः सन्तोष्य भास्करम् ।

उपर्य् उपरि सम्प्राप्य जन्म भक्ती रवेस् तथा ॥

सप्तजन्मानि राजेन्द्रस् ततो याति परं पदम् ।

यदर्थैर् मुनयः सिद्धाः सुराश् चेन्द्रपुरोगमाः ॥

निर्विन्ना भरतश्रेष्ठ प्राप्नुवन्त्य् अक्षतोद्यमम् ।

एवं व्रतं महेन्द्रस्य समाख्यातं स्वयम्भुवा ॥

तेनैव नारदस्योक्तं नारदेन स्वयं मम ।

आख्यानं विजयं कृत्वा यतो गुह्यतरं नृप ॥

यः पश्यतीदं शृणुयान् मुहूर्तं

पठेच् च भक्त्याथ मतिं ददाति ।

सो ऽप्य् अत्र लक्ष्मीम् अचलाम् अवाप्य

गन्धर्वविद्याधरलोकम् एति ॥

[६४२]

इति पद्मपुराणोक्तं कमलसप्तमीव्रतम् ।

पुलस्त्य उवाच ।

शर्करासप्तमीं वक्ष्ये सर्वकल्मषनाशिनीम् ।

आयुर् आरोग्यम् ऐश्वर्यं ययानन्तं प्रजायते ॥

माध्वस्य सिते पक्षे सप्तम्यां श्रद्धयान्वितः ।

प्रातःस्नातस् तिलैः शुक्लैः शुक्लमाल्यानुलेपनः ॥

स्थण्डिले पद्मम् आलिख्य कुङ्कुमेन सकर्णिकम् ।

तस्मिन् नमः सवित्रेति धूपं पुष्पं निवेशयेत् ॥

स्थापयेद् अव्रणं कुम्भं शर्करापात्रसंयुतम् ।

शुक्लवस्त्रेण संवेष्ट्य शुक्लमाल्यानुलेपनैः ॥

सहिरण्यं यथाशक्त्या मन्त्रेणानेन पूजयेत् ।

विश्वेदेवमयो यस्माद् वेदवादीति पठ्यते ॥

त्वम् एवामृतसर्वस्व अतः पाहि सनातन ।

पञ्चगव्यं ततः पीत्वा स्वपेत् तत्पार्श्वतः क्षितौ ॥

सौरसूक्तं जपंस् तिष्ठेत् पुराणश्रवणेन च ।

अहोरात्रे गते पश्चाद् अष्टम्यां कृतनित्यकः ॥

तत् सर्वं वेदविदुषे ब्राह्मणाय निवेदयेत् ।

भोजयेच् छक्तितो विप्रान् शर्कराघृतपायसैः ॥

भुञ्जीतातैललवणं स्वयम् अस्याथ वाग्रतः ।

अनेन विधिना सर्वं मासि मासि समाचरेत् ॥

वत्सरान्ते पुनर् दद्याद् ब्राह्मणाय समाहितः ।

शयनं वस्त्रसस्वीतं शर्कराकनकान्वितम् ॥

सर्वोपस्करसंयुक्तं तथैकां गां पयस्विनीम् ॥

[६४३] गृहं च शक्तितो दद्यात् समस्तोपस्करान्वितम् ।

सहस्रेणाथ निष्काणाञ् कृत्वा दद्याच् छतेन वा ॥

दशभिर् वा त्रिभिर् निष्कैर् निष्केनैकेन वा पुनः ।

पद्मं स्वशक्तितो दद्याद् वित्तशाठ्यविवर्जितः ॥

पद्मं सौवर्णपद्मम् ।

अमृतं पिबतो वक्त्रात् सूर्यस्यामृतबिन्दवः ।

निष्पेतुर् ये तदुत्पन्नाः शालिमुद्गेक्षवः स्मृताः ॥

शर्करा च परं तस्माद् इक्षुसारामृतोपमा ।

इष्टा रवेर् अतः पुण्याः शर्करा हव्यकव्ययोः ॥

शर्करासप्तमी चैषा वाजिमेधफलप्रदा ।

सर्वदुःखोपशमनी पुत्रसन्ततिवर्धनी ॥

यः कुर्यात् परया भक्त्या स वै सद्गतिम् आप्नुयात् ।

कल्पम् एकं वसेत् स्वर्गे ततो याति परं पदम् ॥

इदम् अनघं शृणोति यः स्मरेद् वा

पठति स याति सुरेश्वरस्य लोकम् ।

मतिमति च ददाति यो जनानाम्

अमरवधूजनकिन्नरैः स पूज्यः ॥

इति पद्मपुराणोक्तं शर्करासप्तमीव्रतम् ।

युधिष्ठिर उवाच ।

अध्रुवेण शरीरेण सुपुष्टेनापि किं फलम् ।

माघस्नानविहीनेन त्वयोक्तं यदुनन्दन ॥

[६४४] प्रातःस्नानसमर्थान्ं शरीरं यस्य देहिनः ।

किं तेन वद कर्तव्यं माघे संसारभीरुणा ॥

कायक्लेशसहा नार्यो न भवन्ति यदूत्तम ।

सौकुमार्याच् छरीरस्य अबलात्वात् तथैव च ॥

कथं च ताः सुरूपाः स्युः सुभगाः सुप्रजास् तथा ।

स्वकृतस्यैव पुण्यस्य सर्वम् एतत् फलं यतः ॥

अल्पायासेन सुमहत् केन पुण्यम् अवाप्यते ।

स्त्रीभिर् माघे भवेद् ब्रूहि स्नानं तद् धि जगद्गुरो ॥

कृष्ण उवाच ।

श्रूयतां पाण्डवश्रेष्ठ रहस्यं मुनिभाषितम् ।

यन् मया कस्यचिन् नोक्तम् अचलासप्तमीव्रतम् ॥

वेश्या चेन्दुमती नाम रूपौदार्यगुणान्विता ।

आसीत् कुरुकुलश्रेष्ठ मगधस्य विलासिनी ॥

तनुमध्या सुजघनी पीनोन्नतपयोधरा ।

सम्यग्विभक्तावयवा पूर्णचन्द्रनिभानना ॥

सौन्दर्यं सुकुमार्यं च तस्याः कामेन गीयते ।

यस्याः सुदर्शनाद् एव कामः कामातुरो भवेत् ॥

मूर्तिः शशधरस्येव नयनानन्दकारिणी ।

वशीकरणविद्येव सर्वलोकमनोहरा ॥

एकस्मिन् दिवसे प्रातः सम्मुखस्थितया तया ।

चिन्तिता हृदये राजन् संसारस्यानवस्थितिः ॥

सन्निमज्जज् जगद् इदं विषवेलायसागरे ।

जरामृत्युज्वरग्राहे न कश्चिद् अवबुध्यते ॥

[६४५] अकूपारभूतभाण्डो धातृशिल्पिविनिर्मितः ।

स्वकर्मघनसंवीतः पच्यते कालवह्निना ॥

ये यान्ति दिवसाः पुंसां धर्मकर्मार्थवर्जिताः ।

न ते पुनर् इहायान्ति हरभक्तनरा यथा ॥

पूजास्नानतपोहोमस्वाध्यायपितृतर्पणम् ।

यस्मिन् दिने न क्रियते वृथा तद् दिवसं नृणाम् ॥

पुत्राणां दारगृहके समासक्तं हि मानवम् ।

वृकीवोरणम् आसाद्य मृत्युर् आदाय गच्छति ॥

इत्य् एवं चिन्तयित्वा तु वेश्या चेन्दुमती ततः ।

वसिष्ठस्याश्रमं पुण्यं जगाम गजगामिनी ॥

वसिष्ठम् ऋषिम् आसीनं प्रणम्य विनयान्विता ।

कृताञ्जलिपुटौ कृत्वा इदं वचनम् अब्रवीत् ॥

इन्दुमत्य् उवाच ।

मया न दत्तं न हुतं नोपवासकृतं व्रतम् ।

भक्त्या न पूजितः शम्भुः स्वामिन् शार्ङ्गधनो न च ॥

साम्प्रतं तप्यमानाया व्रतं किञ्चिद् वदस्व मे ।

येन दुःखाम्बुपङ्कौघाद् उत्तरामि भवार्णवात् ॥

एतत् तस्याः सुबहुशः श्रुत्वातिकरुणं वचः ।

कारुण्यात् कथयामास वसिष्ठो मुनिसत्तमः ॥

माघस्य सितसप्तम्यां सर्वकामफलप्रदम् ।

रूपसौभाग्यजननं स्नानं कुरु वरानने ॥

कृत्वा षष्ठ्याम् एकभक्तं सप्तम्यां निश्चलं जलम् ।

रात्र्यन्ते चालयेथास् त्वं दत्वा शिरसि दीपकम् ॥

[६४६] माघस्य सितसप्तम्याम् अचलं चालितं च यत् ।

जलं मलानां सर्वेषां स्मरन् तत् क्षालनं ततः ॥

वसिष्ठवचनं श्रुत्वा तस्मिन्न् अहनि भारत ।

चकारेन्दुमतीस्नानं दानं सम्यग् यथाविधि ॥

स्नानस्यास्य प्रभावेण भुक्त्वा भोगान् यथेप्सितान् ।

इन्द्रलोके ऽप्सरःसङ्घे नायकत्वम् अवाप सा ॥

अचलासप्तमीस्नानं कथितं ते विशाम्पते ।

सर्वपापप्रशमनं सुखसौभाग्यवर्धनम् ॥

युधिष्ठिर उवाच ।

सप्तमीस्नानमाहत्म्यं श्रुतं निरवशेषितम् ।

साम्प्रतं श्रोतुम् इच्छामि विधिं मन्त्रसमन्वितम् ॥

श्रीकृष्ण उवाच ।

एकभक्तेन सन्तिष्ठेत् षष्ठ्यां सम्पूज्य भास्करम् ।

सप्तम्यां तु व्रजेत् प्रातः सुगम्भीरजलाशयम् ॥

सरित् सरस् तडागं व देवखातम् अथापि वा ।

सुखावगाहसलिलं दुष्टसत्वैर् अदूषितम् ॥

व्यालाम्बुपक्षिभिश् चैव जलगैर् मत्स्यकच्छपैः ।

न केन चाल्यते यावत् तावत् स्नानम् समाचरेत् ॥

सौवर्ण राजते पात्रे भक्त्या ताम्रमये ऽथ वा ।

तैलवर्त्तिः प्रदातव्या महारजतरञ्जिता ॥

महारजतं कुसुम्भम् ।

[६४७] समाहितमना भूत्वा दत्वा शिरसि दीपकम् ।

भास्करं हृदये ध्यात्वा इमं मन्त्रम् उदीरयेत् ॥

नमस् ते रुद्ररूपाय रसानां पतये नमः ।

वरुणाय नमस् ते ऽस्तु हरिवास नमो ऽस्तु ते ॥

जलोपरि तरेद् दीपः स्नात्वा सम्तर्प्य देवताः ।

चन्दनेन लिखेत् पद्मम् अष्टपत्रं सकर्णिकम् ॥

मध्ये शिवं सपत्नीकं प्रणवेन च संयुतम् ।

शक्रे दले रविः पूज्यो भानुश् चैवानले तथा ॥

याम्ये विवस्वान् नैरृत्ये भास्करं पूजयेद् बुधः ।

पश्चिमे सविता पूज्यः पूज्यो ऽर्कश् चानिले दले ॥

सौम्ये सहस्रकिरणं शैवे सर्वात्मने नमः ।

पूज्याः प्रणवपूर्वास् तु नमस्कारान्तयोजिताः ॥

पुष्पैः सुगन्धधूपैश् च पृथक्त्वेन युधिष्ठिर ।

विसर्ज्य वस्त्रसंवीतं स्वस्थानं गम्यताम् इति ॥

विसर्जने सहस्रांशौ समागम्य स्वम् आलयम् ।

ताम्रपात्रे यथाशक्त्या मृण्मये वाथ शक्तिमान् ॥

स्थापयेत् तिलपिष्टं च सघृतं सगुडं तथा ।

काञ्चनं तैलकं कृत्वा अशक्तस् तिलपिष्टजम् ॥

तैलकं दीपपात्रम् ।

सञ्च्छाद्य रक्तवस्त्रेण पुष्पैर् धूपैर् अथार्चयेत् ।

ततस् तान् वाचयेद् विप्रान् दद्यान् मन्त्रेण तालकम् ॥

आदित्यस्य प्रसादेन प्रातःस्नानफलेन च ।

दुष्टदौर्भाग्यदुःस्वप्नं (?) मया दत्तं तु तालकम् ॥

[६४८] तालकं तालपत्रं कर्णाभरणविशेषः ।

पूजयित्वोपदेष्टारं विप्रान् अन्यांश् च पूजयेत् ।

ततो दिनं समग्रं च भास्करध्यानतत्परः ॥

ता एव च कथाः शृण्वन्न् अन्या वा धर्मसंहिताः ।

पाषण्डादिभिर् आलापदर्शनस्पर्शनादिकम् ॥

वर्जयेत् क्षपयेत् प्राज्ञस् ततो बन्धुजनैः सह ।

नक्तं भुञ्जीत च नरो दीनान् सम्भोज्य शक्तितः ॥

एतत् ते कथितं पार्थ रूपसौभाग्यकारकम् ।

अचलासप्तमीस्नानं सर्वकामकलप्रदम् ॥

इति पठति य इत्थं यः शृणोति प्रसङ्गात्

कलिकलुषविनाशं सप्तमीस्नानम् एतत् ।

मतिम् अपि च जनानां यो ददाति प्रयत्नात्

सुरभवनगतो ऽसौ सेव्यते वानरोभिः ॥

इति भविष्योत्तरोक्तं अचलासप्तमीव्रतम् ।

पुलस्त्य उवाच ।

अन्याम् अपि प्रवक्ष्यामि शोभनाशुभसप्तमीम् ।

याम् उपोष्य नरो रोगात् शोकदुःखात् प्रमुच्यते ॥

शुक्ले चाश्वयुजे मासि कृतस्नानजपः शुचिः ।

वाचयित्वा द्विजश्रेष्ठान् आरभेच् छुक्लसप्तमीम् ॥

कपिलां पूजयेद् भक्त्या गन्धमाल्यानुलेपनैः ।

[६४९] नमामि सूर्यसम्भूताम् अशेषभुवनालयाम् ॥

त्वाम् अहं सर्वकल्याणशरीरां सर्वसिद्धये ।

अथाहृत्य तिलप्रस्थं ताम्रपात्रे कृतं नवम् ॥

काञ्चनं वृषभं तद्वद् वस्त्रमाल्यगुडान्वितम् ।

फलैर् नानाविधर् भक्ष्यैः सर्वोपस्करसंयुतैः ॥

दद्याद् विकालवेलायाम् अर्यमा प्रीयताम् इति ।

पञ्चगव्यं तु सम्प्राश्य स्वपेद् भूमौ विमत्सरः ॥

ततः प्रभाते सुस्नातो भक्त्या सन्तर्पयेद् द्विजान् ।

अनेन विधिना दद्यान् मासि मासि तदा नरः ॥

वाससी वृषभं हैमं तद्वच् छन्दोश्वपूजनम् ।

वत्सरान्ते च शयनम् इक्षुदण्डगुणान्वितम् ॥

सोपधानकविश्रामभाजनासनसंयुतम् ।

ताम्रपात्रे तिलप्रस्थं सौवर्णवृषभैर् युतम् ॥

दद्याद् वेदविदे सर्वं विश्वात्मा प्रीयताम् इति ।

अनेन विधिना राजन् कुर्याद् यः शुभसप्तमीम् ॥

तस्य श्रीर् विजयः सौख्यं भवेच् जन्मनि जन्मनि ।

अप्सरोगण्दगन्धर्वैः पूज्यमानो हरालये ॥

वसेद् गणाधिपो भूत्वा चतुर्युगविपर्यये ।

ततः पुनर् इहागत्य सार्वभौमो भविष्यति ॥

समानीतो देवलोकात् सुराणां नारदेन तु ।

[६५०] शुभाख्या सप्तमी चेयं शतकोटिप्रविस्तरा ॥

ब्रह्महत्यादिपापानां विनाशाय दयालुना ।

समाख्याता नारदेन मया च कथिता तव ॥

इमां पठेद् यः शृणुयाच् च भक्त्या

पश्येत् प्रसङ्गाद् अपि दीयमानाम् ।

सो ऽप्य् अत्र सर्वाघवियुक्तदेहः

प्राप्नोति विद्याधरनायकत्वम् ॥

यावत् समा व्रतम् इदं करोति

यः सप्तमी सप्तविधानयुक्तः ।

स सप्तलोकाधिपतिः क्रमेण

भूत्वा पदं याति पदं मुरारेः ॥

इति पद्मपुराणोक्तं शुभसप्तमीव्रतम् ।

पुलस्त्य उवाच ।

अथातः सम्प्रवक्ष्यामि सर्वपापप्रणाशिनीम् ।

सर्वकामप्रदां पुण्यां नाम्ना मन्दारसप्तमीम् ॥

माघस्यामलपक्षे तु पञ्चम्यां लघुभुक् नरः ।

दन्तकाष्ठं ततः कृत्वा षष्ठिम् उपवसेन् नरः ॥

विप्रान् सम्भोजयित्वा तु मन्दारं प्राशयेन् निशि ।

ततः प्रभाते उत्थाय कुर्यात् स्नानं पुनर् द्विजान् ॥

भोजयेच् छक्तितः कृत्वा मन्दारकुसुमाष्टकम् ।

मन्दारो राजार्कः ।

सौवर्णं पुरतस् तद्वत् पद्महस्तं सुशोभनम् ।

[६५१] पद्मं कृष्णतिलैः कृत्वा ताम्रपात्रे ऽष्टपत्रकम् ।

हैमं मन्दारकुसुमं स्थाप्य मध्ये च पूजयेत् ॥

नमस्कारेण तद्वच् च सूर्यायेत्य् अनले दले ।

ऐशान्यां मित्रनामानं नमस्कारेण पूजयेत् ।

दक्षिणे तद्वद् अर्काय अथार्यम्नेति नैरृते ॥

पश्चिमे वेदधाम्नेति वायव्ये चण्डभानवे ।

पूर्णे चोत्तरतः पूज्य आनन्दायेत्य् अतः परम् ॥

कर्णिकायाञ्च पुरुषं स्थाप्य सर्वात्मनेति च ।

शुक्लवस्त्रैः समावेष्ट्य भक्ष्यैर् माल्यफलादिभिः ॥

एवम् अभ्यर्च्य तत् सर्वं दद्याद् वेदविदे पुनः ।

भुञ्जीतातैललवणं वाग्यतः प्राङ्मुखो गृही ॥

अनेन विधिना सर्वसप्तम्यां मासि मासि वा ।

कुर्यात् संवत्सरं यावद् वित्तशाठ्यविवर्जितः ॥

एतद् एव व्रतान्ते तु विधाय कलशोपरि ।

गोभिर् विभवतः सार्धं दातव्यं भूतिम् इच्छता ॥

नमो मन्दारनाथाय मन्दारशयनाय च ।

त्वं वै तारयस्वास्मान् अस्मात् संसारसागरात् ॥

अनेन विधिना यस् तु कुर्यान् मन्दारसप्तमीम् ।

विहार्यातिसुखी लोके कल्पं च दिवि मोदते ॥

इमाम् अघौघपटलभीषणध्वान्तदीपिकाम् ।

गच्छन् प्रगृह्य संसारशर्वर्यां न स्खलेन् नरः ॥

मन्दारसप्तमी नाम ईप्सितार्थफलप्रदा ।

यः पठेच् छृणुयाद् वापि सो ऽपि पापैः प्रमुच्यते ॥

[६५२]

इति पद्मपुराणोक्तं मन्दारसप्तमीव्रतम् ।

युधिष्ठिर उवाच ।

कथं सा क्रियते कृष्ण मनुष्यैर् अथ सप्तमी ।

चक्रवर्तित्वफलदा या विख्याता त्वया मम ॥

कृष्ण उवाच ।

आसीत् काम्बोजविषये यशोधर्मनराधिपः ।

वृद्धे वयसि तस्यासीत् सर्वव्याधियुतः सुतः ॥

तत्कर्मपाकं सो ऽपृच्छद् विनीतो द्विजपुङ्गवान् ।

स चाह राजन् वैश्यो ऽयं कृपणः पूर्वजन्मनि ॥

ददर्श रथसप्तम्यां क्रियमाणव्रतं नृप ।

व्रतदर्शनमाहात्म्याड् उत्पन्नो जठरे तव ॥

अदाता विभवे तस्मात् तेनायं व्याधितो ऽभवत् ।

ततः स राज पप्रच्छ किं मे तत् संविधीयताम् ॥

यस्य सन्दर्शनात् प्राप्तो लाभस् तव निकेतनम् ।

तद् एव क्रियतां राजन् रथसप्तमिसञ्ज्ञितम् ॥

व्रतं पापहरं येन चक्रवर्तित्वम् आप्यते ॥

राजोवाच ।

ब्रूहि विप्र व्रतं कृत्स्नं सविधानं समन्त्रकम् ।

ईश्वराणां दरिद्राणां सर्वसम्पत्प्रदायकम् ॥

द्विज उवाच ।

शुक्लपक्षे तु माघस्य षष्ठ्याम् आमन्त्रयेद् गृही ।

[६५३] स्नानं शुक्लतिलैः कार्यं नद्यभावे तु कुत्रचित् ॥

विमले सलिले राजन् विधिवद् वर्णधर्मतः ।

देवादीन् पूजयित्वा तु गत्वा सूर्यालयं ततः ॥

सूर्यं सम्यङ् नमस्कृत्य पुष्पधूपाक्षतैः शुभैः ।

आगत्य भवनं पश्चात् पञ्चयज्ञांश् च निर्वपेत् ॥

सम्भोज्यातिथिभृत्यांश् च बालवृद्धाश्रितान् स्वयम् ।

विद्यमाने दिने ऽश्नीयाद् वाग्यतस् तैलवर्जितम् ॥

रात्रौ विप्रं समाहूय विधिज्ञं वेदपारगम् ।

सम्पूज्य नियमं कुर्यात् सूर्यम् आधाय चेतसि ॥

सप्तम्यां तु निराहारो भूत्वा भोगविवर्जितः ।

भोक्ष्ये ऽष्टम्यां जगन्नेत्र निर्विघ्नं तत्र मे कुरु ॥

इत्य् उच्चार्य नृपश्रेष्ठ तोयं तोयेषु निक्षिपेत् ।

ततो विसर्ज्य तं विप्रं स्वपेद् भूमौ जितेन्द्रियः ॥

ततः प्रातः समुत्थाय कृतावश्यः शुचिर् नरः ।

कारयित्वा रथं दिव्यं किङ्किणीजालमालिनम् ॥

सर्वोपस्करसंयुक्तं (?) रत्नैः सर्वाङ्गचित्रितम् ।

काञ्चनं राजतं चाथ हयसारथिसंयुतम् ॥

ततो मध्याह्नसमये कृतस्नानादिको व्रती ।

अतीर्यग् (?) वीक्षमाणस् तु पाषण्डालापवर्जितः ॥

सौरसूक्तं जपन् प्राज्ञः समागच्छेत् स्वम् आलयम् ।

निर्वर्त्य नित्यकार्यं तु कृत्वा ब्राह्मणवाचनम् ॥

वस्त्रमण्डयिकामध्ये स्थापयेत् तं रथोत्तमम् ।

कुङ्कुमेन सुगन्धेन चार्चयित्वा समन्ततः ॥

[६५४] मालाभिः पुष्पदीपानां समन्तात् परिवेष्टयेत् ।

धूपेनागुरुमिश्रेण धूपयित्वा रथोपरि ॥

रथस्य स्नापयेद् भानुं सर्वसम्पूर्णलक्षणम् ।

वित्तानुरूपं हैमं च वित्तशाठ्यविवर्जितः ॥

शाठ्याद् व्रजति वैकल्यं वैकल्याद् विकलं फणम् ।

ततो देवं समभ्यर्च्य सरथं सहसारथिम् ॥

पुष्पैर् धूपैस् तथा गन्धैर् वस्त्रालङ्कारभूषणैः ।

फलैर् नानाविधैर् भक्ष्यैर् नैवेद्यैर् घृतपाचितैः ॥

पूजयेद् भास्करं भक्त्या मन्त्रैर् एभिस् त्रिभिः क्रमात् ।

भानो दिवाकरादित्य मार्तण्ड जगताम्पते ॥

अपान्निधे जगद्रक्ष भूतभावन भास्कर ।

प्रणतार्तिहराचिन्त्य विश्ववित्तामणे विभो ॥

विष्णो हंसातिभूतेश आदिमध्यान्तकारक ।

भक्तिहीनं क्रियाहीनं मन्त्रहीनं जगत्पते ॥

प्रसादात् तव सम्पूर्णम् अर्चनं यद् इहास्तु मे ।

एवं सम्पूज्य देवेशं प्रार्थयेच् च मनोगतम् ॥

ददाति प्रार्थितं भानुर् भक्त्या सन्तोषितो नरैः ।

वित्तहीनो ऽपि विधिना सर्वम् एतत् प्रकल्पयेत् ॥

रथं ससारथिं साश्वं वर्णकैर् भित्तिलेखितम् ।

सौवर्णं च तथा भानुं यथाशक्त्या विनिर्मितम् ॥

प्रागुक्तेन विधानेन पूजयित्वा सुविस्तरम् ।

जागरं कारयेद् रात्रौ गीतवादित्रनिस्वनैः ॥

प्रोक्षणीयैर् विचित्रैश् च पुण्याख्यानकथादिभिः ।

[६५५] रथयात्रां प्रपश्येत भागोर् आयतनं श्रितः ॥

अनिमीलितनेत्रस् तु नयेत् तां रजनीं बुधः ।

प्रभाते विमले स्नातः कृतकृत्यस् ततो द्विजान् ॥

तर्पयेद् विविधैः कामैर् दानैर् वासोविभूषणैः ।

अश्वमेधेन तुल्यं तद् इदं ब्रह्मविदो विदुः ॥

अतो देयानि दानानि यथाशक्त्या विचक्षणैः ।

रथं तु गुरवे देयं सर्वोपस्करसंयुतम् ॥

रक्थं च वस्त्रयुगलं रक्तधेनुसमन्वितम् ।

एवं चीर्णव्रतो राजन् किं नाप्नोति जगत्त्रये ॥

तस्मात् सर्वप्रयत्नेन कुरु त्वं रथसप्तमीम् ।

येनारोग्यो भवत् पुत्रः स्वदीपो नृपसत्तम ॥

व्रतस्यास्य प्रभावेन प्रसादाद् भास्करस्य च ।

भविष्यति महातेजा महाबलपराक्रमः ॥

मुक्त्वा भोगान् सुविपुलान् कृत्वा राज्यम् अकण्टकम् ।

दत्वासौ रथसप्तम्यां मृते त्व् अपि महाभुजः ॥

उत्पाद्य पुत्रान् पौत्रांश् च सूर्यलोकं स यास्यति ।

तत्र स्थित्वा कल्पम् एकं चक्रवर्ती भविष्यति ॥

कृष्ण उवाच ।

इति सर्वं समाख्याय विपरितो द्विजोत्तमः ।

यथागतं जगामासौ नृपः सर्वं चकार ह ॥

यद् आदिष्टं द्विजेन्द्रेण तत् तत् सर्वं बभूव ह ।

एवं स चक्रवर्तित्वं प्राप्तवान् नृपनन्दन ॥

श्रूयते यस् तु मान्धाता पुराणेषु परन्तप ।

[६५६] य इदं शृणुयाद् भक्त्या यो वापि परिकीर्तयेत् ॥

तस्यैव तुष्यते भानुर् यः श्रुत्वैवाभयं सदा ।

एवंविधं रथवरं रथवाजियुक्तं

हैमं च हैमशतदीधितिना समेतम् ।

दद्याच् च माघसितसप्तमिवासरेषु

सो सङ्गचक्रगतिर् एव महीं भुनक्ति ॥

इति भविष्योत्तरोक्तं रथसप्तमीव्रतम् ।

ब्रह्मोवाच ।

माघे मासि महादेव सिते पके जितेन्द्रियः ।

षष्ठ्याम् उपोषितो भूत्वा गन्धपुष्पोपहारकैः ॥

पूजयित्वा दिनकरं रात्रौ तस्याग्रतः स्वपेत् ।

विबुद्धस् त्व् अथ सप्तम्यां भक्त्या भानुं समर्चयेत् ॥

ब्राह्मणान् भोजयेद् भक्त्या वित्तशाठ्यं विवर्जयेत् ।

खण्डवेष्टैर् मोदकैश् च तथेक्षुगुडपूपकैः ॥

प्रथमं वत्सरे पूर्णे सप्तम्यां कारयेद् बुधः ।

देवदेवस्य वै यात्रां पूर्वोक्तविधिनाचरेत् ॥

पूर्वोक्तविधिनेति नानातिथिप्रकरणस्थितरथयात्राविधिनेत्य् अर्थः ।

कृच्छ्रपादं व्रतं कुर्याद् रथारूढं व्रतं रविम् ।

[६५७] पश्येद् भक्त्या जगन्नाथं स याति परमां गतिम् ।

तृतीयायाम् एकभक्तं चतुर्थ्यां नक्तम् उच्यते ॥

अथाचितं तु पञ्चम्यां षष्ठ्यां चैव उपोषितः ।

सप्तम्यां पारणं कुर्याद् दृष्ट्वा देवं रथे स्थितम् ॥

पूजयित्वा च विधिना भक्त्या देवं त्रिलोचनम् ।

सौवर्णं तु रथं कृत्वा ताम्रपात्रोपरिस्थितम् ॥

रथमध्ये न्यसेद् व्योमं (?) पूजितं मणिभिर् नवम् ।

व्योमनिर्माणं तु व्योमषष्ठीव्रत एव व्याख्यातम् वेदितव्यम् ।

पद्मरागं न्यसेन् मध्ये मौक्तिकं पूर्वतो न्यसेत् ।

इन्द्रनीलम् अथो याम्या वारुण्यां मकरध्वजम् ॥

प्रवालम् उत्तरे रुद्रे सर्वज्ञं विन्यसेद् बुधः ।

श्वेतं पीतं सितं चापि रक्तं चान्धकसूदन ॥

एतानि नववस्त्राणि दिक्षु सर्वासु विन्यसेत् ।

पताका रथसंस्थाने घण्टाभरणभूषिते ॥

पुष्पदाम्ना स्वलङ्कृत्व्य रथं व्योमसमन्वितम् ।

यथान्यायं पूजयित्वा भास्कराय निवेदयेत् ॥

भोजयित्वाथ वा विप्रम् आचार्याय निवेदयेत् ।

यो ऽधीते सप्तमीकल्पं सोपाख्यानं च शाङ्करम् ॥

आचार्यः स द्विजो ज्ञेयो वर्णानाम् अनुपूर्वशः ।

सौराणां वैष्णवानां च शैवानां पार्वतीपतिः ॥

अलाभे तु सुवर्णस्य रथं राजतम् आदिशेत् ।

[६५८] तदलाभे ताम्रमयं रथं व्योमं च कारयेत् ।

अलाभेन च ताम्रस्य रथः पिष्टमयः स्मृतः ॥

सहिरण्यं महादेवं ताम्रभाजनम् आस्थितम् ।

काषाययुग्मसहितं ब्राह्मणाय निवेदयेत् ॥

पूर्वोक्तेन महादेव वाचकाय महाद्युते ।

पञ्चरत्नसमायुक्तं (?) शुभाङ्गप्रावृतं सितम् ॥

स्वशक्त्या तु विरूपाक्षं वित्तशाठ्यं विवर्जयेत् ।

एषा पुण्या पापहरा रथाङ्का सप्तमी हर ॥

कथिता ते मया रुद्रमहतीयं प्रकीर्तिता ।

स्नानं दानम् अथो होमः पूजनं ग्रहनायकम् ॥

शतसाहस्रिकं पुण्यं भूत्यै भूधर विद्यते ।

एवम् एषा पुण्यतमा माधे प्राप्ता तु सप्तमी ॥

याम् उपोष्य नरो भक्त्या सूर्यस्यानुचरो भवेत् ।

ब्राह्मणो याति देवत्वं क्षत्रियो विप्रतां व्रजेत् ॥

वैश्यस् तु क्षत्रतां याति वैश्यत्वम् एति वै ।

विद्याविनयसम्पन्नं भर्तारं कन्यका लभेत् ॥

अपुत्रा स्त्री सुतं विन्द्यात् सौभाग्यं च नराधिप ।

विधवा चाप्य् उपोष्यैनाम् उत्तमं लोकम् अश्नुते ॥

नान्यजन्मसु वैधव्यं प्राप्नुयात् पार्वतीप्रिय ।

बहुपुत्रा बहुधना भर्तुर् वल्लभतां व्रजेत् ।

यावद्भिः सप्तजन्मानि नारी वा पुरुषस् तथा ॥

[६५९]

इति भविष्यत्पुराणोक्तं रथाङ्कसप्तमीव्रतम् ।

वासुदेव उवाच ।

माघस्य शुक्लपक्षे तु अञ्चम्यां (?) च कुरूद्वह ।

एकभक्तं समाख्यातं षष्ठ्यां नक्तम् उदाहृतम् ॥

सप्तम्याम् उपवासं च केचिद् इच्छन्ति सुव्रत ।

षष्ठ्यां केचिद् उशन्तीह सप्तम्यां राधनं किल ॥

कृतोपवासः षष्ठ्यां तु पूजयेद् भास्करं बुधः ।

रक्तचन्दनमिश्रैस् तु करवीरैः समाहृतैः ॥

गुग्गुलेन महाबाहो सुगन्धेन च सुव्रत ।

पूजयेद् देवदेव्शं ग्रहेशशङ्करं रविम् ॥

शङ्करं सुखकरम् इत्य् अर्थः ।

एवं हि चतुरो मासान् माघादीन् पूजयेद् रविम् ।

आत्मनश् चापि शुद्ध्यर्थं प्राशनं गोमयस्य च ॥

स्नानं च गोमयेनेह कर्तव्यं चात्मशुद्धये ।

ब्राह्मणान् दिव्यभोगांश् च भोजयेच् चापि शक्तितः ॥

दिवि देवकुले भवाः दिव्या इतरे भौमाः ।

ज्यैष्ठादिष्व् अपि मासेषु श्वेतचन्दनम् उच्यते ।

श्वेतानि चापि पुण्याणि शुभगन्धान्वितानि वै ॥

कृष्णागुरु तथा धूपं नैवेद्यं पायसं स्मृतम् ।

तेनैव ब्राह्मणान् साधून् भोजयेच् च महामते ॥

प्राशयेत् पञ्चगव्यं तु स्नानं तेनैव सुव्रत ।

[६६०] कार्त्तिकादिषु मासेषु अगस्तिकुसुमैः स्मृतम् ।

पूजनं कुरुशार्दूल धूपश् चैवापराजितः ॥

नैवेद्यं ब्राह्मणान् स्नातो भोजयेच् च स्वशक्तितः ॥

कुशोदकं प्राशयेच् च स्नानं च कुरु सिद्धये ।

तृतीयपारणस्यान्ते माघे मासि महामते ॥

भोजनं तत्र दानं च द्विगुणं समुदाहृतम् ।

देवदेवस्य पूजा च कर्तव्या शक्तितो बुधैः ॥

रथस्य चापि दानं तु रथयात्रा च सुव्रत ।

रथस्य प्राप्तिहेतोर् वै कर्तव्या विभवे सति ॥

दानं सर्वरथस्येह यथोकं विभवे सति ।

इत्य् एषा कथिता पुत्र रथाङ्कसप्तमी शुभा ॥

सप्तमीति महाख्याता महापुण्या महोदया ।

याम् उपोष्य धनं पुत्रान् कीर्तिं विद्यां समश्नुते ॥

इति भविषत्पुराणोक्तं महासप्तमीव्रतम् ।

ब्रह्मोवाच ।

जया च विजया चैव जयन्ती चापराजिता ।

महाजया च नन्दा च भद्रा वामा प्रकीर्तिता ॥

शुक्लपक्षस्य सप्तयां नक्षत्रं पञ्चतारकम् ।

यदा भवेत् तदा ज्ञेया जयानामेति सप्तमी ॥

पञ्चतारकम् इति रोहिण्य् अश्लेषा मघा हस्ताश् च ।

तस्यां दत्तं हुतं जप्तं तर्पणं देवपूजनम् ।

[६६१] सर्वं शतगुणं प्रोक्तं पूजां चापि दिवाकरीम् ॥

हंसे हस्तसमारूढे शुक्ला या सप्तमी परा ।

हंसः सूर्यः ।

वर्षम् एकं तु कर्तव्या विधिनानेन भास्करम् ॥

सौवर्णं कारयेद् भक्त्या द्विभुजं पद्मधारिणम् ।

पारणत्रितयं तस्यां क्रियते गोपते पुरा ॥

प्रथमं चतुरो मासान् पारणं कथितं बुधैः ।

कथितान्य् अत्र पुष्पाणि करवीरस्य सुव्रत ॥

चन्दनं च तथा रक्तं धूपार्थं गुग्गुलः स्मृतः ।

कासारं तु सितासारं (?) नैवेद्यं भास्कराय वै ॥

कासारो गोधूमचूर्णैक्षवघृतैर् भृष्ट्वा निर्मितो लोके प्रसिद्धः सितातारः (?) शर्कराबहुलः ।

अनेन विधिना पूज्य मार्तण्डं विबुधाधिपम् ।

पूजयेद् ब्राह्मणान् भक्त्या भक्ष्यभोज्यैर् यथाविधि ॥

कासारं भोजयेद् विप्रान् पारणं फलदं भवेत् ।

स्वयम् एव तथाश्नीयाद् अदृतो मौनम् आस्थितः ॥

पञ्चम्याम् एकभक्तं च षष्ठ्यां नक्तं तु कीर्तितम् ।

कृत्वोपवासं सप्तम्याम् अष्टम्यां पारणं भवेत् ॥

सिद्धार्थकैः स्नानम् अत्र प्राशनं पायसेन तु ।

भानुर् मे प्रीयताम् अत्र दन्तकाष्ठं तथार्कजम् ॥

द्वितीयं श्रूयतां कर्म पारणं गदतो मम ।

मालतीकुसुमानीह श्रीखण्डं चन्दनं तथा ॥

[६६२] नैवेद्यं पायसं भानोर् धूपं विजयम् आविशेत् ।

ब्राह्मणान् भोजयेच् चापि समश्नीयात् स्वयं विभो ॥

रविर् मे प्रीयताम् अत्र नाम देवस्य कीर्तयेत् ।

प्राशयेत् पञ्चगव्यं तु खादिरं दन्तधावनम् ॥

द्वितीये पारणे चापि विधिर् उक्तो मयाधुना ।

तृतीये पारणे चैव विधानं तु निबोध मे ॥

अगस्त्यकुसुमैर् अत्र भास्करं पूजयेद् बुधः ।

स्वम् आलम्भनमात्रोक्तं श्रीखण्डं कुङ्कुमं तथा ॥

सिह्लकं धूपनिर्दिष्टं सूर्यप्रीतिकरं परम् ।

शाल्योदनं तु नैवेद्यं रसालोपरिसंयुतम् ॥

रसालः शिखण्डिनी ।

ब्राह्मणानाम् अथो दानं भोजयेच् च तथात्मना ।

कुशोदकप्राशनं च बदर्या दन्तधावनम् ॥

विकर्तनः प्रीयतां मे नाम देवस्य कीर्तयेत् ।

वर्षान्ते देवदेवस्य पूजा कार्या विधानतः ॥

गन्धपुष्पोपहारैश् च नानाप्रोक्षणकैस् तथा ।

गोदानभूमिदानैश् च ब्राह्मणानां च तर्पणैः ॥

इत्थं सम्पूज्य देवेशं देवस्य पुरतः स्थितम् ।

कारयेत् परमं पुण्यं धर्मपुस्तकवाचनम् ॥

वस्त्रैर् गन्धैस् तथा धूपैर् वाचकं पूज्य यत्नतः ।

देवस्य पुरतः स्थित्वा ततो मन्त्रम् उदीरयेत् ॥

देवदेव जगन्नाथ सर्वव्याधिविनाशन ।

[६६३] ग्रहेश लोकतपन विकर्तन तमोपह ॥

कृतेयं देवदेवस्य जया नामेति सप्तमी ।

मया तव प्रसादेन धन्या पापहरा शिवा ॥

अनेन विधिना वीर यः कुर्यात् सप्तमीव्रतम् ।

तस्य स्नानादिकं सर्वं भवेच् छतगुणं विभो ॥

कृत्वेमां सप्तमीं वीर पुरुषः प्राप्नुयाद् यशः ।

धनं धान्यं सुवर्णं च पुत्रान् आयुर् बलं स्मृतम् ॥

प्राप्येह नरशार्दूल स्वर्गलोकं च गच्छति ।

तस्माद् एत्य पुनर् भूमौ राजा भवति धार्मिकः ॥

इत्य् एषा कथिता वीर जया नामेति सप्तमी ।

कृताश्रुता स्मृता या तु हंसलोकप्रदायिनी ॥

इति भविष्यत्पुराणोक्तं जयासप्तमीव्रतम् ।

ब्रह्मोवाचा ।

शुक्लपक्षस्य सप्तम्यां सूर्यवारो भवेद् यदि ।

सप्तमी विजया नाम तत्र दत्तं महाफलम् ॥

स्नानं दानं जपो होम उपवासस् तथैव च ।

सर्वं विजयसप्तम्यां महापातकनाशनम् ॥

पञ्चम्याम् एकभक्तं स्यात् षष्ठ्यां नक्तं प्रचक्षते ।

उपवासस् तु सप्तम्याम् अष्टम्यां पारणं भवेत् ॥

उपवासपरः षष्ठ्यां अब्जस्थं पूजयेद् रविम् ।

उपवासपरः विजयसप्तम्याम् उपवासं करिष्यन् ।

गन्धपुष्पोपहारैश् च भक्त्या श्रद्धासमन्वितः ।

[६६४] प्रकल्प्य पूजाभूमौ च देवस्य पुरतः स्वपेत् ॥

जपमानस् तु गायत्रीं सौरसूक्तम् अथापि वा ।

त्र्यक्षरं वा महाश्वेतं षडक्षरम् अथापि वा ।

विबुद्धस् त्व् अथ सप्तम्यां कृत्वा स्नानं गणाधिपम् ॥

ग्रहेशं पूजयित्वा तु होमं कृत्वा विधानतः ।

ब्राह्मणान् भोजयेत् पश्चाद् भक्त्या च गणनयकम् ॥

शाल्योदनम् अपूपांश् च खण्डवेष्टाश् च शक्तितः ।

दत्वा तु दक्षिणां शक्त्या ततो विप्रान् विसर्जयेत् ॥

इत्य् एषा कथिता देव पुण्या विजयसप्तमी ।

याम् उपोष्य नरो गच्छेत् परं वैरोचनं पदम् ॥

करवीराणि रक्तानि कुङ्कुमं च विलेपनम् ।

विजयं धूपम् अस्यां तु भानोस् तुष्टकराणि वै ॥

एषा पुण्या पापहरा महापातकनाशिनी ।

अत्र दत्तं हुतं चापि अक्षयं च गणाधिप ॥

इति भविष्यत्पुराणोक्तं विजयासप्तमीव्रतम् ।

ब्रह्मोवाच ।

माघस्य शुक्लपक्षे तु सप्तमी या त्रिलोचना ।

जयन्ती नाम सा प्रोक्ता पुण्या पापहरा तथा ॥

उपोष्य येन विधिना शृणु तं पार्वतीप्रिय ।

पारणानि तु चत्वारि कथितानि च पण्डितैः ॥

पञ्चम्याम् एकभक्तस् तु षष्ठ्यां नक्तं प्रकीर्तितम् ।

[६६५] उपवासस् तु सप्तम्याम् अष्टम्यां पारणं भवेत् ॥

माघे च फाल्गुने मासे (?) तथा चैत्र च सुव्रत ।

अर्कपुष्पाणि धन्यानि कुङुमं च विलेपनम् ॥

नैवेद्यं मोदकं चान्नं धूपाद्यम् उदाहृतम् ।

प्राशनं पञ्चगव्यस्य पवित्रीकरणं परम् ॥

मोदकैर् भोजयेद् विप्रान् यथाशक्त्या गणाधिप ।

शाल्योदनं च भूतेश दद्याद् भक्त्या द्विजेषु वै ॥

इत्थं सम्पूजयेद् यस् तु भास्करं लोकपूजितम् ।

सर्वेषु पारणेष्व् एवं सो ऽश्वमेधफलं लभेत् ॥

द्वितीये पारणे पूज्य राजसूयफलं लभेत् ।

वैशाखे त्व् अथ ज्यैष्ठे तु आषाढे मासि सुव्रत ॥

पूजार्घमन्त्रे भानोर् वै शतपत्राणि योजयेत् ।

श्वेतं च चन्दनं भौमं धूपो गुग्गुलुर् उच्यते ॥

नैवेद्यं गुडपूपाश् च प्राशनं गोमयस्य च ।

भोजनं चापि विप्राणां गुडपूपाश् च कीर्तिताः ॥

द्वितीयम् इदम् आख्यानं पारणं पापनाशनम् ।

तृतीयं शृणु देवेश पूजार्थं भास्करस्य तु ॥

श्रावणे मासि देवेश तथा भाद्रपदे विभो ।

आश्विने चापि मासे तु रक्तचन्दनम् इष्यते ॥

मालतीकुसुमानीह धूपो विजय इष्यते ।

नैवेद्यं घृतपूपाश् च भोजने तु द्विजातिषु ॥

कुशोदकप्राशनं तु कायशुद्धिकरं परम् ।

तृतीयम् अपि त्व् आख्यातं पारणं पापनाशनम् ॥

[६६६] राजसूयाश्वमेधाभ्यां फलदं भास्करप्रियम् ।

चतुर्थम् अप्य् अहं वच्मि पारणं श्रेयसे नृप ॥

मासि कार्त्तिकके वीर मार्गशीर्षे तथापि च ।

पौषे च नरशार्दूल शृणु पुष्पाण्य् अशेषतः ॥

करवीराणि रक्तानि तथा रक्तं च चन्दनम् ।

अमृताख्यं तथा धूपं नैवेद्यं पायसं तथा ॥

अर्जुनीयं तथा वज्रं प्राशनं परमं मतम् ।

अगुरुं चन्दनं मुस्तां सिह्लकं वृषणं तथा ॥

समभागं तु कर्तव्यं धूपं चामृतसम्भवम् ।

अर्जुनीयं गव्यं वज्रं घृतम् ।

नामानि कथितान्य् अत्र भास्करस्य महात्मनः ॥

चित्रभानुस् तथा भानुर् आदित्यो भास्करस् तथा ।

प्रीयताम् इति सर्वेषु पारणेष्व् एवम् आदिशेत् ॥

अनेन विधिना यस् तु कुर्यात् पूजां विभावसोः ।

अस्यां तिथौ महादेव स याति परमं पदम् ॥

कृत्वैवं सप्तमीं भीम सर्वान् कामान् अवाप्नुयात् ।

पुत्रार्थी लभते पुत्रान् धनार्थी लभते धनम् ॥

सरोगो मुच्यते रोगात् शुभं प्राप्नोति पुष्कलम् ।

पूर्णे संवत्सरे भीम कार्या पूजा दिवाकरे ॥

गन्धपुष्पोपहारैश् च ब्राह्मणानां च तर्पणैः ।

नानाविधैः प्रोक्षणकैः पूजया वाचकस्य च ॥

इत्थं सम्पूज्य देवेशं ब्राह्मणं च प्रपूजयेत् ।

वाचकं द्विजं सम्पूज्य इदं वाक्यम् उदीरयेत् ॥

[६६७] धर्मकार्येषु मे देव अर्थकार्येषु नित्यशः ।

कामकार्येषु सर्वेषु जयो भवति सर्वदा ॥

तदा विसर्जयेद् विप्रान् वाचकं च द्विजोत्तमम् ।

इत्थं कुर्याद् इदं पश्चात् स जयं प्राप्नुयात् सदा ॥

सर्वपापविशुद्धात्मा सूर्यलोकं स गच्छति ।

विमानवरम् आरूढः कविजोद्भवम् उत्तमम् ॥

तेजसा कविसङ्काशः प्रभया पतगोत्तमः ।

कविजं कविर् अग्निस् तज्जं सुवर्णम् । पतगः सूर्यः ।

इति भविष्यपुराणोक्तं जयन्तीव्रतम् ।

ब्रह्मोवाच ।

मासि भाद्रपदे शुक्ला सप्तमी या गणाधिप ।

अपराजितेति विख्याता महापातकनाशिनी ॥

चतुर्णाम् एकभक्तं तु पञ्चम्यां नक्तम् आदिशेत् ।

उपवासस् तथा षष्ठ्यां सप्तम्यां पारणं भवेत् ॥

पारणं यत्र चत्वारि कथितानि मनीषिभिः ।

पुष्पाणि करवीराणि तथा रक्तं च चन्दनम् ॥

धूपक्रिया गुग्गुलुना नैवेद्यं गुडपूपकाः ।

नभस्यादिषु मासेषु विधिर् एष प्रकीर्तितः ॥

तथाशुभगपुष्पाणि कुङ्कुमं च विलेपनम् ।

धूपार्थं सिह्लकं प्रोक्तम् अथ वा बिल्वसम्भवम् ॥

शाल्योदनं च नैवेद्यं रसालाः फाल्गुनादिषु ।

[६६८] रक्तोत्पलानि भूतेश अगुरुचन्दनं तथा ॥

अनन्तधूपम् उद्दिष्टं नैवेद्यं गुडपूपकाः ।

श्रीखण्डं ग्रन्थसहितम् अगुरुः सिह्लकं तथा ॥

मुस्ता तथेन्दुं भूतेश शर्कराश् च दहेत् त्र्यहम् ।

इत्य् एषो ऽनन्तधूपश् च कथितो देवसत्तम ॥

ग्रन्थिर् ग्रन्थिपर्णी, इन्दुः कर्पूरः ।

ज्यैष्ठादिषु तथा ह्य् एष विधिर् उक्तो मनीषिभिः ।

शृणु नामानि देवस्य प्राशनानि च सुव्रत ॥

भगो ऽंशुमान् अर्यमा च सविता त्रिपुरान्तकः ।

पारणेषु च सर्वेषु प्रीयताम् इति कीर्तयेत् ॥

गोमूत्रं पञ्चगव्यं च घृतम् उष्णं च वै पयः ।

यस् त्व् इमां सप्तमीं कुर्याद् अनेन विधिना नरः ॥

अपराजितो भवेत् सो ऽपि सदा शत्रुभिर् आहवे ।

हन्याच् छत्रून् जयेच् चापि त्रिवर्गं नात्र संशयः ॥

त्रिवर्गम् अथ सम्प्राप्य भनोः पुरम् अवाप्नुयात् ।

गन्धपुष्पोपहारैश् च पुराणश्रवणेन च ॥

अश्वदानेन च विभो भ्राह्मणानां च तर्पणैः ।

वाचकं पूजयित्वा तु भास्करस्य प्रियं सदा ॥

स पराजितस्य वै शत्रून् याति हंससलोकताम् ।

शुक्रजोद्भवयानेन आपगेयपताकिना ॥

आपगाधिपसङ्काशो ह्य् आपगाधिपतिर् भवेत् ।

शुक्रजं सुवर्णम्, आपगेयम् अपि सुवर्णम् एव, आपगाधिपो वरुणः ।

[६६९]

इति भविष्यत्पुराणोक्तम् अपराजितासप्तमीव्रतम् ।

ब्रह्मोवाच ।

शुक्लपक्षे तु सप्तम्यां यदा सङ्क्रमते रविः ।

महाजया तदा स्याद् वै सप्तमी भास्करप्रिया ॥

स्नानं दानं जपो होमः पितृदेवाभिपूजनम् ।

सर्वं कोटिगुणं प्रोक्तं तपनेन महौजसा ॥

यस् त्व् अस्यां मानवो भक्त्या घृतेन स्नापयेद् रविम् ।

सो ऽश्वमेधफलं प्राप्य ततः सूर्यपदं व्रजेत् ॥

पयसा स्नापयेद् यस् तु भास्करं भक्तिमान् नरः ।

विमुक्तः सर्वपापेभ्यः स याति सूर्यलोक्ताम् ॥

स्थित्वा तत्र चिरं कालं राजा भवति सञ्जय ।

महाजयाइषा कथिता सप्तमी त्रिपुरान्तक ॥

याम् उपोष्य नरो भक्त्या अचलां स्वर्गतिं लभेत् ।

ततो याति परं स्थानं यत्र गत्वा न शोचति ॥

इति भविष्यत्पुराणोक्तं महाजयासप्तमीव्रतम् ।

ब्रह्मोवाच ।

या तु मार्गशिरे मासि शुक्लपक्षे तु सप्तमी ।

नन्दा सा कथिता वीर सर्वानन्दकरी शुभा ॥

पञ्चम्याम् एकभक्तं तु षष्ठ्यां नक्तं प्रकीर्तितम् ।

[६७०] सप्तम्याम् उपवासं च कीर्तयन्ति मनीषिणः ॥

मालतीकुसुमानीह सुगन्धं चन्दनं तथा ।

कर्पूरागुरुसम्मिश्रं धूपं चात्र विनिर्दिशेत् ॥

दध्योदनं सखण्डं च नैवेद्यं भास्करप्रियम् ।

तद् एव दद्याद् विप्रेभ्यो ह्य् अश्नीयाच् च स्वयं तथा ॥

पूजार्थं भास्करास्यैष प्रथमे पारणे विधिः ।

पालाशपुष्पाणि विभो यज्ञचन्दनम् एव च ॥

कर्पूरं सिह्लकं कुष्ठम् उशीरं चन्दनं तथा ।

सग्रन्थिवृषणं भीम कुङ्कुमं गृञ्जनं तथा ।

हरीतकी तथा भीम एष यज्ञाङ्क उच्यते ॥

गृञ्जनं पलाण्डुभेदः ।

धूपं प्रबोधम् आदिष्टं नैवेद्यं खण्डखाद्यकम् ।

कृष्णागुरुः सिह्लकं च चाणक्यं वृषणं तथा ॥

चन्दनं तगरं मुस्ता प्रबोधः शर्करान्वितः ।

चाणक्यं मूलकभेदः ।

भोजयेद् ब्राह्मणांश् चापि खण्डाद्यैर् गगणाधिप ॥

बिल्वपत्रं तु सम्प्राश्य ततो भुञ्जीत वाग्यतः ।

वारणस्य द्वितीयस्य विधिर् एष प्रकीर्तितः ॥

नीलोत्पलानि पुष्पाणि धूपं गुग्गुलुम् आहरेत् ।

नैवेद्यं च पांशुमुखाः प्रीतये भास्करस्य तु ॥

पांशुमुखाः शर्कराचूर्णपूर्णवदना भक्ष्याः ।

[६७१] विलेपनं चन्दनस्य मुस्ताप्राशनम् उच्यते ।

तृतीयस्यापि हे वीर कथितो विधिर् उत्तमः ॥

शृणु नामानि देवस्य पावनानि नृणां सदा ।

विष्णुर् भगस् तथा धाता प्रीयताम् उच्चयेद् बुधः ॥

अनेन विधिना यस् तु कुर्यान् नन्दां वरः सदा ।

स कामान् इह (?) सम्प्राप्य विधातारम् अवाप्नुयात् ॥

पुत्रकामो लभेत् पुत्रं धनकामो लभेद् धनम् ।

विद्यार्थी लभते विद्यां यशोऽर्थी च यशस् तथा ॥

सर्वकामस् (?) तथा प्राप्य मोदते शाश्वतीः समाः ।

ततः सूर्यसदो गत्वा नन्दते नन्दवर्धनम् ॥

इत्य् एषा नन्दजननी नन्दा ख्याता मया द्विज ।

याम् उपोष्य तथा श्रुत्वा नन्दते ऽर्कम् अवाप्य वै ॥

इति भविष्योत्तरोक्तं नन्दासप्तमीव्रतम् ।

ब्रह्मोवाच ।

शुक्लपक्षे तु सप्तम्यां नक्षत्रं सवितुर् भवेत् ।

यदा प्राप्यम् अशेषेण तदा सा भद्रतां व्रजेत् ॥

सवितृनक्षत्रं हस्ता ।

चतुर्थ्याम् एकभक्तस् तु पञ्चम्यां नक्तम् आदिशेत् ।

षष्ठ्याम् अयाचितं प्रोक्तम् उपवासस् ततः परम् ॥

[६७२] तर्पणं देवदेवेशो घृतेन कथितं बुधैः ।

क्षीरेण च तथा वीर पुनर् इक्षुरसेन च ॥

स्नापयित्वा तु देवेशं चन्दनेन विलेपयेत् ।

दद्याच् च गुग्गुलं तस्मै दद्याद् व्योम तथाग्रतः ॥

गोधूमचूर्णनिष्पन्नं विमलं शशिसन्निभम् ।

सुवर्णं सगुडं चैव रक्तपुष्पोपशोभितम् ॥

यद् अत्र शृङ्गम् ईशानं तत्र वै मौक्तिकं न्यसेत् ।

यदग्रे तत्र माणिक्यं न्यसेद् वा रोहितं मणिम् ॥

नैरृते मरकतं दद्याद् वायव्ये यज्ञरागकम् ।

सरोजं वाप्य् उत्तरतः स्वशक्त्या विन्यसेद् बुधः ॥

पाषण्डिनो विकर्मस्थान् बैडालव्रतिकान् त्यजेत् ।

सप्तम्यां भोजयेद् राज्ञो दिवास्वप्नं च वर्जयेत् ॥

अनेन विधिना यस् तु कुर्याद् वै भद्रसप्तमीम् ।

भद्रा ददाति सप्तम्यां भद्रं तस्य व्रतं भवेत् ॥

तस्य भद्राः सर्व एव गच्छन्ति ज्ञतयः सदा ।

तदशक्तः फलं तस्यां विधिना केन दीयते ॥

व्योमभद्रम् इति प्रोक्तं देवचिह्नं मनोरमम् ।

शालिपिष्टमयं प्रोक्तं चतुःकोणं मनोरमम् ॥

गम्येन सर्पिषा युक्तं खण्डशर्करसान्वितम् ।

चतुर्जातकचूर्णेन द्राक्षाभिश् च विशेषतः ॥

चतुर्जातकचूर्णेनेति एलालवङ्गपत्रकनागकेसरचूर्णेनेत्य् अर्थः ।

नालिकेलफलैश् चैव शुभगन्धैर् गणाधिप ।

[६७३] मध्येन्द्रनीलं भद्रस्य न्यसेत् प्राज्ञः स्वशक्तितः ॥

पुष्परागं मरकतं पद्मरागं तथैव च ।

अतोयमे च माणिक्यं क्रमात् कोणेषु विन्यसेत् ॥

प्रस्थमात्रं भवेद् भद्रं प्रस्थार्धं स्याच् च वा विभो ।

अनेन विधिना कृत्वा देवस्य पुरतो न्यसेत् ॥

वाचकायाथ वै दद्याद् अथ वा भोजके स्वयम् ।

अनेन विधिना यस् तु कृत्वा भद्रं प्रयच्छति ॥

स हि भद्राणि सम्प्राप्य गच्छेद् गोपतिमन्दिरम् ।

ब्रह्मलोकं ततो गच्छेद् यानारूढो न संशयः ॥

तेजसा रविसङ्काशः कान्त्यात्रेयसमस् तथा ।

आत्रेयः चन्द्रः ।

प्रभया गोपतेस् तुल्यस् तेजसा शङ्करस्य च ।

तस्माद् एत्य पुनर् भूमौ गोपतिः स्यान् न संशयः ॥

प्रसादाद् गोपतेर् वीर भद्रवान् अभिजायते ।

इत्य् एषा कथिता वीर भद्रानाम् एति सप्तमी ॥

याम् उपोष्य नरो वीर ब्रह्मलोकम् अवाप्नुयात् ।

शृण्वन्ति च पठन्तीह कुर्वन्ति च गणाधिप ॥

ते सर्वे चन्द्रम् आसाद्य यान्ति तद् ब्रह्म शाश्वतम् ।

[६७४]

इति भविष्यपुराणोक्तं भद्रासप्तमीव्रतम् ।

सुमन्तुर् उवाच ।

सूर्यभक्ता तु या नारी ध्रुवं सा पुरुषो भवेत् ।

स्त्री चैवाप्य् उत्तमं नाथं यत् कृत्वा शृणु साम्प्रतम् ॥

निक्षुभार्कव्रतं भानोः सदा प्रीतिविवर्धनम् ।

अवियोगकरं वीर धर्मकामार्थसाधकम् ॥

सप्तम्याम् अथ षष्ठ्यां वा सङ्क्रान्तु भानवे दिने ।

हविषा हविषा होमं सोपवासः समाचरेत् ॥

निक्षुभार्कस्य देवार्चां कृत्वा स्वर्णमयीं शुभाम् ।

राजतीं वाथ वार्चां वा स्थापयेच् च घृतादिभिः ॥

निक्षुभा सूर्यापत्नी तया सहितो ऽर्कः । हविष हविषा गव्यघृतेन ।

रूपनिर्माणं विष्नुधर्मोत्तरात् ।

कर्तव्यो निक्षुभार्कस् तु वारीकवचभूषितः ।

रश्मयस् तस्य कर्तव्या वामदक्षिणदस्तयोः (हस्तयोः?) ॥

करयोर् अन्ययोस् तस्य कमले कमलासनः ।

एकचक्त्रे रथे चैव षडारे निक्षुभक्तितः ॥

चतुर्बाहुर् महातेजा रसनाभिर् विभूषितः ।

उपविष्टस् तु कर्तव्यः स देवो ऽरुणसारथिः ॥

गन्धमाल्यैर् अलङ्कृत्य वस्त्रयुग्मैश् च शोभनैः ।

मन्त्रभोज्यैर् अशेषैश् च विमानध्वजचामरैः ॥

[६७५] भोजयेत् सूर्यभक्तांश् च भोजकांश् च तथा नृप ।

भक्त्या च दक्षिणां दद्याद् भास्करः प्रीयताम् इति ॥

ताम्रपात्रे च कांश्ये वा शुक्लवस्त्रावगुण्ठितम् ।

कृत्वायतनमध्ये तु प्रतिमाम् उपकल्पयेत् ॥

कृत्वा शिरसि तत् पात्रं वितानच्छदशोभितम् ।

ध्वजछत्रादिभिश् चैव ब्रध्नं त्व् आयतनं व्रजेत् ॥

निक्षुभार्कदिनेशस्य व्रतम् एतन् निवेदयेत् ।

तत्पीठे स्थापयेत् पात्रं पुष्पशोभासमन्वितम् ॥

प्रदक्षिणीकृत्य रविं प्रणिपत्य प्रसादयेत् ।

सम्प्राप्यैतद् (?) व्रतं पुण्यं शृणु यत् फलम् आप्नुयात् ॥

द्वादशादित्यसङ्काशैर् महायानैर् नगोपमैः ।

यथेष्टं वै रवेर् लोके सौरैः सार्धं प्रमोदते ॥

वर्षकोटिसहस्राणि कोटिवर्षशतानि च ।

नन्दते च महाभागैर् विष्णुलोके महीयते ॥

ततः कर्मविशेषेण सर्वकामसमन्वितः ।

ब्रह्मलोकं समासाद्य परं सुखम् अवाप्नुयात् ॥

ब्रह्मलोकात् परिभ्रष्टः श्रीमान् सद्भिः प्रपूजितः ।

प्रजापतित्वम् आप्नोति सुरासुरनमस्कृतः ॥

भोगान् इह चिरं भुक्त्वा सोमलोके महीयते ।

सोमाच् चान्द्रं पुनर् लोकम् आसाद्येन्द्रसमो भवेत् ॥

इन्द्रलोकाच् च गान्धर्वलोकं प्राप्यस् अ मोदते ।

गन्धर्वराजपतिना सह भोगैर् वसेत् सुखम् ॥

[६७६] महारत्नप्रभावेन उपशोभितम् अद्भुतम् ।

यक्षलोकम् अपि प्राप्तो यथाकामं प्रमोदते ॥

यक्षलोकात् परिभ्रष्टः क्रीडते मेरुमूर्धनि ।

स्थानानि लोकपालानां क्रमाद् आगत्य मोदते ॥

लोकालोकांस् तपर्यन्ते (?) सर्वस्मिन् क्षितिमण्डले ।

यत्र तत्र सुखी नित्यं तद् अशेषम् अवाप्नुयात् ॥

धर्मार्थकाममोक्षांश् च राज्यं प्राप्य प्रमोदते ।

आदित्यात् प्राप्यते भोगः सुभगो नात्र संशयः ॥

इति भविष्यत्पुराणोक्तं निक्षुभार्कसप्तमीव्रतम् ।

सुमतुर् उवाच ।

या तु षष्ठ्यां तु सप्तम्यां नियता व्रतचारिणी ।

वर्षम् एकं तु कृत्वैवं महालोकजिगीषया ॥

वर्षान्ते प्रतिमां कृत्वा निक्षुभार्कातिविश्रुताम् ।

निक्षुभार्करूपनिमाणं नियतव्रतोक्तं वेदितव्यम् ।

स्नानाद्यं च विधिं कृत्वा निक्षुभार्केति विश्रुतम् ।

पूर्वोक्तांल् लभते कामान् पूर्वोक्तान् लभते गुणान् ॥

जाम्बूनदमयैर् यानैः स्वर्गेन रमते चिरम् ।

गत्वादित्यपुरं रम्यं निखिलं विन्दते फलम् ॥

सौरादिसर्वलोकेषि भोगान् भुक्त्वा यथेप्सितान् ।

क्रमाद् (?) आगत्य लोके ऽस्मिन् राजानं पतिम् आप्नुयात् ॥

[६७७] इति प्रथमम् ।

या नार्य् उपवसेद् एवं कृष्णाम् एकां तु सप्तमीम् ।

सा गच्छेत् परमं स्थानं भानोर् अमिततेजसः ॥

वर्षान्ते प्रतिमां कृत्वा शालिपिष्टमयीं सुभाम् ।

पीतानुलेपनैर् माल्यैः पीतवस्त्रैः प्रपूजयेत् ॥

पूर्वोक्तं निखिलं कृत्वा भास्कराय निवेदयेत् ।

सर्वभूमौ महीपालो धातुचामीकरप्रभः ॥

वर्षकोटिसहस्राणि सूर्यलोके महीयते ।

सौरादिसर्वलोकेषु भोगान् भुक्त्वा यथेप्सितान् ॥

क्रमाद् आगत्य लोके ऽस्मिन् जनेशं विन्दते पतिम् ।

कुलीनं रूपसम्पन्नं सर्वशास्त्रविशारदम् ॥

इति द्वितीयम् ।

सप्तम्यां या निराहारा भवेद् अब्दनियन्त्रिता ।

गजं पिष्टामयं कृत्वा वर्षान्ते विनिवेदयेत् ॥

विधाय राजतं पद्मं सुवर्णकृतकर्णिकम् ।

भक्त्या विन्यस्य तत्पृष्ठे सर्वं पूर्ववद् आचरेत् ॥

कामतो ऽपि कृतं पापं भ्रूणहत्यादि यद् भवेत् ।

तत् सर्वं गजदानेन क्षीयते नात्र संशयः ॥

महापद्मविमानेन नरो नारायणान्वितः ।

वर्षकोटिशतं पूर्णं सूर्यलोके महीयते ॥

सौरादिसप्तलोकेषु भोगान् भुक्त्वा यथेप्सितान् ।

[६७८] क्रमाद् आगत्य लोके ऽस्मिन् जनेशं विन्दते पतिम् ॥

कुलीनं रूपसम्पन्नं सर्वशास्त्रविशारदम् ।

सर्वलक्षणसम्पन्नं धनधान्यसमन्वितम् ॥

महोत्साहं महावीर्यं महासन्धं महाबलम् ॥

इति तृतीयम् ।

कृष्णपक्षे तु माघस्य सप्तम्यां या दृढव्रता ।

वर्षैकम् उपवासेन सर्वभोगविवर्जिता ॥

वर्षान्ते सर्वगन्धोत्थं निक्षुभार्कं निवेदयेत् ।

सुवर्णमणिमुकाढ्यं भोजयित्वा द्विजोत्तमम् ॥

इतिहासविदम् प्राज्ञं वाचकं भार्यया सह ।

सुविचित्रैर् महायानैर् दिव्यगन्धर्वशोभितैः ॥

क्रीडेद् युगशतं सार्धं सूर्यलोके नराधिप ।

प्रभया सूर्यशङ्काशस् तेजसा हरिसन्निभः ॥

यथेष्टं मानवे लोके भोगान् भुक्त्वा यथेप्सितान् ।

क्रमाद् अगत्य लोके ऽस्मिन् राजा भवति धार्मिकः ॥

य एवं कुरुते राजन् व्रतं पापभयापहम् ।

निक्षुभार्कम् इदं पुण्यं स याति परमं पदम् ॥

वर्षम् एकं महाबाहो श्रद्धया परयान्वितः ।

वर्षाण्ते भोजयेद् वीर वाचकं भार्यया सह ॥

भोजयित्वा तु दाम्पत्यं महाभारतवाचकम् ।

पूजयेद् गन्धमाल्यश् च वासोभिर् भूषणैस् तथा ॥

[६७९] कृत्वा ताम्रमये पात्रे वज्रपूर्णेष्व् अलङ्कृते ।

निक्षुभार्कं तु सौवर्णं दद्यात् ताभ्यां स्वशक्तितः ।

निक्षुभा भ्रामणी ज्ञेया वाचको ऽर्कः प्रकीर्तितः ॥

इति भविष्यत्पुराणोक्तं निक्षुभार्कचतुष्टयम् ।

सप्ताश्वतिलक उवाच ।

वैनतेय शृणुष्व त्वं विधानं सप्तमीव्रतम् ।

एतद् धि परमं गुह्यं रवेर् आराधनं परम् ॥

सिद्धार्थकैस् तु प्रथमा द्वितीया चार्कसम्पुटैः ।

तृतीया मरिचैः कार्या चतुर्थी निम्बसप्तमी ॥

षट्युता पञ्चमी कार्या षष्ठी च फलसप्तमी ।

सप्तम्य् नोदना वीर सप्तमी परिकीर्तिता ॥

षट्युता इति सिद्धार्थकादिषड्भिः प्रकारैर् युता ।

इत्य् एताः सप्तसप्तम्यः कर्तव्या भूतिम् इच्छता ।

तथा चानुक्रमेणासङ्करणं कथयाम्य् अहम् ॥

माघे वा मार्गशीर्षे वा कार्या शुक्ला तु सप्तमी ।

न च स्स्यान् नियमभ्रंशः पक्षमासकृतो भवेत् ॥

आर्तिवशाद् अन्यस्मिन् मासे पक्षे च कार्येत्य् अर्थः ।

अर्धप्रहरशेषे तु कुर्याद् वै दन्तधावनम् ।

अर्धप्रहरशेषे पूर्वं दिने ऽवशिष्टार्धप्रहरे ।

[६८०] तत्रैव दन्तकाष्ठानां फलं तव वदाम्य् अहम् ॥

मधुके पुत्रलाभः स्याद् राजवृक्षाज् जयं लभेत् ।

गुरुतां याति सर्वत्र आढरूपकसम्भवे ॥

अशोकेन विशोकः स्याद् अश्वत्थवदरे यशः ।

श्रियं प्राप्नोति विपुलां शिरीषस्य निषेवणात् ॥

प्रियङ्गुं सेवमानस्य सौभाग्यं परमं भवेत् ।

अभीप्सितार्थसिद्धिः स्यान् नित्यं प्लक्षनिषेवणात् ॥

बदर्यां च बृहत्यां च क्षिप्रं रोगात् प्रमुच्यते ।

बृहती डोरको ।

ऐश्वर्यं च भवेद् विण्वे खदिरे धनसञ्चयः ।

शत्रुक्षयं कदम्बे च अर्थलाभो ऽतिमुक्तके ॥

अतिमुक्तः काराङ्गुदी ।

चूतेन नृपवश्यं स्यात् सौभाग्यं पनसेन तु ।

आयुः स्यात् पङ्कजं चैव अर्थलाभो ऽविमुक्तये ॥

अविमुक्तः रापशालः ।

न पाठितं समश्नीयाद् दन्तकाष्ठं च सव्रणम् ।

न चार्धशुष्कं सुक्रं वा न चैव त्वग्निवर्जितम् ॥

वितस्तिमात्रम् अश्नीयाद् दीर्घं ह्रस्वं विवर्जयेत् ।

उदङ्मुखः प्राङ्मुखो वा सुकासीनो ऽथ वाग्यतः ॥

[६८१] कामं यथेष्टं हृदये कृत्वा समभिमन्त्र्य च ।

मन्त्रेणानेन मतिमान् अश्नीयाद् दन्तधावनम् ॥

वरं दत्वाभिजानामि कामदं च वनस्पते ।

सिद्धिं प्रयच्छ मे नित्यं दन्तकाष्ठ नमो ऽस्तु ते ॥

त्रीन् तथा परिजप्यैव भक्षयेद् दन्तधावनम् ।

पश्चात् प्रक्षाल्य तत् काष्ठं शुचौ देशे विनिक्षिपेत् ॥

ऊर्धे निपतिते सिद्धिस् तथा वाभिमुखस्थिते ।

अथो ऽन्यथा निपतिते आनीय पुनर् उत्सृजेत् ॥

पुनस् तथा निपतितं तद् यथा दन्तधावनम् ।

असिद्धिं तु विजानीयान् न ग्राह्या सा तु सप्तमी ॥

ब्रह्मचारी तु तां रात्रिं स्वप्यान् मङ्गल्यसेवया ।

बिभ्रद् वासो ऽनुपहतं शुचिर् आचारसंयुतः ॥

तस्यां रात्र्यां व्यतीतायां प्रातर् उत्थाय वै खग ।

प्रक्षालयेन् मुखं धीमान् अश्नीयाद् दन्तधावनम् ॥

उपविश्य शुचिर् भूत्वा प्रणम्य शिरसा रविम् ।

जपं यथेष्ठं कृत्वा तु जुहुयाच् च हुताशनम् ॥

ततो ऽपराह्नसमये स्नात्वा शृङ्गोद्भवाम्बुभिः ।

विधिपूर्वम् उपस्पृश्य मौनी शुक्लाम्बरः शुचिः ॥

पूजयित्वा तु विधिना भक्त्या देवं दिवाकरम् ।

स्वपेद् देवस्य पुरतो गायत्रीजपतत्परः ॥

अतः परं प्रवक्ष्यामि यैर् यैर् यत् फलम् आदिशेत् ।

स्वप्नैर् दृष्टैस् तु सप्तम्यां पुरुषो नियतव्रतः ॥

[६८२] समाप्य विधिवत् सर्वाञ् जपहोमादिकां क्रियाम् ।

भूमौ शय्यां समास्थाय देवदेवं विचिन्तयेत् ॥

अत्र सुप्तो यदि नरः पश्येद् उद्यद्दिवाकरम् ।

शक्रध्वजं वा चन्द्रं वा तस्य सर्वाः समृद्धयः ॥

वृषभं गजगोवत्सवीणां लोकान् अनामयान् ।

शृङ्गारम् अमलादर्शं करकाप्तौ सुखोत्सवः ॥

रुधिरस्य श्रुतिः सेकः परमैश्वर्यकारकः ।

सप्तवृक्षाधिरोहश् च क्षिप्रम् ऐश्वर्यम् आवहेत् ॥

दोहने महिषीं सिद्धीं गोधेनूनां करिश्वकः ।

गन्धर्वानां राज्यलाभो लाभस् तु द्युमणेर् गतिः ॥

अभिपत्य स्वयं खादेत् सिंहं गां बुजगान् अपि ।

स्वाङ्गम् अस्थि हुताशम्बा सुरापानं तथा खग ॥

हैमे वा राजते चापि यो भुङ्क्ते पायसं नरः ।

पात्रे तु पद्मपात्रे वा तस्यैश्वर्यं परं भवेत् ॥

द्यूते चापि च वादे वा विजयो हि मुखावहः ।

गात्रस्य च प्रज्वलनं शिरोवेधश् च भूतये ॥

माल्याम्बराणां शुक्लानां धारणं पशुपक्षिणाम् ।

सदालाभं प्रशंसन्ति तथा विष्ठानुलेपनम् ॥

हययाने भवेत् क्षेमं रथयाने प्रजागमः ।

नानाशिरोभक्षणाच् च हस्तस्थां कुरुते श्रियम् ॥

अगम्यागमनं लब्धं वेदाध्ययनम् उत्तमम् ।

देवा द्विजवरा वीरा गुरुवृद्धतपस्विनः ॥

यद् वदन्ति नरं स्वप्ने सत्यम् एवेति तद् विदुः ।

[६८३] प्रशस्तं दर्शनं तेषाम् आशीर्वादः खगाधिप ॥

राज्यं स्यात् स्वशिरःच्छेदे धनं बहुतरं भवेत् ।

रुदिते भक्ष्यसम्प्राप्तौ राज्यं निगडबन्धनैः ॥

पर्वतं तुरगं सिंहं वृषभं गजम् एव हिस् ।

महद् ऐश्वर्यम् आप्नोति विमानं यो ऽधिरोहति ॥

ग्रसमाना ग्रहास् तारा महीं च परिवर्तयेत् ।

उन्मूलयण् सर्वतांश् च राजा भवति भूतले ॥

देहलीक्रान्तरत्नानां वेष्टनं च खगाधिप ।

यानं चाम्बुधिं वापि तीर्त्वा पारं प्रयाति यः ॥

तस्मै फलं भवेद् वीरः सकलं कमलोपमम् ।

अद्रिं लङ्घयतश् चापि भवत्य् अर्थो जयस् तथा ॥

मांसम् आमं तथा विष्ठां फलं नानाविधं खग ।

भवत्य् अर्थागमः शीघ्रं कृमिर् वा यदि भक्षयेत् ॥

अङ्गनानां कुरूपाणां लाभो धर्शनम् एव च ।

संयोगश् चैव माङ्गल्यैर् आरोग्यं धनम् एव च ।

ऐश्वर्यं राज्यलाभो वा यस्मिन् स्वप्त उदाहृतम् ॥

तत्र स्यान् नात्र सन्देहस् तैर् तैर् दृष्टैर् विहङ्गम ।

दृष्ट्वा तु शोभनं स्वप्नं न भूयः शयनं व्रजेत् ॥

प्रातश् च कीर्तयेत् स्वप्नं यथा दृष्टं खगाधिप ।

प्राज्ञे भोजकविप्रेभ्यः सुहृदां देवतासु वा ॥

[६८४] ततो मध्याह्नसमये स्नातः प्रयतमानसः ।

तथैव देवं विधिवत् पूजयित्वा दिवाकरम् ॥

सम्यग्जपकृतो मौनी ततो हुतहुताशनः ।

निष्क्रम्य देवायतनाद् भोजयेद् ब्राह्मणांस् ततः ॥

रत्नानि चैव वस्त्राणि तथा चैव सुगन्धयः ।

सुगन्धिमाल्यानि हविष्यमन्त्रं

पयस्विनीं गाम् अथ वाचक्राय ।

देयानि यावच् च भवेद् अभीष्टं

भवेद् अलाभो यदि वाचकानाम् ॥

विप्रा यद् अर्हन्ति विशिष्टबुद्ध्या

ये मन्त्रवेदाहतपातका वै ।

ये वापि सामाध्ययने नियुक्ताः

यजुर्विदो वापि ऋचां विधिज्ञाः ॥

कृत्वैवं सप्तसप्तम्यो नरो भक्तिसमन्वितः ॥

श्रद्धधानो ऽनसूयश् च स कथं नाप्नुयात् फलम् ।

दशानाम् अश्वमेधानां कृतानां यत् फलं भवेत् ॥

तत् फलं सप्तसप्तम्यां कृत्वा प्राप्नोति मानवः ।

दुःप्रापं नास्ति तद् वीर सप्तम्यां यन् न लभ्यते ।

न च रोगो ऽस्त्य् असौ लोके य एताभिर् विशाम्पते ॥

कुलानि यानि रौद्राणि दुस्थितानीह यानि च ।

[६८५] शाम्यन्ते तानि सर्वाणि गुरुडेनेव पन्नगाः ॥

व्रतनियमविशेषैः सप्तमी सप्त चैवं

विधिवद् इह हि कृत्वा मानवो धर्मशीलः ।

श्रुतधनफलयोगैः सौख्यपुण्यैर् उपेतो

व्रजति तदनुलोकं शाश्वतं तीक्ष्णरश्मेः ॥

एष दन्तधावनादिब्राह्मणभोजन्तः सप्तानां सप्तमीनां सा** [ब्रोकेन् लेत्तेर्स्] विधिः ।

इति भविष्यत्पुराणोक्तं सिद्धार्तकादिसप्तमीव्रतम् ।

ब्रह्मोवाच ।

सम्पूज्य विधिवद् देवं पुष्पधूपादिभिर् बुधः ।

यथाशक्ति ततः पश्चान् नैवेद्यं भक्तितो न्यसेत् ॥

पुष्पाणां प्रवरा जातिर् धूपानां विजयः परः ।

गन्धानां कुङ्कुमं श्रेष्ठं लेपानां रक्तचन्दनम् ॥

दीपदाने घृतं श्रेष्ठं नैवेद्यं मोदकं परम् ।

एतैस् तुष्यति (?) देवेशः सान्निध्यं चापि गच्छति ॥

एवं सम्पूज्य विधिवत् कृत्वा चापि प्रदक्षिणम् ।

प्रणम्य शिरसा देव देवदेवं दिवाकरम् ॥

सुखासीनस् ततः पश्येद् रवेर् अभिमुखस्थितः ।

एवं सिद्धार्थकं कृत्वा हस्ते पानीयसंयुतः ॥

सिद्धार्थकं पश्येद् इत्य् अन्वयः ।

कामं यथेष्टं हृदये कृत्वा तं वाञ्छितं नरः ।

[६८६] **** [ब्रोकेन् लेत्तेर्स्] सन्तोषयन् विप्रम् अस्पृशन् दशनैः सकृत् ॥

रात्राव् इति शेषः ।

द्वितीयायां तु सप्तम्यां द्वौ गृहीत्वा तु सुव्रत ।

तृतीयायां तु सप्तम्यां पातव्यास् त्रय एव हि ॥

चतुर्थ्यां वापि चत्वारः पञ्चम्यां पञ्च एव च ।

षट् पिबेच् चापि षष्ठ्यां तु इतीयं वैदिकी श्रुतिः ॥

सप्तम्यां वारिसंयुक्तां सप्त चैव पिबेन् नरः ।

वारिशब्दः द्रववाची पञ्चगव्यस्य वक्ष्यमाणत्वात् ।

आदित्यप्रभृति ज्ञेयो मन्त्रो ऽयम् अभिमन्त्रणे ॥

सिद्धार्थकत्वं लोके हि सर्वत्र श्रूयते सदा ।

तथा ममापि सिद्धार्थम् अर्थिनः कुरु तद् रवे ॥

ततो हविर् उपस्पृश्य जपं कुर्याद् यथोचितम् ।

हुताशं चैव जुहुयाद् विधिदृष्टेन कर्मणा ।

एवम् एवापराः कार्याः सप्तम्यः सप्त सर्वदा ॥

एवम् अर्कसम्पुटाद्य् एकोत्तरवृद्ध्या पाराः षट् सप्तम्यः प्रत्येकं कार्याः । तन्मन्त्रास् तु वक्ष्यमानास्व् अर्कसप्तमीषूक्ता विज्ञेयाः ।

उदकप्रभृतिं यावत् पञ्चगव्येन सप्तमी ।

एकं तोयेन सहितं द्वौ वापि घृतसंयुतौ ॥

तृतीयं मधुना सार्धं दध्नापि च चतुष्टयम् ।

युक्तास् तु पयसा पञ्च षट् च गोमयसंयुताः ॥

पञ्चगव्येन वै सप्त पिबेत् सिद्धार्थका द्विज ।

अनेन विधिना यस् तु कुर्यात् सर्षपसप्तमीम् ॥

[६८७] बहुपुत्रो बहुधनः सिद्धार्थकश् चापि सर्वदा ।

इह लोके नरो भूत्वा प्रेत्य याति विभावसुम् ॥

इति श्रीभविष्यत्पुराणोक्तानि सर्षपसप्तमीव्रतानि ।

सुमतुर् उवाच ।

स्वयं या कथिता पूर्वम् आदित्येन खगस्य तु ।

अरुणस्य महाबाहोः सप्तम्यः सप्त पूजिताः ॥

अर्कसम्पुटकैर् एका द्वितीया मरिचैस् तथा ।

तृतीया निम्बपत्रैश् च चतुर्थी फलसप्तमी ॥

अनोदना (?) पञ्चमी स्यात् षष्ठी विजयसप्तमी ।

सप्तमी कामिकी ज्ञेया विधिना मां निबोध मे ॥

शुक्लपक्षे रविदिने प्रवृत्ते चोत्तरायणे ।

पुन्नामधेये नक्षत्रे गृहीत्वा सपत्मीव्रतम् ॥

सर्वासु ब्रह्मचारी स्यात् शौचयुक्तो जितेन्द्रियः ।

सूर्यार्चनपरो दान्तो जपहोमपरस् तथा ॥

पञ्चम्याम् एकभक्तं तु कुर्यान् नियतमानसः ।

षष्ठ्यां न मैथुनं गच्छेन् मधुमांसं च वर्जयेत् ॥

नक्तं कुर्वन्न् इति शेषः ।

अर्कसम्पुटकैर् एकां तथान्यां मरिचैर् नयेत् ।

तथापरां निम्बपत्रैः फलाख्यां फलभक्षणात् ॥

[६८८] अनोदनो निराहारः उपवासी यथाविधि ।

अहोरात्रं वायुभक्षः कुर्याद् विजयसप्तमीं ॥

तथैताः सप्तकृत्वा तु प्रतिमासं विचक्षणः ।

एताः षट् प्रत्येकं सप्तकृत्वेत्य् अर्थः ।

कुर्याद् विधानं विधिवत् ततः कुर्वीत कामकीम् ।

आसां गृहीत्वा नामानि पात्रेष्व् अथ पृथक् पृथक् ॥

तानि सर्वाणि पात्राणि क्षिपेद् अभिनवे घटे ।

श्वेतचन्दनदिग्धाङ्गे माल्यदामोपशोभिते ॥

धनधान्यहिरणाढ्यैः (?) शुद्धकुन्देन्दुसन्निभैः ।

अश्वत्थाशोकपत्राढ्यैर् दध्योदनसमन्वितैः ॥

तदर्थं यो न जानीते बालो वान्यो ऽपि वै नरः ।

तेनाभ्युद्धारयेद् एकं तत् कुर्याद् अविचारयन् ॥

तेनैव विधिना या तु प्रतिमासं परन्तप ।

सप्तैव यावत् सम्प्राप्ता विज्ञेया सा तु कामिकी ॥

इत्य् एताः सप्तसप्तम्यः स्वयं प्रोक्ता विवस्वता ।

कुर्वीत यो नरो भक्त्या स यात्य् अर्कसदो नृप ॥

श्वेतचन्दनदिग्धाङ्गे माल्यदामोपशोभिते ।

सप्तधान्यहिरण्याढ्यैः शुद्धकुन्देन्दुसन्निभे ॥

अश्वत्थाशोकपत्राढ्यैः दध्योदनसमन्विते ।

अर्कसम्पुटकैर् वित्तम् अमलं साप्तपौरुषम् ॥

मरिचैः सङ्गमः स्याद् वै प्रियपुत्रार्थिनः सदा ।

सर्वे रोमाः प्रणश्यन्ति निम्बपत्रैर् न संशयह् ॥

[६८९] फलैश् च पुत्रपौत्रैश् च दौहित्रैश् चापि पुष्कलैः ।

अनोदनाद् धनं धान्यं सुवर्णं रजतं तथा ॥

तथा यशो हिरण्यं च आरोग्यं सन्ततिर् नृप ।

उपोष्य विजयं शत्रून् राजा जयति नित्यशः ।

साधयेत् कामदा कामान् विधिवत् पर्युपासिता ॥

पुत्रकामो लभेत् पुत्रम् अर्थकामो ऽर्थम् अक्षयम् ।

विद्याकामो लभेद् विद्यां राज्यार्थि राज्यम् आप्नुयात् ।

कृत्स्नान् कामान् ददात्य् एषा कामदा कुलनन्दन ॥

नरो वा यदि वा नारी यथोक्तं सप्तमीव्रतम् ।

करोति नियतात्मा वेत् स याति परमां गतिम् ॥

मोहात् प्रमादाल् लोभाद् वा व्रतभङ्गो भवेद् यदि ।

तदा त्रिरात्रं नाश्नीयात् कुर्याद् वा केशमुण्डनम् ॥

प्रायश्चित्तम् इदं कृत्वा पुनर् एव व्रती भवेत् ।

सप्तैव यावत् सम्प्राप्ता सप्तम्यः सप्तसंयुताः ॥

सप्तसंयुताः सप्तगुणिता एकोनपञ्चाशद् इत्य् अर्थः ।

अभ्यर्च्य सूर्यं सप्तम्यां माल्यधूपादिभिर् नरः ।

भोजयित्वा द्विजान् भक्त्या प्राप्नुयात् स्वर्गम् अक्षयम् ॥

सप्तम्यां विप्रमुखेभ्यो हिरण्यं यः प्रयच्छति ।

स तद् अक्षयम् आप्नोति सूर्यलोकं च गच्छति ॥

[६९०]

इति भविष्यत्पुराणोक्तः सप्तसप्तसप्तमीकल्पः ।

सुमन्तुर् उवाच ।

अथ अर्कसम्पुटकादिसप्तमीसप्तकम् । समुद्रेशव**नं [ब्रोकेन् लेत्तेर्स्] पुनर् एकैव सा विवृणोति ।

इत्य् एवं सप्तमीकल्पः समासात् कथितस् तव ।

विस्तरं ते पुनर् वच्मि शृणुष्वेकमना भृशम् ॥

फाल्गुनामलपक्षस्य षष्थ्यां सम्यग् उपोषितः ।

पूजयेद् भास्करं स्नात्वा पुष्पगन्धानुलेपनैः ॥

अर्कपुष्पैर् महाबाहो गुग्गुलेन सुगन्धिना ।

सितेन भूषयन् देवं चन्दनेन दिवाकरम् ॥

गुडोदनं नैवेद्यं पलानां त्रितयं रवेः ।

एवं पूज्य दिवा भानुं रात्रौ तस्याग्रतः स्वपेत् ॥

जपेद् भूमौ परं जप्यम् आ निद्रागमनाद् बुधः ।

ध्यायमानो महात्मानं देवदेवं दिवाकरम् ॥

षडक्षरेण मन्त्रेण जपपूजां समाहितः ।

जपहोमं तथा पूजां शतशब्देन सर्वदा ॥

सावित्र्याश् च जपं पूर्वं कृत्वा शतसहस्रशः ।

पश्चात् सर्वं प्रकुर्वीत जपादिकम् अनाकुलः ॥

श्रेयो ऽर्थम् आत्मनो वीर धनपुत्रार्थसिद्धये ।

ॐ भास्कराय विद्महे सहस्ररश्मिं धीमहि ।

तन् नः सूर्यः प्रचोदयात् ॥

[६९१] इति सावित्राई ।

जप एष परः प्रोक्तः सप्तव्यां भानुना स्वयम् ।

जप्त्वा सकृद् भवेत् पूतो मानवो नात्र संशयः ॥

प्रभाते त्व् अथ सप्तम्यां स्नातो नियतामानसः ।

पूजयेद् भास्करं भक्त्या पूर्वोक्तविधिना नृप ॥

अर्धया (?) भोजयेद् वापि ब्राह्मणान् भक्तितो नृप ।

दिव्यैर् भोगैश् च विधिवद् भास्करप्रीतये पुमान् ॥

वित्तशाठ्यं न कुर्वीत भोजनार्हांस् तु भोजयेत् ।

सम्भोजयेत् तथा सौरान् सौराद् अन्यन् न भोजयेत् ॥

घटी (?) भोज्यो भवेद् विप्रः सप्तमीं कुरुते च यः ।

सौरतन्त्रेषु कुशलः स भक्तो वै दिवाकरे ॥

एते भोज्या द्विजा राजन् आदित्येन समासतः ।

प्रोक्ताः कुरुकुलश्रेष्ठ तथाभोज्यान् शृणुष्व मे ॥

परभार्यारतिर् यस् तु कुष्ठरोगवहश् च यः ।

अथान्यदेवताभक्ताः तथा नक्षत्रसूचकः ॥

परापवादनिरतो यश् च देवलकस् तथा ।

एते ह्य् अभोज्या विप्रेषु (?) स्वयं देवेन निर्मिताः ॥

घटते तु त्रयीं विद्यां ब्राह्मणानां कदम्बके ।

घटेत्य् उक्ता तु सा राजन् अतः सानुघटा स्मृता ॥

सा घटा विद्यते यस्य स घृईत्य् उच्यते द्विजः ।

ब्रह्मक्षत्रविशां वीर शूद्राणां च कदम्बके ॥

[६९२] शृण्वतां विधिवत् पुण्यं भक्त्या पुस्तकवाचनम् ।

इतिहासनिबद्धा या सा समस्येति भानुना ॥

प्रोच्यते कुरुशार्दूल स्वयम् आकाशगामिना ।

कर्ता तस्या भवेद् यस् तु समस्याकारको मतः ॥

स विप्रो राजशार्दूल स द्वेष्टि भास्करस्य तु ।

जयौपजीवी व्यासस्य समस्याजीवकस् तथा ॥

यान्य् एतानि पुराणानि सेतिहासानि भारत ।

जयेति कथितानीह स्वयं देवेन भानुना ॥

एतानि वाचयेद् यस् तु ब्राह्मणो ह्य् उपजीवति ।

जयोपजीवी स ज्ञेयो वाचकस् तु तथा नृप ॥

सप्ताश्वा यत्र नो भक्त्या प्रीतये भास्करस्य तु ।

आरुणेयादिशास्त्राणि सप्ताश्वतिलकं तथा ॥

यस् तु जानाति सौराणि स विप्रः सौरतन्त्रवित् ।

जयोपजीवी व्यासस्य समस्याजीविकां तथा ॥

पूजयेत् सततं यस् तु पूजयेद् भास्करं नृप ।

स याति परमं स्थानं यत्र पश्यन्ति सूरयः ॥

भोजकस् तु यथा राजन् यथादेवो दिवाकरः ।

स ज्ञेयो भास्करेणोक्तो भोजनीयः प्रयत्नतः ॥

भोजनं निन्दयेद् यस् तु न च तं पूजयेत् तथा ।

ज्ञेयो ऽन्यदेवताभक्तः स विप्रः कुरुनन्दन ॥

मुण्डो व्यङ्गी तथा गौरः शङ्खपद्मधरस् तथा ।

[६९३] यस्य याति गृहे राजन् भोजको मानवस्य तु ॥

तस्यायान्ति गृहं देवाः पितरो भास्करस् तथा ।

ब्राह्मणो यश् च राजेन्द्र वृत्त्या कर्म करोति वै ॥

देवतायतनेष्व् एव देवानां पूजनं तथा ।

साधिपत्यं भक्षणं तु नैवेद्यं च परन्तप ॥

स विज्ञेयो देवलोको ब्राह्मणो ब्राःमणाधमः ।

नाधिकारो ऽस्ति विप्राणां भौमानां देवपूजने ॥

वृत्त्या भरतशार्दूल आधिपत्ये विशेषतः ।

देवालयेषु सर्वेषु वर्जयित्वा शिवालयम् ॥

देवानां पूजने राजन् अग्निकार्येषु वा विभो ।

अधिकारः स्मृतो राजन् लोकानां च न संशयः ॥

पूजयन्तस् तु देवांस् तु प्राप्नुवन्ति परां गतिम् ।

नैवेद्यं भुञ्जते यस्माद् भोजयन्तीव भास्करम् ॥

पूजयन्ति च वै देवान् दिव्यत्वं तेन ते गताः ।

पूजयित्वा तु वै देवान् नैवेद्यं भुञ्जते विभो ॥

यान्ति ते परमं स्थानं यत्र देवो दिवाकरः ।

द्वाव् एव तु विप्रौ राजन् भास्करस्य द्विजौ नृप ॥

वाचको भोजकश् चैव ताव् एवोत्तमतां गतौ ।

स्वयं गत्वा गृहं भक्त्या पाणिभ्यां पादम् आलभेत् ॥

व्रतीति च तथा विप्र प्रसादं कुरु मे विभो ।

भास्करप्रीयते विप्र भोजनं भुङ्क्ष मे गृहे ॥

येन मे देवास् तृप्यन्ति त्वयि तृप्ते दिवाकरे ।

ब्राह्मणश् चापि तं ब्रूयात् क्षणे सति महामते ॥

[६९४] एवं करिष्ये श्रेयो ऽर्थम् आत्मनस् तव वा विभो ।

इत्य् आमन्त्र्य ततो गच्छेत् स्वगृहं कुरुनन्दन ॥

तथापराह्णसमये भक्त्या देवं दिवाकरम् ।

हुत्वाथ पावकं राजन् भोजयेद् ब्राह्मणांस् ततः ॥

शाल्योदनं तथा मुद्गान् सुगन्धघृतम् एव च ।

अपूपान् गुडपूर्णांश् च पयो दधि तथा गुडम् ॥

एतैस् तु तृप्तिम् आयाति भास्करो ऽन्नैश् तु सप्तधा ।

वर्षाणि भरतश्रेष्ठ नात्र कार्या विचारणा ॥

शियुकुन्दं तथात्यम्लं राजमासास् तथैव च ।

कुलोत्थकान् मसूरांश् च तिलाश् चाणक्यम् एव च ॥

एतान् न भास्करे दद्याद् यदीच्छेच् छ्रेय आत्मनः ।

दुर्गन्धं यच् च कद् उक्तम् अत्यम्लं भास्करस्य च ॥

विमिश्रांस् तदुलांश् [तण्डुलांश्?] चापि नो दद्याद् भास्कराय वै ।

इत्थं भोज्य द्विजान् सर्वान् भक्षयेत् सर्वसम्पुटम् ॥

प्रणम्य शिरसा देवम् उदकेन समन्वितः ।

निष्क्रम्य नगराद् राजन् गत्वा पूर्वोत्तरां दिशम् ॥

नात्युच्छ्रितं नातिनीचं शुचौ देशे ऽर्कम् उत्तमम् ।

जातं दृष्ट्वा महाबाहो पूजयित्वा कखोल्कतः ॥

खखोल्कत इति खखोल्कमन्त्रेण । तद् यथा खखोल्काय नमः इति पूर्वोत्तरगतायां वै तस्य साभिभूमीयायां शाखायाम् [६९५] अग्रगते पत्रे सुसूक्ष्मपल्लवाश्रिते संश्लिष्टे पृथग्भूते गृहीत्वा गृहम् आव्रजेत् । द्विवचनप्रयोगात् पत्रद्वयायतनं प्रतीयते ।

स्नातः पूज्य विवस्वन्तम् अर्कपुष्पैः खखोल्कतः ।

ब्राह्मणान् भोजयित्वा तु अर्को मे प्रीयताम् इति ॥

प्राश्य मन्त्रेणार्कपुटं ततो भुञ्जीत वाग्यतः ।

देवस्य पुरतो वीर आस्पृशन् दशनैः पुटम् ॥

ॐ अर्कं सम्पुताभद्रं ते सुभद्रं मे स्तुवै सदा ।

ममापि कुरु भद्रं वै प्राशनाद् वित्तदो भव ॥

इमं मन्त्रं जपेद् राजन् जपन्न् अर्कं महीपते ।

स्थित्वा पूर्वमुखः प्रह्वो वारिणा सहितं नृप ॥

प्राश्य भुङ्क्ते च यो राजन् स याति परमं पदम् ।

अनेन विधिना भक्त्या कर्तव्या सप्तमी सदा ॥

वर्षं यावन् महाबाहो प्रीतये ऽर्कस्य श्रद्धया ।

यश् चेमां (?) सप्तमीं कुर्याद् भास्करप्रीतये नृपः ॥

तस्याक्षयं भवेद् वित्तम् अचलं प्राप्तपौरुषम् ।

कृत्वेमां सिद्धिम् आयातः कौथुमिः सामगः पुरा ॥

कुष्ठरोगाच् च वै मुक्तो जपन् साम माहामतिः ।

बृहद्वल्को ऽथ जनको याज्ञवल्क्यो ऽथ कृष्णज॥

कृष्णजः शाम्बः ।

अनया ह्य् अर्कम् आराध्यागतौर्कसात्मनां नृप ।

इयं धन्यतमा पुण्या सप्तमी पापनाशिनी ॥

पठतां शृण्वतां राजन् कुर्वतां च विशेषतः ।

[६९६] तस्माद् एषा सदा कार्या विधिवच् छ्रेयसे नृप ॥

अर्कप्रिया महाबाहो मह्पातकनाशिनी ॥

इति भविष्यत्पुराणोक्तार्कसम्पुटसप्तमीव्रतम् ।

सुमन्तुर् उवाच ।

तथा सम्पूज्य देवेशं भानुं कामप्रदं नृप ।

भोजयित्वा यथाशक्ति ब्राःमणांश् च विशेषतः ॥

सप्तम्यां प्राशयेच् चापि मरीचं मनुजाधिपः ।

गृहीत्वा मरीचशतम् अव्रणं सुदृढं परम् ॥

मरीचं प्राशयेद् राजन् मन्त्रेणानेन वास्पृशन् ॥

ॐ खखोल्काय स्वाहा ।

प्रीयतां प्रियसङ्गदो भव स्वाहा ।

इति सम्प्रार्थ्य मरीचं ततो भुञ्जीत वाग्यतः ।

प्रियसङ्गमम् आप्नोति तत्क्षणाद् एव नान्यथा ॥

इतीयं सप्तमी पुण्या प्रियस्ङ्गम् अदायिनी ।

यः कुर्याद् उत्सवं वीर वियोगं स न गच्छति ॥

पुत्रादिभिर् नरश्रेष्ठ प्रजापतिर् अभाषत ।

कुरु तस्मान् महाबाहो ताम् एतां प्रियदायिनीम् ॥

उपोष्य इन्द्रो विधिवत् पुरा मारिचसप्तमीम् ।

संयोगं गतवान् वीर सहस्रांश् चाधिपः पुरा ॥

रामपत्र्यानलस्यापि दमयन्त्या सहापि च ।

रामो ऽपि सीतया सार्धं उपोष्यैतां नराधिप ॥

[६९७]

इति भविष्यत्पुराणोक्तं मरीचसपमीव्रतं ।

सुमन्तुर् उवाच ।

तृतीयां सप्तमीं वीर शृणुष्वैकमाना नृप ।

निम्बपत्रैः स्मृता या तु पापघ्नी पापनाशिनी ॥

तथार्चनविधिं वान्यं येन पूजयते रविम् ।

देवदेवं गदापाणिं शङ्खचक्रगदाधरम् ॥

तथार्चनविधिं वच्मि मन्त्रोद्धारं निबोध मे ।

सर्वपापहरं पुण्यं सर्वरोगविनाशनम् ॥

ॐ खङ्कोल्याय नमः । मूलमन्त्रः विदि विव शिरः । श्री ज्वल ठठ शिखा । ॐ सहस्रधाम्नेव कवरम् । ॐ सर्वतेजोऽधिपतये अस्त्राः सहस्रकिरणोज्वलाय ववजघनं ॐ भूतभव्ये भूतभाविन्यै वव भूतवन्धः । ॐ ज्वल नेत्र ज्वल प्रज्वलत ठठ अग्निप्रकारः । ॐ आदित्याय विद्महे विश्वभावाय धीमहि तन् नः सूर्यः प्रचोदयात् । गायत्री सकलीकरणम् इदम् । ॐ धर्मात्मने नमः पूर्वतः । यमाय नमः दक्षिणतः । ॐ कालदण्डनायकाय नमः पश्चिमतः । ॐ रैवताय् अनमः। ॐ उत्तरतः ।


	श्यामपिङ्गलाय नम ऐशान्याम् । ॐ दीक्षिताय नम आग्नेय्याम् । **[६९८]** ॐ वज्रपाणये नम नैरृत्याम् । आदित्याय भूर् भुवः स्वर् नमो वायव्याम् । ॐ चन्द्राय चन्द्राधिपतये नमः पूर्वतः । ॐ अङ्गारकाय क्षितिसुताय नमः आग्नेय्याम् ।


	ॐ बुधाय सोमपुत्राय नमः दक्षिणे । ॐ नमो वागीश्वराय सर्वविद्याधिपतये नैऋत्यां । ॐ शुक्राय महर्षये भृतुसुताय नमः पश्चिमतः । ॐ शनैश्वराय रविसुताय नमो वायव्याम् । ॐ राहवे नमः उत्तरतः । केतवे नम ईशान्याम् । भगवन्न् अपरिमितमयूखमालिन् सकलजगत्पते सप्ताश्ववाहनचतुर्भुजपरमसिद्धिप्रदं विष्फुलिङ्गवावो एह्य् एहि इदम् अर्घं मम शिरसि गतं गृहाण् तेजोऽग्रतूप अनन्तज्वलन ठठः ।

अर्घ्यावाहनमन्त्रः ।

ॐ नमो भगवते आदित्याय सहस्रकिरणाय गच्छ सुखं पुनरागमनाय ।

विसर्जनमन्त्रः ।

शृणुष्वात्र विधिं कृत्स्नं प्रवक्ष्याम्य् अनुपूर्वशः ।

दीर्घायाश् च विधानं च लोकानां हितकाम्यया ॥

आचार्यो विधिवद् राजन् मन्त्रपूतेन वारिणा ।

प्रोक्ष्य देवस्य पुरतो भूमिं भरतसत्तम ॥

प्राणायामत्रयं कुर्याच् छुद्ध्यर्थं सुसमाहितः ।

हृदयादि तथाङ्गेषु मन्त्रं विन्यस्य मन्त्रवित् ॥

[६९९] कुर्यात् सतर्जनीमुद्रां निशान्तं प्रतिशोधयेत् ।

पातालभूशोधनं च वह्निप्राकारम् एव च ॥

शोधनं नभसश् चैव कुर्वीतास्त्रम् अनुस्मरन् ।

याम्यः सौम्यस् तथा विष्णुर् ब्रह्मा ईशान अग्नयः ॥

रुद्रं नैरृतवायव्यः पक्षम् एतत् प्रकीर्तितम् ।

अष्टपत्रे लिखेत् पद्मं शुचौ देशे सकर्णिकम् ॥

आवाहनं ततो बध्वा मुद्राम् आवाहयेद् रविम् ।

खत्वील्कं (?) स्थापयेत् तत्र स्वरूपं लोकभावनम् ॥

स्थापयेत् स्थापयेच् चैव मन्त्रैर् मन्त्रशरीरिणम् ।

पुरतो देवदेवस्य हृदये स्थापयेन् नृप ॥

ऐशान्यां शिर संस्थाप्य नैरृत्यां विन्यसेच् छिवम् ।

पौरन्दर्यां न्यसेत् पद्मम् एकाग्रस्थितिम् आत्मनः ॥

ऐशान्यां स्थापयेत् सोमं पौरदं चातिओहितम् ।

वायव्यां चैव कवचं वारुण्याम् अस्त्रम् एव च ॥

आग्नेय्यां सोमतनयंयाम्यां चैव बृहस्पतिम् ।

नैरृत्यां दानवगुरुं वारुण्यां तु शनैश्वरम् ॥

वायव्याञ् च तथा राहुं कौवेर्यां केतुम् एव च ।

द्वितीयायां तु कक्षायां देवतेजःसमुद्भवान् ॥

स्थापयेद् द्वादशादित्यान् काश्यवेयान् महाबलान् ।

भगः सूर्यो ऽर्यमा चैव मित्रो वै वरुणस् तथा ॥

सविता चैव धाता च विवस्वंश् च महाबलः ।

[७००] त्वष्टा पूषा तथा चन्द्रो द्वादशो विष्णुर् उच्यते ॥

पूर्वे इन्द्राय, दक्षिणे यमाय, पश्चिमे वरुणाय, उत्तरे कुबेराय, ऐशान्याम् ईश्वराय, आग्नेय्याम् अग्नये, नैरृत्यां निअरृतये, वायव्यां वायवे नमः ।

जया च विजया चैव जयन्ती वापराजिता ।

शेशश् च वासुकिश् चैव रेवन्तो ऽथ विनायकः ॥

महाश्वेता तथा देवी राज्ञी चैव सुवर्चला ।

तथान्याव् अपि विख्यातौ दण्डनायकपिङ्गलौ ॥

पुरस्ताद् भास्करस्यैते स्थापनीयौ विजानता ।

सिद्धिर् बुद्धि स्मृती देवी तथैवोत्पलमालिनी ॥

स्थाप्यास् तु दक्षिणे पार्श्वे लोकपूज्याः समन्ततः ।

प्रज्ञा तन्त्री क्षुधा ब्राह्मि हारीता तुष्टिर् एव च ॥

छायापार्श्वे (?) च विज्ञेया इत्य् एता देवशक्तयः ।

दीपम् अन्नम् अलङ्कारं वासः पुष्पाणि मन्त्रतः ॥

देयान्य् एतानि देवस्य सानुगस्य च मूर्तये ।

विधिनानेन सततं सर्वदा याति भास्करम् ॥

सम्प्राप्य परमान् कामांस् ततो भानुसमो भवेत् ।

अनेन विधिना यस् तु पूजयेद् भास्करं नृप ॥

रविप्रसादाद् गच्छेत् तु परमं स्थानम् अव्ययम् ।

पुत्रान् अवाप्तवान् राजन् दुर्जयत्वं तथा रिपोः ॥

अनेन विधिना पूज्य षष्ट्यां भानुम् अनूदितम् ।

******** [ब्रोकेन् लेत्तेर्स्] जितक्रोधो जितेन्द्रियः ॥

[७०१] निम्बपत्रं ततो ऽश्नीयात् सप्तम्यां मन्त्रतो नृप ।

निम्बपल्लव भद्रं ते सुभद्रं ते ऽस्तु वै सदा ॥

ममापि कुरु भद्रं च प्राशनाद् रोग**हा (?) भवेः ।

इत्य् उदितो मन्त्रः ।

इत्थं प्राश्य स्वपेद् भूमौ देवस्य पुरतो नृप ॥

अष्टम्यां पूजयेद् भानुं पुनर् एव तु पात्रतः ।

ब्राह्मणान् भोजयेत् पश्चाच् छक्त्या दत्वा च दक्षिणाम् ॥

भुञ्जीत वागयतः पश्चान् मधुराम्लविवर्जितम् ।

इत्य् एषा वत्सरं यावत् कर्तव्या निम्बसप्तमी ॥

कुर्वाणः सप्तमीं चैव सर्वरोगैः प्रमुच्यते ।

सर्वरोगविनिर्मुक्तः सूर्यलोकं च गच्छति ॥

इति भविष्यत्पुराणोक्तं निम्बसप्तमीव्रतम् ।

सुमन्तुर् उवाच ।

अथ भाद्रपदे मासि सिते पक्षे महीपते ।

कृत्वोपवासं सप्तम्यां विधिवत् पूजयेद् रविम् ॥

माहेश्वरेण विधिना पूजयेद् अत्र भास्करम् ।

अष्टम्यां तु पुनः प्रातः पूजयित्वा दिवाकरम् ॥

दद्यात् फलानि विप्रेभ्यो मार्तण्डः प्रीयताम् इति ।

खर्जूरं नारिकेलं च मातुलङ्गफलानि च ॥

ब्राःमणान् भोजयित्वा तु फलाहारः स्वयं भवेत् ।

पूर्वम् एकं तु सम्प्राश्य सुसूक्ष्मं फलम् आदरात् ॥

मन्त्रेण भरतश्रेष्ठ ततः शेषाणि भक्षयेत् ।

[७०२] फलं प्राश्य कुलश्रेष्ठ भवेद् इन्द्रत्वम् एव च ॥

सर्वे भवन्तु सफला मम कामाः समन्ततः ।

इत्य् उक्त्वा भक्षयेत् तानि फलानि कुरुनन्दन ॥

आकण्ठं तत् कुरुश्रेष्ठ न चान्यत् किञ्चिद् एव हि ।

फलाहारो भवेद् एवम् अष्टम्यां कुरुनन्दन ॥

इति संवत्सरं यावत् कर्तव्या फलसप्तमी ।

कृता च या महाबाहो पुत्रपौत्रान् प्रयच्छति ॥

इति भविष्यत्पुराणोक्तं फलसप्तमीव्रतम् ।

सुमन्तुर् उवाच ।

शुक्लपक्षे तु वैशाखे षष्ट्यां सम्यग् उपोषितः ।

पूजयेद् भास्करं भक्त्या पुष्पधूपादिलेपनैः ॥

येन तत् पूजयेद् देवं स विधिः कथ्यते तव ।

तदा वैश्रवणा येन विधिना पूजयेन् नृप ॥

ॐ प्रज्वतने स्वाहा । ॐ अग्निप्रकारः । ॐ नमः सहस्रकिरणोज्वलाय (?) स्वाहा । ॐ यं वः । ॐ पृथिव्यै सर्वोपधिरुषिण्यै (?) स्वाहा । पृथिव्यस् त्वं नमः सकलीकरणमन्त्रः । आत्मनो देवशरीरे वा ॐ धर्मात्मने नमः पूर्वतः । ॐ धर्माय नमो दक्षिणतः । ॐ रेवन्ताय नमः पश्चिमतः । ॐ सततज्ज्वालारूपाय नमः उत्तरतः । ॐ श्यामपिङ्गलोहिताय नमः [७०३] ऐशान्याम् । नीललोहिताय नमः आग्नेय्याम् । ईशानेश्वराय नमो नैरृत्याम् । वज्रपाणये नमो वायव्याम् । ॐ नमो हरदेहाय महाबलपराक्रमाय सर्वतेजोऽधिपतये स्वाहा ।

उत्तरशक्तिधराय नमः ।

प्रथमः प्रातः प्रतीहारः । ॐ हरदेहाय वज्ररूपधराय नमः । द्वितीयः प्रतिहारः दक्षिणतः । ॐ हरिताय नमः । तृतीयः पश्चिमतः । ॐ अश्वमुखाय नमः पूर्वतः । द्वारपालचतुष्टयम् । ॐ कुन्देन्दुवीरप्रभाय स्वाहा । प्रथमो ऽश्वः । ॐ रक्ताक्षरक्तवर्णदीप्ताय नमः । द्वितीयो ऽश्वः । ॐ क्षीरवर्णतेजस्विने नमः । तृतीयो ऽश्वः । ॐ भित्राञ्जनवर्णाय (?) नमः । चतुर्थः (अश्वः?) । ॐ तीव्रतेजसे नमः । पञ्चमो ऽश्वः । व्योमवर्णाय प्रदीप्तमालिने नमः । सप्तमः । ॐ नमो अगशकटाय कवचिने कश्यपपुत्राय प्रजापतये नमः । ॐ अनन्तदेवाय नमः । ॐ असाधारणविक्रमतेजसे नमः ।

आवाहनमन्त्रः ।

ॐ भास्कर देवाधिदेव गच्छ गच्छ यथासुखं स्वभवनं

पुनरागमनाय ।

विसर्जनमन्त्रः ।

गायत्र्या स्वागमनार्घ्यपाद्याचमनस्नानातिथ्यकरणगन्धपुष्पधूपबलि-होमोपहारादिनिवेदनम् ।

[७०४] मुकुलीपद्ममुद्रा च निष्करा च तथा परा ।

नागाख्या व्योममुद्रा च उग्रा चैव पराः स्मृताः ।

सप्तैतास् तु परा मुद्राः कोटिमुद्रास् तथैव च ॥

ॐ खखोकाय नमः हृदयम् । ॐ त्रिपिष्टपायाय नमः शिरः । ॐ तेजसे नमः शिखा । आदित्याय तेजोऽधिपतये नमः कवचम् । आदित्याय सहस्रकिरणोज्वलाय नमः अस्त्रम् । तेजोऽधिपतये नमः मुखम् । ॐ मेषवृषायनमः गुह्यम् । ॐ सहस्रकिरणाय नमः पादौ । ॐ दीप्ताधिपतये नमः पृष्ठम् । ॐ भास्कराय विद्महे सहस्रारश्मये धीमहि तन् नो भानुः प्रचोदयात् ॥

सुमन्तुर् उवाच ।

अनेन विधिना पूज्य षष्ट्याम् उपवसेच् छुचिः ।

पुरतः शयनं भानोः सप्तम्यां पूजयेत् पुनः ॥

भोजयेच् चाप् विप्रांस् तु दध्ना वा पायसेन वा ।

स्वशक्त्या दक्षिणां दत्वा श्रद्धया तु व्रजेत् तु तान् ॥

पयः पीत्वा ततो गव्यं स्थातव्यं कुरुनन्दन ।

सुरभिर् असि भद्रं ते भद्रं ते ऽस्तु सुखाय वै ॥

तथा ममापि भद्रं वै प्राशात् सम्पत्करो भव ।

इत्य् अभिहितेन मन्त्रेण पयः पानम् ।

दन्तखाद्यं भवेद् यद् धि तद् ओदनम् इति स्मृतम् ।

भक्ष्यं चूष्यं तथा लेह्यम् ओदनं त्रिः प्रकीर्तितम् ॥

तोयं वा नोदनं प्रोक्तं तस्मात् तत् परिवर्जयेत् ।

[७०५] तत् परिवर्जयेद् इति तच्छब्देन ओदनः परामृशते । तस्माद् ओदनम् एव वर्जयेन् न तु पेयम् अपि तस्यानोदनत्वात् ।

प्राशनमन्त्रः ।

इत्य् एषानोदना नाम सप्तमी भरतर्षभ ।

याम् उपोष्य नरो भक्त्या धनधान्यम् अवाप्नुयात् ॥

सर्वपापविनिर्मुक्तः सूर्यलोके महीयते ॥

इति भविष्यत्पुराणोक्तम् अनोदनासप्तमीव्रतम् ।

सुमन्तुर् उवाच ।

माघे मासि सिते पक्षे सप्तम्यां कुरुनन्दन ।

निराहारो रविं भक्त्या पूजयेद् विधिना नृप ॥

पूर्वोक्तेन जपेज् जप्यं देवस्य पुरतः स्थितः ।

शुद्धैकाग्रमना राजन् जितक्रोधो जितेन्द्रियः ॥

वायो वलिष्ठ भद्रं ते भद्रं ते ऽस्तु च वै सदा ।

समापि कुरु भद्रं वै प्राशनात् शत्रुहा भव ॥

इत्य् अभिहितेन मन्त्रेण पीतपवनो निराहार इति ।

शतानीक उवाच ।

केन मन्त्रेण जप्तेन दर्शनं भगवान् व्रजेत् ।

स्तोत्रेण वापि स्विता तन् मे कथय सुव्रत ॥ ३ ॥

सुमतुर् उवाच ।

स्तुतो नामसहस्रेण यदा भक्तिमता मया ।

तदा मे दर्शनं यातः साक्षाद् देवो दिवाकरः ॥ ४ ॥

[७०६] शतानीक उवाच ।

नाम्नां सहस्रं सवितुः श्रोतुम् इच्छामि तद् द्विज ।

येन ते दर्शनंयातः साक्षाद् देवो दिवाकरः ॥ ५ ॥

सुमन्तुर् उवाच ।

सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ।

स्तोत्रम् एतन् महापुण्यं सर्वोपद्रवनाशनम् ॥ ६ ॥

न तद् अस्ति भयं किञ्चिद् यद् अनेन न शाम्यति ।

ज्वराद् विमुच्यते राजन् स्तोत्रे ऽस्मिन् पठिते नरः ॥ ७ ॥

अन्ये च रोगाः शाम्यन्ति पठतः शृण्वतस् तथा ।

सम्पद्यन्ते तथा कामाः सर्व एव यथेप्सिताः ॥ ८ ॥

य एतद् आदितः श्रुत्वा सङ्ग्रामं प्रविशेन् नरः ।

स जित्वा समरे शत्रून् अभ्येति गृहम् अक्षतः ॥ ९ ॥

वन्ध्यानां पुत्रजननं भीतानां भयनाशनम् ।

भूतकारिदरिद्राणां कुष्ठिनां परमौषधम् ॥ १० ॥

बालानां चैव सर्वेषां ग्रहरक्षोनिवारणम् ।

पठेद् एतद् धि यो राजन् स श्रेयः परम् आप्नुयात् ॥ ११ ॥

स सिद्धसर्वसङ्कल्पः सुखम् अत्यन्तम् अश्नुते ।

धर्मार्थिभिर् धर्मलब्धै सुखाय च सुखार्थिभिः ॥ १२ ॥

राज्याय राज्यकामैश् च पठितव्यम् इदं नरैः ।

विद्यावहं तु विप्राणां क्षत्रियाणां जयावहम् ॥ १३ ॥

पश्वावहं तु वैश्यानां शूद्राणां धर्मवर्धनम् ।

पठतां शृण्वताम् एतद् भवतीति न संशयः ॥ १४ ॥

तच् छृणुष्व नृपश्रेष्ठ प्रयतात्मा ब्रवीमि ते ।

[७०७] नाम्नां सहस्रं विख्यातं देवदेवस्य भास्करः ॥ १५ ॥

ॐ विश्वविद् विश्वजित् कर्ता विश्वात्मा विश्वतोमुखः ।

विश्वेश्वरी विश्वयोनिर् नियतात्मा जितेन्द्रियः ॥ १६ ॥

कालाश्रयः कालकर्ता कामहा कामनाशनः ।

महायोगी महाबुद्धिर् महात्मा सुमहाबलः ॥ १७ ॥

प्रभुर् विभूर् (?) भूतनाथो भूतात्मा भुवनेश्वरह् ।

भूतभव्यभावितात्मा भूतान्तकरणः शिवः ॥ १८ ॥

शरण्यः कमलानन्दो नन्दनो नन्दिवर्धनः ।

वरणो वरदो योगी सुसंयुक्तः प्रकाशनः ॥ १९ ॥

प्राप्तयानः परः प्राणः प्रीतात्मा प्रयतः प्रियः ।

सहस्रपात् सुष्ठुसाधुर् दिव्यकुण्डलमण्डितः ॥ २० ॥

अव्यङ्गधारी धीरात्मा सविता वायुवाहनः ।

समाहितमतिर् धाता विधाता कृतमङ्गलः ॥ २१ ॥

कपर्दी कल्पकृद् रुद्रः सुमेता धर्मवत्सलः ।

समायुक्तो वियुक्तात्मा कृतात्मा कृतिनाम्बरः ॥ २२ ॥

अविचिन्त्य वपुःश्रेष्ठो महायोगी महेश्वरः ।

कान्तः कामारिर् आदित्यो नियतात्मा निराकुलः ॥ २३ ॥

कामः कारुणिकः कर्ता कमलाकरबोधनः ।

सप्तसप्तिर् अचिन्त्यात्मा महाकारुणिकोत्तमः ॥ २४ ॥

सञ्जीवनी जीवनाथो जपो जीवो जगत्पतिः ।

अजयो विश्वनिलयः संविभागी वृषध्वजः ॥ २५ ॥

वृषाकपिः कल्पकर्ता कल्पान्तकरणो रविः ।

एकचक्ररथो मौनी सुरथो रथिनाम्बरः ॥ २६ ॥

[७०८] अक्रोधनो रश्मिमाली तेजोराजिर् विभावसुः ।

दिवाकृद् दिनकृद् देवो देवदेवो दिवस्पतिः ॥ २७ ॥

दिननाथो हवो होता दिव्यवाहो दिवाकरः ।

यज्ञो यज्ञपतिः पूषा स्वर्णरेताः परावरः ॥ २८ ॥

परावरज्ञस् तरणिः अंशुमाली मनोहरः ।

प्राज्ञः प्रज्ञापतिः सूर्यः सविता विष्णुर् अंशुमान् ॥ २९ ॥

सदागतिर् गन्धवहो विहितो विधिर् आशुगः ।

पतङ्गः स्थाणुर् विहगो विहङ्गो विहतो वरः ॥ ३० ॥

हर्यश्वो हरिताश्वश् च हरिदश्वो जगत्प्रियः ।

अन्तकः सर्वदमनो भावितात्मा भिषग्वरः ॥ ३१ ॥

आलोककृल् लोकनाथो लोकालोकनमस्कृतः ।

कालः कल्पान्तको वह्निस् तपनः सम्प्रतापनः ॥ ३२ ॥

विरोचनो विरूपाक्षः सहस्राक्षः पुरन्दरः ।

सहस्ररश्मिर् मिहिरो विविधाम्बरभूषणः ॥ ३३ ॥

खगः प्रतर्दनो धन्यो हयगो वाग्विशारदः ।

श्रीमान् अशिशिरो वाग्मी श्रीपतिः श्रीनिकेतनः ॥ ३४ ॥

श्रीखण्ठः श्रीधरः श्रीमाञ् छ्रीनिवासो वसुप्रदः ।

कामचारी महामायो महेशो विदिताशयः ॥ ३५ ॥

तीर्थक्रियावान् सुनयोचितवो भक्तवत्सलः ।

कीर्तिः कीर्तिकरो नित्यं कुण्डली कवची रथी ॥ ३६ ॥

हिरण्यरेताः सप्ताश्वः प्रयतात्मा परन्तपः ।

बुद्धिमान् अपरश्रेष्ठो रोचिष्णुः पाकशासनः ॥ ३७ ॥

समुद्रोध २०० (?) नदोधाता मान्धाता कश्मलापहः ।

[७०९] तमोघ्नो ध्वान्तहा वह्निहोतान्तकरणो गुहः ॥ ३८ ॥

पशुमान् प्रयतानन्दो भूतेशः श्रीमताम्बरः ।

नित्योदितो नित्यरथः सुरेशः सुरपूजितः ॥ ३९ ॥

अजितो विजयो जेता जङ्गमः स्थावरात्मकः ।

जीवानन्दो नित्यगामी विज्ञेता वियदप्रदः ॥ ४० ॥

पर्जन्यो ऽग्निस् तिथिः स्थेयः स्थविरो ऽणुर् निरञ्जनः ।

प्रद्योतनो रथारूढः सर्वलोकप्रकाशकः ॥ ४१ ॥

ध्रुवो मेधी महावीर्यो हंसः संसारतारकः ।

सृष्टिकर्ता क्रियाहेतुर् मार्तण्डो मरुताम्पतिः ॥ ४२ ॥

मरुत्वान् दहनस् त्वष्टा भगो भाग्यो ऽर्यमा कपिः ।

वरुणो ऽजो जगन्नाथः कृतकृत्यः सुलोचनः ॥ ४३ ॥

विवस्वान् भानुमान् कार्यं कारणं तेजसां निधिः ।

असङगामी तिग्मातिर् वर्मांसुर् दीप्तदीधितिः॥ ४४ ॥

सहस्रदीघितिर् ब्रध्नः सहस्रांसुर् दिवाकरः ।

गभस्तिमान् दीधितिमान् स्रधिमान् अमलद्युतिः ॥ ४५ ॥

भास्करः सुरकार्यज्ञः सर्वज्ञस् (?) तीक्ष्णदीधितिः ।

सुरज्येष्ठः सुरपतिर् बहुज्ञो वचसाम्पतिः ॥ ४६ ॥

तेजोनिधिर् बृहत्तेजा बृहत्कीर्तिर् बृहस्पतिः ।

अहिमान् ऊर्जितो धीमान् आमुक्तः कीर्तिवर्धनः ॥ ४७ ॥

महावैद्यो गणपतिर् गणेशो गणनायकः ।

तीव्रः प्रतापनस् तापी तापनो ३०० विश्वतापनः ॥ ४८ ॥

कार्तस्वरो हृषीकेशः पद्मानन्दो ऽभिनन्दितः ।

पद्मनाभो ऽमृतहरः स्थितिमान् केतुमान् नभः ॥ ४९ ॥

**[७१०] **अनाद्यन्तो ऽच्युतो विश्वो विश्वामित्रो घृणी विराट् ।

आमुत्रकवचो वाग्मी कशुकी (?) विश्वभावनः ॥ ५० ॥

अनिमित्तमतिः श्रेष्ठः शरण्यः सर्वतोमुखः ।

विगाही रेणुरसहः समायुक्तः समाक्रतुः ॥ ५१ ॥

धर्मकेतुर् धर्मरतिः संहर्ता संयमो यमः ।

प्रणतार्तिहरो ऽमेयः सिद्धकार्यो जपेश्वरः ॥ ५२ ॥

नभोविगाहतः सत्यो ऽमितात्मासुमनोहरः ।

हारी हरिर् हयो वायु ऋतुः कालानलद्युतिः ॥ ५३ ॥

सुखसेव्यो महातेजा जगतां मन्त्रकारणम् ।

महेन्द्रो निष्ठुतः स्तोत्रं स्तुतिहेतुः प्रभाकरः ॥ ५४ ॥

सहस्रकरश् चायुष्मान् अरोगः सुखदः सुखी ।

व्याधिहा सुमुखः सौख्यं सल्याणं कल्पनाम्बरः ॥ ५५ ॥

आरोग्यकरणं सिद्धिर् वृद्धि ऋद्धिर् अहस्पतिः ।

हिरण्यरेताश् चारोग्यं विश्वान् बुद्धो बुधो महान् ॥ ५६ ॥

प्रणमान् धृतिमान् धर्माधर्मकर्ता रुचिप्रदः ।

सर्वप्रियः सर्वसहः सर्वशत्रुनिवारणः ॥ ५७ ॥

अंशुर् विद्योतनो द्योतः सहस्रकिरणः कृती ।

केयूरी भूषणो ह्रासी भासितो भासनो ऽनलः ॥ ५८ ॥

शरण्यार्तिहरो होता खद्योतः खगसत्तमः ४०० ।

सर्वद्योतम् अवद्योतः (?) सर्वद्युतिहरो मतः ॥ ५९ ॥

कल्याणः कल्याणकरः कल्पः कल्पकरः कविः ।

कल्याणकृत् कल्पवपुः सर्वकल्याणभाजनम् ॥ ६० ॥

शान्तिक्रियः प्रसन्नात्मा प्रशान्त उत्तमप्रियः ।

[७११] उदारकर्मा सुनयः सुवर्चा वृषलोचनः ॥ ६१ ॥

वर्वस्वी वर्चसामीशस् त्रैलोक्येशो वशानुगः ।

तेजस्वी सुयशावर्णी वर्णाध्यक्षो बलिप्रियः ॥ ६२ ॥

यशस्वी वेदनिलयस् तेजस्वी प्रकृतिः स्थितिः ।

आकाशगः शीघ्रगतिर् आशुगो गतिमान् खगः ॥ ६३ ॥

गोपतिर् ग्रहदस्रेशो (?) गोमान् एकः प्रभञ्जनः ।

जनिता पर्जनञ्जीवो दीपः सर्वप्रकाशनः ॥ ६४ ॥

कर्मसाक्षी योगनित्यो नभस्वान् त्रिपुरान्तकः ।

रक्षोघ्नो विघ्नशमनः किरीटी प्रशमप्रियः ॥ ६५ ॥

मरीचिमाली सुमतिः कृती नित्यो विशेषकः ।

शिष्टाचारः शुभाचारः स्वाचाराचारतत्परः ॥ ६६ ॥

मन्दारो मातुरो दण्डः क्षुधापः पाक्षिको गुरुः ।

अवशिष्टो विशिष्टात्मा विधेयो ज्ञानशोभनः ॥ ६७ ॥

महाश्वेतप्रियो ऽज्ञेयः सामगो मोक्षदायकः ।

सर्ववेदप्रणीतात्मा सर्ववेदालयो ऽलयः ॥ ६८ ॥

वेदमूर्तिश् चतुर्वेदो वेदभृद् वेदपारगः ।

क्रियावान् असितो जिष्णुर् वरीयांश् च वरप्रदः ॥ ६९ ॥

व्रतचारी व्रतधरो लोकबन्धुर् अलङ्कृतः ।

अलद्वारो ऽक्षरो विद्वान् विद्यावान् विदिताशयः ॥ ७० ॥ ५००

आकारो भूषणो भूष्यो भूष्णुर् भवनपूजितः ।

चक्रपाणिर् वज्रधरः सुरेशो लोकवत्सलः ॥ ७१ ॥

राज्ञां पतिर् महाबाहुः प्रकृतिर् वैकृतिर् भुणः ?) ।

अन्धकारापहः श्रेष्ठो युगावर्ती युगादिकृत् ॥ ७२ ॥

[७१२] अप्रमेयः सदायोनिर् निरहङ्कार ईश्वरः ।

शुभप्रभः शुभः शोभा शुभकर्मा शुभप्रदः ॥ ७३ ॥

सत्यक् च स्तुतिमान् उच्चैर् नकरो वृद्धिदो ऽनलः ।

बलभृद् बलदो बन्धुर् महिमान् बलिनां वरः ॥ ७४ ॥

अनङ्गो नागराड् इन्द्रः पद्मयोनिर् गणेश्वरः ।

संवत्सर ऋतुर् नेता कालवक्त्रप्रवर्तकः ॥ ७५ ॥

पद्मेक्षणः पद्मयोनिः प्रभावान् अमरप्रभुः ।

सुमूर्तिः सुमतिः सोमो गोविन्दो जगदादिजः ॥ ७६ ॥

पीतवासाः कृष्णवासा दिग्वासातीन्द्रियो हरिः ।

अतीन्द्रो ऽनेकरूपात्मा स्कन्दः परपुरञ्जयः ॥ ७७ ॥

शक्तिमाञ् छूलधृग् बालो मोक्षहेतुर् अयोनिजः ।

सर्ववर्षो जितादर्शो दुःखहाशुभनाशनः ॥ ७८ ॥

माङ्गल्यकर्ता तरणिर् वेगवान् कुमलापहः ।

स्पष्टाक्षरो महामन्त्रो विशाखो यजनप्रियः ॥ ७९ ॥

विश्वकर्मा महाशक्तिर् ज्योतिर् ईशो विहङ्गमः ।

विचक्षणो दक्ष इन्द्रः प्रत्यूहः प्रियदर्शनः ॥ ८० ॥

अखिन्नो वेदनिलयो वेदविद् विदिताशयः ।

प्रभाकरो जितरिपुः सजनो ऽरुणसारथिः ॥ ८१ ॥ ६००

कुबेरः सुरथः स्कन्दो महितो ऽभिमतो गुरुः ।

ग्रहराजो ग्रहपतिर् ग्रहनक्षत्रमण्डलः ॥ ८२ ॥

भास्करः सततानन्दो नन्दनो नरवाहनः ।

मङ्गलोखो मङ्गलवान् मङ्गल्यो मङ्गलावहः ॥ ८३ ॥

[७१३] मङ्गलं चारुचरितः सर्वसर्ववरी व्रती ।

चतुर्मुखः पद्ममाली पूतात्मा प्रणतार्तिहा ॥ ८४ ॥

अकिञ्चनः सत्यसन्धो निर्गुणो गुणवान् शुचिः ।

सम्पूर्णः पुण्दरीकाक्षो विधेयो गततत्परः ॥ ८५ ॥

सहस्रांशुः क्रतुपतिः सर्वस्वं सुमतिः सुवाक् ।

सुवाहनो माल्यदामा कृताहारो हरिप्रियः ॥ ८६ ॥

ब्रह्मा प्रचेताः कथिताः प्रतीतात्मा स्थितात्मकः ।

शतबिन्दुः शतमखो गरीयान् अनलप्रभः ॥ ८७ ॥

धीरो महोत्तरो वित्तः पुरुषः पुरुषोत्तमः ।

विद्याराजो ऽधिराजो ऽहिर् विद्यावान् भूतिदः स्थितः ॥ ८८ ॥

अनिर्देश्यवपुः श्रीमान् विपाप्मा बहुमङ्गलः ।

सुस्थितः सुरथः स्वर्णो मोक्षाधारनिकेतनः ॥ ८९ ॥

निर्द्वन्द्वो द्वन्द्वहा सर्गः सर्गगः सम्प्रकाशकः ।

दयालुः सूक्षधा क्षात्रिः क्षेमाक्षेमस्थितिप्रियः ॥ ९० ॥

भूधरो भूपतिर् व्यक्ता पवित्रात्मा त्रिलोचनः ।

महावराहः प्रियकृद् धाता भोक्ता भयप्रदः ॥ ९१ ॥

चतुर्वेदधरो ऽचिन्त्यो विनिद्रो विविधासनः ।

चक्रवर्ती धृतिकरः सम्पूर्णो ऽथ महेश्वरः ॥ ९२ ॥

विचित्ररथ एकाकी स्वप्नः सुप्तिः परावरः ।

सर्वो दधिस्थितिकरः स्थितिस्थेयः स्थितिप्रियः ॥ ९३ ॥

निष्कलः पुष्कलनखो वसुमान् वासवप्रियः ।

पशुमान् वासरस्वामी वसुधाना वसुप्रदः ॥ ९४ ॥

बलवान् ज्ञानवान् तत्त्वम् ओङ्कारस् त्रिषु संस्थितः ।

[७१४] सङ्कल्पयोनिर् दिनकृद् भगवान् कारणावहः ॥ ९५ ॥

नीलकण्ठो धनाध्यक्षश् चतुर्वेदप्रियंवदः ।

वषट्कारो व्रतं होता स्वाहाकारो हुताहुतिः ॥ ९६ ॥

जनार्धनो जनानन्दो नरो नारायणो बुधः ।

सन्देहक्षेपण् वायुर् आपः सुरनमस्कृतः ॥ ९७ ॥

विग्रही विमलो बिन्दुर् विशोको विमलस्युतिः ।

द्योतितो द्योतिनो विद्युद् द्विद्युद्वै वारिदो बली ॥ ९८ ॥

घर्मदोहिमदोहोमः कृष्णवर्त्मा सभाजितः ।

सावित्रीभाजितो राजा विसृतो विधृणी विराट् ॥ ९९ ॥

सप्तार्चिः सप्ततुरगः सप्तलोकनस्कृतः

सम्पनो ऽर्थी जगन्नाथः सुमनाः शोभनप्रियः ॥ १०० ॥

सर्वात्मा सर्वयष्टिः स्यात् सप्तिमान् सप्तमीप्रियः ।

प्रमेधा मेधिक्रो मेध्यो मेधावी मधुसूदनः ॥ १ ॥

अङ्गिरा गतिकालज्ञो धूमकेतुः सुकेतनः ।

सुखी सुखप्रदः सौख्यं कार्तिकातिप्रियी मुनिः ॥ २ ॥

सन्तापनः सन्तपनः आतपस् तपसां निधिः ।

उस्रपतिः सहस्रांशुः प्रियकारी प्रियङ्करः ॥ ३ ॥

प्रीतिर् वियत्पवारम्भो द्यौः खजगज् जगतां पतिः ।

जगत्पिता प्रीतमनाः सर्वसर्वो गुहो ऽनलः ॥ ४ ॥

सर्वगो जगदानन्दो जगन्नेता सुरारिहा ।

श्रेयः श्रेयस्करो ज्यायान् उत्तमोत्तम उत्तमः ॥ ५ ॥

उतमो मेरुमेयो ऽथ धारणो धरणीधरः ।

[७१५] धाराधरो धर्मराजो धर्माधर्मप्रवर्तकः ॥ ६ ॥

रथाध्यक्षो पशुपतिस् त्वरमानो मनोऽनलः ।

उत्तरो ऽनुत्तरस् तापी तारापतिर् अपाम्पतिः ॥ ७ ॥

पुण्यसङ्कीर्तनः पुण्यो हेतुर् लोकत्रयाश्रयः ।

स्वर्भानुर् विगतारिष्टो विशिष्टोत्कृष्टकर्मकृत् ॥ ८ ॥

व्याधिप्रणाशनः क्षेमः सुरः सर्वजितो नरः ।

एकनाथो रथाधीशः शनैश्चरपिता सितः ॥ ९ ॥

वैवस्वतो गुरु मृत्युर् धर्मनित्यो महाव्रतः ।

प्रलम्बहारः सञ्चारो प्रद्योतोद्योतितानलः ॥ १० ॥

शताक्षरपरो मन्त्रो मन्त्रमूर्तिर् महाबलः ।

तुष्टात्मा सुप्रियः शम्भुर् मरुताम् ईश्वरेश्वरः ॥ ११ ॥

संसारगतिविच्छेत्ता संसारार्णवतारकः ।

सप्तजिह्वः सहस्रार्चिर् नीलगर्भो ऽपराजितः ॥ १२ ॥

धर्मकेतुर् अमेयात्मा धर्माधर्मफलप्रदः ।

स्तोकसाक्षी लोकगुरुर् लोकेशः छन्दवाहनः ॥ १३ ॥

धर्मयूपो धर्मवृक्षो धनुष्पाणिर् धनुर्धरः ।

पिनाकघृङ् महोत्साहो ऽनेकमायो महाशनः ॥ १४ ॥

वीरः शक्तिमतां श्रेष्ठः सर्वशास्त्रभृताम्बरः ।

ज्ञानगम्यो दुराराध्यो लोहिताङ्गो ऽरिमर्दनः ॥ १५ ॥

खखल्को धर्मदो नित्यो धर्मकृच् च त्रिविक्रमः ।

भगवान् स्वामी रेवन्तो अक्षरो नीललोहितः ॥ १६ ॥

एको ऽनिकस् त्रयी व्यासः सविता समितिञ्जयः ।

शार्ङ्गधन्वानलो भीमः सर्वप्रहरणायुधः ॥ १७ ॥

[७१६] अर्हमः परमेष्ठी च नाकपाली दिविस्थितः ।

वदान्यो वासुकिर् वैद्यः आत्रेयो ऽश्वपदाक्रमः ॥ १८ ॥

द्वापरः परमो दारः परमो ब्रह्मवर्चवान् ।

उदीच्यवेशो मुकुरी पद्महस्तो हिमांशुभृत् ॥ १९ ॥

शीतः प्रसन्नवदनः पद्मोदरनिभाननः ।

सायं दिवादित्यवपुर् अनिर्देश्यो महारथः ॥ २० ॥

महारथो महान् ईशः शेषः सर्वरजस्तमः ।

धृतातपत्रप्रतिमो विमर्षी निर्ण्यस्थितः ॥ २१ ॥

अहिंसकः शुद्धमतिर् अद्वितीयो ऽरिमर्दनः ।

सर्वदो धनदो मोक्षो विहारी बहुदायकः ॥ २२ ॥

वारुणार्तिहरो नाथो भगवान् सर्वगो ऽव्ययः ।

मनोहरवपुः शुभ्रः शोभनः सुप्रभावनः ॥ २३ ॥

सुप्रभः सुप्रभाकारः सुनेत्रो निक्षुभापतिः ।

राज्ञां प्रियः शब्दकरो ग्रहेशस् तिमिरापहः ॥ २४ ॥

सैहिकेयरिपुर् देवो वरदो वरनायकः ।

चतुर्भुजो महायोगी योगीशो ऽश्वपतिस् तथा ॥ १००० ॥

एतत् ते सर्वम् आख्यातं यन् मां त्वं परिपृच्छसि ।

नास्रां (?) सहस्रं सवितुः पाराशर्यो यद् आह मे ॥ २६ ॥

धन्यं यशस्यम् आयुष्यं दुष्टदुःस्वप्ननाशनम् ।

बन्धमोक्षकरं चैव भानोर् नामानुकीर्तनम् ॥ २७ ॥

यस् त्व् इदं शृणुयान् नित्यं पठेद् वा प्रयतो नरः ।

अक्षयस्वर्गमन्नाद्यं भवेत् तस्योपसाधितम् ॥ २८ ॥

नृराखितस्करभयं (?) व्याधिभ्यो न भयं भवेत् ।

[७१७] विजयी विभवेन् नित्यं श्रेयश् च समवाप्नुयात् ॥ २९ ॥

कीर्तिमान् सुभगो विद्वान् सुमुखी प्रियदर्शनः ।

भवेद् वर्षशतायुश् च सर्वबाधाविवर्जितः ॥ ३० ॥

नाम्नां सहस्रम् इदं अंशुमतः पठेद् यः

प्रातःशुचिर् नियमवान् सुसमाधियुक्तः ।

दूरेण तं परिहरन्ति स दैवरोगाः

भीताः सुपर्णम् इव सर्वमहोरगेन्द्राः ॥ ३१ ॥

इत्थं राजन् जपेद् रात्रौ यावन् निद्रावशङ्गतः ।

जपेद् भक्त्या पुनर् वीर आदित्यादिमुखस्थितः ॥

पूजयित्वा यथादित्यम् अर्चयित्वा द्विजोत्तमम् ।

भुञ्जीत वाग्यतः पश्चाद् अमांसं सुसमाहितः ॥

विप्रेभ्यो दक्षिणां दत्वा यथाशक्त्या नराधिपः ।

एवं संवत्सरं यावत् कुर्याद् विजयसप्तमीम् ॥

स जयेद् अखिलाण् छत्रून् सूर्यलोकं स गच्छति ॥

इति भविष्योत्तरपुराणोक्तं विजयसप्तमीव्रतम् ।

युधिष्ठिर उवाच ।

सप्तमी जयदा नाम कस्मिन् काले विधीयते ।

किम्फला नियमः कश्चिद् वद देवकिनन्दन ॥

कृष्ण उवाच ।

शुक्लपक्षे तु सप्तम्यां यदादित्यदिनं भवेत् ।

सप्तमी विजया नाम तत्र दत्तं महाफलम् ॥

स्नानं दानं जपो होम उपवासस् तथैव च ।

[७१८] सर्वदा जयसप्तम्यां महापातकनाशनम् ॥

प्रदक्षिणं यः कुरुते फलैः पुष्पैर् दिवाकरम् ।

स सर्वगुणसम्पन्नं पुत्रं प्राप्नोत्य् असंशयम् ॥

प्रथमा नालिकेरैस् तु द्वितीया बीजपूरकैः ।

तृतीया रक्तनारङ्गैश् चतुर्थी कदलीफलैः ॥

पञ्चमी ऋजुकुष्माण्डैः षष्ठी पक्वैश् च तेन्दुकैः ।

वृन्ताकैः सप्तमी ज्ञेया शतेनाष्टोत्तरेण तु ॥

मौक्तिकैः पद्मरागैस् तु तिलैः कर्कटकैस् तथा ।

गोमेदैर् वज्रवैदुर्यैः (?)शतेनाष्टाधिकेन तु ॥

ईङ्गुदैर् बदरैर् बिल्वैः करमर्दैः सवर्भटैः ।

आम्रातकैश् च जम्बीरैर् जम्बूकर्कटिकैः फलैः ॥

पुष्पैर् धूपैः फलैः पत्रैर् मोदकैर् घृतपाचितैः ।

एभिर् विजयसप्तम्यां भानोः कुर्यात् प्रदक्षिणम् ॥

अन्यैः फलैश् च कालोत्थैर् अखण्डैर् ग्रन्थिवर्जितैः ।

रवेः प्रदक्षिणं देयं फलेन फलम् आदिशेत् ॥

न विशेन् न च सञ्जल्पेन् न स्पृशेत् किञ्चिद् एव हि ।

एकचित्ततया भानुश् चिन्तितो ऽतिप्रयच्छति ॥

वसोर् धारा प्रदातव्या भानोर् गव्येन सर्पिषा ।

चन्द्रातपत्रं बध्नीयाद् ध्वजं किङ्किणिकायुतम् ॥

कुङ्कुमेन समायुक्तं पुष्पैर् वस्त्रैश् च वेष्टयेत् ।

[७१९] शुचिर् निवेद्य नैवेद्यं ततो देवं क्षमापयेत् ॥

भानो भास्करमार्तण्ड चण्डरश्मे दिवाकर ।

आयुर् आरोग्यम् ऐश्वर्यं पुत्रान् देहि नमो ऽस्तु ते ॥

उपवासेन नक्तेन भक्तैकायाचितेन च ।

नेया नियमयुक्तेन न राजन् विजयसप्तमी ॥

रोगी प्रमुच्यते रोगाद् दरिद्रः श्रियम् आप्नुयात् ।

अपुत्रो लभते पुत्रान् विद्यार्थी पूज्यते सभाम् ॥

शुक्लपक्षे यदा पार्थ सादित्या सप्तमी भवेत् ।

तदानक्तेन मुद्गाशी क्षपयेत् सप्तसप्तमीम् ॥

भूमौ पलाशपत्रेषु स्नात्वा हुत्वा यथाविधि ।

समाप्ते तु व्रतं दद्यात् सुवर्णं मुद्ग्मिश्रितम् ॥

मुद्गभोग्याय सूर्याय कवकायाथ वा नृप ।

सप्तमीः सप्तसंयुक्ता आदित्येन तु यो नरः ॥

षडक्षरेण मन्त्रेण सर्वकार्याणि कारयेत् ।

होमार्चनप्राशनानि शतेनाष्टोत्तरेण च ॥

होमः साज्यतिलः कार्यः प्राशनम् चन्दनोदकम् ।

पूजां तत्कालसम्भूतैः सुपुष्पैः करवीरकैः ॥

एवं पूर्णे व्रते पश्चात् सुवर्णेन घटायितम् ।

स्वशक्त्या भास्करं पार्थ रुक्मपात्रम् उपस्थितम् ॥

आदित्यरूपनिर्माणं (?) तु निक्षुभार्कसप्तमीव्रतोक्तं वेदितव्यम् ।

कषायवाससा युक्तां गां च दद्यात् सदक्षिणाम् ।

मन्त्रेणानेन विप्राय वाचकाय गुणान्विते ॥

भास्करेण नमस् तुभ्यं यशस्कर नमो ऽस्तु ते ।

[७२०] श्रेयस्कर प्रसीद त्वं वाञ्छितं देहि मे विभो ॥

दानान्य् अत्र प्रदेयानि गृहाणि शयनानि च ।

श्रद्दया श्रद्धया पार्थ शाश्वतीं प्रीतिम् इच्छता ॥

यात्रा प्रशंस्या यातॄणां राज्ञां विजयम् इच्छताम् ।

विजयी जायते ऽवश्यं गतानां तु नृणां तदा ॥

अतो ऽर्थं विश्रुता पार्थ लोके विजयसप्तमी ।

एवम् एषा तिथिः सद्यः सर्वकामफलप्रदा ॥

इह वामुत्र फलदा सूर्यलोकप्रदायिनी ।

तदनुष्ठानतो विद्वान् दीर्घायुर् नीरुजः सुखी ॥

इहागत्य भवेद् राजा हस्त्यश्वरथसङ्कुलः ।

नारी वा कुरुते या तु सापि तत्फलभागिनी ॥

नित्यं महीतलजयप्रतिपादयित्री

या सप्तमी मुनिवरैः प्रवरा तिथीनाम् ।

सा भानुपादकमलार्चनचिन्तकानाम्

पुंसां सदैव विजया विजयं ददाति ॥

इति श्रीभविष्योत्तरोक्तं विजयसप्तमीव्रतम् ।

श्रीकृष्ण उवाच ।

अथान्यं ते प्रवक्ष्यामि सप्तमीकल्पम् उत्तमम् ।

माघमासात् समारभ्य शुक्लपक्षे युधिष्ठिर ॥

सप्तम्यां कृतसङ्कल्पो वर्षम् एकं व्रती भवेत् ।

[७२१] वरुणं माघमासे तु भानुं सम्पूज्य कारयेत् ॥

ब्रह्मकूर्चविधानेन यथाशक्त्या नृपोत्तम ।

अष्टम्यां भोजयेद् विप्रान् तिलपिष्टगुडोदनैः ॥

अग्निष्टोमस्य यज्ञस्य फलं कृत्स्नम् अवाप्यते ।

तपनं फाल्गुने मासि सूर्यम् इत्य् अभिपूजयेत् ॥

वाजपेयस्य यज्ञस्य फलं प्राप्नोति दुर्लभम् ।

सप्तम्यां चैत्रमासे तु वेदांशुर् इति पूजयेत् ॥

उञ्छाध्वरसमं पुण्यं नरः प्राप्नोत्य् असंशयम् ।

वैशाखस्य तु सप्तम्यां धाता इत्य् अभिपूजयेत् ॥

पशुबन्धाध्वरं पुण्यं सम्यक् प्राप्नोति मानवः ।

सप्तम्यां ज्यैष्ठमासस्य इन्द्रम् इत्य् अभिपूजयेत् ॥

अश्वमेधफ्लावप्तिर् जायते नात्र संशयः ।

तथाषाढस्य सप्तम्यां पूजयित्वा दिवाकरम् ॥

बहुस्वर्णस्य यज्ञस्य फलं प्राप्नोति पुष्कलम् ।

श्रावणे मासि सप्तम्याम् आतपानां प्रपूजयेत् ॥

सौत्रामणिफलं पार्थ नरः प्राप्नोति भक्तितः ।

रविं भाद्रपदे मासि सप्तम्याम् अर्चयेच् छुचिः ॥

तुलापुरुषदानस्य गुडेन फलम् आप्नुयात् ।

अश्वयुक् सुक्लसप्तम्यां सवितारं प्रपूजयेत् ॥

गोसहस्रप्रदानस्य फलम् आप्नोति भक्तितः ।

[७२२] कार्त्तिके शुक्लसप्तम्यां सप्ताश्वं नाम पूजयेत् ॥

यो ऽभ्यर्चयति पुण्यात्मा पौण्डरीकफलं लभेत् ।

मार्गशीर्षे तथा भानुं पूजयित्वा विधानतः ॥

राजसूयस्य यज्ञस्य फलम् आप्नोति वै नरः ।

भास्करं पुष्यमासे तु पूजयित्वा विधानतः ॥

चतुर्णाम् अपि वेदानां स्वाध्यायस्य फलं लभेत् ।

तथैव कृष्णसप्तम्यां नामपूजादिकं तु यः ॥

सोपवासः प्रयत्नेन वर्षम् एकं समाचरेत् ।

पारिते नियमे पार्थ सूर्ययागं समारभेत् ॥

शुद्धभूमौ समे देशे (?) रक्तचन्दनलेपिते ।

एकहस्तं द्विहस्तं वा चतुर्हस्तम् अथापि वा ॥

सिन्दूरेणातिरागेण सूर्यमण्डलम् आलिखेत् ।

रक्तपुष्पैश् च पद्मैश् च धूपैः कुन्दुरुकादिभिः ॥

सम्पूज्य दद्यान् नैवेद्यं विचित्रं घृतपाचितम् ।

पुरतः स्थापयेत् कुम्भान् जलपूर्णान् सदक्षिणाम् ॥

द्वादशात्र नृपश्रेष्ठ रक्तवर्णान् सुचर्चितान् ।

अग्निकार्यं ततः कार्यं सम्यक्-हुतहुताशनः ॥

आकृष्णेनेति मन्त्रेण समिद्भिश् चार्कवृक्षजैः ।

तिलैर् आज्यगुडोपेतैर् दद्याद् अष्टशताहुतीः ॥

दक्षिणा च ततो देया ब्राह्मणेभ्यः पृथक् पृथक् ।

[७२३] देयानि रक्तवासांसु शानां द्विजद्वादन्मनाम् (?) ॥

द्वादशात्र प्रशंसन्ति गावो वस्त्रविभूषिताः ।

छत्रोपनद्युगं चैवम् एकैकाय प्रदापयेत् ॥

वित्तहीनो न शक्नोति दानं द्वादश्धेनुकम् ।

एका ह्य् अपि सुशीला च रक्तवर्णा पयस्विनी ॥

उपदेष्ट्रे प्रदातव्या वित्तशाढ्यम् अकुर्वतः ।

ततो विसृज्य तान् विप्रान् स्वयं भुञ्जीत वाग्यतः ॥

य एवं कुरुते पार्थ सप्तमीव्रतम् आदरात् ।

निरुजो रूपवान् वाग्मी दीर्घायुश् चैव जायते ॥

विमुक्तो दीर्घरोगैश् च ग्रस्तः कुष्टादिना तु यः ।

तेन कार्यं प्रयत्नेन व्रतम् एतद् रुजापहम् ॥

नेहास्ति भास्कराद् अन्यद् औषधं रोगहानिदम् ।

भास्करैकगतिर् यस् तु सर्वभूतहिते रतः ॥

तस्य सन्दर्शनस्पर्शाद् रोगहानिः प्रजायते ।

कथं वा सूर्यभक्तानां रोगदैर्गत्यसम्भवः ॥

जायते भरतश्रेष्ठ प्रत्यक्षे परमेष्ठिनम् ।

सप्तम्यां प्रतिमासं तु जन्मव्रतचरो हि यः ॥

उपवासी रवेर् भक्तः सर्वभूतहिते रतः ।

अष्टम्यां विप्रसहितो हविष्यं भोजयेन् नरः ॥

एकादशसमा यस्य दिव्यरूपा च सप्तमी ।

सूर्यस्य मण्डलं भित्त्वा याति ब्रह्म सनातनम् ॥

व्रतम् एतन् महाराज सर्वाशुभविनाशनम् ।

[७२४] सर्वदुःखोपशमनं शरीरारोग्यदायकम् ॥

सूर्यलोकप्रदं चान्ते प्राहेदं नारदो मुनिः ॥

ये सप्तमीम् उपवसन्ति सितासितां च

नामाक्षरैर् अमितदीधितिम् अर्चयन्ति ।

ये सर्वरोगरहिता सुखिनः सदैते

भूत्वा रवेर् अनुचरा सुचिरं वसन्ति ॥

इति भविष्यत्पुराणोक्तं द्वादशसप्तमीव्रतम् ।

सुमन्तुर् उवाच ।

यः क्षिपेद् गोमयाहारः शुक्लाः द्वादशसप्तमीः ।

राजेन्द्र याचकाहारः शीर्णपर्णाशनो ऽपि वा ॥

क्षीराशी वैकभक्तो वा भिक्षाहारो ऽथ वा पुनः ।

जलाहारो ऽथ वा भूत्वा पूजयित्वा दिवाकरम् ॥

पुष्पोपहारैर् विविधैः पद्मसौगन्धिकोत्पलैः ।

नानाप्रकारैर् गन्धैस् तु धूपैर् गुग्गुलचन्दनैः ॥

शर्करापयसाद्यैश् च विचित्रैश् च विभूषणैः ।

अर्चयित्वा नरश्रेष्ठ हिरण्यान्नादिभिर् नरः ॥

यथोक्तफलम् आप्नोति क्रतुभिर् भूरिदक्षिणैः ।

तद् अत्र प्राप्यते वीर सप्तम्यां केवलं रवेः ॥

विमानवरम् आरूढः सूर्यलोके महीयते ।

[७२५] ततः पुण्यकृतां राजन् कुले महति जायते ॥

एवं भक्त्या विवस्वन्तं प्रतिमासं समाहितः ।

पूजयेद् विधिवद् भक्त्या नामान्य् एतानि कीर्तयेत् ॥

मघौ मासे विष्णुर् इति माधवे चार्यमेति च ।

शुक्रे विवस्वान् मासे च शुचौ मासे दिवाकरः ॥

पर्जन्यः श्रावणे मासि नभस्ये तरणिस् तथा ।

मित्रश् चाश्वयुजे मासि कीर्तनीयो दिवाकरः ॥

मार्तण्डेति रविर् ज्ञेयः कार्त्तिके काञ्चनप्रभः ।

मार्गशीर्षे रविः प्रोक्तः सर्वपापविनाशनः ॥

पुष्यमासे च पूषेति विज्ञेयः काञ्चनप्रभः ।

माघे भगश् च विज्ञेयः त्वष्टा वै वाथ फाल्गुने ॥

एवं क्रमेण नामानि कीर्तयेत् प्रीतये रवेः ।

धूपार्चनविधानं तु सप्तम्यां तु विधानतः ॥

यः करोति नरो भक्त्या स याति परमां गतिम् ।

तेजसा हरिसङ्काशः प्रभया रविसन्निभः ॥

एतत् ते सर्वम् आख्यातं शृणु तत् पापनाशनम् ।

न वदेच् च ह्य् अशिष्याय नाभक्ताय कदाचन ॥

न च पापकृते देयं नातप्ततप्से ऽपि च ।

न कृष्णेनास्तिके वीर न देयं क्रूरकर्मणे ॥

[७२६]

इति श्रीभविष्यत्पुराणोक्तं (?) गोमयादिसप्तमीव्रतम् ।

सुमन्तुर् उवाच ।

उदकप्रभृतिं पीत्वा क्रियते या तु सप्तमी ।

सा ज्ञेया सुखदा वीर सदैवोदकसप्तमी ॥

इति भविष्यत्पुराणोक्तम् उदकसप्तमीव्रतम् ।

या काचित् सप्तमी प्रोक्ता ततो वक्ष्यामि शोभनम् ।

वराटिकात्रयक्रीतं यत् किञ्चित् प्राशयेन् नरः ॥

अनेन देही मूल्येन यल् लब्धं तच् च भक्षयेत् ।

अभक्ष्यं वापि भक्ष्यं वा नात्र कार्या विचारणा (?) ।

अनेन विधिना कार्या वराकाह्वयसप्तमी ॥

इति भविष्यत्पुराणोक्तवराटिकासप्तमीव्रतम् ।

ब्रह्मोवाच ।

अतः परं प्रवक्ष्यामि रहस्या नाम सप्तमी ।

पवित्रा हि पवित्राणां महापातकनाशिनी ॥

सप्तमी कृतमात्रेयं नरस् तारयते भवात् ।

सप्तापरान् सप्तपूर्वान् पितॄंश् चापि न संशयः ॥

रोगांश् छिनत्ति दुश्चेद्यान् दुर्जयान् जयते रिपून् ।

अर्घं प्राप्नोति दुःप्राप्यं सकृत् कृत्वापि सप्तमीम् ॥

[७२७] कन्यार्थी लभते कन्यां धनार्थी लभते धनम् ।

पुत्रार्थी लभते पुत्रान् धर्मार्थी धर्मम् आप्नुयात् ॥

समयान् पालयन् सर्वान् कुर्याच् चेमां विचक्षणः ।

शृणुयात् शृणु भूतेश श्रेयसे गदतो मम ॥

आदित्यभक्तः पुरुषः सप्तम्यां गणनायकम् ।

मैत्री सर्वत्र वै कुर्याद् भास्करं वापि चिन्तयेत् ॥

सप्तम्यां न स्पृशेत् तैलं नीलवस्त्रं न धारयेत् ।

न च वामलके स्नानं न कुर्यात् कलहं क्वचित् ॥

तथैवान्नमलं मद्यं न दद्यान् न पिबेद् बुधः ।

न द्रोहं कस्यचित् कुर्यान् न पारुष्यं समाचरेत् ॥

न च भाषेत चाण्डालं वचनैः स्त्रीं रजस्व्लाम् ।

स चापि संस्पृशेत् स्थानं मृतकं नावलोकयेत् ॥

न नृत्येद् अतिरागेण न च वाद्यानि वादयेत् ।

न स्वपेच् च स्त्रिया स्वार्धं (सार्धं?) न सेवेत दुरोदरम् ॥

न रोदेद् अस्रुपातेन न चाद्यात् पञ्चशाकिकम् ।

पञ्चशाकिकं कन्दमूलफलदलपुष्पाणि पञ्चशाकानि ।

नाकर्षेच् च शिरोयूकान् न वृथा वादम् आचरेत् ।

परस्यानिष्टकथनम् अतिशोकं विवर्जयेत् ॥

नास्फोटयेच् चापि हसेद् गायेच् चापि न गीतकम् ।

न किञ्चित् ताडयेज् जन्तुं न कुर्याद् अतिभोजनम् ॥

न चैव हि दिवास्वप्नं दम्भं शाठ्यं च वर्जयेत् ।

रथ्यायम् अटनं चापि यत्नतः परिवर्जयेत् ॥

[७२८] अथापरो विधिश् चात्र श्रूयतां त्रिपुरान्तक ।

चैत्रात् प्रभृति कर्तव्या सर्वदा नाम सप्तमी ॥

धातेति मधुमासे तु पूजनीयो दिवाकरः ।

अर्यमेति च वैशाखे ज्यैष्ठे मित्रः प्रकीर्तितः ॥

आषाढे वरुणो ज्ञेय इन्द्रो नभसि कथ्यते ।

विवस्वांश् च नभस्ये तु पर्जन्यो ऽश्वयुजि स्मृतः ॥

पूषा कार्तिकमासे च मार्गशीर्षे तु कथ्यते ।

भगः पौषे विवस्वांश् च त्वष्टा माघे तु कथ्यते ॥

विष्णुस् तु फाल्गुने मासि पूज्यो वन्द्यश् च भास्करः ।

सप्तम्यां चैव सप्तम्यां भोजयेद् भोजकान् बुधः ॥

सघृतं भोजनं देयं भोजयित्वा विधानतः ।

भोजकाय प्रदेया तु दक्षिणा स्वर्णमाषकम् ॥

सघृतं भोजनं देयं रक्तवस्त्राणि चैव हि ।

अलाभे भोजकानां तु दक्षणीया द्विजोत्तम ॥

तथैव भोजनीयाश् च श्रद्धया परयान्वितः ।

विशेषतः पूजनीयाः ब्राह्मणाः कल्पचित् सदा ॥

इत्य् एता कथिता तुभ्यं सप्तमी गणनायक ।

श्रुता सती पापहरा सूर्यलोकप्रदायिनी ॥

इति भविष्यत्पुराणोक्तं नाम सप्तमीव्रतम् ।

पितामह उवाच ।

फाल्गुनामलपक्षस्य सप्तम्यां च घनाघन ।

[७२९] उपोषिता नरो नारी समभ्यर्च्य तमोपहम् ॥

सूर्यनाम जपन् भक्त्या भावयुक्तो जितेन्द्रियः ।

उत्तिष्ठन्न् उपविशंश् चैव सूर्यम् एवानुकीर्तयेत् ॥

ततो ऽन्यदिवसे प्राप्ते अष्टम्यां नियतो रविम् ।

स्नात्वा सम्यक् समभ्यर्च्य दद्याद् विप्राय दक्षिणाम् ॥

रविम् उद्दिश्य चैवाग्नौ कृतहोमः कृतक्रियः ।

प्रणिपत्य रविं देवम् इति वाक्यम् उदीरयेत् ॥

यम् आराध्य पुरा देवा सावित्री कामम् आप वै ।

स मे ददातु देवेशः सर्वान् कामान् विभावसूः ॥

समभ्यर्च्य दितिः प्राप्ता कृत्स्नान् कामान् यथेप्सितान् ।

ददातु सकलान् कामान् प्रसन्नो मे दिवस्पतिः ॥

भ्रष्टराज्यः स देवेन्द्रो समभ्यर्च्य दिवाकरम् ।

कामार्थम् आप्तवान् राज्यं स मे कामान् प्रयच्छतु ॥

एवम् अभ्यर्च्य पूजां च निष्पाद्येह विशेषतः ।

भुञ्जीत च ततः सम्यक् हविष्यं पतगध्वज ॥

फाल्गुने चैत्रवैशाखे ज्यैष्ठम् अन्त्यं तथा परम् ।

चतुर्भिः पारणं मासैर् एभिर् निष्पाद्य सम्भवेत् ॥

करवीरैश् चतुरो मासान् तथा सम्पूजयेद् रविम् ।

कृष्णागुरुं दहेद् धूपं प्राश्य गोशृङ्गजं जलम् ॥

नैवेद्यं खण्डवेष्टांश् च दद्याद् विप्रेभ्य एव च ।

तनस् तु श्रूयताम् अन्यच् चाषाढादिषु या क्रिया ॥

जातीपुष्पाणि शस्तानि धूपो गुग्गुलुर् उच्यते ।

[७३०] कुतपोदकम् अश्नीयान् नैवेद्यं पायसं मतम् ॥

स्वय्ं तद् एव चाश्नीयात् शेषं पूर्ववद् आचरेत् ।

कुतपोदकं कुशोदकम् ।

कार्त्तिकादिषु मासेषु गोमूत्रं कायशोधनम् ।

महाङ्गं धूपम् उद्दिष्टं पूजारक्तोत्पलैस् तथा ॥

महाङ्गधूपो भविष्यत्पुराण उक्तो तथा ।

कर्पूरं कुङ्कुमं मुस्ताम् अगुरुं सिह्लकं तथा ।

व्यजनं शर्करा कृष्ण महाङ्गं सिह्ल्कं तथा ।

महाङ्गो ऽयं स्मृतो धूपः प्रियो देवस्य सर्वदा ॥

कुतपोदकम् अश्नीयान् नैवेद्यं पायसं मतम् ।

कासारं चैव नैवेद्यं प्रदद्याद् भास्कराय वै ।

प्रतिमासं च विप्राय दद्याच् छक्त्या तु दक्षिणाम् ॥

प्रीणनं स्वेच्छया भानोः पारणं पारणे गते ।

यथाशक्ति यथायोगं वित्तशाठ्यं विवर्जयेत् ॥

सद्भावेनैव सप्ताश्वः पूजितः प्रीतये मतः ।

पारणान्ते यथाशक्त्या पूजितः स्नापितो रविः ॥

प्रीणीतश् चेप्सितान् कामान् दद्याद् अव्याहतान् रविः ।

एषा पुण्या पापहरा सप्तमी सर्वकामदा ॥

यथाभिलषितान् कामान् ददाति गरुडध्वज ।

अपुत्रः पुत्रम् आप्नोति अधनो धनम् आप्नुयात् ॥

रोगाभिभूतश् चारोग्यं कन्या विन्दति सत्पतिम् ।

समागमं प्रवासेभ्यौपोष्यैतद् अवाप्नुयात् ॥

सर्वान् कामान् अवाप्नोति गोगतश् चापि मोदते ।

[७३१] गोगत इति स्वर्गतः ।

पुनर् एत्य महीं कृष्ण धनाधनसमो नृप ।

धनाधनसमः शक्रतुल्यः ।

क्ष्मातले स्यान् न सम्देहः प्रसादाद् गोपतेर् नरः ॥

इति भविष्यत्पुराणोक्तं कामदासप्तमीव्रतम् ।

सुमन्तुर् उचाव ।

अथ भाद्रपदे मासि शुक्लपक्षे महामते ।

उपोष्या प्रथमा तत्र विधानं शृणु यद् भवेत् ॥

अयाचितो चतुर्थ्यां तु पञ्चम्याम् एकभोजनम् ।

उपवासपरः षष्ठ्यां जितक्रोधो जितेन्द्रियः ॥

अर्चयित्वा दिनकरं गन्धपुष्पनिवेदनैः ।

पुरतः स्थण्डिले रात्रौ स्वपेद् देवस्य पुत्रक ॥

प्रध्यायन् मनसा देवं सर्वभूतार्तिनाशनम् ।

सर्वदोषप्रशमनं सर्वपातकनाशनम् ॥

विबुद्धस् त्व् अथ सप्तम्यां कुर्याद् ब्राह्मणभोजनम् ।

पूजयित्वा दिनकरं पुष्पधूपविलेपनैः ॥

नैवेद्यं तत्र देवस्य फलानि कथयन्ति हि ।

खर्जूरं नालिकेरं च तथैवाम्रफलानि च ॥

मातुलङ्गफलानीह कथितानि मनीषिभिः ।

भोजजित्वा ततो विप्रान् आत्मना चैव भोजयेत् ॥

[७३२] तथैषां चाप्य् अभावे तु शृणु वान्यानि सुव्रत ।

शालिगोधूमपिष्टेन कारयेद् गणनायकम् ॥

गुडगर्भकृतानीह घृतगर्भाणि पाचयेत् ।

जातुजीरकमिश्राणि आदित्याय निवेदयेत् ॥

जातुजीरकमिश्राणि एलापत्रनागकेशराणि ।

शर्कराखाद्यमिश्राणि आदित्याय निवेदयेत् ॥

अग्निकार्यम् अथो कृत्य ब्राह्मणान् भोजय्त् ततः ।

इत्थं द्वादश् वै मासान् कार्यं व्रतम् अनुत्तमम् ॥

मासि मासि फलाहारः फलदायी भवेन् नृप ।

व्रतम् एतत् तु कुर्वीत भक्त्या ब्राह्मणभोजनम् ॥

स्नानप्राशनयोश् चापि विधानं शृणु सुव्रतम् ।

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥

तिलाः सर्षपजं कल्कश्वेतमृद् वापि सुव्रत ।

दूर्वाकल्कघृतं चापि गोशृङ्गक्षालनं जलम् ।

जातीगुल्मविनिर्यासः प्रशस्तं स्नानकर्मणि ॥

दूर्वाकल्कघृतं दूर्वाकल्कघृतयुतम् । गोशृङ्गक्षालनं येन गोशृङ्गं क्षाल्यते । जातीगुल्मविनिर्यासं समूलशाखजातीपल्लव्म् ।

प्राशने चाप्य् अथैतानि सर्वपापहराणि वै ।

आदौ कृत्वा भाद्रपदे यथासङ्ख्यं विदुर् बुधाः ॥

इत्थं वर्षान्तम् आसाद्य भोजयित्वा द्विजोत्तमान् ।

दिव्यान् भौमान् महादेव ततस् तेभ्यो निवेदयेत् ॥

[७३५] देवकुले भवा दिव्या, इतरे भौमाः ।

फलानि चाथ हैमानि यथाशक्त्या कृतानि तु ।

सवत्साम् अथ वा धेनुं भूमिं शस्यान्विताम् अथ ।

प्रासादम् अथ वा भौमं सर्वधान्यसमन्वितम् ॥

भौमप्रासादं राजगृहतुल्यं गृहम् ।

दद्याद् रक्तानि वस्त्राणि ताम्रपात्रं सविद्रुमम् ।

शक्तियुक्तस्य चैतानि दरिद्रस्य च मे शृणु ॥

फलानि पुष्पाणि च तथा तिलचूर्णानि तानि तु ।

भोजयित्वा द्विजान् दद्याद् राजतानि फलानि च ॥

धातूरक्तं वस्त्रयुग्मम् आचार्याय निवेदयेत् ।

सहिरण्यं महादेवं पञ्चरत्नसमन्वितम् ॥

इत्थं समाप्यते सम्यग् अब्दान्ते तात पारणम् ।

इत्य् एषा वै पुण्यतमा सप्तमी दुरितापहा ॥

याम् उपोष्य नरा सर्वे यान्ति सूर्यसओकताम् ।

पूज्यमानाः सदा देवैर् गन्धर्वाप्सरसां गणैः ॥

अनया मानवो यस् तु पूजयेद् भास्करं सदा ।

दारिद्र्यदुःखदुरितैर् मुक्तो याति दिवाकरम् ॥

ब्राह्मणो मोक्षम् आयाति क्षत्रियश् चन्द्रतां व्रजेत् ।

वैश्यो धनदसालोक्यं शूद्रो विप्रत्वम् आप्नुयात् ॥

अपुत्रो लभते पुत्रं दुर्भगा सुभगा भवेत् ।

विधवा या सती भक्त्या अनया पूजयेद् रविम् ॥

[७३४] नान्यजन्मनि वैधव्यं नारी प्राप्नोति मानद ।

चिन्तामणिसमा ह्य् एषा विज्ञेया फलसप्तमी ।

पठतां शृण्वतां भक्त्या सर्वकामप्रदा स्मृता ॥

इति भविष्यत्पुराणोक्तं फलसप्तमीव्रतम् ।

अगस्त्य उवाच ।

मासि भाद्रपदे प्राप्ते शुक्लपक्षे सुरेश्वरः ।

सप्तम्याम् उपवासेन पुत्रप्राप्तिप्रदं व्रतम् ॥

षष्ट्यां चैव सुसङ्कल्प्य सप्तम्यां पूजयेद् धरिम् ।

हरिं विष्णुं नाममन्त्रैः पूजा । देवैर् ब्रह्मादिभिः तद्रूपाणि पुष्पाभिषेके ।

देवैर् यमगतं देवं मातृभिः परिवारितम् ॥

ततः प्रभाते विमले अष्टम्यां प्रयतो हरिम् ।

प्राग्विधानेन गोविन्दं अर्चयित्वा विधानतः ॥

प्राग्विधानेन वैष्णवमार्गेण गोविन्दम् इति विशेषेण गोपालमन्त्रेण होमपूजा ।

तस्याग्रतः कृष्णतिलैः सघृतैर् होमम् आचरेत् ।

ब्राःमणान् भोजयेद् भक्त्या यथाशक्त्या तु दक्षिणाम् ॥

ततः स्वयं तु भुञ्जीत प्रथमं बिल्वम् एककम् ।

बिल्वप्राशने फलसप्तमीषूक्तो मन्त्रः ।

पश्चाद् यथेष्टं भुञ्जीत स्नेहाद्यं षड्रसान्वितम् ॥

प्रतिमासम् अनेनैव विधिनोपोष्य मानवः ।

कृष्णाष्टमीम् अपुत्रो ऽपि लभेत् पुत्रं न संशयः ॥

[७३५] वत्सरान्ते च गोयुग्मं कृष्णं देयं द्विजातये ।

इदं पुत्रव्रतं नाम मया ते परिकीर्तितम् ॥

एतत् कृत्वा नरः पापैः सर्वैर् एव प्रमुच्यते ॥

इति वाराहपुराणोक्तं पुत्रसप्तमीव्रतम् ।

ब्रह्मोवाच ।

कृष्णपक्षे तु माघस्य सर्वाप्तिं सप्तमीं शृणु ।

याम् उपोष्य समाप्नोति सर्वान् कामान् धराधर ॥

पाषण्डादिभिर् आलापम् अकुर्वन् भानुतत्परः ।

पूजयेत् प्रणतो देवम् एकाग्रमतिर् अंशुगम् ॥

माघादिपारणं मासैः षड्भिः शुच्यन्तकं स्मृतम् (?) ।

शुच्यन्तकं आषाढ्यन्तिकम् ।

मार्तण्डं प्रथमं नाम द्वितीयो ऽर्कः प्रकीर्तितः ॥

तृतीयं चित्रभानुश् च विभावसुर् अतः परम् ।

भगेति पञ्चमो ज्ञेयः षष्ठो हंसः प्रकीर्तितः ॥

पूर्वेषु षट्सु समासेषु स्नानप्राशनयोस् तिलाः ।

श्रावणादिषु मासेषु पञ्चगव्यम् उदाहृतम् ॥

स्नाने च प्राशने चैव प्रशस्तं पापनाशनम् ।

प्रतिमासं तु देवस्य कृत्वा पूजा यथाविधि ॥

विप्राय दक्षिणां दद्यात् श्रद्दधानः स्वशक्तितः ।

पारणान्ते च देवस्य प्रीणनं भक्तिपूर्वकम् ॥

कुर्वीत शक्त्या विधिवद् रविं भक्त्या दिवस्पतिम् ।

[७३६] नक्तं भुञ्जीत वै विष्णोः तैलाक्षारविवर्जितम् ॥

कृष्णषष्ठ्याम् उपोष्यैवं सप्तम्याम् अथ वा दिने ।

एताम् उषित्वा धर्मज्ञः हंसप्रीणनतत्परः ॥

सर्वान् कामान् अवाप्नोति यद् यद् इच्छति चेतसा ।

स्वतो लोकेषु विख्याता सर्वाप्तिर् इति सप्तमी ॥

कृताभिलषिता ह्य् एषा प्रारब्धा कर्मतत्परैः ।

पूरयत्य् अखिलान् कामान् आश्रितानाम् दिने दिने ॥

इति श्रीभविष्यत्पुराणोक्तं सर्वाप्तिसप्तमीव्रतम् ।

ब्रह्मोवाच ।

सप्तम्यां शुक्लपक्षे तु फाल्गुन्यां यो यजेन् नरः ।

जपेद् बलीति देवस्य नाम भक्त्या पुनः पुनः ॥

देवार्चनं वाष्टशतं कृत्वैवं तु जपेच् छुचिः ।

स्नातः प्रस्थानकाले तु उत्थाने स्खलिते क्षुते ॥

पाषण्डान् पतितांश् चैव तथैवान्त्यावशायिनः ।

नालापयेत् तथा भानुम् अर्चयेच् छ्रद्धयान्वितः ॥

इदं चोच्चारयेद् भानुं मनसा ध्यानतत्परः ।

हंस हंस कृपालो त्वं अगतीनां गतिर् भव ॥

संसारार्णवमग्नानां त्राता भव दिवाकर ।

एवं प्रसाद्योपवासं कृत्वा नियतमानसः ॥

पूर्वाह्ण एव वान्येद्युः सकृत् प्राश्यार्जुनीयकम् ।

आर्जुनीयकं सकृद् गोमयम् ।

स्नात्वार्चयित्वा हंसेति पुनर् नाम प्रकीर्तयेत् ।

[७३७] वारिधारात्रयं चैव निक्षिपेद् देवप्रादयोः ॥

चैत्रवैशाखयोश् चैव तद्वज् ज्येष्ठे च पूजयेत् ।

मर्त्यलोके गतिं श्रेष्ठां कृत्वा प्राप्नोति वै नरः ॥

उत्क्रान्तश् च व्रजेत् कृष्ण दिव्यहंसमयं शुभम् ।

धर्मध्वजप्रसादाद् वै सङ्क्रन्दनसमो भवेत् ॥

आषाढे श्रावणे चैव मासि भाद्रपदे तथा ।

मासि चाश्वयुजे चैवम् अनेन विधिना नरः ॥

उपोष्य सम्पूज्य तथा मार्तण्डेति च कीर्तयेत् ।

गोमूत्रप्राशनात् सूर्यपुरं गत्वा महीयते ॥

आराधितस्य जगताम् ईश्वरस्य कृतात्मनः ।

उक्तान्तिकाले स्मरणं भास्करस्य तथा श्रुते ॥

क्षीरस्य प्राशने कृष्ण विधिर् एष मयोदितः ।

कार्त्तिकादि यथान्यायं कुर्यान् मासचतुष्टयम् ॥

तेनैव विधिना कृत्वा भास्करेति प्रकीर्तयेत् ।

स याति भानुसालोक्यं भास्करानुरतिः क्षये ॥

प्रतिमासं द्विजातिभ्यो दद्याद् दानं यथेच्छया ।

चातुर्मास्ये तु सम्पूर्णे कुर्यात् पुस्तकवाचनम् ॥

कथाम्बा भास्करस्येति तत्कीर्तनम् अथापि वा ।

धर्मश्रवणम् इष्टं तु सदा धर्मध्वजस्य च ॥

धर्मध्वजः सूर्यः ।

वाचकं पूजयित्वा तु तस्मात् कार्यं च श्रद्धया ।

[७३८] श्राद्धम् अन्नेन पक्वेन होमेन च द्विजेन तु ॥

दिव्येन च तथा शुक्रम् अभीष्टं भास्करस्य हि ।

एवन् अन्ते गतिश्रेष्ठ देवनामानुकीर्तयेत् ॥

प्राप्नोति त्रिविधान् कृष्ण त्रिलोकान् मानवः सदा ।

कथितं पारणं यत् ते यथेमं गोधराधर ॥

आधिपत्यं तथा भोगांस् तेन प्राप्नोति मानुषः ।

द्वितीयेन तथा भोगान् गोत्रारेः प्राप्नुयान् नरः ॥

गोत्रारिर् इन्द्रः ।

सूर्यलोकं तृतीयेन पारणेन तथाप्नुयात् ।

एवम् एतत् समाख्यातं गतिप्रापकम् उत्तमम् ॥

विधानं देवशार्दूल यद् उक्तं सप्तमीव्रतम् ।

यस् त्व् एतां सप्तमीं कुर्यात् त्रिगतिं श्रद्धयान्वितः ॥

तथा भक्त्या च वै नारी प्राप्नोति त्रिविधां गतिम् ।

एषा पुण्या पापहरा त्रिगतिः समुदाहृता ॥

आराधनाय शास्त्रेण सदा भानोर् गतिप्रदा ।

पठतां शृण्वतांश् चैव सर्वपापभयापहा ॥

तथा कर्मसु पुण्येषु त्रिवर्गा ज्येष्ठदा सदा ।

त्रिवर्गज्येष्ठदा धर्माः । अत्र व्रते हेलिनाम् चातुर्मास्यत्रयसाधारण्यां हंसमार्तण्डभास्करनामानि प्रातिस्विकानि ।

इति भविष्यत्पुराणोक्तं त्रिगतिसप्तमीव्रतम् ।

आदित्य उवाच ।

माघमासे तु शुक्लायां सप्तम्यां समुपोषितः ।

[७३९] पूजयेद् यस् तु मां भक्त्या तस्याहं प्रभुतां व्रजेत् ॥

समुपोषितः षष्ठ्याम् ।

एवं चोभयसप्तम्यां मासि मासि शुरोत्तम ।

यस् तु मां पूजयेद् भक्त्या स्वम् एकम् एकम् आदरात् ॥

स्वम् एकः संवत्सरः ।

प्रयच्छामि सुतान् तस्य ह्य् आत्मनो ह्य् अङ्गसम्भवान् ।

वित्तं यशस् तथा पुत्रान् आरोग्यपरमं सदा ॥

माघमासे तु यो ब्रह्मन् शुक्लपक्षे जितेन्द्रियः ।

पाषण्डान् पतितान् अन्त्यान् जल्पन्न् अविजितेन्द्रियः ॥

उपोष्य विधिवत् षष्ट्यां श्वेतमाल्यविलेपनैः ।

पूजयित्वा तु मां भक्त्या निशि भूमौ स्वपेद् बुधः ॥

पुनर् उत्थाय सप्तम्यां कृत्वा स्नानादिकक्रियाम् ।

पूजयित्वा तु मां वीरहोमं ब्रह्मन् समाचरेत् ॥

पूजयित्वा हरिं भक्त्या हविष पद्मलोचनम् ।

वीरहोमम् अग्निहोमं हरिविष्णुरूपम् ।

दध्योदनेन पयसा पायसेन द्विजांस् तथा ।

तस्यैव कृष्णपक्षस्य षष्ठ्यां सम्यग् उपोषितः ॥

तस्यैवेति माघमासस्य ।

रक्तोत्पलैः सुगन्धाढ्यै रक्तपुष्पैस् तु पूजयेत् ।

एवं यः पूजयेद् भक्त्या नरो मां विधिवत् सदा ॥

उभयोर् अपि देवेन्द्र स पुत्रं लभते फलम् ।

[७४०]

इत्य् आदित्यपुराणोक्तं पुत्रसप्तमीव्रतम् ।

ब्रह्मोवाच ।

शुक्लपक्षस्य सप्तम्यां यदा ऋक्षङ्करो भवेत् ।

तदा पुण्यतमा प्रोक्ता सप्तमी पापनाशिनी ॥

करो हस्तः । अयं हि योगो बहुले श्रावणे मासि सम्भवति ।

तस्याम् सम्पूज्य देवेशं चित्रभानुं जगद्गुरुम् ।

सप्तजन्मकृतात् पापान् मुच्यते नात्र संशयः ॥

यश् चोपवासं कुरुते तस्यां नियतमानसः ।

सर्वपापविनिर्मुक्तः सूर्यलोके महीयते ॥

दानं यद् दीयते किञ्चित् समुद्दिश्य दिवाकरम् ।

होमो वा क्रियते तत्र तत् सर्वं चाक्षयं भवेत् ॥

एका ऋग्वेदपुरतो जप्त्वा श्रद्धापरेण तु ।

ऋग्वेदस्य समस् तस्य यच्छते तत् फलं ध्रुवम् ॥

सामवेदफलं साम यजुर्वेदे फलं यजुः ।

अथर्वणो ऽथर्वणश् च निखिलं यच् छते फलम् ॥

यतः पापम् अशेषेण नाशयत्य् अत्र भास्करः ।

करर्क्षा सप्तमी कृष्णा तेनोक्ता पापनाशिनी ॥

अस्याम् समभ्यर्च्य रविं याति सौमनसं पुरम् ।

विमानवरम् आरुह्य कर्पूरोद्भवम् उत्तमम् ॥

सौमनसं पुरम् देवलोकं कर्पूरं दुर्वर्णम् ।

तेजसा रविसङ्काशः प्रभया कविसन्निभः ।

[७४१] कान्त्यात्रेयसमः कृष्ण शौर्ये हरिसमः सदा ।

मोदते तत्र सुचिरं वृन्दारकगणैः सह ॥

इति भविष्यत्पुराणोक्तं पापनाशिनीव्रतम् ।

ब्रह्मोवाच ।

शुक्लपक्षे तु सप्तम्यां मासि भाद्रपदे ऽच्युत ।

प्रणम्य शिरसा देवं पूजयेत् सप्त्वाहनम् ॥

पुष्पधूपादिभिर् वीर कुतपानां च तर्पणैः ।

कुतपानां ब्राह्मणादीनाम् ।

पाषण्डादिभिर् आलापम् अकुर्वन् नियतात्मवान् ।

विप्राय दक्षिणां दत्वा नक्तं भुञ्जीत वाग्यतः ॥

तिष्ठन् ब्रुवन् प्रस्थितश् च क्षुतप्रस्खलितादिषु ।

आदित्यनामस्मरणं कुर्याद् उच्चारणं तथा ॥

अनेनैव विधानेन मासान् द्वादश वै क्रमात् ।

उपोष्य पारणे पूर्णे समभ्यर्च्य जगद्गुरुम् ॥

पुण्येन श्रवणेनेह प्रणयेत् पुष्ठिम् आप्नुयात् ।

एवं यः पुरुषः कुर्याद् आदित्याराधनं शुचिः ॥

नारी वा स्वर्गम् अभ्येत्य सानन्त्यं फलम् अश्नुते ॥

इति भविष्यत्पुराणोक्तम् अनन्तफलसप्तमीव्रतम् ।

ब्रह्मोवाच ।

शुक्लपक्षे समभ्यर्च्य पुष्पधूपादिभिः शुचिः ।

[७४२] श्रावणे मासि सप्तव्यां देवाग्रं सप्तिवाहनम् ॥

प्राप्येह विपुलं देवं धर्मानन्तरम् अक्षयम् ।

अमुत्र लोकम् आयाति दिव्यं खगपतेः शुभम् ॥

धर्मानन्त(त?)रम् अर्थं खगपतिर् अत्रादित्यः ।

पाषण्डादिभिर् आलापम् अकुर्वन् नियतात्मवान् ।

विप्राय दक्षिणां दत्वा नक्तं भुञ्जीत वाग्यतः ।

अभ्यङ्गं देवदेवस्य वर्षे वर्षे नियोजयेत् ॥

अव्यङ्गम् (?) एकवर्णः शोभनकार्पाससूत्रनिर्मितसर्पनिर्मोकाकृतिर् अन्तःसुचितो द्वाविंशत्यधिकशताङ्गुलपरिमितमध्यमोष्टोत्तरशताङ्गुलपरिमितो ह्रस्व इति बोद्धव्यम् । एतत् सर्वं भविष्यत्पुराणे एव साम्बोपाख्याने विस्तरेणोक्तम् ।

सप्तम्याम् अत्र देवाग्रं शुभं शुक्लं नवं तथा ।

खभवेषु यथान्येषु पवित्राण्य् अत्र वै विदुः ॥

तथा देवस्य मासे ऽस्मिन्न् अव्यङ्गः परिगीयते ।

खभवेषु देवेषु ।

यस् त्व् आरोपयते भक्त्या भास्करस्य नरो ऽच्युत ।

अव्यङ्गं विधिवत् कृत्वा भक्त्या ब्राह्मणभोजनम् ॥

शङ्खतूर्यनिनादैश् च ब्रहघोषैश् च पुष्कलैः ।

स दिव्यं यानम् आरूढो लोकम् आयाति हेलिनः ॥

अनेनैव विधानेन मासान् द्वादश् वै क्रमात् ।

उपोष्य पारणे पूर्णे दत्वा विप्राय दक्षिणाम् ॥

एवं यः पुरुषः कुर्याद् आदित्याराधनं शुचिः ।

[७४३] स गच्छेत् तु परं लोकं समुद्दिश्य दिवाकरम् ॥

होमार्चा क्रियते तत्र तत् सर्वं चाक्षयं भवेत् ॥

इति श्रीभविष्यत्पुराणोक्तम् अव्यङ्गसप्तमीव्रतम्

पुलस्त्य उवाच ।

अन्याम् अपि प्रवक्ष्यामि नाम्ना तु फलसप्तमीम् ।

याम् उपोष्य नरः पापैर् विमुक्तः स्वर्गभाग् भवेत् ॥

मार्गशीर्षे शुभे मासि पञ्चम्यां नियतव्रतः ।

षष्ठ्याम् उपोष्य कमलं कारयित्वा तु काञ्चनम् ॥

शर्करासंयुतं दद्याद् ब्राह्मणाय कुटुम्बिने ।

रूपं तु काञ्चनं कृत्वा फलस्यैकस्य धर्मवित् ॥

दद्याद् विकालवेलायां भानुर् मे प्रीयताम् इति ।

भक्त्या तु विप्रान् सम्पूज्य सप्तम्यां क्षीरभोजनम् ॥

कृत्वा कुर्यात् फलत्यागं यावत् स्यात् कृष्णसप्तमी ।

ताम् उपोष्य विधिं कुर्याद् अनेनैव क्रमेण तु ॥

तद्वद् धेमफलं दद्यात् सुवर्णकमलान्वितम् ।

शर्करापात्रसंयुक्तं वस्त्रमालाविभूषितम् ॥

संवत्सरम् अनेनैव विधिनोभयसप्तमीम् ।

उपोष्य दद्यात् क्रमशः सूर्यमन्त्रम् उदीरयेत् ॥

भानुर् अर्को रविर् ब्रह्मा सूर्यः शक्रो हरिः शिवः ।

श्रीमान् विभावसुस् त्वष्टा वरुणः प्रीयताम् इति ॥

प्रतिमासं च सप्तम्यां एकैकं नाम कीर्तयेत् ।

[७४४] प्रतिपक्षं फलत्यागम् एकं कुर्वन् समाचरेत् ॥

व्रतान्ते विप्रमिथुनं पूजयेद् वस्त्रभूषणैः ।

शर्कराकलशं दद्याद् धेमपुष्पसमन्वितम् ॥

यथा न विफलाः कामास् त्वद्भक्तानां सदा रवे ।

तथानन्तफलावाप्तिर् मे ऽस्तु जन्मनि जन्मनि ॥

इमाम् अनन्तफलदां यः कुर्यात् फलसप्तमीम् ।

सर्वपापविशुद्धात्मा शूर्यलोके महीयते ॥

सुरापानादिकं पापं यद् यद् दशपुराकृतम् ।

तत् सर्वं नाशम् आयाति यः कुर्यात् फलसप्तमीम् ॥

कुर्वाणः सप्तमीम् एतां सततं रोगवर्जितः ।

भूतान् भव्यांश् च पुरुषांस् तारयेद् एकविंशतिम् ॥

इति पद्मपुराणोक्तं फलसप्तमीव्रतम् ।

विष्णुर् उवाच ।

कुले जन्म तथारोग्यं धनं चैवेह दुर्लभम् ।

तृतीयं प्राप्यते येन तन् मे वद जगत्पते ॥

ब्रह्मोवाच ।

यो मार्गशीर्षं सितसप्तमे ऽह्नि

हस्तर्क्षयोगे जगतः प्रसूतिम् ।

सम्पूज्य भानुं विधिनोपवासि

स्रग्गन्धधूपान्नवनोपहारैः ॥

गृहीतगव्यं प्रतियव्यपूजा

दानादियुक्तं व्रतम् अब्दम् एकम् ।

[७४५] यव्यो मासः ।

दद्याच् च दानं द्विजपुङ्गवेभ्यस्

तत् कथ्यमानं विनिबोध वीर ॥

वज्रं यथा व्रीहियवं हिरण्यं

यवान्नम् अम्भःकरकान्नपात्रम् ।

छत्रं पयो ऽन्नं गुडफाणिताढ्यं

दद्यात् तथा वस्त्रम् अनुक्रमेण ॥

गव्ये च यव्ये विधिचोदिते च

तस्यां तिथौ लोकगुरुं प्रपूज्य ।

करकान्नपात्रम् अन्नपूर्णपात्रपिहित उदकपूर्णकलसं । गुडफाणिताढ्यङ्गुडान्नम् अन्नम् ।

अश्नीतधान्यानि विशुद्धिहेतोः

सम्प्राशनानीह निबोध तानि ॥

गोमूत्रम् अम्भो घृतम् आमशाकम्

दूर्वादधिव्रीहियवांस् तिलांश् च ।

सूर्यांसुतप्तं जलम् अम्बुजानि

क्षीरं च मासक्रमशो ऽपि योज्यम् ॥

कुले प्रधाने धनधान्यपूर्णे

पद्मावृते ध्वस्तसमस्तदुःखे ।

प्राप्नोति जन्माविकलेन्द्रियश् च

भवत्य् अरोगी मतिमान् सुखी च ॥

पद्मावृते लक्ष्म्यावृते ।

[७४६]

इति भविष्यपुराणोक्तं नयनप्रदसप्तमीव्रतम् ।

पुलस्त्य उवाच ।

विशोकसप्तमी तद्वद् वक्ष्यामि मुनिपुङ्गव ।

याम् उपोष्य नरः शोकं न कदाचिद् इहाश्नुते ॥

माघे कृष्णतिलैः स्नातः पञ्चम्यां शूक्लपक्षतः ।

कृताहारः कृशरया दन्तधावनपूर्वकम् ॥

उपवासव्रतं कृत्वा ब्रह्मचारी भवेन् निशि ।

ततः प्रभाते चोत्थाय कृतस्नानजपः शुचिः ॥

कृत्वा तु काञ्चनं पद्मम् अर्को ऽयम् इति पूजयेत् ।

करवीरैश् च पुष्पैश् च रक्तवस्त्रयुगेन च ॥

यथा विशोकं भुवनं तथैवादित्य (?) सर्वदा ।

तथा विशोको मे एवास्तु त्वद्भक्तेः प्रति जन्मनि ॥

एवं सम्पूज्य षष्ठ्यां तु भक्त्या सम्पूजयेद् द्विजान् ।

सुप्त्वा सम्प्राश्य गोमूत्रम् उत्थाय कृतनित्यकः ॥

सम्पूज्य विप्रं यत्नेन गुडपात्रसमन्वितम् ।

सुसूक्ष्मं वस्त्रसंयुक्तं ब्राह्मणाय निवेदयेत् ॥

अतैललवणं भुङ्क्ते सप्तम्यां मौनसंयुतः ।

ततः पुराणश्रवणं कर्तव्यं भूतिम् इच्छता ॥

अनेन विधिना सर्वम् उभयोर् अपि पक्षयोः ।

कुर्याद् यावत् पुनर् माघशुक्लपक्षस्य सप्तमीम् ॥

व्रतान्ते कलसं (-शं) दद्यात् सुवर्णकमलान्वितम् ।

[७४७] शय्याम् सोपस्करां दद्यात् कपिलां गां पयस्विनीम् ॥

अनेन विधिना यस् तु वित्तशाठ्यविवर्जितः ।

विशोकसप्तमीं कुर्यात् स याति परमां गतिम् ॥

यावज् जन्मसहस्राणि सार्धकोटिशतं भवेत् ।

तावन् न शोकम् अभ्येति रोगदौर्गत्यवर्जितः ॥

यं यं कामयते कामं तं तं प्राप्नोति पुष्कलम् ।

निष्कामः कुरुते यस् तु स परं ब्रह्म गच्छति ॥

इति भविष्यत्पुराणोक्तं विशोकसप्तमीव्रतम् ।

अगस्त्य उवाच ।

अथापरं महाराज व्रतम् आरोग्यसञ्ज्ञितम् ।

कथयामि परं पुण्यं सर्वपापप्रणाशनम् ॥

तस्यैव माघमासस्य सप्तम्यां समुपोषितः ।

पूजयेद् भास्करं देवं विश्व्रूपं सनातनम् ॥

आदित्य भास्कर रवे भानो सूर्य दिवाकर ।

प्रभाकरेति सम्पूज्यो देवः सर्वेश्वरो विभुः ॥

षष्ठ्यां चैव कृताहारः सप्तम्याम् उपवासकृत् ।

अष्टम्यां चैव भुञ्जीत एष एव विधिः क्रमः ॥

अनेन वत्सरं पूर्णं विधिना यो ऽर्चयेद् रविम् ।

तस्यारोग्यं धनं धान्यम् इह जन्मनि जायते ॥

परत्र च सुखं स्थानं यद् गत्वा न निवर्तते ।

[७४८]

इति वराहपुराणोक्तम् आरोग्यसप्तमीव्रतम् ।

सुमतुर् उवाच ।

हन्त ते सम्प्रवक्ष्यामि सूर्यव्रतम् अनुत्तमम् ।

धर्मकामार्थमोक्षाणां प्रतिपादकम् उत्तमम् ॥

पौषे मासि च सप्तम्यां यः कुर्यान् नक्तभोजनम् ।

जितेन्द्रियः सत्यवादी स्नाति गोमूत्रगोरसैः ॥

पक्षयोः सप्तमीं यत्नाद् उपवासेन यो नयेत् ।

त्रिसन्ध्यम् अर्चयेद् भानुं शाण्डिलेयं च सुव्रत ॥

शाण्डिलेयो ऽग्निः ।

अधःशायी भवेन् नित्यं सर्वभोगविवर्जितः ।

मासि पूर्णे तु सप्तम्यां घृतादिभिर् अरिन्दम ॥

कृत्वा स्नानं महापूजां सूर्यमन्त्रेण भारत ।

नैवेद्यम् ओदनप्रस्थं क्षीरसिद्धं निवेदयेत् ॥

भोजयित्वा द्विजान् अष्टौ सूर्यभक्तांस् तु सामगान् ।

गां च दद्यान् महाराज कपिलां भास्कराय च ॥

य एवं कुरुते पुण्यं सूर्यव्रतम् अनुत्तमम् ।

तस्य पुण्यफलं वच्मि सर्वकामसमन्वितम् ॥

सूर्यकोटिप्रतीकाशैर् विमानैः सर्वकामिकैः ।

अप्सरोगणसम्पूर्णैर् महाविभवसंयुतैः ॥

सङ्गीतनृत्यनिर्द्योषैर् गन्धर्वगणशोभितैः ।

दोधूयमानश् चमरैः स्तूयमानः सुरासुरैः ॥

[७४९] सहस्रकिरणाद् भानोर् धनैश्वर्यसमन्वितः ।

स याति परमं स्थानं यत्रास्ते रविर् अंशुमान् ॥

रोमसङ्ख्यातया तस्यास् तत्प्रसूतिकुले युवा ।

तस्याः कपिलायाः ।

तावद् युगसहस्राणि शूर्यलोके महीयते ।

त्रिःसप्तकुलजैः सार्धं भोगान् भुक्त्वा यथेप्सितान् ॥

ज्ञानयोगं समासाद्य सूर्यस्य निलयं व्रजेत् ।

माघमासे तु सम्प्राप्ते यः कुर्यान् नक्तभोजनम् ॥

पिण्याकं घृतसम्मिश्रं भुञ्जानः सञ्जितेन्द्रियः ।

उपवासश् च सप्तम्यां भवेद् उभयपक्षयोः ॥

घृताभिषेकम् अष्टम्यां कुर्याद् भानोर् नराधिप ।

गां च दद्याद् दिनेशाय तरुणीं नीलसन्निभाम् ॥

गत्वादित्यपुरं रम्यं भोगान् भुङ्क्ते यथेप्सितान् ।

फाल्गुने मासि राजेन्द्र यः कुर्यान् नक्तभोजनम् ॥

श्यामाकैः क्षीरनीवारैः जितक्रोधो जितेन्द्रियः ।

षष्ठ्यां वाप्य् अथ सप्तम्याम् उपवासपरो भवेत् ॥

अष्टम्यां तु महास्नानं पञ्चगव्यघृतादिभिः ।

वल्मीकाग्रादिमृद्भिश् च गोमूत्रसकृतादिभिः ॥

त्वग्भिश् च क्षीरवृक्षाणां स्नापयित्वा प्रपूजयेत् ।

सौरभेयीं ततो दद्याद् रक्ताभां रश्मिमालिने ॥

सौरभेयी गौः ।

गत्वादित्यपुरं रम्यं मोदते शाश्वतीः समाः ।

[७५०] मासि चैत्रे तु सम्प्राप्ते यः कुर्यान् नक्तभोजनम् ॥

शाल्यन्नं पयसा युक्तं भुञ्जानः संयतेन्द्रियः ।

भानवे पाटलां दद्याद् वैष्णवीं तरुणीं नृप ॥

वैष्णवी गौर् एव ।

पुष्परागमयैर् यानैर् नानाहंसानुयायिभिः ।

गच्छेत् सूर्यपुरं रम्यं दुष्प्रापम् अकृतात्मभिः ॥

वैशाखे मासि राजेन्द्र यः कुर्यान् नक्तभोजनम् ।

दध्योदनं च भुञ्जानो जितक्रोधो जितेन्द्रियः ॥

गोष्ठेशयो ह्य् अधःशायी निशायाम् एकवस्त्रधृक् ।

नियमं च यथोद्दिष्टं सामान्यं सर्वम् आचरेत् ॥

सामान्यो नियमः पाषण्डाद्यसम्भाषणादिः ।

वैशाख्यां पौर्णमास्यां तु कुर्यात् स्नानं घृतादिभिः ।

सूर्यायालङ्कृतां त्व् एकां दद्याद् गां तरुणीं नृप ॥

शङ्खकुब्देन्दुवर्णाभैर् (?) महायानैर् अलङ्कृतैः ।

श्वेतैर् गरुडसंयुक्तैर् गच्छेद् अर्कस्य मन्दिरम् ॥

सर्वातिशयरूपाभिर् नारीभिः परिवारितः ।

नीलोत्पलसुगन्धाभिर् मोदते कालम् अक्षयम् ॥

मासि ज्येष्ठे महाबाहो यः कुर्यान् नक्तभोजनम् ।

भुञ्जानः पायसं वीर सर्पिषा मधुना सह ॥

वीरासनो निशायां स्याद् अहर् गाः समनुव्रजेत् ।

वीरासनम् अनुपविश्यावस्थानम् ।

हितकारी गवां नित्यं गवां हिंसाविवर्जितः ॥

उभयोर् अपि सप्तम्यां कुर्यात् सन्ध्यादिकं विधिम् ।

[७५१] उभयोः पक्षयोर् इति शेषः ।

सूर्याय धेनुं दद्याच् च धूम्रवर्णाम् अलङ्कृताम् ॥

नीलोत्पलसमप्रख्यैर् महायानैर् अनूपमैः ।

महासिंहनिबद्धैश् च मोदते कालम् अक्षयम् ॥

आषाढे मासि यः कुर्यात् संयतो नक्तभोजनम् ।

षष्टिकोदनसम्मिश्रं सकृद् अश्नीत गोरसम् ॥

गां दद्याच् च महाराज भास्कराय शुभाननाम् ।

सामान्यं च विधिं कुर्यात् (?) प्रागुक्तो योमयानघ (?) ॥

शुद्धस्फटिकसङ्काशैर् यानैर् बर्हिणवाहनैः ।

अणिमादिगुणैर् युक्तः सूर्यवद् विचरेद् दिवि ॥

सम्प्राप्ते श्रावणे मासि यः कुर्यान् नक्तभोजनम् ।

क्षीरषष्ठिकयुक्तान्नं सर्वसत्त्वहिते रतः ॥

पीतवर्णां च गां दद्याद् भास्कराय महात्मने ।

सामान्यम् अखिलं कुर्याद् विधानं यत् प्रकीर्तितम् ॥

सुविचित्रैर् महायानैर् हंससारसयायिभिः ।

गत्वादित्यपुरं श्रीमान् पूर्वोक्तं लभते फलम् ॥

वीर भाद्रपदे मासि यः कुर्यान् नक्तभोजनम् ।

हुतशेषं हि विश्वात्मन् वृक्षमूलम् उपाश्रितः ॥

स्वप्याद् आयतने रात्रौ सर्वभूतानुकम्पया ।

दद्याद् गां तरुणीं वीर भास्कराय महात्मने ॥

निशाकरसमप्रख्यैर् वज्रवैदूर्यचित्रितैः ।

चक्रवाकसमायुक्तैर् विमानैः सार्वकामिकैः ॥

गत्वादित्यपुरं रम्यं ससुरासुरवन्दितः ।

[७५२] मोदते स महायानैर् यावद् आहूतसम्प्लवम् ॥

श्रीमान् अश्वयुजे मासि यः कुर्यान् नक्तभोजनम् ।

घृताशनं च भुञ्जानो जितक्रोधो जितेन्द्रियः ॥

दद्याद् गां पद्मवर्णाभां भानोर् अमिततेजसे ।

पृष्ठाभरणसम्पन्नां तरुणीं च पयस्विनीम् ॥

स्वच्छमौक्तिकसङ्काशैर् इन्द्रनीलोपशोभितैः ।

जीवञ्जीवकसंयुक्तैर् विमानैः सर्वकामिकैः ॥

गच्छेद् भानुसलोकत्वं तेजसा रविसन्निभः ।

कान्त्या विधुसमो राजन् प्रभया भृगुसन्निभः ॥

राजेन्द्र कार्त्तिके मासि यः कुर्यान् नक्तभोजनम् ।

क्षीरोदनं च भुञ्जानः सत्यवादी जितेन्द्रियः ॥

दिवाकराय गां दद्याज् ज्वालनार्कसमप्रभाम् ।

पूर्वोक्तं च विधिं कुर्यात् सूर्यतुल्यो भवेन् नृप ॥

कानानलशिखाप्रख्यैर् महायानैर् नगोपमैः ।

महासिंहकृतोद्धूतैर् सूर्यवत् मोदते सुखी ॥

मार्गशीर्षे शुभे मासि यः कुर्यान् नक्तभोजनम् ।

यवान्नं पयसा युक्तं भुञ्जानः संयतेन्द्रियः ॥

प्रयच्छेद् गां तथा कृष्णां नानालङ्कारभूषिताम् ।

सूर्याय कुरुशार्दूल विधिं वापि समाचरेत् ॥

सितपद्मनिभैर् यानैः श्वेताश्वरथसंयुतैः ।

गत्वादित्यपुरं रम्यं प्रभया परयान्वितः ॥

अहिंसा सत्यवचनम् अस्तेयः क्षान्तिर् आर्जवम् ।

त्रिषवणाग्निहवनं भूशय्या नक्तभोजनम् ॥

[७५३] पक्षयोर् उपवासेन सप्तम्यां कुरुनन्दन ।

एतान् गुणान् समाश्रित्य कुर्वाणो व्रतम् उत्तमम् ॥

सप्तम्य् उभयम् आख्यातं सर्वरोगभयापहम् ।

सर्वपापप्रशमनं सर्वकामफलप्रदम् ॥

इत्येवमादिनियमैश् चरेत् सूर्यव्रतं सदा ।

य इच्छेद् विपुलं स्थानं भानोर् अमिततेजसः ॥

इति भविष्यत्पुराणोक्तम् उभयसप्तमीव्रतम् ।

श्रीकृष्ण उवाच ।

अथान्यद् अपि ते वच्मि दानं पापविनाशनम् ।

आदित्यमण्डकं नाम समीहितफलप्रदम् ॥

यवचूर्णेन शुभ्रेण कुर्याद् गोधूमजेन वा ।

सुपक्वं भानुबिम्बाभं गुडं गव्याज्यपूरितम् ॥

सम्पूज्य भास्करं भक्त्या तदग्रे मण्डलं शुभम् ।

रक्तचन्दनजं कृत्वा कौङ्कुमं वा विशेषतः ॥

मण्डकं तत्र संस्थाप्य रक्तपुष्पैः प्रपूजितम् ।

सहिरण्यं सवस्त्रं च वित्तशाठ्यविवर्जितः ॥

ब्राह्मणाय प्रदातव्यं मन्त्रेणानेन पाण्दव ।

आदित्यतेजसोत्पन्नं राज्ञः करविनिर्मितम् ॥

श्रेयसे मम विप्र त्वं प्रतीच्छापूपम् उत्तमम् ।

ब्राह्मणो ऽपि पठेन् मन्त्रं गृह्णीयाद् भास्करप्रियम् ॥

दत्तं भास्करभक्तेन स्वयं तद्भक्तिभावतः ।

कामदं धनदं धर्म्यं पुत्रदं सुखदं तथा ॥

[७५४] आदित्यप्रीतये दत्तं प्रतिगृह्णातु मण्डकम् ।

एवं कृत्वा नरो भक्त्या सर्वपापैः प्रमुच्यते ॥

धनधान्यसमृद्धात्मा भूतात्मा भक्तवत्सलः ।

आदित्याराधनपरस् ततः स्वर्गे महीयते ॥

इह चागत्य राजेन्द्र निजपुण्यस्य सङ्क्षयात् ।

सर्वकामसमृद्धार्थो मण्डलाधिपतिर् भवेत् ॥

दातव्यो रथसप्तम्यां महादानसमो नृप ।

दातव्यः प्रतिवर्षं च फलम् अत्यन्तम् ईप्सता ॥

एकेनापि प्रदत्तेन बाल्ययौवनवार्द्धकैः ।

पापं प्रणाशम् आयाति बहुभिः पुण्यभाग् भवेत् ॥

गोधूमचूर्णजनितं यवचूर्णजं वा

आदित्यमण्डकम् अखण्डम् अदीनसत्त्वः ।

कृत्वा द्विजाय विधिवत् प्रतिपादयेद् यो

नूनं भवत्य् अमितमण्डलमण्डनो ऽसौ ॥

इति भविष्योत्तरोक्तम् (?) आदित्यमण्डकव्रतम् ।

ब्रह्मोवाच ।

मार्तण्डसप्तमीं कृष्ण अथान्यां वच्मि ते ऽनघ ।

पौषमासे सिते पक्षे सप्तम्यां समुपोषितः ॥

सम्यक् सम्पूज्य मार्तण्डं मार्तण्ड इति वै जपन् ।

पूजयेत् कुतपं भक्त्या श्रद्धया परयान्वितः ॥

कुतपः सूर्यः ।

पूषधूपोपहाराद्यैर् उपवासैर् समाहितः ।

[७५५] मार्तण्डेति जपन् नाम पुनस् तद्गतमानसः ॥

विप्राय दक्षिणां दद्याद् यथाशक्त्या खगध्वज ।

स्वपन् विबुद्धः स्खलितो मार्तण्डेति च कीर्तयेत् ॥

पाषण्डिभिर् विकर्मस्थैर् आलापं च विवर्जयेत् ।

गोमूत्रं गोमयं वापि दधिक्षीरम् अथापि वा ॥

गोदेहतः समुद्भूतं प्राश्नीयाद् आत्मशुद्धये ।

द्वितीये ऽह्नि पुनस् तात(स्?) तत्रैवाभ्यर्चनं रवेः ॥

तेनैव नाम्ना सम्भूय दत्वा विप्राय दक्षिणाम् ।

ततो भुञ्जीत गोदेहसमुद्भूतसमन्वितम् ॥

एवम् एवाखिलान् मासान् उपोष्य प्रयतः शुचिः ।

दद्याद् गवाह्निकं विद्वान् प्रतिमासं च शक्तितः ॥

पारिते च पुनर् वर्षे यथा पूर्वं गवाह्निकम् ।

दत्वा परगवे भूयः शृणु यत् फलम् अश्नुते ॥

स्वर्णशृङ्ग्यः पञ्चगावः षष्ठं च वृषभं नरः ।

प्रतिमासं द्विजातिभ्यो दत्वा यत् फलम् अश्नुते ॥

तदाप्नोत्य् अखिलं सम्यग् व्रतम् एतद् उपोषितः ।

तं च लोकम् अवाप्नोति मार्तण्डो यत्र तिष्ठति ।

शाण्डिलेयसमः कृष्ण तेजसा नात्र संशयः ॥

शाण्डिलेयसमः अग्निसमः ।

[७५६]

इति भविष्यत्पुराणोक्तं मार्तण्डसप्तमीव्रतम् ।

युधिष्ठिर उवाच ।

याम् उपोष्य नरः कामान् आप्नोति मनसः प्रियान् ।

ताम् एकां वद मे देव सप्तमीं पापनाशिनीम् ॥

श्रीकृष्ण उवाच ।

भानोर् दिने सिते पक्षे अतीते चोत्तरायणे ।

पुन्नामधेयनक्षत्रे गृह्णीयात् सप्तमीव्रतम् ॥

सव्रीहकास् तिलयवान् सह माषमुद्गैर्

गोधूममांसमधुमैथुनकांस्यपात्रैः ।

अभ्यञ्जनाञ्जनशिलातलचूर्णितानि

षष्ठीव्रती परिहरेद् अहनीष्टसिद्ध्यै ॥

देवान् पितॄन् मुनिगणान् सजलाञ्जलीभिः

सन्तर्प्य पूज्य गगनाङ्गनहस्तदीपम् ।

हुत्वानले तिलयवान् बहुशो घृताक्तान्

भूमौ स्वपेद् हृदि निधाय दिनेशविस्वम् ॥

यानि त्रयोदशदिनैर् इह वर्जितानि

द्रव्याणि तानि परिहृत्य दिने च षष्ट्यां ।

सम्प्राश्य शुद्धचणकानि ह वर्षम् एकं

प्राप्नोति भारत पुमान् मनसेप्सितानि ॥

चणकग्रहणं विवर्जितान्तरोपलक्षणार्थम् अन्यथा व्रीह्यादिवर्जनम् अनर्थकं स्यात् ।

[७५७]

इति भविष्योत्तरोक्तं त्रयोदशपदार्थवर्जनसप्तमीव्रतम् ।

वसुदेव उवाच ।

नैमित्तिकान् ततो वक्ष्ये यज्ञांश् चात्र समाहितः ।

सप्तम्यां ग्रहणे चैव सङ्क्रान्तिषु विशेषतः ॥

नैमित्तिकान् ततो वक्ष्ये इत्य् अनेन श्लोकेन ग्रहणसङ्क्रान्तिषु साधारण्येन यज्ञप्रतिज्ञा कृता सत्रसप्तमीयज्ञ तावद् आह शुक्लपक्षस्येत्यादिना ।

शुक्लपक्षस्य सप्तम्यां हविं भुक्त्वैकदा दिवा ।

सम्यग् आचम्य सन्ध्यायां वरुणं प्रणिपत्य च ॥

वरुणोत्र सूर्यः ।

इन्द्रियाणि तु संयम्य स तं ध्यात्वा स्वपेद् बुधः ।

दर्भशय्यागतो रात्रौ प्रातः स्नातः सुसंयुतः ॥

सर्वस्यादौ तथैवान्ते पूर्ववद् वरुणं यजेत् ।

जुहुयाद् बह्वृचस् त्व् अग्निं सूर्याग्निं परिकल्प्य वै ॥

सूर्याग्निकरणं वक्ष्ये तर्पणं च समासतः ।

अस्त्रेणोङ्कारम् उल्लिख्य सावित्र्याभ्युक्ष्य वानले ॥

अस्त्रेण अस्त्रमन्त्रेण सावित्र्या सूर्यगायत्र्या । एतच् च सर्वं निक्षुभा सप्तम्याम् एवाभिहितं वेदितव्यम् ।

प्रक्षिप्यास्तीर्य दर्भांश् च देशे भूमी यथेप्सिते ।

प्रागग्रैर् उदगग्रैश् च पात्राण्य् आलभ्य चक्रवत् ॥

पवित्रं द्विकुशं कृत्वा साग्रं प्रादेशसम्मितम् ।

[७५८] तेन पात्राणि सम्प्रोक्ष्य संशोध्य च विलोप्य च ॥

उदग्भागस्थिते पात्रे साग्निना चोल्मुखेन च ।

पर्यग्निकरणं कृत्वा ततश् चोत्पवनं त्रिधा ॥

परिमृज्य स्रुचादींश् दर्भैः सम्प्रोक्षीतैश् च तैः ।

जुहुयात् प्रोक्षिते वह्नौ तत्रार्कं पूर्ववद् यजेत् ॥

भूमौ स्थितेन पात्रेण विस्तरेण तु पाणिना ।

वामेन यदुशार्दूल नान्तरिक्षे तु पूयते ॥

अन्तरिक्षे त्रिकादौ ।

दक्षिणेन शुचौ गृह्य जुहुयात् पावकं बुधः ।

हृदयेन क्रियाः सर्वाः कर्तव्याः पूर्वचोदिताः ॥

हृदयेन हृदयमन्त्रेण ।

अनेन हुत्वा सन्तर्प्य दद्यात् पूर्णाहुतिं ततः ।

वरुणायादरान् माघे सप्तम्यां वरुणं यजेत् ॥

यथाशक्त्या तु विप्रेभ्यः प्रदद्यात् खण्डवेष्टकान् ।

दद्याच् च दक्षिणां शक्त्या प्राप्यते यागजं फलम् ॥

एवं च फाल्गुने सूर्यं चैत्रे टे (?) वांशुमालिनम् ।

वैशाखे मासि धातारम् इन्द्रं ज्येष्ठे यजेद् रविम् ॥

आषाढे श्रावणे मासि भगं भाद्रपदं तथा ।

आश्विने चापि पर्जन्यं त्वष्टारं कार्त्तिके यजेत् ॥

मार्गशीर्षे तु मित्रं च पौषे विष्णुं यज्द् यदि ।

संवत्सरेण यत् प्रोक्तं फलम् इष्ट्वा दिने दिने ॥

तत् सर्वं प्राप्नुयात् क्षिप्रं भक्त्या श्रद्धासमन्वितः ।

एवं संवत्सरे पूर्णे कृत्वा वै काञ्चनं रथम् ॥

[७५९] सप्तभिर् वाजिर्भिर् युक्तां नानारत्नोपशोभिताम् ।

आदित्यप्रतिमां मध्ये शुद्धहेम्ना कृतां शुभाम् ॥

रत्नैर् अलङ्कृतां कृत्वा हेमपद्मोपरिस्थिताम् ।

तस्मिन् रथवरे कृत्वा सारथिं चाग्रतः स्थितम् ॥

वृतं द्वादशभिर् विप्रैः क्रमान् मासाधिपात्मभिः ।

सर्वकल्पज्ञं आचार्यं पूजयित्वा रथाग्रतः ॥

मासाधिपाः प्रतिमासोक्ताः सूर्याः । अतस् तद्भक्तिभावितैर् द्वादशभिर् विप्रैर् वृतम् आचार्यं पूजयेद् इत्य् अर्थः ।

सञ्चिन्यादित्यवर्तं वै वसुरत्नादिनार्चयेत् ।

एवं मासाधिपान् विप्रान् सम्पूज्याथ निवेदयेत् ॥

आचार्याय रथं चक्रं ग्रासं वासो महीं शुभाम् ।

माधान् मासाधिपेभ्यश् च द्वादशेभ्यो निवेदयेत् ॥

एवं भक्त्या यथाशक्त्या हेमरत्नादिभूषणम् ।

दत्वा तस्य नमस्कृत्य व्रतं पूर्णं निवेदयेत् ॥

अत ऊर्ध्वं न दोषो ऽस्ति व्रतस्य करणाद् इह ।

एवम् अस्त्व् इति विप्रेन्द्रैः सहाचार्यैः पुनः पुनः ॥

वद्धृचैर् [बह्वृचैर्?] आशिषो दत्वा प्रवदेत् प्रीयताम् इति ।

आदित्यो येन कामेन यस् त्वयाराधितो व्रतैः ॥

तुभ्यं ददातु तं कामं सम्पूर्णं भवतु व्रतम् ।

विप्रेभ्यो गुणवद्भ्यश् च निस्वेभ्यश् च विशेषतः ॥

दीनान्धकृपणेभ्यश् च शक्त्या दत्वा च दक्षिणाम् ।

ब्राह्मणान् भोजयित्वा तु व्रतम् एतत् समापयेत् ॥

[७६०] कृत्वैवं सप्तमीम् अब्दं राजा भवति धार्मिकः ।

पुरुषश् च भवेद् दाता भास्करस्यातिवल्लभः ॥

शतयोजनविस्तीर्णं निःसपत्नम् अकण्टकम् ।

त्रिःशतं मण्डलं भुङ्क्ते साग्रं वर्षशतं सुखी ॥

वित्तहीनो ऽपि यो भक्त्या कृत्वा ताम्रमयं रथम् ।

दद्याद् व्रतोपवासं च कृत्वा सर्वं यथोदितम् ॥

साशीतियोजनं भुङ्क्ते विस्तीर्णं मण्डालं भुवः ।

एवं पिष्ठमयं यो ऽपि वित्तहीनो ददेद् रथम् ॥

आषष्टियोजनं भुङ्क्ते साग्रं वर्षशतं सुखी ।

सूर्यलोकं च कल्पान्ते सकृद् वेदम् अवाप्नुयात् ॥

इति श्रीभविष्यत्पुराणोक्तं विजयायज्ञसप्तमीव्रतम् ।

सुमन्तुर् उवाच ।

क्षमा सत्यं दया दानं शौचम् इन्द्रियनिग्रहः ।

सूर्यपूजाग्निवहनं सन्तोषः स्तेयवर्जनम् ॥

सर्वव्रतेष्व् अयं वत्स सामान्येन सदा स्थितिः ।

गृहीत्वा सप्तमीकल्पं ज्ञानतो यस् तु तामसः ॥

त्यजेत् कामाद् भयाद् वापि स ज्ञ्येहः पतितो बुधैः ।

सप्तम्यां सोपवासस् तु रात्रौ भुङ्क्ते तु यो नरः ॥

कृतोपवासः षष्ट्यां तु पञ्चम्याम् एककालभुक् ।

[७६१] दत्वा तु संस्कृतं शाकं भक्ष्यभोज्यैः सुसंस्कृतम् ॥

देवाश् च ब्राह्मणेभ्यश् च रातौ भुञ्जीत वाग्यतः ।

यावज्जीवं नरः कश्चिद् व्रतम् एतच् चरिष्यति ।

तस्य श्रीर् विजयश् चैव त्रिवर्गश् च विवर्धते ।

मृतः स्वर्गम् अवाप्नोति विमानवरम् आस्थितः ॥

सूर्यलोके च रमते मन्वतरबहून् अथ ।

इह चागत्य कालान्ते रिपून् शास्ति समन्ततः ॥

पुत्रपौत्रैः परिवृतो दाता स्यान् नियतव्रतः ।

स भुनक्ति परान् राजन् विग्रहैर् अजितः परैः ॥

यानेन राजशार्दूल शाकाहारेण सप्तमीम् ।

उपोष्य लब्धम् तत् तीर्थं पैत्यं वै गयसञ्ज्ञितम् ॥

कुरूणां तत्र पूर्वेण शाकाहारेण वै तथा ।

धर्मक्षेत्रं कुरुक्षेत्रं स्मृतं तेन विवस्वता ॥

सप्तमी नवमी षष्ठी तृतीया पञ्चमी तथा ।

कामदास् तिथयो ह्य् एता इतरत्र न योषिताम् ॥

सप्तमी माघमासस्य नवम्य् अश्वयुजे तथा ।

षष्ठी भाद्रपदे धन्या वैशाखे तु तृतीयका ॥

पुण्या भाद्रपदे ज्ञेया पञ्चमी नागपञ्चमी ।

इत्य् एताः स्वेषु मासेषु विशेषास् तिथयः शुभाः ॥

शाकं सुसंस्कृतं कृत्वा भक्ष्यभोज्यसमन्वितम् ।

दत्वा विप्रे यथाशक्त्या पश्चाद् भुङ्क्ते निशि व्रती ॥

कार्त्तिके शुक्लपक्षस्य ग्राह्यो ऽयं कुरुनन्दन ।

[७६२] चतुर्भिर् अपि मासैस् तु पारणं प्रथमं स्मृतम् ॥

अगस्तिकुसुमैश् चात्र पूजा कार्या विभावसोः ।

विभावसोर् इति सूर्यस्य ।

विलेपनं कुङ्कुमं च धूपैश् चाइवापराजितः ॥

स्नानं तु पञ्चगव्येन तद् एव प्राशयेत् तथा ।

नैवेद्यं पायसं चात्र पूजा कार्या विभावसोः ॥

तदैव देयं विप्राणां शाकं भक्ष्यम् अथात्मनः ।

शुभशाकसमायुक्तं भक्ष्यपेयसमन्वितम् ॥

शुभं शाकः अनिषिद्धशाकः ।

द्वितीयपारणे राजन् शुभगन्धानि यानि वै ।

पुष्पाणि तानि देवस्य तथ् श्वेतं च चन्दनम् ॥

अगुरुश् चापि धूपो ऽथ नैवेद्यं गुडपूपकाः ।

स्नानं कुशोदकेनात्र प्राशनं गोमयेन तु ॥

तृतीये करवीराणि तथा रक्तं च चन्दनम् ।

धूपानां गुग्गुलुश् चात्र प्रियो देवस्य सर्वदा ॥

शाल्योदनं च नैवेद्यं दधिमिश्रं महामते ।

तम् एव ब्राह्मणानां तु भक्ष्यलेह्यसमन्वितम् ॥

कालशाकेन च विभो युक्तं दत्वा विचक्षणः ।

गौरसर्षपकल्केन स्नानं चात्र विदुर् बुधाः ॥

तस्यैव प्राशनं धन्यं सर्वपापहरं शुभम् ।

तृतीयपारणस्यान्ते ब्राह्मणानां च भोजनम् ॥

श्रावणं च पुराणस्य वाचनं चापि शस्यते ।

देवस्य पुरतः स्नातो ब्राह्मणानां तदग्रतः ॥

[७६३] ब्राह्मणाद् वाचकाच् छ्राव्यं नान्यवर्णसमुद्भवात् ।

श्रावयेद् ब्राह्मणान् सर्वान् शक्त्या भक्त्या प्रपूजयेत् ॥

वाचकस्यामले राजन् वाससी सन्निवेदयेत् ।

वाचके पूजिते देवः सदा तुष्यति भास्करः ॥

करवीरं यथेष्टं तु तथा रक्तं च चन्दनम् ।

यथेष्टं गुग्गुलं तस्य यथेष्टं चैव भाजनम् ॥

यथेष्टं तु घृतं तस्य यथेष्टो वचकः सदा ।

पारणं च यथेष्टं वै सवितुः कुरुनन्दन ॥

इत्य् एषा सप्तमी पुण्या सुप्रिया (?) गोपतेः सदा ।

याम् उपोष्येह पुरुषो दौर्गत्येन च युज्यते ॥

क्षीरप्रतिपदिविशेषो ऽवगन्तव्य इति । शाकसप्तमीव्रतम् ।

कार्त्तिकशुक्लसप्तम्याम् आरभ्य प्रतिमासं कुर्वता पुनर् मासचतुष्टयम् यावत् शुक्लसप्तमी तस्यां तस्यां च पारणं कार्यम् । एकस्मिन् वर्षे वारत्रयं पारणं भवति एवम् एव वर्षान्तरेषु तादृशं व्रतं यावज्जीवं कर्तव्यम् ।

इति भविष्यत्पुराणोक्तं शाकसप्तमीव्रतम् ।

नारद उवाच ।

किम् उरोगे ऽद्भुते कृत्यम् अलक्ष्मीः केन हन्यते ।

मृतवत्साभिषेकादिकार्ये किं नु विधीयते ॥

[७६४] शङ्कर उवाच ।

पुराकृतानि पापानि फलं तत्र तपोधन ।

रोगदौर्गत्यरूपेण तथैवेष्टवधेन च ॥

तद्विघाताय वक्ष्यामि तदा कल्याणकारकम् ।

सप्तमीस्नपनं नाम व्याधिपीडाविनाशनम् ॥

बालानां मरणं यत्र क्षीरपानां च दृश्यते ।

तद्वद् वृद्धेतराणां च यौवनं वापवर्तिनाम् ॥

शान्तं यत् तत् प्रवक्ष्यामि मृतवत्साभिषेकतः (?) ।

एतद् एवाद्भुते वेगे चित्तविभ्रमनाशनम् ॥

भविष्यति महाबाहो यदा कल्पस् तपोधन ।

विवस्वतश् च तत्रापि यदा मनुर् अनुत्तमः ॥

भविष्यति च तत्रापि पञ्चविंशतिमं यदा ।

कृतं नाम युगं तत्र हैहयान्वयवर्धनम् ॥

भविता तु पतिर् वीरः कार्त्तिवीर्यः प्रतापवान् ।

स सप्तमो ऽयम् अखिलं पालयिष्यति भूतलम् ॥

यावद् वर्षसहस्राणि सप्तसप्तानि नारद ।

जातमात्रं च तस्यां च यावत् पुत्रशतं तदा ॥

च्यवनस्य तु शापेन विनाशम् उपयाश्यति ।

सहस्रबाहुश् च यदा भविता तस्य वै सुतः ॥

कृतवीर्यः समाराध्य सहस्रांशुं दिवाकरम् ।

उपवासैर् व्रतैर् दिव्यः वेदसूक्तैश् च नारद ॥

पुत्रस्य जीवनायासन्त्रस्नानम् अवाप्स्यति ॥

कृतवीर्येण वै दृष्ट इदं च कतिभास्करः ।

[७६५] अशेषदुष्टशमनं सदा कल्मषनाशनम् ॥

अलं क्लेशेन महता पुत्रस् तव नराधिप ।

भविष्यति चिरञ्जीवी किं नु किल्बिषनाशनम् ॥

सप्तमीस्नपनं वक्ष्ये सर्वलोकहिताय वै ।

जातस्य मृतवत्सायाः सप्तमे मासि नारद ॥

अथ वा शुक्लसप्तम्याम् एतत् सर्वं प्रशस्यते ।

ग्रहताराबलं लब्ध्वा कृत्वा ब्राह्मणवाचनम् ॥

अलं क्लेशेन महता पुत्रस् तव नराधिप ।

बालस्य जन्मनक्षत्रं वर्जयेत् तां तिथिं बुधः ॥

तद्वद् वृद्धातुराणां तु कृत्वा तदितरेषु च ।

गोमयेनोपलिप्तायां भूमाव् एव तु संस्थितः ॥

तण्डुलै रक्तशाल्यन्नैश् चतुरः क्षीरसंयुतम् ।

निर्वपेत् सूर्यरुद्राभ्यां मातृभ्यश् च विशेषतः ॥

कीर्तयेत् सूर्यदैवत्यं सूक्तं पूर्वं घृताहुतीः ।

जुहुयाद् रुद्रसूक्तेन तद्वद् रुद्राय नारद ॥

होतव्या समिधश् चात्र तथैवार्कपलाशयोः ।

यवैः कृष्णतिलैर् होमः कर्तव्यो ऽष्टशतं पुनः ॥

व्याहृतिभिर् अथाज्येन तथैवाष्टशतं बुधाः ।

हुत्वा स्नानं च कर्तव्यं मन्त्रैस् तैर् एव धीमता ॥

विप्रेण वेदविदुषा विधिवद् दर्भपाणिना ।

स्थापयित्वा तु चतुरः कुम्भान् कोणेषु शोभनान् ॥

पञ्च पञ्च पुनर् मधे दध्यक्षतविभूषितान् ।

स्थापयेद् अव्रणं कुम्भं सौरेणैवाभिमन्त्रितम् ॥

[७६६] पूरयेत् तीर्थतोयेन स्वर्णरत्नसमन्वितम् ।

सर्वान् सर्वौषधियुतान् पञ्चभङ्गजलान्वितान् ॥

पञ्चरत्नफलैर् युक्तं वासोभिः परिवेष्टितान् ।

गजाश्वरथ्यावल्मीकसङ्गमव्रजगोकुलम् ॥

सङ्गत्य मृदम् आनीय सर्वेष्व् एव विनिक्षीपेत् ।

सङ्गत्य एकीकृत्य ।

चतुर्ष्व् अपि कुम्भेषु तोयगर्भेषु मध्यमम् ॥

गृहीत्वा ब्राह्मणस् तत्र सौरान् मन्त्रान् उदीरयन् ।

नारीभिः सप्तसख्याभिर् अव्यङ्गाङ्गीभिर् अत्र च ॥

पूजिताभिर् यथाशक्त्या माल्यवस्त्रादिभूषणैः ।

सवस्त्राभिश् च कर्तव्यं मृतवत्साभिषेचनम् ॥

दीर्घायुर् उक्तबालो ऽयम् जीवपुत्रास् त्व् इयं तथा ।

आदित्यश् चन्द्रमा सार्धं ग्रहनक्षत्रतारकैः ॥

शक्रः सलोकपालो वै ब्रह्मविष्णुमहेश्वराः ।

एते चान्ये च देवैघाः सदा पान्तु कुमारकम् ॥

न शनिर् नात्र राहुश् च नात्र वालग्रहाः क्वचित् ।

पीडां कुर्वन्तु वालस्य समातुर् जनकस्य च ॥

ततः शुक्लाम्बरधरा कुमारी पतिसंयुता ।

त्र्यम्बकं पूजयेत् स्त्रीणाम् आचार्यं सह भार्यया ॥

काञ्चनीयां ततः कृत्वा ताम्रपात्रोपरिष्ठिताम् ।

प्रतिमां धर्मराजस्य गुरवे विनिवेदयेत् ॥

धर्मराजस् तु महिषस्थो दक्षिणकरे सम्पुण्डदण्डधरस् तदुपरि खड्गं वामे फलकम् अपराश् च धूम्रवर्णा अष्टौसवत् साः सङ्गता वामे भवा दद् दक्षिणकरे यमपाशश् च लेखनीयः ।

[७६७] पत्रकरः श्वश्रूधारो चित्रगुप्तः प्रकर्तव्यः ।

वस्त्रैः काञ्चनरत्नाद्यैर् भक्ष्यैः सघृतपायसैः ॥

पूजयेद् ब्राह्मणांस् तत्र वित्तशाठ्यविवर्जितः ।

भुक्त्वा च गुरुणा चैवम् उच्चार्या मन्त्रसन्ततिः ॥

दीर्घायुर् उक्तचालो ऽयं यावद् वर्षशतं सुखी ।

यत् किञ्चिद् अस्य दुरितं तत् क्षिप्तं वडवामुखे ॥

ब्रह्मा रुद्रो वसुः स्कन्दो विष्णुः शक्रो हुताशनः ।

रक्षन्तु सर्वे दुष्टेभ्यो वरदाः सन्तु सर्वशः ॥

एवमाद्यानि चैतानि वदन्तं पूजयेद् रविम् ।

शक्तितः कपिलां चैव प्रणिपत्य विसर्जयेत् ॥

गुरुं च पुत्रसहितं पणम्य रविशङ्करौ ।

हुतशेषं समश्नीयाद् आदित्याय नमो ऽस्त्व् इति ॥

इदम् एवाद्भुते वेगे दुःस्वप्नेषु च दृश्यते ।

कर्तुर् जन्मदिनर्क्षं च हित्वा सम्पूजयेत् सदा ॥

शान्त्यर्थं शुक्लसप्तम्याम् एतत् कुर्वन् न सीदति ।

पुण्यं विधत्तम् आयुष्यं सप्तमीस्तवनं रवेः ॥

कथयित्वा द्विजश्रेष्ठ तथैवान्तरधीयत ।

सवानेन विधानेन दीर्घायुर् अभवन् नृप ॥

संवत्सरप्रसूतो ऽपि ससस्यां पृथिवीम् इमाम् ।

एतत् ते सर्वम् आख्यातं सप्तमीस्नानम् उत्तमम् ॥

सर्वदुष्टोपशमनं बालानां परमं हितम् ।

आरोग्यं भास्कराद् इच्छेद् धनम् इच्छेद् धुताशनात् ॥

शङ्कराज् ज्ञानम् नविच्छेद् गतिम् इच्छेज् जनार्दनात् ।

[७६८] एतन् मह्पातकनाशनं स्यात् परं हितम्, वालविवर्धनं च ।

शृणोति यश् चैवम् अनन्यचेता

तस्यापि सिद्धिं मुनयो वदन्ति ।

इति भविष्यत्पुराणोक्तं सप्तमीस्नपनम् ।

सनत्कुमार उवाच ।

मङ्गल्यं परम् इच्छन्ति मङ्गलायतनं हरिम् ।

अर्चयेद् विनता देवं सप्तम्यां समुपोषिता ॥

मण्डलं चतुर्स्रं च विधायाक्षतसंयुतम् ।

तस्मिन्न् आवाहयेद् देवं श्रीशमिन्द्रिरया सह ॥

पङ्कजैर् जातिकुसुमैर् नन्द्यावर्तप्रसूनकैः ।

एकपत्रैर् बिल्वदलैर् दूर्वातण्डुलकेसरैः ॥

मधुरैः फलमूलैश् च पायसेन समर्चयेत् ।

मृण्मयं राजतं ताम्रं सौवर्णं च चतुष्टयम् ॥

पात्रम् अव्रणम् इच्छन् न (?) द्रोणपूर्णं च कारयेत् ।

चतुरः कलशांस् तत्र मृण्मयांश् च विचक्षणः ॥

चतुःप्रस्थप्रमाणेन सहितान् वस्त्रसंयुतान् ।

लवणं च तिलं चैव हरिद्राचूर्णधान्यकैः ॥

मृत् क्षिप्ता राजते ऽथैवं (?) शान्तिकुम्भे निधापयेत् ।

सर्पिषा मधुना दध्ना पयसा च प्रपूरितान् ॥

स्थापयेत् कलशान् अग्रे पात्राण्य् अपि महामतिः ।

[७६९] योषितः पूजयेद् अष्टौ सपुत्राः पतिदेवताः ॥

सर्वमङ्गलसंयुक्ताः सर्वाभरणभूषिताः ।

ताभ्यो दद्याद् यथायोगं मङ्गलार्थं विचक्षणः ॥

तास् ततः पूजयेत् तासां दक्षिणाश् च प्रदापयेत् ।

ततश् च सन्निधौ तासां प्रार्थयन्ते श्रियः पतिम् ॥

माङ्गल्यं परमं देहि मङ्गलायतने नमः ।

इन्दिराकान्तनयने श्रीकान्तनयनप्रिये ॥

श्रीपते श्रीलताश्लेषप्रियचातुर्भुजद्वये ।

माङ्गल्यं परमं देहि मङ्गलायतलोचने ॥

अथ ताभिश् च वनिता योषिद्भिः कृतमङ्गला ।

अनुज्ञाप्य हरेः पूजां समाप्य च विसृज्य ताः ॥

आचार्यो दक्षिणां दद्याद् ब्राह्मणेभ्यो धनञ्जय (?) ।

सङ्कल्प्यादौ विधिस् तस्याः सुतो वा जनको ऽपि वा ॥

कुर्वीत स्वपुरे वा वै गुरुर् वा नृपतिः क्वचित् ।

कार्यः पूजाविधिर् अयं मन्त्रेणाष्टाक्षरेण तु ॥

अष्टम्यां च ततः कुर्यात् पूर्ववद् देवपूजनम् ।

अष्टाभिः सह योषिद्भिः कुर्यान् मन्त्रेण पारणम् ॥

उपवासश् च कर्तव्यः पतिना च सुखार्थिना ।

अष्टम्यां पारणं कुर्याद् दद्याद् ब्राह्मणभोजनम् ॥

आचार्यो दक्षिणां दद्याद् व्रतं चैव समापयेत् ।

इतश् चारोग्यजननम् आयुः पुष्टिः सुखावहम् ॥

माङ्गल्यप्रभवः स्त्रीणां पुत्रपौत्रप्रदं तथा ।

सुतार्थिनी सुतं विन्देद् आयुश् चापि तदर्थिनी ॥

[७७०] माङ्गल्यं परम् इच्छन्ती व्रतेनानेन चाप्नुयात् ।

पुमान् अपि यशः कीर्तिं बलम् आयुश् च विन्दति ॥

राज्ञाम् आयुर् द्विजाग्र्याणां विद्यां च विपुलम् अपि ।

वैश्यानां विपुलां लक्ष्मीं शूद्राणां च सुखं भवेत् ॥

व्रतम् एतत् सदा कार्यम् आत्मनो जयम् इच्छता ।

युद्धानि चेहमानानाम् आदौ कार्यम् इदं व्रतम् ॥

कन्यकापि पतिं विन्देत् कुर्वन्ती व्रतम् उत्तमम् ।

एवम् एव परं प्रोक्तं सप्तमीव्रतम् उत्तमम् ।

सर्वपुण्यप्रदं नॄणां सर्वपुष्टिप्रदं भुवि ॥

इति गरुडपुराणोक्तं मङ्गल्यं व्रतम् ।

अथ सूर्यव्रतम् ।

मार्कण्डेय उवाच ।

चैत्रे शुक्लस्य पक्षे तु सम्यक् षष्ठ्याम् उपोषितः ।

सप्तम्याम् अर्चनं कुर्याद् देवदेवस्य भूपते ॥

बहिःस्नानं नरः कृत्वा गोमयेनोपलेपितः ।

लेपयेत् स्थण्डिलं सम्यक् ततो गौरमृदा नृप ॥

तत्राष्टदलकमलं वर्णकैस् तु समं लिखेत् ।

कर्णिकायां न्यसेत् तत्र देवदेवं विभावसुम् ॥

पूर्वपत्रे न्यसेद् देवौ राजन् द्रव्यानुचारकौ ।

[७७१] आग्नेये च न्यसेत् पत्रे गन्धर्वौ ऋतुकारकौ ॥

दक्षिणे च न्यसेत् पत्रे तथैवाङ्गारकौ शुभौ ।

नैरृत्ये द्वौ महाराज पत्रिनैरृतकौ न्यसेत् ॥

काद्रवेयौ महाभागौ पश्चिमे ऋतुचारिकौ ।

वायव्ये यातुधानौ द्वौ तथैव नृपसत्तम ॥

उत्तरे च तथा पत्रे विन्यसेच् च ऋषिद्वयम् ।

ईशान्यां विन्यसेत् पत्रे ग्रहम् एकं द्विजोत्तम ॥

एते च देवादयो वसन्तादिऋतुक्रमेण दर्शिताः ।

यस्मिन् यस्मिन्न् ऋतौ ब्रह्मन् अनुयान्ति रविं प्रभुम् ।

ये ये देवप्रभृतयस् तन् मे त्वं वक्तुम् अर्हसि ॥

मार्कण्डेय उवाच ।

धातार्यम्न (?) च राजेन्द्र वसन्ते देवताद्वयम् ।

ॐ तुम्बुरुर् नारदश् चैव गन्धर्वौ गायताम्बरी ॥

कृतुवेलाप्सराश् चैव तथा या पुञ्जिकस्वला ।

होतृप्रहोतृश् च तथा रक्षोग्रामणिपुङ्गवौ ॥

उरगो वासुकिश् चैव तथैव ऋषिसत्तमौ ।

अनुयाति सितश् चैव ग्रीष्मदेवौ वसन्तिकौ ॥

ऋषिर् अत्रिर् वसिष्ठश् च तथा द्वौ दक्षतक्षकौ ।

मेनका सहजन्या च गन्धर्वौ च हहा हुहुः ॥

रथश् चलश् च ग्रामण्यौ रथकृश्नश् (?) च ताव् उभौ ।

पौरुषादौ वधश् चैव यातुधानौ च तौ स्मृतौ ॥

अनुयाति कुजश् चैव निदाघे च तथा ग्रहः ।

ये ऽनुयान्ति रविं देवं प्रावृट्काले निबोध मे ॥

[७७२] इन्द्रश् चैव विवस्वांश् च अङ्गिरा भृगुर् एव च ।

एलापत्रस् तथा सर्पः शङ्खपालश् च पन्नगः ॥

शुचिः सेनोग्रसेनश् च व्रतश् चैवारुणिः सह ।

प्रम्लोचन्त्य् अप्सराश् चैव निम्लोचन्तीह ते उभे ॥

यातुधानस् तथा सर्पौ व्याघ्रश् च मनुजेश्वर ।

प्रावृट्काले तु यात्य् एनं ग्रहो देवपुरोहितः ॥

अतः परं निबोध त्वं शरत्काले नराधिप ।

पर्जन्यश् चैव पूषा च भरद्राजश् च गौतमः ॥

चित्रसेनश् च गन्धर्वस् तथा च सुकविः सह ।

विश्वासी च घृताची च तथा देवाप्सरोद्वयम् ॥

नागस् त्व् ऐरावतश् चैव विश्रुतश् च धनञ्जयः ।

सेनजित्च् च सुषेणश् च राक्षसौ भूमविक्रमौ ॥

यातौ द्वौ तौ च तथा यातुधानौ महाबलौ ।

ग्रहः शनैश्चरश् चैव अनुयाति दिवाकरम् ॥

अतः परं प्रवक्ष्यामि हेमन्ते तव पार्थिव ।

अंशोभगश् च द्वाव् एतौ कश्यपश् च क्रतुः सह ॥

भुजङ्गश् च महापद्मः सर्पः कर्कोटकस् तथा ।

चित्रसेनश् च गन्धर्व ऊर्णायुश् च महाबलः ॥

अप्सराः पूर्ववित्तश् च गन्धर्वा ऊर्वशीवशाः ।

तार्क्ष्यश् चारिष्टनेमिश् च राक्षसौ भीमविक्रसौ ॥

विस्फूर्जतस् तथैवाग्रौ यातुधानौ महाबलौ ।

अनुयाति बुधश् चैव ग्रहो राजन् दिवाकरम् ॥

अतः परं च धर्मज्ञ शिशिरे गदतः शृणु ।

[७७३] त्वष्टा विष्णुर् जमदग्निर् विश्वामित्रस् तथैव च ॥

काद्रवेयो तथा नागौ कम्बलश् चतुराव् उभौ ।

तिलोत्तमाप्सराश् चैव देवी रम्भा मनोरमा ॥

ग्रामणीरतिजाश् चैव सत्यजिच् च महायशाः ।

ब्रह्मोपेतश् च वैरक्तो यज्ञोपेतस् तथैव च ॥

गन्धर्वो धृतराष्ट्रश् च सूर्यवर्चास् तथापरः ।

चन्द्रमा ग्रहराजश् च अनुयाति दिवाकरम् ॥

सूर्यम् आप्याययन्त्य् एते तैजसा तेज उत्तमम् ।

एवं हि शिशिरे राजन्न् अनुयानं प्रकुर्वते ॥

स्थानान् इमानि नोह्येते सप्तद्वादशका गणाः ।

गणषट्कस् तथैवैकम् अनुयाति दिवाकरम् ॥

सूर्यम् आरोपयत् तेजस् तेजसां तेज उत्तमम् ।

तथैतैस् तैर् वचोभिश् च कुर्वन्ति ऋषयस् तव ॥

गन्धर्वाप्सरसश् चैव सुगीताद्यैर् उपासते ।

विद्याग्रामणिनश् चैव कुर्वन्त्य् अत्राभिपुग्रहम् (?) ॥

सर्पा विहन्ते वैसूर्यं यातुधानानुयान्ति च ।

परिचाराग्रहाश् चैव नयन्तश् च यथाविधि ॥

एतेषाम् एव देवानां यथार्चायां तथा तपः ।

यथायोगं यथधर्मं यथासत्यं यथाबलम् ॥

यथासत्वम् असौ सूर्यस् तेषां सिद्धिस् तु तेजसा ।

भूतानाम् अशुभं कर्म विनाशयति तेजसा ॥

ग्रीष्मे हिमे च वर्षासु विमुच्यमानी

धर्मं हिमं च वर्षं च निशादिनं च ।

[७७४] गच्छत्य् असाव् ऋतुवशात् परिचर्तुम् अस्मिन्

देवान् पितॄंश् च मनुजांश् च स तर्पयन्ति ॥

तेषां सम्पूजनं कार्यं गन्धमाल्यानुलेपनैः ।

धूपदीपैः सनैवेद्यैः पृथक् पृथग् अरिन्दम ॥

एवं सम्पूजनं कृत्वा सर्वेषां तदनन्तरम् ।

घृतेन होमं कुर्वीत सूर्यस्याष्टशतेन तु ॥

अन्येषां च तथा दद्याद् अष्टाव् अष्टौ नरोत्तम ॥

अन्येषां कमलाविन्यस्तदेवानां अष्टाव् अष्टौ आहुतय इत्य् शेषः ।

नाम्ना (?) तथैव सर्वेषाम् एकैकं भोजयेद् द्विजम् ।

शक्त्या च दक्षिणां दद्यात् तेषाम् एव यदूत्तम ॥

एवं संवत्सरं कृत्वा व्रतम् एतन् नरोत्तम ।

पौराणिकाय विप्राय व्रतस्यान्ते पयस्विनीम् ॥

विधिवच् च ततो दद्यात् सुसुवर्णं यदूत्तम ।

सर्वकामप्रदं ह्य् एतद् व्रतम् उक्तं स्वयम्भुवा ॥

व्रतेनानेन चीर्णेन सूर्यलोकम् अवाप्नुयात् ।

अथ द्वादशवर्षाणि करोत्य् एनं महाव्रतम् ॥

भित्त्वार्कमण्डलं राजन् विष्णोः सायुज्यताम् व्रजेत् ।

एतद् व्रतं पापविनाशकारि

धन्यं यशस्यं रिपुनाशकारि ।

लोके तथास्मिंश् च परे च राजन्

स्वर्गं तथा मोक्षकरं तथैव ॥

इति विष्णुधर्मोत्तरोक्तं सूर्यव्रतम् ।

[७७५]

अथ मरुद्व्रतम् ।

मार्कण्डेय उवाच ।

चैत्रस्य शुक्ल्पक्षे तु सम्यक् षष्ठ्याम् उपोषितः ।

सप्तम्याम् अर्चनं कुर्याद् ऋतूनां तत्र तत्र च ॥

तत्र श्रेणीगतं सप्तमण्डलं नृप कारयेत् ।

श्रेणी तथा कार्यसमा सप्तमण्डलकान्विता ॥

श्रेणीसप्तकम् विधाय ततश् चैकैकस्यां श्रेण्यां मण्डलसप्तकं कुर्याद् इत्य् अर्थः ।

गन्धैर् मण्डलकं कार्यं नामचिह्नं पृथक् पृथक् ।

एकज्योतिश् च द्विर्ज्योतिस् त्रिज्योतिश् च महाबलः ॥

एकद्वित्रिचतुःपञ्चक्रमेणैव तथा नृप ।

विन्यसेत् प्रथमश्रेण्यां यथोक्तं नृपसत्तम ॥

क्रमेणेति एकज्योतिःप्रभृति सप्तज्योतिपर्यन्तं सप्त नामानि विन्यसेद् इत्य् अर्थः ।

ईदृक् सदृक् वचो ऽन्यादृक् ततः प्रतिसदृक् तथा ।

मितश् च सम्मितश् चैव अमितश् च महाबलः ॥

द्वितीयायाम् अथ श्रेण्यां क्रमेणैव (?) च विन्यसेत् ।

कृतजित् सत्यजिच् चैव सुखेन (?) सेनजित् तथा ॥

श्रुतमित्रो ऽनुमित्रश् च पुरुजिच् च तथैव च ।

तृतीयायां तथा श्रेण्यां देवान् एतांश् च विन्यसेत् ॥

ऋतश् च ऋतवादश् च विदग्धश् चारणो ध्रुवः ।

सत्यो धाता वै चतुर्थ्यां श्रेण्यां च पार्थिवं न्यसेत् ॥

[७७६] ईदृक्षश् च सदृक्षश् च एतादृग् अमिताशनः ।

क्रीडितः सप्तवृक्षश् च सरभश् च महायशाः ॥

विन्यसेत् पञ्चमश्रेण्यां सप्तदेवान् नराधिप ।

धर्ता दुर्योधनिर् भीमो अनियुक्तः क्षयः सह ॥

षष्ठ्यां च विन्यसेत् श्रेण्यां सप्तदेवान् यथाक्रमम् ।

धृतिर् वपुर् अनाधृष्यो वासः कामो जयो विराट् ॥

सप्तभ्यां च तथा श्रेण्यां विन्यसेत् सप्त पार्थिव ।

प्रथमा तु भवेत् श्रेणी युक्ता पार्थिव सप्तमी ॥

द्वितीया पद्मपत्राभा तृतीया रुधिरोपमा ।

पीतवर्णा चतुर्थी स्यात् पञ्चमी शुक्लसन्निभा ॥

आकाशसन्निभा षष्ठी कृष्णवर्णा च सप्तमी ।

माल्यानुलेपनं देयं तासां वर्णसमं द्विज ॥

एकोनास् तत्र दातव्या दीपाः पञ्चाशद् एव तु ।

पृथक् पृथग् देवतानां नैवेद्यादि निवेदयेत् ॥

घृतं च जुहुयाद् वह्नौ नामभिश् च पृथक् पृथक् ।

भोजयेद् ब्राःमणांश् चात्र सुरसिद्धसमन्वितान् ॥

संवत्सरम् इदं कृत्वा व्रतं पुरुषसत्तम ।

सुवर्णम् अहतं वासो गां च दद्यात् पयस्विनीम् ॥

पौराणिकाय विप्राय व्रताने विनिवेदयेत् ॥

व्रतस्यास तु राजेन्दर् सम्यग् विप्रो विधानवित् ॥

आरोप्यकामः कुर्वीत व्रतम् एतन् नरोत्तम ।

[७७७[ पुत्रकामार्थकामश् च धनकामो ऽपि वा पुनः ॥

तथ विजयकामश् च व्रतम् एतन्त समाचरेत् ।

श्रीकामश् च तथा राजन् विद्याकामो ऽपि वा पुनः ॥

सर्वकामप्रदं ह्य् एतद् विद्याकामो ऽपि वा पुनः ।

सर्वकामप्रदं ह्य् एतत् पवित्रण् पापनाशनम् ॥

माङ्गल्यं स्वर्गदं प्रोक्तं व्रतानाम् उत्तमं (?) व्रतम् ।

व्रतेनानेन चीर्णेन चिरं स्वर्गं (?) समश्नुते ॥

मानुष्यम् आसाद्य भवेत् स्वर्गभ्रष्टस् तथाचिरात् ॥

धनेन रूपेण बलेन युक्तो

जनाभिरामः प्रमदाप्रियश् च ।

नीरोगदेहो हृतशत्रुपक्षो

वाग्मी तथा शास्त्रधनश् च लोके ॥

इति विष्णुधर्मोक्तं मरुद्व्रतम् ।

अथ तुरगसप्तमीव्रतम् ।

मार्कण्डेय उवाच ।

चैत्रमासस्य सप्तम्यां शुक्लपक्षे नराधिप ।

गोमयेनोपलिप्ते तु मृदा कुर्यात् तु मण्डलम् ॥

तत्राष्टपत्रं कमलं कर्तव्यं वर्णकैः शुभिअह् ।

कृतोपवासस् तन्मध्ये भास्करं पूजयेन् नरः ॥

अरुणं चैव पुन्नाकं निकुम्भं च तथापरम् ॥

वसुनां यमं कालं द्वितीयं मनुम् (?) एव च ।

[७७८] शनैश्चरं तथा राज्ञीं छायां रेवन्तम् एव च ॥

सप्तछन्दांसि वर्षश् च द्यां च पिङ्गलम् एव च ।

केसरे पूजयेद् राम पत्रे उक्ताश् च देवआः ॥

उक्ता देवता धातार्यमेत्याद्याः सूर्यसप्तमीव्रतोक्ताः ।

दिक्कालपूजनं कार्यं बहिःपद्मस्य पार्थिव ।

गन्धमाल्यनमस्कारदीपधूपान्नसम्पदा ॥

व्रते समाप्ते दातव्यं रुरगान्ब्राह्मणाय च ॥

प्राप्याश्वमेधस्य फलं यथावल्

लोकान् अवाप्याथ पुरन्दरस्य ।

उपोष्य राजन् सुचिरं च कालं

सारोज्यम् आयाति दिवाकरस्य ॥

इति विष्ण्धर्मोत्तरोक्तं तुरगसप्तमीव्रतम् ।

अथ सितसप्तमीव्रतम् ।

मार्कण्डेय उवाच ।

सोपवासस् तु सप्तम्यां कमलैः पूजयेद् रविम् ।

सोपवासस् तु सप्तम्यां कमलैः पूजयेद् रविम् ॥

अर्चायां वा स्थले वापि शुक्लैः पुष्पैर् यथाविधि ।

चन्दनेन तु शुक्लेन वटकैः पूरणेन च ॥

[७७९] दद्याद् व्रतान्ते द्विजपुङ्गवाय

वस्त्रे सुशुक्ले रिपुनाशनेच्छुः ।

सौभाग्यकामस् तु तथैव राजन्

प्राप्नोति लोकान् सवितुस् तथान्ते ॥

इति विष्णुधर्मोत्तरोक्तं सितसप्तमीव्रतम् ।

अथ उभयसप्तमीव्रतम् ।

मार्कण्डेय उवाच ।

अनेनैव विधानेन प्रतिमासं तु यो नरः ।

सप्तमीद्वितयं कुर्याद् यावत् संवत्सरं भवेत् ॥

सो ऽश्वमेधम् अवाप्नोति सूर्यलोकं च गच्छति ।

कुलम् उद्धरते राजन् सर्वान् कामान् अपाश्नुते ॥

इति विष्णुधर्मोत्तरोक्तम् उभयसप्तमीव्रतम् ।

अथ सूर्यव्रतम् ।

मार्कण्डेय उवाच ।

शिरसो वपनं कृत्वा यो ऽर्चयेत दिवाकरम् ।

तपनस् तोषम् आयाति वह्निष्टोमं च विन्दति ॥

अपूपैः सगुडैर् भक्त्या तथा लवणपाचितैः ।

सहिरण्यैः समभ्यर्च्य वह्निष्टोमफलं लभेत् ॥

[७८०] सूर्याह्नि यस् तु नक्ताशी सम्पूजयति भास्करम् ।

इष्टान् कामान् अवाप्नोति सूर्यलोकं च गच्छति ॥

यथा यथा पूजयन्तस् तु सूर्यं

कामाः समग्राः सफला भवन्ति ।

आरोग्यम् अग्रं च तहा नृवीर

मृतस्य लोकाः सवितुस् तथैव ॥

इति विष्णुधर्मोत्तरोक्तं सूर्यव्रतम् ।

अथ मुक्तिद्वारव्रतम् ।

याज्ञवल्क्य उवाच ।

मुक्तिद्वारं यद् व्रतं मे तथोक्तं

दुःकर्मघ्नं रोगसङ्घांश् च हन्तुः ।

अक्षीणाख्यं मोक्षदं कर्म यत् स्यात्

तन् मे ब्रूहि त्वं सुरेश प्रसादात् ॥

सप्तद्वीपेषु यत् प्रोक्तं ब्रह्महत्याद्यघापहम् ।

सर्वकर्मक्षयकरं सर्वकामैकधर्मवित् ॥

मुक्तिद्वारम् इति प्रोक्तं देवानां तुष्टिदं तथा ॥

भगवान् उवाच ।

अश्वमेधादियज्ञानां लक्षकोट्यर्बुदैर् अपि ।

तत् फलं लभ्यते पुंसां मुक्तिद्वारव्रतेन यत् ॥

योगमार्गम् अनभ्यस्य यथेष्टाचारवान् अपि ।

अथ युक्तो ऽमृतश् चापि व्रतेनानेन मुच्यते ॥

[७८१] गोब्राह्मणस्वामिवधे महार्णवे

त्यत् त्वा (?) शरीरस्य भयान् मुने नराः ।

नारोगिणो यत् परमार्थचिन्तकाः

फलं लभन्ते ऽप्य् अमुना व्रतादिना ॥

मुने त्वम् आकर्ण्य यदा न सम्यक्

विधिं तदीयं तद् अहं वदामि ।

यद्गोपितो ऽयं सततं मया प्राक्

पुत्रे ऽपि मित्रे ऽपि तथा कलत्रे ॥

सप्तमीं प्राप्य हस्तेन दन्तधावनम् आचरेत् ।

नमो ऽर्कायेत्य् उदीर्याथ अर्ककाष्ठेन भक्तिमान् ॥

अथ वा पुष्यऋक्षेण जलेनाप्लावनं तथा ।

हुत्वा पवित्रं देवानां मन्त्रेणार्कसमित्स्थितम् ॥

रक्तचन्दनपद्मं तु लिखेद् गोमयवारिणा ।

प्राङ्गणे षोडशदलं सगर्भदलकर्णिकम् ॥

गोमयवारिणासिक्ते प्राङ्गणे रक्तचन्दनेन पद्मं प्रलिखेत् सगर्भदलकर्णिकाकर्णिक-गर्भे दलवतः वक्ष्यमाणदेवतावतः ।

तपनादित्यपूषार्यसूर्यमित्रजलेश्वरान् ।

भानुं चारं च विष्णुं च समार्तण्डसवित्रिकान् ॥

सहस्रांशुं च पूर्वादिदिग्दलेषु न्यसेत् क्रमात् ॥

[७८२] आरो मङ्गलः ।

भानुहंसार्यमव्रध्रविकर्तनदिवाकरान् ।

सप्ताश्वसप्तकिरणसमस्तग्रहनायकान् ॥

प्रभाकरं सुविषदं पतङ्गं लोकसाक्षिणम् ।

विवस्वन् मिहिरौ पूर्वं न्यसेद् गर्भदले यथा ॥

तमोघ्नं द्वादशात्मानं भास्करं लोकचक्षुषम् ।

विश्वकर्मानम् अजरं परमात्मानम् उत्तमम् ॥

कर्तारम् अकृतं वन्द्यं कर्णिकायां तु षोडश ।

कर्णिकायां कर्णिकालग्नेषु, परं च परमेश्वरम् एवम् अष्टाचत्वारिशतो नामलेखनम् एवावगन्तव्यम् ।

ॐ तस्मै नमः सवित्रेति क्रमाद् आवाहनं नमः ॥

कुर्याद् अथासनं दद्यात् पाद्यार्घ्याचमनीयकम् ।

रक्तगन्धाक्षतान् दद्याद् रक्तपुष्पाणि धूपकम् ॥

नमः नमस्कारः ।

दद्यात् सुगन्धपञ्चाङ्गदीपान् रक्ताम्बराणि च ।

अथ वा रैत्ये ताम्रे वा पात्रे प्रोक्ते सपङ्कजे ॥

रक्तगन्धाक्षतैर् हसं (?) मणिकुण्डलमण्डितम् ।

षडङ्गुलोच्छ्रयं स्थूलं पृथुलम्बितमालिनम् ॥

रक्तचन्दनपद्मस्य कर्णिकायां न्यसेद् बुधः ।

हैमं वारिरुहं चात्र वित्तशाठ्यविवर्जितः ॥

कुर्याद् इति शेषः ।

अथे हैमे ऽथ वा ताम्रे पात्रे प्रोक्ते सपङ्कजे ।

रक्तगन्धाक्षतान् क्षिप्त्वा रक्तपुष्पाणि च द्विज ॥

[७८३] पञ्चरत्नफलैः सार्धम् आदायाञ्जलिना जलम् ।

ललाटाञ्जलिम् आसाद्य जानुभ्याम् अवनीं गतः ॥

वीक्ष्यमाणो दिनकरं दद्याद् अर्घ्यं तु मन्त्रतः ।

ॐ तुभ्यं नमः सकलकारणकारणाय

विश्वात्मने तु भवनान्तविवर्जिताय ।

नमामि देवासुरमौलिलालितान्

सुरेश चूडामणिबाहुचुम्बितान् ॥

यद् उच्यते सारजलेश्वरालयान्

पादौ शरण्ये रममानहंसान् ।

अनन्तशक्ते सकलार्थसिद्धिं

प्रसीद सर्वेश समस्तम् अव्ययम् ॥

समग्रैष्टे परमेश्वरेश्वर

प्रयच्छ मे वाञ्छितकर्म (?) मुक्तिद ।

उच्चार्यार्च्य भास्करायाथ दद्याद्

धेन्वाज्याद्यं सूर्यतिथ्यर्क्षयोगौ ।

रक्तां धेनुं शोभनोपस्कराढ्यां

दत्वा कुर्याच् चोपवासं तदह्नि ॥

ध्यायेद् द्वितीये ऽपि दिने तु तिथ्य-

क्षयैर् युतिः स्यात् तु तदोपवासः ।

[७८४] पूर्वे प्रदद्याद् दिवसे द्वितीये

दिनेशभक्तो ऽथ तदा व्रतार्थि ॥

यदा द्वितीये विहिते ऽपि तिथ्या सह ऋक्षयोगम् उपैति तदा पूर्वे पूर्वदिवसे नोपवासो नार्घ्यदानं च किं तु द्वितीयदिने व्रतं सम्बध्यार्घ्यं दद्याद् इत्य् अर्थः । दिनेशः सूर्यः,

उदयव्यापिनी ग्राह्या कुले तिथिर् उपोषणैः ।

निम्बार्को भगवान् एषां वाञ्छितार्थफलप्रदः ॥

इति भविष्यत्पुराणवचनात् ।

भोज्यान्ते वरं भुञ्जीत प्राश्यार्क कुङ्कुमं भुवि ।

कृते व्रते ऽस्मिन् भवति मुक्तिमार्गान् सुदुर्लभान् ॥

मासि मास्य् अर्च्य दानादि कुर्याद् द्विस्तनवर्जितम् ।

सर्वदानं परित्यज्य विशेषः श्रूयताम् अथ ॥

वर्ज्यं कर्कन्धुं धान्यां च यत्र पुष्पफलद्वयम् ।

रसम् एकैकम् एवं तु द्वादशार्कान् प्रपूजयेत् ॥

एलागुग्गुलनागकेशरमुरादीन् द्वादशान् कुङ्कुमम् ।

कर्पूरागुरुदेवदारुसरलान् जातीफलं ग्रन्थिकम् ॥

मांसीचन्दनपत्रकेसजलदान् कम्बोलकस्तूरिकाः ।

सेरुं हंसरसं च वालकमलान्य् अल्पं मटोरं वचाः ॥

यद् यद् एषु परिपूर्यते पुनस् तत् प्रदाय विनियोजयेत् स्वयम् ।

[७८५] केतकोवकुलमल्लिकाबुलं जातिपद्मकुमुदानि यूथिकाः ॥

पाटलाकुरुवकातिमुक्तकं कुब्जकं तगरकर्णिका मुनिः ।

रक्तपुष्पशतपत्रकदम्बा सिन्दुवारमुचुकन्तजवाश् च ।

चम्पकं कुखकीरम् अशोकं सन्त्यजेच् च गुडम् एषु यथोक्तैः ॥

कुख्रोरक्तकुरुण्टः, अतिमुक्तको माधवी, कर्णिकाः कर्णिकारः, मुनिर् अगस्त्यः ।

खर्जूरनारङ्गमधूकजमु-

कवीरमेवार्ककपित्थबिल्वम् ।

द्राभाक्तिका दाडिमतिन्दुकानि

भल्लातरामाफलचारुकाणि ॥

वृन्ताककालिङ्गकनारिकेलैः

कूष्माण्डवात्रीफलबिम्बकं च ।

कर्कन्धुकोशातकमातुलङ्गतुथ्यो

यथाकालभवानि युग्मतः ॥

शालिमाषतिलमुद्गसर्षपा

व्रीहिकङ्गुचणकास् तथावको ॥

राजमाषचरको इवातसी

पुष्टिकामसूरमर्कटान् ।

गोमूत्रवृन्ताकत्रिपुटं च कृष्ण-

श्यामाकनीवारकचूर्णकानि ॥

त्यजेद् यथा सम्बवमेषु (?) धान्येष्व्

अर्घ्यं समासाद्य तु युग्मयुग्मम् ।

[७८६] क्षीरेक्षुनिर्यासयुतं च चुक्रं

गुडं तथाज्यं नवमी तु शर्करा ॥

विवर्तयेद् वैतराजसंयुता

दधीम् अथोपायसम् इत्य् अनुक्रमात् ॥

मधुरं लवणं तिक्तं कषायं कटुकं तथा ।

अम्लं चैतानि वाश्नीयाद् द्वौ द्वौ मासौ यथोदयम् ॥

त्रयोदशं प्राप्य तथा समानं व्रतं तदानीं चैव सर्वशः ।

समाप्य् अदत्वा कपिलां विधानतः

प्रसादम् आप्नोति तथा त्व् अयं रवेः ॥

देवराज्य महाराज्य विभोगादिमहत्फलम् ।

सकामः सर्वम् आप्नोति निष्कामो मोक्षम् अक्षयम् ॥

स्वे सङ्ख्याने यथोद्भूती रजसान् तु यथा भुवि ।

समुद्रे सिकतानां च धारणा वारिवर्षणम् ॥

मुक्तिद्वारस्य ते तद्वत् फलसख्या न विद्यते ॥

इति मत्स्यपुराणोक्तं मुक्तिद्वारसप्तमीव्रतम् ।

अथ भानुव्रतम् ।

पुलस्त्य उवाच ।

सप्तम्यां नक्तभुग् दद्यात् समान्ते गां सकाञ्चनाम् ।

सूर्यलोकम् अवाप्नोति भानुव्रतमिदं स्मृतम् ॥

इति पद्मपुराणोक्तं भानुव्रतम् ।

[७८७]

ब्रह्मोवाच ।

सप्तम्यां पूज्य ऋक्षेशं चित्रभानुं दिवाकरम् ।

रक्तैश् च गन्धकुसुमैर् महदारोग्यम् आप्नुयात् ॥

मूलमन्त्राः स्वसञ्ज्ञाबिर् अङ्गमन्त्राश् च कीर्तिताः ।

पद्मवत् पद्मपत्रं च यथाशक्ति विधीयते ॥

पूजाशाठ्येन शाठ्येन कृतापि तु फलप्रदा ।

आज्यधारा सम्मिद्भिश् (?) च दधिक्षीरान्नमाषकैः ॥

पूर्वोक्तफलदो होमः कृतः शान्तेन चेतसा ।

एतद् वैश्वानरं व्रतं प्रतिपद्याख्येयम् ।

इति भविष्यत्पुराणोक्तं चित्रभानुव्रतम् ।

अथ सौरव्रतम् ।

यश् चोपवासी सप्तम्यां समान्ते हेमपङ्कजम् ।

गावश् च शक्तितो दद्याद् धोमान्ते घटसंयुताः ।

एतत् सौरव्रतं नाम सूर्यलोकप्रदायकम् ॥

इति पद्मपुराणोक्तं सौरव्रतम् ।

अथ धान्यसप्तमीव्रतम् ।

सम्पूज्य सितसप्तम्यां भानुं धान्यानि सप्त च ।

ददाति नक्तभुग् गार्ह्यं लवणेन समन्वितम् ॥

[७८८] गार्ह्यं (?) गृहस्योपकरणम् ।

सन्तारयति सप्तान्यान् कुल्ल्यान् आत्मानम् एव च ।

एतद् धान्यव्रतं नाम व्रतं धान्यसुखप्रदम् ॥

इति भविष्यत्पुराणोक्तं धान्यसप्तमीव्रतम् ।

अथ भास्करव्रतम् ।

कृतोपवासः षष्ठ्यां तु सप्तम्यां यस् तु मानवः ।

करोति विधितः श्राद्धं भास्करः प्रीयताम् इति ।

सर्वरोगविनिर्मुक्तः स्वर्गलोकम् अवाप्नुयात् ॥

इति कालिकापुराणोक्तं भास्करव्रतम् ।

अथ तपोव्रतम् ।

माघे निशार्धवासाः स्यात् सप्तम्यां गोप्रदो भवेत् ।

स्वर्गलोकम् अवाप्नोति तपोव्रत्म् इहोच्यते ॥

इति पद्मपुराणोक्तं तपोव्रतम् ।

अथार्कसप्तमीव्रतम् ।

अर्कसम्पुटसंयुक्तम् उदकप्रभृतिं पिबेत् ।

क्रमाद् **** [लेत्तेर्स् ब्रोकेन्] चतुर्वंशं एकैकं क्षिपते पुनः ॥

[७८९] द्वाभ्यां संवत्सराभ्यां तु समाप्य नियमो भवेत् ।

सर्वकामप्रदा ह्य् एषा प्रसीदत्य् अर्कसप्तमी ॥

इति ब्रह्मपुराणोक्तम् अर्कसप्तमीव्रतम् ।

अथ पुत्रीयसप्तमीव्रतम् ।

पुष्कर उवाच ।

मार्गशीर्षे शुभे मासि शुक्लपक्षे द्विजोत्तम ।

पुत्रीयां सप्तमीं राम गृह्णीयात् प्रयतः शुचिः ॥

अथ वा पुत्रकामश् च विधिना तेन यत् शृणु ॥

पुत्रीयां पुत्रदाम् ।

हविष्याशी शिरःस्नातं कृत्वा भास्करपूजनम् ।

अधःशायी द्वितीये ऽह्नि गोवृषाणोदकेन तु ॥

स्नात्वा च लिप्य च तथा शुभे देशे तु मण्डलम् ।

तत्राष्टपत्रकमलं विन्यसेद् वर्णकैः शुभैः ॥

तस्यैव कर्णिकामध्ये भाश्करं चन्दनेन तु ।

रक्तेन पूजयेद् देवं गन्धमाल्यानुलेपनैः ॥

भक्ष्यैर् भोज्यैस् तथा पेयैर् धूपैर् दीपैश् च भास्करम् ।

एवं सम्पूजनं कृत्वा सर्वकामप्रदस्य तु ॥

नक्तं भुञ्जीत सर्वज्ञ (?) सर्वकामविवर्जितः ।

दन्तोदूखलको भूत्वा कृत्वा संवत्सरं व्रतम् ॥

व्रतावसाने दातव्या शक्त्या ब्राह्मणदक्षिणा ।

तथा त्रिमधुरप्रायं कर्तव्यं द्विजभोजनम् ॥

[७९०] अधःशायी निशान्ते च भूय एव तथा भवेत् ॥

पुत्रीयम् एतद् व्रतम् उतमं ते

मयोदितं कल्मषनाशकारि ।

आराधनं देववरस्य राम

सर्वामयघ्नं च तथैतद् उक्तम् ॥

इति विष्णुधर्मोत्तरोक्तं पुत्रीयसप्तमीव्रतम् ।

अथ कामव्रतम् ।

सप्तम्यां च तथाभ्यर्च्य सूर्यपत्नीं सुवर्चसाम् ।

इषान् कामान् अवाप्नोति नात्र कार्या विचारणा ॥

इति विष्णुधर्मोक्तं कामव्रतम् ।

अथ शैलव्रतम् ।

इष्टस्य पूजां शैलस्य तदा पूज्य सुखी भवेत् ।

पूजां तु नाम मन्त्रेण ।

इति विष्णुधर्मोत्तरोक्तं शैलव्रतम् ।

अथ सरिद्व्रतम् ।

पूजयित्वा सदाभीष्टं सरितं पुण्यभाग् भवेत् ।

इति विष्णुधर्मोत्तरोक्तं सरिद्व्रतम् ।

[७९१]

अथ वह्निव्रतम् ।

वहिसम्पूजनं कृत्वा वह्निष्टोमम् अवाप्नुयात् ।

इति विष्णुधर्मोक्तं वह्निव्रतम् ।

अथ वायुव्रतम् ।

वायोः सम्पूजनं कृत्वा प्राप्नोति परमां गतिम् ।

इति विष्णुधर्मोत्तरोक्तं वायुव्रतम् ।

अथ सप्तर्षिव्रतम् ।

सम्पूज्य च ऋषीन् सप्त स्ōमसंस्था तथा स्मृता ।

सप्त प्राप्नोति ते एवम् अतिमार्ष्यं च विन्दति ॥

इति विष्णुधर्मोत्तरोक्तं सप्तर्षिव्रतम् ।

अथ मुनिव्रतम् ।

सप्तम्यां मुनिशार्दूल इष्टम् अभ्यर्चयेन् मुनीन् ।

स्वाध्यायफलम् (?) आप्नोति तद्धामफलम् अश्नुते ॥

इति विष्णुधर्मोत्तरोक्तं मुनिव्रतम् ।

अथ अभीष्टसप्तमीव्रतम् ।

पूजयित्वा समुद्रांश् च दीपान् नव तदा नरः ।

पातालांश् च महाभाग भुवम् आप्नोत्य् अभीप्सितम् ॥

इति विष्णुधर्मोत्तरोक्तम् अभीष्टसप्तमीव्रतम् ।

[७९२]

अथ सप्तमीलोकव्रतम् ।

सप्तलोकांस् तव भूप पूजयित्वा सुखी भवेत् ।

तथैव महतीं प्रज्ञां गतिम् अप्रतिमां भवेत् ॥

इति विष्णुधर्मोत्तरोक्तं सप्तमीलोकव्रतम् ।

अथ नदीव्रतम् ।

मङ्गाः (?) सप्तप्रकाराश् च तथा देवीं सरस्वतीम् ।

सप्तज्ञानान्य् अवाप्नोति नरः पूजयते ध्रुवम् ॥

इति विष्णुधर्मोत्तरोक्तं नदीव्रतम् ।

अथ सुगतिव्रतम् ।

सुरेन्द्रपूजनं कृत्वा गतिम् अग्र्यां तु वै भवेत् ।

इति विष्णुधर्मोत्तरोक्तं सुगतिव्रतम् ।

अथ जयन्तव्रतम् ।

जयन्तं शक्रतनयं पूजयेच् च सुखी भवेत् ।

इति विष्णुधर्मोत्तरोक्तं जयन्तव्रतम् ।

अथ विधानद्वादशसप्तमीव्रतम् ।

निरुक्तसप्तमीनां तु शृणु नारद निर्णयम् ।

यः शान्तिम् अधिगच्छेत स्मरणात् सर्वकिल्बिषैः ॥

[७९३] शातना सर्वपापानां शातनां नमतां विदुः ।

तत्रोपवासविधिना धातारं य उपागते ॥

चैत्रमासे तु सप्तम्याम् अतिरात्रफलं लभेत् ।

वैशाखमासे सप्तम्यां पर्जन्यं यस् तु पूजयेत् ॥

चातुर्मासस्य यज्ञस्य फलं प्राप्नोति तत्र वै ।

विभा विभावसोर् दृष्ट्वा भाशब्दो व्याप्तिदीप्तिषु ॥

विभा नाम निरुक्तं च स्वयम् एव विभावसुः ।

सप्तम्यां ज्यैष्ठमासं तु वरुणं यः समर्चयेत् ॥

आप्तोयामदशानां तु फलं विन्दति मानवः ।

अमृतार्थे यदा देवा जयशब्देन निर्ययुः ॥

पूजयन्ति जयां देवामृतम् अस्याश् च तत् स्मृतम् ।

आषाढमासे सूर्यं तु सप्तम्यां पूजयेन् नरः ॥

अश्वमेधम् अवाप्नोति कुलं चैव समुद्धरेत् ।

सप्तम्यां निर्जिता देवैर् असुरा दानवास् तथा ॥

समाराध्य सुरैः सेन्द्रैः सङ्ग्रामे तारकाभये ।

त्रैलोक्यं विजयप्राप्ते तस्माद् विजयसप्तमी ॥

यः पूजयति मां भक्त्या तस्मिन्न् अहनि मानवः ।

स्नात्वा सम्यग् उपस्पृश्य शुक्लवासाः कृताञ्जलिः ॥

सदा यज्ञोपवीती च ब्रह्मचारी जितेन्द्रियः ।

अक्रोधनो ह्य् अचपलः स्थिरचित्तः समाहितः ॥

ध्यानमानं तथा साम्बं मत्परः सञ्जितेन्द्रियः ।

न च रजस्वलाश् चैव सूतिकां नाम न स्पृशेत् ॥

स्त्रीवृन्दं नाभिभाषेत सुखबन्धं च सर्वशः ।

[७९४] तथा मूत्रपुरीशं च निष्ठीवं च न लङ्घयेत् ॥

मन्त्र्पूतेनोदकेन प्राभ्युक्ष्य विधिवत् तदा ।

मृत्तिकाम् उपलिम्पेत यजमानो वरार्थिकः ॥

यथाकालोदितैः पुष्पैर् धूपैश् चापि रविप्रियैः ।

दीपैर् लाजैर् यवैर् मुद्गैस् तिलैः सिद्धार्थकैस् तथा ॥

चन्दनैर् हृद्यगन्धैश् च मण्डलैर् ह्य् अर्चयेद् बुधः ।

प्रथमे पिण्डिकास्थाने भूर्लोकश् च प्रकीर्तितः ॥

द्वितीये तु भुवर्लोकः स्वस् तृतीय प्रतिष्ठितः ।

सहर्लोकश् (?) चतुर्थे तु जनलोकस् तु पञ्चमे ॥

तपोलोकस् तु वै षष्ठे सत्यलोकस् तु सप्तमे ।

मण्डलं ह्य् अर्चयेद् यस् तु श्रद्धाभक्तिसमन्वितः ॥

सप्तलोकावृता देवा भवेउस् तेन पूजिताः ।

उपक्रीडाचाहलाभ्यां यो ऽर्चयेन् मित्रमण्डलम् ॥

सो ऽपि स्वर्गसदैः सार्धं मोदते विगतज्वरः ।

शीलाचारदयावन्तो दमशौचसमन्विताः ॥

मङ्गलाचारसम्पन्ना वेदशास्त्राथचिन्तकाः ।

तेभ्यो ऽवनितले विप्र नाद्याम्बा विविधस् तथा ॥

यजनैर् उपहारैश् च बलिपात्रैः सुसंस्कृतैः ।

पायसैः कृशरैर् भक्ष्यैर् मांसैश् च विविधैस् तथा ॥

फलमूलैस् तथा श्रेष्ठैः शाकैश् चापि मुनिप्रियैः ।

दध्ना पूर्णं पयःपूर्णं गुडपूर्णं तथैव च ॥

लाजापूर्णं च दातव्यं मन्त्रं जप्यं पुनः पुनः ।

[७९५] सङ्गवे पूजयेद् भक्त्या दैवज्ञान् शीलसम्मितान् ॥

तैस् तुष्टैस् तुष्यते देवः सर्वान् कामान् ददाति च ।

तस्य पुण्यफलं चैव शृणु कीर्तयतो मम ॥

पुत्रपौत्रैः समृद्धन्ति धनधान्यगवेडकैः ।

अश्वा हिरण्यवासांसि दासीदासश् च लभ्यते ॥

या नार्यः पूजयिष्यन्ति सप्तम्यां भक्तितो रविम् ।

ता भास्ययुक्ताः श्रीमत्यः सर्वालङ्कारभूषिताः ॥

प्रियास् ता हि भविष्यन्ति भर्तॄणां स्वजनस्य च ।

सूर्यलोके च मोदन्ते भर्तृभिः सहिताः सुखम् ॥

मानुष्यं पुनर् आगत्य महाधनपरिग्रहे ।

महाकुले हि जायन्ते मद्भक्ता वै भवन्ति च ॥

प्रीणयेत् तु प्रयच्छन्ती शुक्ला विजयसप्तमी ।

गावो हिरण्यवासांसि मणिमुक्तास् ततो धनम् ॥

अर्चयेतोपहारैश् च भक्त्या नानाविधैस् तथा ।

पूर्णकाणि सुरादीनि व्यञ्जनानि मधूनि च ॥

शाल्योदनं तथा मांसं शाकानि विविधानि च ।

फलानि च यथाकालं दधिक्षीरघृतं मधु ॥

यत् किञ्चिद् दीयते दानं सप्तम्याम् अक्षयं ततः ।

त्रैलोक्यविजयप्राप्तिस् तस्माद् विजयसप्तमी ॥

सप्तम्यां श्रावणे मासि भास्करं पूजयेन् नरः ।

सर्वपापविनिर्मुक्तो वाजिमेधफलं लभेत् ॥

श्रावणे मासि सप्तम्यां त्वष्टारं पूजयेन् नरः ।

अग्निष्टोमम् अवाप्नोति विन्दते च महत्श्रियः ॥

[७९६] तपः सन्तपनं नाम तावतः प्रोक्तवान् ऋषिः ।

मरीचस्य तु योगेन प्रोक्ता मरीचसप्तमी ॥

फलं तस्याः प्रवक्ष्यामि धन्यं पुण्यं तथापि च ।

ब्रह्मणाम् आदितः कृत्वा पूर्वं देवाः सवासवाः ॥

यक्षगन्धर्वपक्षाश् च महर्षिपन्नगा नगाः ।

विध्याधराः पितृगणाः सहिताश् चाप्सरोगणैः ॥

उदीक्षन्ते भगवत उदयं भास्करस्य च ।

चन्दनानां यथा तादृक् काष्ठकूटैर् महोजसः ॥

हुताशनश् च भगवान् सप्तसप्तिर् दिवाकरः ।

निर्धूमाङ्गे समारुह्य सरथे ऽरुणसारथिः ॥

समुत्तिष्ठति दीपांशुर् अंशुभिर् भासयन् नभः ।

जयशब्देन सहितः पूज्यमानस् तथासुरैः ॥

तथान्तरे वनं यच् च तदादित्यवनं स्मृतम् ।

शतयोजनविस्तारम् आयामदशशो गुणैः ॥

तत्र ते बहवो वृक्षाः विषयैः पृथुशाखिनः ।

तस्माद् वायुः प्रभवति सर्वो विषयसाश्रयः ॥

प्राणिनां योजयेद् व्याधिं नित्यं नानाविधाकृतम् ।

यथामध्यस्थसत्त्वास् ते षण्णवत्या दिवाकरम् ॥

शरणं देवदेवस्य पृथिव्यास् तापशान्तये ।

स नाशयति सत्त्वानां रोगं देहसमुद्भवम् ॥

कुष्ठदद्रूसपिटकौ कण्डुं श्वित्राणि श्लीपदम् ।

जलोदरं तथा गुल्मम् अतिसारं च विद्रुधिम् ॥

[७९७] हृद्रोगं पाण्डुरोगं च आनाहं सगलग्रहम् ।

शिरःशूलं पार्शशूलम् अक्षिशूलं विसूचिकाम् ॥

आध्माख्यं वातमय्यम्बा सामं वाताख्यम् एव च ।

क्षयाद्वितीयकाशश् च सान्निपातिक एव च ॥

नित्यं बलक्षयं व्याधिं पात्रस्य यद् अपाचकम् (?) ।

एतांश् चान्यांश् च सुबहून् रोगान् क्रमप्रणाशकान् ॥

सत्त्वनाशाय इति च आयुर्दीर्घं ददाति च ।

आज्ञानिमेषमात्रेण समतिक्रम्य भास्करः ॥

उदयं गिरिम् आरुह्य भासयन् सर्वतो दिशः ।

भगवान् सविषाग्रैश् च मुहूर्तं तिष्ठते रविः ॥

तस्मिन्न् उदितमात्रे (?) तु शुचिः प्रयतमानसः ।

शुक्लपक्षस्य सप्तम्यां व्रतं द्वादशमासिकम् ॥

गृह्णीयान् नियतः स्नातः सर्वसत्त्वानुकम्पकः ।

पूर्वामुखः शुचिर् भूत्वा मिहिराय महात्मने ।

पुष्पोपहारं दत्वा तु धूपं दद्यात् तु वेष्टतः ॥

प्रणत्य देवं जानुभ्यां (?) मरिचं प्रक्षिपेन् मुखे ।

उपस्पृश्य दिनं सम्यक् रात्रिं वोपवसेन् नरः ॥

ततः कल्यं समुत्थाय शुचिः स्नातः सुवस्त्रधृक् ।

प्राङ्मुखः प्रयतो भूत्वा हृदि कृत्वा दिवाकरम् ॥

पूजयेद् गन्धमाल्यैश् च धूपेन तु सुगन्धिना ।

पूर्वोक्तेन विधानेन भास्कराय निवेदयेत् ॥

उपहारैस् तथा भक्ष्यैर् बलिपात्रैः सुसंस्कृतैः ।

मन्त्रेण चैव दातव्यं जप्तव्यं च पुनः पुनः ॥

[७९८] मन्त्रः ॐ नमः सूर्यायेति ।

वर्धमानस् तु मरीचान्य् एवं मासांस् तु द्वादश ॥

सप्तमीं शुक्लपक्षस्य यश् चरिष्यति मानवः ।

तस्य पुण्यफलं चैव शृणु कीर्तयतो मम ॥

सुवासा दर्शनीयश् च सुगन्धश् च स्वलङ्कृतः ।

सुवेषश् च सुरूपश् च भूत्वा सूर्यप्रभो नरः ॥

इह लोके च दीर्घायुः प्राप्य भोगांश् च पुष्कलान् ।

पुत्रपौत्रैः परिवृतो दासीदाससमन्वितः ॥

इतस् ततः स्वर्गलोके महत् सुखम् अवाप्नुयात् ।

तस्माच् च पुनर् आवृत्य कुले महति जायते ॥

आढ्याश् च बहुपुत्रश् च भोगवांश् च भवेन् नरः ।

दीक्षितश् चापि पुरुषो भवेन् मासांस् तु द्वादश ॥

मरीचस्य तु नाम्ना च प्रोक्ता मरीचसप्तमी ।

यस् तु भाद्रपदे मासि सप्तम्याम् इन्द्रम् अर्चयेत् ॥

उपोष्य विधिवत् तत्र पौण्डरीकफलं लभेत् ।

महर्षिभिस् तु भृग्वाद्यैर् धर्मलुब्धैस् तपोधनैः ॥

आदित्यस् त्व् अर्चितो यस् तु शाकमूलपयःफलैः ।

प्रत्यक्षं दर्शयामास सहस्राक्षस् तु गोपतिः ।

वरेण छन्दयामास प्रीतो ऽस्मीति तपोधनात् ॥

ऋषय ऊचुः ।

अस्माकं वर एवास्तु प्रीतो यदि दिवाकरः ।

ईर्ष्यान् न विस्मयात् क्रोधात् तपो न क्षयतां व्रजेत् ॥

[७९९] एवम् अस्त्व् इति तान् उक्त्वा तत्रैवान्तरधीयत ।

फलैर् यस्मात् सहस्रांशुस् तुष्टो ऽस्माकं महाद्युतिः। ॥

फलेन महता युक्ता नामास्याः फलसप्तमी ।

फलसप्तमी तु या चैव विधिं वक्ष्यामि तच् छृणु ॥

पूर्वोक्तेन विधानेन उदयन्तं दिवाकरम् ।

स्नातः शुचिः शुक्लवासाः प्राङ्मुखः प्रयतः स्थितः ॥

श्वेतस्रजा समायुक्तो भूमो दत्वानुलेपनम् ।

स्रग्भिः पुष्पसुगन्धाभिर् अभ्युक्ष्यार्कं निरीक्ष्य च ॥

जानुभ्यां पतितो भूत्वा वाग्भिः स्तुत्वा दिवाकरम् ।

दत्तोपहारपुष्पैस् तु पुष्पैः सुरभिगन्धिभिः ॥

धूपं दत्वा तु अगुरुं फलानां पुञ्जम् अग्रतः ।

यथालाभेन सम्भृत्य भास्कराय निवेदयेत् ॥

आम्राम्रातकजम्बूनां बिल्वतिन्दुकशाखिनाम् ।

परूषकोविदाराणां खर्जूराणां तथैव च ॥

फलानि चैव देयानि छिन्नं म्लानं विवर्जयेत् ।

व्रती भुञ्जीत नियतः प्रयतः स्याद् विशेषतः ॥

एवं द्वादशसामान्यैः फलवल्लीचयो नरः ।

भवत्य् अरोगो द्युतिमान् वर्णरूपश्रियान्वितः ॥

धनधान्यसमायुक्तः पुत्रपौत्रपरिवृतः (?) ।

भुक्त्वेह मानुषान् भोगान् सूर्यलोके महीयते ॥

तस्मात् तु पुनर् आवृत्य माहात्म्यं प्रतिपद्यते ।

बहुयोगिबहुधने कुले महति जायते ॥

ब्राह्मणः सर्वदेवः स्यात् क्षत्रियो विजयी भवेत् ।

[८००] वैश्यो ऽपि लभते भोगान् शूद्रः सुखम् अवाप्नुयात् ॥

कृषिं कुर्याद् यदि नरस् त्व् अभ्यर्च्य फलसप्तमीम् ।

यवान् माषान् कुलत्थांश् च शालिगोधूमम् एव च ॥

यद् धान्यं वपते क्षेत्रे तत् तद् बहुफलं भवेत् ।

वाणिज्यं कुरुते दिग्भ्यस् तथा स्वविषये पुनः ॥

अक्लेशेनैव पण्यानि विक्रीणीते सुखं नरः ।

लाभो बहुफलं तस्य भवतीह यतः फलम् ॥

यदि प्रयुञ्जीत धनं लाभार्थे मानवः क्वचित् ।

बहुलाभं भवेत् तस्य यत् प्रयुङ्क्ते तद् आप्नुयात् ॥

नारीभिः फलम् आप्नोति पुत्रान् दुहितरं तथा ।

एषा ते कथिता तुष्टा फलदा फलसप्तमी ॥

ततश् चाश्वयुजे मासि विवस्वन्तम् उपासते ।

भक्ष्यभोज्यान्नपानैश् च फलमूलरसैस् तथा ॥

एतैः सर्वैः समायुक्तं शकटं दापयेद् बुधः ।

अतः शकटम् इत्य् उक्तं धातुर् एषो ऽभिपद्यते ॥

अतो ऽन्नम् अर्हते यस्मात् तस्मात् सा तु अनोदना ।

वाजपेयम् अवाप्नोति आसप्तकुलम् उद्धरेत् ॥

सर्वबीजौषधीः सर्वा आपातालागमाश् च याः ।

पृथी रानानुरूपेण काले तत्र ददाति वै ॥

पुष्ट्यर्थम् औषधीनां च नराणां बलवृद्धये ।

अनोदना च या चैव शृणु तस्यापि निर्णयम् ॥

संवत्सरं प्रयत्नेन पक्षौ चोभौ च मानवः ।

पूर्वोक्तेन विधानेन भास्करं चार्चयेन् नरः ॥

[८०१] उपवासकृताञ् चैव तेषां पुण्यफलं शृणु ।

तच् चापि परिहर्तव्यं तन् मे निगदतः शृणु ॥

मैथुनं मधुमांसं च गव्यम् अञ्जनम् एव च ।

अनृतं कुलसाक्ष्यं च परद्रव्यं च वर्जयेत् ॥

सूतकं मृतकं चैव वर्जयेच् च रजस्वलाम् ।

द्वाविषे मासि रक्षेद् यः पितेव स्वसुतान् यथा ॥

परिपाल्य प्रयत्नेन इह लोके परत्र च ।

अनेन विधिना येन ये कुर्वन्ति च सप्तमीम् ॥

लभन्ते निखिलान् कामान् पतीं च प्राप्न्यान् नरः ।

नद्यादिशत्रुशमनं भोगान् प्राप्नोति पुष्कलान् ॥

तस्माच् च पुनर् आवृत्तः कुले महति जायते ।

रत्नवैदूर्यरुचिरैर् वेणुवीणाविनोदितैः ॥

उपगीयमानो ऽप्सरोभिः सुखं वै शाश्वतं लभेत् ।

दिव्यलक्षणसंयुक्तः सूर्यलोके महीयते ॥

तस्मिन् तपसि क्षीने च नरः क्षितिम् अवाप्य च ।

बहुभोगे बहुधने कुले महति तेजसा ॥

सूर्यसङ्कासो लोकानां बालचन्द्र इव प्रियः ।

तेनैवाभ्यासयोगेन त्व् अभ्यस्यति पुनः पुनः ॥

यो मां मित्रस्य दिवसे यजेद् वै मित्रतेजसा ।

उपवासी शुचिर् भूत्वा ह्य् अभ्यर्चनपरायणः ॥

ब्राःमणान् भोजकांश् चैव यथाशक्त्या च पूजयेत् ।

[८०२] स तैस् तु तुष्यते देवः सर्वकामप्रदो भवेत् ॥

ईप्सितान् लभते कामान् विशेषेण तु मानवः ।

मिहिरे त्रिविधं यच् च प्रतिमाव्य्ōममण्डलम् ॥

सर्वाकृति भवेद् व्योम चतुःशृङ्गसमन्वितम् ।

चतुरस्रं समं सारं तन्मध्ये व्योममण्डलम् ॥

उच्छयाद्यत्रिभागेन द्वौ भागौ मध्यतः क्षिपेत् ।

विस्तारं च चतुर्भागं चतुःशृङ्गोन्नतं शुभम् ॥

चतुर्दशं तु ये लोका ब्रह्माण्डस्य च मध्यतः ।

गमागमे निवर्तेत क्रियाकारणसंश्रयात् ॥

कल्पितो ऽयं यदा मध्ये मेरुलोकनिबन्धनः ।

नाभीबन्धनसम्भूता मेरुलोकान्तरे ऽब्धयः ॥

दिव्यधातुमयश् चित्रः सर्वदेवैर् अभिष्टुतः ।

अब्जे चतुर्दले दिक्षु कर्णिकेत्य् अभिशब्दितः ॥

चतुर्वर्णः ससौवर्णश् चतुर्जातिसमन्वितः ।

स्थिता तस्याप्सरः सिद्धा मुनिविद्याधरादयः ॥

शक्रो यमो ऽथ वरुणः कुबेरो ऽग्निपुरःसरः ।

लोकपालाग्रहानागास् तारकाश् चान्यदेवताः ॥

देवपत्न्यो मातरश् च त्रिदेवाद्याः स्मृतास् तथा ।

आतोद्यनृत्यगीतैस् तु मुदितश् च तथा भवेत् ॥

स्वयम्बूर् भगवान् मेरुः पूजितो नात्र संशयः ।

रसान् ददाति यस्माद् वै रसाद् अन्ने नभः स्मृता ॥

खगेषु दाता स प्रोक्तः पूज्यते ह्य् अर्यमा ततः ।

नार्चयिष्यन्ति ये मोहान् मौढ्योपहतचेतसः ॥

[८०३] दैवतस् तत्र यत् पापं भाग्यतस् तु लभेद् इति ।

तस्यां तिथौ तु यः कश्चिद् आदित्यार्चनतत्परः ॥

सर्वतीर्थे भवेत् स्नातो गोसहस्रफलं लभेत् ।

तथा मार्गशिरे मासि सप्तमी कीर्तिता शुभा ॥

तस्मिंल् लयं याति जगत् समस्तं

त्रैलोक्यसंरक्षण-उद्यतो यः ।

स्फीतासमस्या वसुधा समग्रा

मित्रप्रसादाद् भवते ह्य् अरोगाः ॥

पर्यायनाम्ना तु तथोपदिष्टा

सूर्यस्य सा सप्तमिपूजनीया ।

व्रतोपवासं कुरुते तु कश्चित्

दारिद्र्यपाशं स छिनत्ति चाशु ॥

दशाश्वमेधा खलु तेन इष्टा

विधानतो वै मुनयो वदन्ति ॥

पौषे पूषणम् अभ्यर्च्य सप्तम्यां नियतेन्द्रियः ।

जातिस्मरत्वं लभते नरमेधं न संशयः ॥

पौषे प्रापुः सुपुष्टिं ते पितरो देवमानवाः ।

पूष्णिवोत्पादिता योषित् पुष्टिस् तेन तवोच्यते ॥

माघमासे तु सप्तम्यां त्रिरात्रं नियतो भवेत् ।

जपेत् षडक्षरं मन्त्रं नाभिमात्रजलान्ततः ।

जपेच् चाष्टसहस्राणि विष्णोर् अभिमुखस्थितः ॥

ॐ नमः सूर्यायेति षडक्षरमन्त्रः ।

ईप्सितान् लभते कामान् सर्वान् सम्पादयेद् रविः ।

[८०४] ईप्सिता सा समाख्याता लोकानां विष्णुना स्वयम् ॥

फलं बहुसुवर्णस्य नरः प्राप्नोति सर्वदा ।

मासे तु द्वादशे यस् तु सप्तम्यां भगम् अर्चयेत् ॥

राजसूयम् अवाप्नोति गच्छेच् चार्कसलोकताम् ।

फाल्गुने चैव सप्तम्यां सिद्धार्थाः सिद्धसम्पदः ॥

वरं मे सिद्धवल् लोकसिद्धसङ्कल्पजाः स्मृताः ।

जह्याद् यथोरगः कृत्तिं तिमिरं भास्करो यथा ।

व्याधिदारिद्र्यपञ्चत्वं तथैव त्यजते नरः ॥

द्वादशसप्तमीषु सूर्यः पूज्यः तद्रूपम् आरोग्यं प्रतिपद्यते पूजा तु नाम मन्त्रेण ।

एवं द्वादशमासांस् तु ह्य् अर्चयेत् सततं रविम् ।

अष्टौ क्रतुसहस्राणि तेन सर्वसदक्षिणाः ॥

सर्वतीर्थे भवेत् स्नातः सर्वदानानि यच्छति ।

पक्षे पक्षे ह्य् उपवसेत् सप्तम्याम् अर्कपूजने ॥

स्त्रीषु वल्लभतां याति वश्याश् चापि भवन्ति वै ।

राजसूयम् अवाप्नोति गच्छेद् अर्कसलोकताम् ॥

मोक्षद्वारम् अवाप्नोति भानुवच् चरते दिवि ।

विधिदृष्टो रहस्येन नारदेन महर्षिणा ॥

इत्य् आदित्यपुराणोक्तानि विविधानि द्वादशसप्तमीव्रतानि ।

[८०५]

अथ पुरश्चरणसप्तमीव्रतम् ।

ऋषय ऊचुः ।

पुरश्चरणसञ्ज्ञां तु सप्तमीं वद सूतज ।

विधिना केन कर्तव्या कस्मिन् काले उपस्थिते ॥

सूत उवाच ।

अहं ते कीर्तयिष्यामि रोहिताश्वस्य भूपतेः ।

मार्कण्डेयेन पुरा प्रोक्तं पृच्छमानेन भक्तितः ।

सप्तकल्पस्मरो विप्रो मार्कण्डेयो महामुनिः ।

रोहिताश्वेन पृष्टः स हरितश् चन्द्रात्मजेन च ॥

रोहिताश्व उवाच ।

अज्ञानाज् ज्ञानतो वापि यत् पापं कुरुते नरः ।

उपायं चास्य नाशाय किञ्चिन् मे वद सन्मुने ॥

मार्कण्डेय उवाच ।

मानसं वाचिकं चैव कायिकं च तृतीयकम् ।

त्रिविधं पातकं लोके नराणाम् इह जायते ॥

पश्चात्तापे कृते तस्य तत्क्षणाद् एव नश्यति ।

मानसं चैव यत् पापं यदुक्तैः सम्प्रजायते ॥

गुरूणां वचनात् तच् च सर्वम् एव प्रणश्यति ।

[८०६] पुरश्चरणकार्येवं सत्यम् एतन् मयोदितम् ॥

नैवेद्यं ब्राह्मणेन्द्राणां तद् उक्तं स समाचरेत् ।

प्रायश्चित्तं यथोक्तं तु ततः शुद्धिम् अवाप्नुयात् ॥

अथ वा पार्थिवो ज्ञात्वा कुरुते तस्य निग्रहम् ।

तेन शुद्धिम् अवाप्नोति यद्य् अपि स्याच् च किल्बिषी (?) ॥

लज्जया ब्राह्मणेन्द्राणां यो न ब्रूते कथञ्चन ।

न च राजा विजानाति शरीरस्थेन यो म्रियेत् ॥

तस्य विग्रहकर्ता च स्वयं वैवस्वतो यमः ।

तस्मात् पापं प्रयत्नेन कृत्वा पापं विजानता ॥

प्रायश्चित्तं तु कर्तव्यं यथोक्तं ब्रह्मणोदितम् ।

सर्वेषाम् एव पापानां विहितानां मुनीश्वर ॥

किञ्चिद् व्रतं समाचक्ष्व दानं वा होमम् एव वा ।

पिपाप्मा [विपाप्मा?] जायते येन पुरश्चरणसेवनात् ॥

व्रतानि कुरुते यो वै नरः सूक्ष्माणि सर्वतः ।

प्रायश्चित्तानि सर्वेषां कर्तुं शक्तः कथञ्चन ॥

मार्कण्डये उवाच ।

अस्ति राजन् व्रतं पुण्यं पुरश्चरणसञ्ज्ञितम् ।

पुरश्चरणसञ्ज्ञां च सप्तमीं सूर्यवल्लभाम् ॥

यथा सर्वात्मना राजन् कायस्थो यमसम्भवः ।

विचित्रो मार्जयत्य् अत्र शतं पापस्य लेखनम् ॥

तस्मात् कुरु महाराज यथावद् वचनं मम ।

येन वा मुच्यते पापात् सर्वस्मात् कायसम्भवात् ॥

[८०७] रोहिताश्व उवाच ।

पुरश्चरणसञ्ज्ञां तु सप्तमीं मुनिसत्तम ।

विधिना केन कर्तव्या कस्मिन् काले वदस्व मे ॥

मार्कण्डेय उवाच ।

माघमासे वरे पक्षे मकरस्थे दिवाकरे ।

सप्तम्यां सूर्यवारेण व्रतम् एतत् समाचरेत् ॥

पाषण्डैः पण्डितैः सार्धं तस्मिन्न् अहनि वर्जयेत् ।

भक्षयित्वा नृपश्रेष्ठ प्रभाते दन्तधानवम् ॥

मन्त्रेणानेन पश्चाच् च कर्तव्यो नियमो नृप ।

पुरश्चरणकृत् पापात् सप्तम्यां दिवसाधिप ॥

उपवासं करिष्यामि अद्य त्वं शरणं मम ।

ततो ऽपराह्णसमये स्नात्वा धौताम्बरः शुचिः ॥

प्रतिमां पूजयेद् भक्त्या दिनाधिपसमुद्भवाम् ।

रक्तैः पुष्पैर् महावीर पादौ सम्पूजयेत् ततः ॥

पतङ्गाय नमः पादौ मार्तण्डाय च जानुनी ।

गुह्यं दिवसनाथाय नाभिं दिवसमूर्तये ॥

बाहुं च पद्महस्ताय हृदयं तीक्ष्णदीधिते ।

कम्बुं पद्मदलाभीष्टशिश्नं (?) तेजोमयाय च ॥

एवं सम्पूज्य विधिवद् रूपं कर्पूरम् आदहेत् ।

गुडोदनं च नैवेद्यं रक्तवस्त्राभिवेष्टितम् ॥

रक्तसूत्रेण दीपं च तथैवारत्रिकं नृप ।

शङ्खे तोयं समादाय रक्तचन्दनमिश्रितम् ॥

सफलं च ततः कृत्वा अर्ध्यं दद्यात् ततः परम् ।

[८०८] दुष्कृतं यत् कृतं किञ्चिद् अज्ञानाज् ज्ञानतो ऽपि वा ॥

प्रायश्चित्ते कृते देव ममार्घ्यश् च प्रगृह्यताम् ।

ततः सम्पूजितं विप्रं गन्धधूपानुलेपनैः ॥

दत्वा तु भोजनं तस्मै दक्षिणां च स्वशक्तितः ।

प्राशनं कायशुद्ध्यर्थं पञ्चगव्यं समाचरेत् ॥

कृताञ्जलिपुटो भूत्वा समुदीक्ष्य दिवाकरम् ।

दिवाकरं नतश् (?) चैव मन्त्रम् एतं समुच्चरेत् ॥

इदं व्रतं मया देव गृहीतं पुरतस् तव ।

अविघ्नसिद्धिम् आयातु प्रसादात् तव भास्कर ॥

ततस् तु फाल्गुणे मासि सम्प्राप्ते नृपनन्दन ।

कुन्देन पूजयेद् देवं तेनैव विधिना ततः ॥

धूपं च गुग्गुलं दद्यान् नैवेद्यं भक्तम् एव च ।

प्राशनं गोमयं प्रोक्तं सर्वपापविशुद्धये ॥

चैत्रमासे गणकाः प्रोक्तं धूपं खर्जूरसोद्भवम् ।

कुशोदकं च सम्प्राश्य कायशुद्धिम् अवाप्नुयात् ॥

वैशाखे किंशुकैः पूज्यं यथावच् च समाचरेत् ।

घृताशनैश् च नैवेद्यं पुरामांसं च पूपकम् ॥

दधिप्राशनम् एवाथ कर्तव्यं कायशोधनम् ।

ज्यैष्ठे पाटलया पूजा विधातव्या रवेर् नृप ॥

धूपं च गुग्गुलं चैव रवेः प्रीतिकरं परम् ।

नैवेद्ये सक्तवः प्रोक्ताः प्राशनं च घृतं स्मृतम् ॥

घृतं प्रणाशनकरं कपिलाया विशुद्धये ।

[८०९] आषाढे मुनिपुष्पैश् च पूजयेद् भास्करं नृप ॥

धूपं चैवागुरुं दद्यात् श्रद्धया परया नृप ।

नैवेद्यं घारिका प्रोक्तं प्राशनं मधुना सह ॥

श्रावणे तु कदम्बेन पूजनं तीक्ष्णदीधितेः ।

नैवेद्ये मोदकाश् चैव तगरं धूपम् आहरेत् ॥

गोशृङ्गोदकम् आसाद्य सर्वपापाद् विमुच्यते ।

जात्या भाद्रपदे पूर्वं क्षीरं नैवेद्यम् आचरेत् ॥

धूपं नखीसमुद्भूतं प्राशनं क्षीरम् एव च ।

आश्विने कमलैः पूजा नैवेद्यं घृतपूरिका ॥

धूपं कुङ्कुमं सम्प्रोक्तं कर्पूरं प्राशनं स्मृतम् ।

तुलस्या कार्तिके पूजा भास्करस्य प्रकीर्तिता ॥

नैवेद्यं चैव मृष्टान्नं धूपं कौसुम्भकं नृप ।

प्राशनं चलिचङ्गाख्यं सर्वपापविशोधनम् ॥

भृङ्गराजेन पूजां च सौम्ये मासि समाचरेत् ।

नैवेद्यं कर्णिका देया धूपं गुडसमुद्भवम् ॥

कक्कोलप्राशनं चैव भास्करस्य प्रतुष्टये ।

शतपत्रचयैः पूजा पौषे मासि रवेः स्मृता ॥

सहजं धूपम् आदिष्टं नैवेद्यं सकुलीयकम् ।

प्राशने पूर्वम् उक्तानि सर्वाण्य् एव समाचरेत् ॥

समाप्तौ तु ततो दद्यात् (?) षड्भाजां गृहसम्भवां ।

ब्राह्मणाय नृपश्रेष्ठ सर्वपापविशुद्धये ॥

इष्टभोज्यं ततः कार्यं स्वशक्त्या पार्थिवोत्तम ।

एवं तु कुरुते यस् तु सप्तमीं भास्करोद्भवाम् ॥

[८१०] सर्वपापविनिर्मुक्तो निर्मलत्वं च गच्छति ।

ब्राह्मणा ऊचुः ।

एवं पुरा वै कथिता रोहिताश्वाय धीमते ।

मार्कण्डेयेन महाभाग तस्मात् त्वम् अपि तां कुरु ॥

इति स्कान्दे नागरखण्डोक्तं पुरश्चरणसप्तमीव्रतम् ।

इति श्रीमहार्जाधिराजश्रीमहादेवस्य समस्तकरणाधीश्वर

**सकलविद्याविशारदश्रीहेमाद्रिविरचिते **

चतुर्वर्गचिन्तामणौ व्रतखण्डे सप्तमीव्रतानि ।

[८११]

अथ द्वादशो ऽध्यायः

अथाष्टमीव्रतानि

जगत्त्रयीमण्डपमण्डयित्री

यत् कीर्तिवल्लीजनमानसानाम् ।

निहन्ति सन्तापम् अशेषशोषा

हेमादिर् आह व्रतम् अष्टमीषु ॥

तत्र जयन्तीव्रतम् उच्यते । विष्णुधर्मोत्तरे ।

पुलस्त्य उवाच ।

रोहिण्यश् च यदा कृष्णे पक्षे ऽष्टम्यां द्विजोत्तम ।

जयन्ती नाम सा प्रोक्ता सर्वपापहरा तिथिः ॥

यद् बाल्ये यच् च कौमारे यौवने वार्धके तथा ।

बहुजन्मकृतं पापं हन्ति सोपोषिता तिथिः ॥

वह्निपुराणे ।

वसिष्ठ उवाच ।

कृष्णाष्टम्यां भवेद् यत्र कलौका रोहिणी नृप ।

जयन्ती नाम सा प्रोक्ता उपोष्या सा प्रयत्नतः ॥

सप्तजन्मकृतं राजन् जगत्यां त्रिविधं नृणाम् ।

तत् क्षालयति गोविन्द तिथौ तस्मिन् सुभावितः ॥

उपवासश् च तत्रोक्तो महापातकनाशनः ।

[८१२] जगत्यां जगतीपाल विधिना नात्र संशयः ॥

त्रेतायां द्वापरे चैव राजन् कृतयुगे पुरा ।

रोहिणीसंयुता चेयं विद्वद्भिः समुपोषिता ॥

वियोगे पारणं चक्रुर् मुनयो ब्रह्मवादिनः ।

सांयोगिके व्रते प्राप्ते यत्रैको ऽपि वियुज्यते ॥

तत्रैव पारणं कुर्याद् एवं वेदविदो विदुः ।

अतः शृणु महीपाल सम्प्राप्ते तामसे कलौ ।

जन्मतो वासुदेवस्य भविता व्रतम् उत्तमम् ॥

जन्मतो हेतौ पञ्चमी । भविता भविष्यति

आराधितस् तु देवक्या विष्णुः सर्वेश्वरः पुरा ।

समायोगे तु रोहिण्या निशीथे राजसत्तम ।

समजायत गोविन्दो बालरूपश् चतुर्भुजः ॥

तं दृष्ट्वा जगतां नाथं प्रणम्य गरुडध्वजम् ।

देवकी प्राञ्जलिर् भूत्वा इदं वचनम् अब्रवीत् ॥

देवक्य् उवाच ।

न वियोगं च संसोढुं सौहार्धात् पद्मलोचन ।

तदेदृग्रूपम् आलोक्य शङ्केन् ह (?) मधुसूदन ॥

वासुदेव उवाच ।

त्वं मां द्रक्ष्यस्य सन्दिग्धं दिने ऽस्मिंश् चैव भामिनि ।

तव दर्शनम् एष्याणि बालरूपेण देवकि ॥

सप्तमीसंयुताष्टम्यां निशीथे रोहिणी यदि ।

[८१३] भविता सप्तमी पुण्या यावच् चन्द्रदिवाकरौ ॥

ये त्वां पुष्पादिभिर् देवीं पूजयिष्यन्ति मानवाः ।

दिने ऽस्मिन् मां महाभागा तवोत्सङ्गे व्यवस्थितम् ॥

दास्यन्ति ये निशीथे ऽर्घ्यं रोहिण्या सहिते विधौ ।

रोहिण्या सहितं चेन्द्रं कृत्वा रौप्यमयं बुधः ॥

द्वादशाङ्गुलविस्तारं तत्रार्घ्यं सन्निवेशयेत् ।

सुवर्णेन कृते पात्रे राजते वा नरोत्तम ॥

सर्वान् कामान् अवाप्नोति इह लोके परत्र च ।

शङ्खे तोयं समादाय सपुष्पफलकाञ्चनम् ॥

जानुम् एकं धरां कृत्वा चन्द्रायार्घ्यं

निवेद्य लोकानाम् उपकारकम् ।

अनघस्वपदं सद्यः पुमान् सङ्कीर्तनाद् अपि ।

कृष्णाष्टम्यां मार्गशीर्षे दाम्पत्यं दर्भनिर्मितम् ॥

अनघं वानघीं चैव बहुपुत्रैः समन्वितम् ।

स्थापयित्वा शुभे देशे गोमयेनानुलेपिते (?) ॥

स्नात्वा समर्चयेत् पुष्पैः सुगन्धैश् चानुलेपनैः ।

ऋग्वेदेनोक्तमन्त्रैश् च दण्डकं मनसा स्मरन् ॥

अनघं वासुदेवं तु पत्नी तस्यास्थिसम्भवा ।

प्रदुम्नादिपुत्रवर्गं हरिवंशे यथोदितम् ॥

ॐ अतो देवा अवन्त्वादिमन्त्राः प्रोक्ता द्विजातिषु ।

अतो गेवा अवन्त्वित्यादि बह्वृचप्रसिद्धाः ।

नमस्कारेण मन्त्रेण स्त्रीशूद्राणां युधिष्ठिर ।

कालोद्भवैः फलैः कन्दैः भृङ्गारैस् तु नवैः शुभैः ॥

[८१४] भृङ्गारं कलशः ।

विरूढधान्यैर् धूपैश् च दीपैर् गन्धैः सुधूपकैः ।

ततो द्विजान् भोजयित्वा सुःर्त्सम्बन्धिबान्धवान् ॥

तेषां मध्येषु दृढवाग् अनघव्रतपारगः ।

भुक्त्वावसाने गृह्णीयात् किञ्चिद् एकं महाव्रतम् ॥

इदं जीवन् न हनिष्ये सत्यं सत्यं महोदितम् ।

वर्षम् एकं ततः कृत्वा इदं तद् अनघं स्मृतम् ॥

रात्रौ प्रेक्षणिकं कार्यं नटनर्तकगायकैः ।

प्रभाते च नवम्यां च तोयमध्ये विसर्जयेत् ॥

एवं यः कुरुते पार्थ वर्षे वर्षे ऽनघार्चनम् ।

भक्त्या परमया युक्तः स एवानघ उच्यते ॥

इह कीर्तिम् अवाप्योच्चैः मृतो याति हरेः पदम् ।

आरोग्यं सप्तजन्मानि पुत्रपौत्रैः समन्वितः ॥

अवाप्याष्टमियोगेन ततः सिद्धिम् अवाप्नुयात् ।

एताम् अघौघशमनीम् अनघाष्टमीति

कौन्तेय सम्प्रति मया कथिता हिताय ।

कुर्वन्ति नान्यमनसः स्वयम् आभिवृद्धौ

वृद्धिं प्रयान्ति कृतवीर्य सुतानुरूपाम् ॥

इति भविष्योत्तरे अनघाष्ठमीव्रतं नाम ।

कृष्ण उवाच ।

कृष्णाष्टमीव्रतं पार्थ शृणु पापहरं परम् ।

धर्मस्य जननं लोके रुद्रप्रीतिकरं परम् ॥

[८१५] मार्गशीर्षे ऽथ वैमासि दन्तधावनपूर्वकम् ।

उपवासस्य नियमं कुर्यान् नक्तस्य च व्रती ॥

समर्थासमर्थभेदेन व्यवस्थितो विकल्पः ।

अश्वत्थवऋओदुम्बरप्लक्षजम्बूकदम्बकम् ।

द्राक्षाकौस्तुभकाम्रातकरीरार्जुनजातिजम् ॥

दन्तधावनकं कुर्यात् प्रतिमासं यथाक्रमम् ।

करवीरं कुम्भपुष्पं मरुकं कुंशुकं तथा ॥

चन्दनं बिल्वपत्रं च पाटलाम् भोजमल्लिकाम् ।

जाती च शतपत्राणि स्वर्णपुष्पाणि वा क्रमात् ॥

क्षीरीयकृशरश् चैव मोदकामण्डकास् तथा ।

वटकाघारिका पूपाद् अधिभक्तं च पूरिका ॥

गुडोदनं (?) शर्करा च नैवेद्यानि घृतं तथा ।

कृष्णाष्टम्यां वर्षम् एकं गुरोर् अग्रे शिवस्य च ॥

ब्रह्मचारी जितक्रोधः शिवजल्पपरायणः ।

विभागे दिवसस्येह कृत्वा स्नानादिकाः क्रियाः ॥

गत्वा शिवालयं पार्थ गुरोर् अग्रे शिवस्य च ।

ब्रह्मचारी जितक्रोधः शिवार्चनपरायणः ॥

विभागे दिवसस्येह कृत्वा स्नानादिकाः क्रियाः ।

गत्वा शिवालयं पार्थ पञ्चामृतपुरः सरम् ॥

स्नपनं कारयित्वाथ लिङ्गस्य वरवारिणा ।

चन्दनेनानुलिप्याथ पूजयेत् कुसुमोत्तमैः ॥

धूपं वागुरुमिश्रं च देवदेवस्य भक्तितः ।

[८१६] शिवसूक्तेन कर्तव्यं शिवसूक्तैर् द्विजोत्तमैः ॥

मार्गशीर्षे तथा मासि शङ्करेत्य् अभिपूजयेत् ।

गोमयं प्राग् अशित्वा च स्वपेद् रात्रौ जितेन्द्रियः ॥

प्रतिमासं शिवस्याग्रे होमं कृष्णतिलैर् नृप ।

अतिरात्रस्य यज्ञस्य फलम् आप्नोति मानवः ॥

एवं पुष्ये तु सम्पूज्य शम्भुं नाम महेश्वरम् ।

कृष्णाष्टम्यां घृतं प्राश्य वाजपेयफलं लभेत् ॥

गोमूत्रं प्राशयित्वा च स्वपेद् भूमौ जितेन्द्रियः ।

माघे महेश्वरं नाम देवदेवस्य पूजयेत् ॥

गोक्षीरं निशि सम्प्राश्य गोमेधफलम् आप्नुयात् ।

फाल्गुने च महादेवं सम्पूज्य प्राशयेत् तिलान् ॥

राजसूयस्य यज्ञस्य प्राप्नोत्य् अविकलं फलम् ।

चैत्रे स्थाणुं समभ्यर्च्य यवान् सम्भाश्य भक्तितः ॥

अश्वमेधस्य यज्ञस्य फलं प्राप्नोत्य् असंशयम् ।

वैशाखे शिवम् अभ्यर्च्य प्राशयेच् च कुशोदकम् ॥

फलमेधात् फलं यज्ञाद् भक्तितः प्राप्नुयान् नरः ।

ज्यैष्ठे पशुपतिं पूज्या गवां शृङ्गोदकं पिबेत् ॥

गोसहस्रप्रदानस्य फलम् आप्नोत्य् अनुत्तमम् ।

आषाढे चोग्रनामानं पूजयेद् भक्तितत्परः ॥

गोमयं प्राशयेद् रत्रौ सौत्रामणिफलं लभेत् ।

श्रावणे सर्वनामानं पूजयित्वा जितेन्द्रियः ॥

प्राशयेद् अर्कपत्राग्रं तस्मिन् सर्वेश्वरं यजेत् ।

बहुस्वर्णस्य यज्ञस्य फलम् आप्नोत्य् असंशयम् ॥

[८१७] मासि भाद्रपदे ऽष्टम्यां त्र्यम्बकं नाम पूजयेत् ।

बिल्वपत्रं निशि प्राश्य ग्रामदानफलं लभेत् ॥

आश्विने भवनामानं पूजयेद् भक्तितत्परः ।

प्राशयेत् तण्डुलजलम् अग्निहोत्रफलं लभेत् ॥

कार्त्तिके रुद्रनामानं सम्पूज्य प्राशयेद् अपः ।

चतुर्णाम् अपि वेदानाम् अध्यापनफलं लभेत् ॥

आपोशानवद् अश्नीयाद् द्रवद्रव्यं सकृद् व्रती ।

अङ्गुष्ठोपकनिष्ठाभ्यां गृहीत्वा पतितोदकम् ॥

इत्य् उक्तैश् च तथैवान्यैः पुष्पाद्यैश् च यथाक्रमात् ।

सम्पूज्य प्रार्थयेद् ईशं मन्त्रेणानेन भक्त्मान् ॥

विश्वात्मन् सुमहादेव व्रते वास्मिन् त्वयोदितम् ।

दन्तधावननैवेद्यं कुसुमप्राशनादिकम् ॥

मोहाद् वा यदि वा लोभान् न कृतं यद् अमन्त्रवत् ।

प्रसादात् तव तच् छम्भोः परिपूर्णं महामुने ॥

मासि मासि यजेद् एवं लिङ्गमूर्तिं महेश्वरम् ।

अथ चार्चाकृतिं रुद्रं सोमं कुम्भोपरिस्थितम् ॥

सोमम् उमासहितम् । रूपनिर्माणं तु विष्णुधर्मोत्तरे ।

वामार्धे पार्वती कार्या शिवः कार्यश् चतुर्भुजः ।

अक्षमालां त्रिशूलं च तस्य दक्षिणहस्तयोः ॥

दर्पणेन्दीवरौ कार्यौ वामयोर् यदुनन्दन ।

एकभक्तो भवेच् छुम्भुर् दाता च दयितातनुः ॥

त्रिनेत्रश् च महादेवः सर्वाभरणभूषितः ।

[८१८] मन्त्रपूर्वं तु विधिवत् पूजयेच् छङ्करं व्रती ॥

कृष्णाष्टमीषु सर्वासु शिवभक्तान् यतीन् सदा ।

भोजयेद् ब्राह्मणान् शक्त्या दद्यात् तेभ्यश् च दक्षिणाम् ॥

व्रतान्ते शङ्करं कृत्वा सौवर्णं प्रतिमाकृतिम् ।

शङ्करम् उमासहिमम् इति शेषः ।

कृष्णाष्टम्यां तथा रात्रौ देवं समधिवासयेत् ॥

गन्धैः पुष्पैः फलैर् धूपैर् नैवेदैर् विविधैः शुभैः ।

पूजा स्तुतिकथाभिस् तु कारयेच् च महोत्सवम् ॥

निवेदयेत् तथेशाय शय्यां सोपस्करान्विताम् ।

वितानं व्यजनं घत्रं घण्टाभारत्रिकादिकम् ॥

ततः प्रभातसमये स्नात्वा चाभ्यर्च्य शूलिनम् ।

कृत्वाभिकार्यौ विप्राय शिवायै तत् समर्पयेत् ॥

वस्त्रालङ्कारसंयुक्तां गां च कृष्णतिलैर् युताम् ।

प्रीयतां मे शिवो नित्यम् इत्य् उक्त्वा विधिवत् ततः ॥

ततस् तु भोजयेद् विप्रान् शिवभाक्ताम् स्वभक्तितः ।

पायसेनाज्ययुक्तेन दद्यात् तेषां च दक्षिणाम् ॥

शक्त्या हिरण्यवासांसि शिवध्यानैकमानसः ।

शिखाप्य शिवशस्त्राणि दद्याच् च शिवतुष्टये ॥

सजलाः कृष्णकलशास् तिलैर् भक्ष्यैः समन्विताः ।

द्वादशान्नं प्रदातव्यं छत्रोपानद्युगान्वितम् ॥

वाचकाय प्रदातव्या गैः कृष्णा तु पयस्विणी ।

सोपस्करा तु रुध्रो मे प्रीयताम् इति कीर्तयेत् ॥

[८१९] रुद्राय कृष्णकलशान् लड्डुकांश् च वितानकम् ।

ध्वजं किङ्किणिसंयुक्तं कृष्णम् एवात्र कल्पयेत् ॥

एवं यः कुरुते पार्थ व्रतम् एतद् अनुत्तमम् ।

सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥

इन्द्राद्यैस् त्रिदशैश् चीर्णं व्रतम् एतन् महाफलम् ।

देवत्वम् आपुः सर्वे ते व्रतस्यास्य प्रभावतः ॥

गुणत्वम् आयुश् च गणाधिराजताम् । गुणग्रहत्वं च तथागुणग्रहः ।

बहुनात्र किम् उक्तेन तोषम् आयाति शङ्करः ।

कृष्णाष्टमीव्रतेनह भक्त्याचीर्णेन पाण्दव ॥

न तथा तपसा दत्तैर् व्रतैस् तीर्थाभिषेचनैः ।

इत्य् एतत् ते समाख्यातं पार्थ कृष्णाष्टमीव्रतम् ॥

यच् छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥

कृष्णाष्टमी व्रतम् इदं शिवभावितात्मा

सम्प्राशनैर् उदितनामयुतैर् उपोष्य

कृष्णान् ददाति कलशान् नृप गां च कृष्णां

यो ऽसौ प्रयाति पदम् उत्तमम् इन्दुमौलेः ॥

इति भविषोत्तरोक्तं कृष्णाष्टमीव्रतम् ।

पुलस्त्य उवाच ।

शृणु दाल्भ परं काम्यं व्रतं सन्ततिदं नृणाम् ।

यस्मिन् चीर्णे न विच्छेदः पितृपिण्डस्य जायते ॥

[८२०] कृष्णाष्टम्यां चैत्रमासे स्नातो नियतमानसः ।

कृष्णम् अभ्यर्च्य पूजां च देवक्यां कुरुते तु यः ॥

निराहारो जपन् नाम कृष्णस्य जगतः पतेः ।

उपविष्टो जपन् स्नातः क्षुतप्रस्खलितादिषु ॥

पूजायां चापि कृष्णस्य सप्तवारान् प्रकीर्तयेत् ।

पाषण्डिनो विकर्मस्थान् नालपेन् नैव नास्तिकान् ॥

प्रभाते वाम्बुना स्नातो दद्याद् विप्राय दक्षिणाम् ।

भुञ्जीत कृतपूजश् च कृष्णस्यैव जगत्पतेः ॥

वैशाखज्यैष्ठ्योश् चैव पारणं हि त्रिमासिकम् ।

उपोष्य देवदेवेशं घृतेन स्नापयेत् हरिम् ॥

आषाढे श्रावणे चैव मासि भाद्रपदे तथा ।

तथैवाश्वयुजे मासि कृत्वा मासत्रयं तथा ॥

उपोष्य पूजयेद् देवं हविषा पारणे गते ।

पौषमाघे फाल्गुने च नरस् तद्वद् उपोषितः ॥

चतुर्थे पारणे पूर्णे घृतेन स्नापयेद् धरिम् ।

एवं कृतोपवासस्य पुरुषस्य तथा स्त्रियः ॥

न सन्ततेः परिच्छेदः कदाचिद् अपि जायते ।

कृष्णाष्टमीम् इमां यस् तु नरो योषिद् अथापि वा ॥

उपोष्यति च साह्लादं त्रिलोक्यां प्राप्य निर्वृतम् ।

पुत्रपौत्रसमृद्धिं च मृतः स्वर्गे (?) महीयते ॥

**[८२१] **इत्य् एतत् कथितं दाल्भ मया कृष्णाष्टमीव्रतम् ॥

इति विष्णुधर्मोत्तरोक्तं कृष्णाष्टमीव्रतम् ।

विष्णुर् उवाच ।

कन्यागते सवितरि कृष्णपक्षे ऽष्टमी तु या ।

सा च पापहरा पुण्या शिवस्यानन्दवर्धिनी ॥

स्नानं दानं जपो होमः पितृदेवाभिपूजनम् ।

सर्वप्रीतिकरं स्याद् धि व्रतं तस्यां त्रिलोचने ॥

विशेषतः कृतं श्राद्धं होमं (?) च विखिवन् मुने ।

तस्मात् श्राद्धं प्रयत्नेन तस्यां कुर्यात् प्रयत्नतः ॥

एकभक्तं तु पञ्चम्यां षष्ठ्यां नक्तं विदुर् बुधाः ।

उपवासं तु सप्तम्याम् अष्टम्यां पूजयेच् छिवम् ॥

पूजयित्वा शिवं भक्त्या पितुः श्राद्धं तु कल्पयेत् ।

कृत्वा तु विधिवच् छ्राद्धं भुञ्जीत पितृसेवितम् ॥

यस् तस्यां कुरुते श्राद्धं पूजयित्वा त्रिलोचनम् ।

तस्य वर्षाणि तृप्ता स्थः पितरो दश पञ्च च ॥

एवं व्रतम् इदं कृत्वा स्वम् एकं चैवम् आदरात् ।

स्वम् एकं संवत्सरम् ।

नामभिः पूजयेद् देवं त्रिपुरान्तकरं परम् ॥

मासि भाद्रपदे शम्भुं शङ्करं तु तथा परे ।

शिवं तु कार्त्तिके मासि सर्वं मार्गशिरे तथा ॥

पौषे मासि तथैशनम् उग्रं माधे प्रकीर्तितम् ।

फाल्गुने तु इनामानं चैत्रे रुद्रं प्रकीर्तयेत् ॥

वैशाखे नीलकण्ठं तु ज्यैष्ठे नाम भवं परम् ।

[८२२] महादेवं तथाषाढे श्रावणे त्र्यम्बकं द्विज ॥

एतानि मासनामानि प्राशनानि निबोध मे ।

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥

गोरोचनां पञ्चगव्यं मन्दरोन्मृत्तिकां तथा ।

तिलान्नं च तथा क्षीरं प्राशयेत् कायशुद्धये ॥

वह्निपुष्पाणि ते वीर देवदेवस्य प्रीतये ।

करवीरं तथा जातिं पिप्पलातिकदम्बकम् ॥

उन्मत्तकं तथा बिल्वं शमीपत्रं कदम्बकम् ।

मालतीकुसुमं विप्र तथा मुद्गरकस्य च ॥

कुशपुष्पं तथा पुण्यम् अगस्तिकुसुमं तथा ।

सिह्लकं विजयं धूपं महिषाष्यं च गुग्गुलम् ॥

य एवं पूजयेद् देवं शङ्करं त्रिपुरान्तकम् ।

स्वम् एकम् एकं विप्रेन्द्र स याति परमं पदम् ॥

ब्राह्मणान् पूजयेद् यस् तु वाचकं च विशेषतः ।

महादेवस्य वै भक्तान् भक्त्या पाशुपतान् द्विजान् ॥

एवं यः कुरुते श्राद्धम् अष्टम्याम् अष्टकासु च ।

पूजयित्वा सुरेशानं शिवविप्रैर् मनीषिभिः ॥

तृप्यन्ति पितरस् तस्य वर्षाणि दशपञ्चकम् ।

दिव्यानि मुनिशार्दूल सप्त सप्त च सप्त च ॥

य एवं पालयेद् भक्त्या कृष्णाष्टम्यां व्रतं परम् ।

यं यं कामम् अभीप्सेत तं तं प्राप्नोति मानवः ॥

[८२३] पुत्रकामो लभेत् पुत्रं धनकामो धनानि च ।

विद्यार्थी लभते विद्यां कन्यार्थी कन्यकां पराम् ॥

इति भविष्यत्पुराणोक्तं शिवकृष्णाष्टमीव्रतम् ।

अथ कृष्णाष्टमीव्रतम् ।

देव्य् उवाच ।

कृष्णाष्टम्यां विधानं वै निखिलं क्रियते तथा ।

क्रमेण मे तथा ब्रूहि तत् कर्तव्यं सुरेश्वर ॥

ईश्वर उवाच ।

हेमन्ते त्व् अथ सम्प्राप्ते मासि मार्गशिरे तथा ।

नक्तं कृत्वा शुचिर् भूत्वा गोमूत्रं प्राशयेन् निशि ॥

नक्तं कृत्वा नक्तकल्पः ।

आहरेद् वाशनं यत्र यथान्नं च तथाशयेत् ।

तेन नक्तं समुद्दिष्टं प्राशितेनाशितेन च ॥ इति ।

तेन नक्तं समुद्दिष्टं प्राशितेन चेति । क्वचित् प्राशितेन क्वचिद् अप्राशितेनेत्य् अर्थः ।

कृष्णाष्टम्यं विधानं वै शङ्करं पूज्य भक्तितः ।

अतिरात्रस्य यज्ञस्य फलम् अष्टगुणं भवेत् ॥

स्मरेच् च शङ्करं नाम सायं रात्रौ दिवा यथा ।

पौषे गव्यं घृतं प्राश्य नक्तं कृत्वा तु मानवः ॥

भक्त्या तु पूजयेच् छम्भुं भावितस्तुतितत्परः ।

वाजपेयाष्टकं पुण्यं लभते नात्र संशयः ॥

माघे माहेश्वरं नाम क्षीरप्राशनम् आदिशेत् ।

[८२४] अनाहारः स्वपेद् रात्रौ शङ्करं पूज्य भक्तितः ॥

नाम जप्त्वा महेशस्य गोमेधाष्टकम् आप्नुयात् ।

फाल्गुने तु महादेवं कृष्णायां परिकीर्तयेत् ॥

तिलान् प्राश्य अनाहारो निशि जप्त्वा समाहितः ।

जपन् नामाथ देवस्य संस्मरन् शङ्करं तथा ॥

राजसूयस्य यज्ञस्य फलम् अष्टगुणं भवेत् ।

जपन् नामानि पूर्वत्र महादेवेति कथ्यते ॥

चैत्रे स्थाणुं समभ्यर्च्य पूजयन् भक्षयन् मधु ।

रात्रौ सम्प्राश्य विधिवद् अनाहारः स्वपेन् निशि ॥

स्थाणुं जया महामन्त्रम् अश्वमेधाष्टकं भवेत् ।

कुशोदकं वै वैशाखे शिवं देवं प्रपूजयेत् ॥

मन्त्रं तत्र शिवं जप्त्वा नरमेधफलं लभेत् ।

ज्यैष्ठे पशुपतिं नाम गवां शृङ्गोदकं पिबेत् ॥

जप्त्वा पशुपतिं विप्र गवां कोटिफलं लभेत् ।

कृष्णाष्टम्याम् अथाषाढे उग्रं नाम प्रकीर्तयेत् ॥

प्राशयेद् गोमयं तत्र सौत्रामणिफलं लभेत् ।

उग्रं जपति यो मन्त्रं सर्वसिद्धिप्रदायकम् ॥

नक्तं तु प्राशयेद् अर्घ्यं स्मरन् मन्त्रं सुभावितः ।

सर्वेति श्रावणे प्रोक्तः सर्वकामक्षयं फलम् ॥

त्र्यम्बकं तु जपेद् अर्कं स्मरन् मन्त्रं सुभावितः ।

वर्षकोटिशतं साग्रं रुद्रलोके महीयते ॥

अम्बकं च जपेद् यो वै मासि भाद्रे तथाष्टमीम् ।

[८२५] प्राशयेद् बिल्वपत्रं तु श्रुतिदीक्षाफलं लभेत् ॥

अम्बकं संस्मरेत् तत्र एकचित्तः (?) सुभावितः ।

मासि चाश्वयुजे वीर प्राशनं तण्डुलोदकम् ॥

नाम्ना ईशं स्मरेद् एवं पुण्डरीकाष्टकं लभेत् ।

रुद्रं तु कार्त्तिके मासि दधि प्राश्य सुभावितः ॥

रात्रौ संस्मरते रुद्रं सर्वपापप्रणाशनम् ।

अग्निष्टोमस्य यज्ञस्य फलाष्टकम् अवाप्नुयात् ॥

मन्त्रहीनं क्रियाहीनं भक्तिहीनं न सिध्यति ।

मन्त्रेण हि विना देवि यत्नेनापि वृथा भवेत् ॥

तत् सर्वं च प्रयत्नेन मन्त्रम् एतम् उदीरयेत् ।

समाप्ते तु व्रते देवि वर्षान्ते तु महाफलम् ।

यस्यैव तु प्रसादेन पदं याति निरामयम् ॥

यस्य मन्त्रस्येति शेषः ।

हेमन्ते शिशिरे चैव तथा शरदि शोभने ।

व्रतं निवेदयेत् शम्भौ त्वत्प्रसादात् सुरेश्वर ॥

सम्पूर्णं हि व्रतं देव कृतं परमपूजितम् ।

एवं निवेद्य देवेश सान्निध्यो भव शङ्कर ॥

त्वत्प्रसादात् सुरेशान यथाशक्ति जपाम्य् अहम् ।

कन्दमूलफलैर् वापि वर्षान्ते तर्पणं स्मृतम् ॥

ब्राह्मणांश् च यथा शक्त्या शिवभक्तान् दृढव्रतान् ।

अर्चयेत् परया भक्त्या क्रियतां मे अनुग्रहः ॥

व्रतस्य तर्पणं पुण्यं करिष्ये शिवचोदितम् ।

[९२६] तर्पणं पूरणम् ।

इति सम्पूजयेत् पश्चाद् भक्ष्यभोज्यैर् अनेकशः ॥

दातव्या चार्जुनी कृष्णा सुरूपा तु पयस्विनी ।

हेमशृङ्गी रौप्यखुरा घण्टाभरणभूषिता ॥

वस्त्रयुग्मपरीधाना पुष्पमाल्यान्विता शुभा ।

गुरवे गौः प्रदातव्या श्रेयो ऽर्थं सुरसुन्दरि ॥

आचार्यं तु शिवं विन्द्याच् छिवम् आचार्यरूपिणम् ।

उभयोर् अन्तरं नास्ति आचार्यस्य शिवस्य च ॥

एतस्मात् कारणाद् देवि गुरुं पूज्य तदा नृणाम् ।

यः समुद्धरते नित्यं घोरात् संसारसागरात् ॥

न तेन सदृशो माता न पिता न च बान्धवाः ।

यद् गुरौ दीयते दानं तद् गृह्णाति सदा शिवः ॥

तस्मात् सर्वप्रयत्नेन पूजनीयो गुरुः सदा ।

इत्य् एतत् कथितं सर्वं कृष्णाष्टम्यां विधिः परः ॥

अनेन विधिना यस् तु कुरुते वत्सरं नरः ।

सर्वकामसुसम्पन्नः प्रयाति परमं पदम् ॥

इति देवीपुराणोक्तं कृष्णाष्टमीव्रतम् ।

अथ लक्षणार्द्राव्रतम् ।

स्कन्द उवाच ।

श्रुतानि देव देवेश (?) व्रतानि भवतो मया ।

[८२७] रूपसौभाग्यदानीह स्वर्गमोक्षप्रदानि च ॥

येन धर्मार्थकामांश् च रूपं च गुणवद् विभो ।

स्वल्पवित्तप्रदानेन जायते तद्व्रतम् वद ॥

ईश्वर उवाच ।

अस्ति वत्स व्रतं चैकं तिथिनक्षत्रयोगतः ।

नभस्ये मसि राजेन्द्र यद् आर्द्रा जायते तदा ॥

व्रतम् एतद् विधातव्यम् उमामाहेश्वरं भुवि ।

आरोग्यैश्वर्यसौभाग्यरूपसम्पत्प्रदायकम् ॥

कारयित्वा यथाशक्ति सौवर्णं मिथुनं तयोः ।

गौरीगिरिशयो भक्त्या नक्तं सङ्कल्प्य पूजयेत् ॥

उमामाहेशरूपं तु प्रथमकृष्णाष्टम्याम् अभिहितं वेदितव्यम् ।

पयोदधिघृतक्षौद्रशर्करावारिभिः क्रमात् ।

संस्नाप्य चार्चयेद् गन्धैः पूजयेत् कुसुमोत्करैः ॥

रक्तैर् वाप्य् अथ वा पीतैः श्वेतैर् वा रक्तमिश्रितैः ।

संवेष्ट्य वस्त्रयुगमेन मन्त्रैर् एभिः प्रपूजयेत् ॥

शङ्कराय नमस् तुभ्यं विमलाय शिवाय च ।

स्वयम्भुवे ह्य् अनन्ताय भवाय भाविने नमः ॥

सर्वाय विश्वरूपाय सर्वज्ञाय नमो नमः ।

ईशानाय सम्भवे ऽथ विरूपाक्षाय शम्भवे ॥

वसुधाय महादेवि विख्याते ललिते शिवे ।

शान्ते रौद्रे महावक्त्रे दुर्गे गौरी नमो ऽस्तु ते ॥

सुपद्मपद्मपत्राक्षि (?) सुमुखे विश्वतो मुखी ।

ईश्वरीन्द्राणि रुद्राणि रम्भे देवि नमो नमः ॥

[८२८] शर्वाय विश्वरूपाय सर्वज्ञाय नमो नमः ।

पत्रं पुष्पं पयः पत्रं फलं चन्दनपङ्कजैः ॥

पूर्णं कृत्वाम्बिकेशाभ्यां मन्त्रम् एतम् उदीरयेत् ।

नमो गौर्यै स्कन्दमात्रे विष्णुमूर्त्यै नमो नमः ॥

नमो भूताधिपतये रूपाधिपतये नमः ॥

गृहाणार्घ्यं विरूपाक्ष रूपार्थे (?) ऽभ्यर्थितो मया ।

स भार्यया महादेव देवदेव नमो ऽस्तु ते ॥

अर्घ्यं दत्वा ततो धूपं दद्याद् अगुरुमिश्रितम् ।

दीपं नैवेद्यताम्बूलफलानि विविधानि च ॥

ततो द्वात्रिंशताधूपैः सूर्यस्य रचितैर् दृढम् ।

तत्सङ्ख्याकैश् च गोधूमैर् व्रीहिपिष्टमयैः शुभैः ॥

पूर्णं तल्लक्षणैः कृत्वा सन्दीपं सूत्रवेष्टितम् ।

रसपञ्चकयुक्तेन शुष्कान्नेन समन्वितम् ॥

गोधूमैर् गोधूमपिष्टमयैर् लक्षणैर् मत्स्यादिमुद्राङ्कितैर् भक्ष्यैः । रसा दधिदुग्धघृतमधुशर्कराः, शुष्कान्नं मोदकम् ।

उमामहेशयोर् नान्दियुतेत्य् उद्दिश्य चार्पयेत् ।

विप्राय दक्षिणां पूर्वं सौवर्णं मिथुनं च तत् ॥

भक्ताय याचमानाय सुविद्याय कुटुम्बिने ।

आत्मज्ञानैकनिष्ठाय वेदवेदाङ्गवेदिने ॥

कुलशीलसदाचारलक्षणैर् लक्षिताय च ।

नास्तिकाय न दातव्यं नाव्रते नाजितेन्द्रिये ॥

दत्वा चेश्वरभक्ताय प्रणिपत्य विसर्जयेत् ।

लक्षणाण्य् एव तावन्ति भुक्त्वाचान्नं सुहृद्गणे ॥

[८२९] सार्ध्नक्तं ततः सोमं शिवं ध्यायन् सुरेश्वरीम् ।

तावन्ति द्वात्रिंशत् ।

नभस्ये बहुलाष्टम्याम् एवं यः कुरुते व्रतम् ।

लक्षणार्थेति विख्यातम् इदं तस्य फलं शृणु ॥

सर्वपापविशुद्धात्मा सर्वैश्वर्यसमन्वितः ।

भुक्त्वा भोग्यान् महेशेन ततः कालविपर्यये ॥

राजा भवति धर्मात्मा बलवीर्यसमन्वितः ।

रूपसौभाग्यलावण्यधनायुःकीर्तिमान् भवेत् ॥

प्राप्य कालक्षयं तस्माद् उमारुद्रप्रसादतः ।

चतुर्युगसहस्रान्तं स्वर्गलोके महीयते ॥

मास्य् आर्द्रर्क्षयुताष्तमी भवति या कृष्णा नभस्ये तदा ।

सौवर्णं मिथुनं शिवागिरिशयो रूपं तयोर् लक्षणैः ॥

पूर्णं पिष्ठमयैर् ददाति गुरवे सार्धं रसैर् भोजनम् ।

भुक्त्वा योगयुतोत्सवं सभुवनं सम्भोर् व्रजेच् छाश्वतम् ॥

मत्स्यपुराणोक्तं लक्षणार्द्राव्रतम् ।

अथ सोमव्रतम् ।

अनिलाद उवाच ।

अथान्यत् सम्प्रवक्ष्यामि व्रतं श्रेयस्करं परम् ।

तस्योदाहरणं पुण्यं विधिवत् प्रनिबोधत ॥

वारे सोमस्य वाष्टम्यां पक्षोभौ सोमम् अर्चयेत् ।

[८३०] विधिना चन्द्रचूडाङ्के प्राज्यान्नेन सचन्द्रकम् ॥

पक्षोभौ अत्रोभयत्र पक्षे नियमो ऽष्टमीसोमवारयोः संयोगमात्रं विवक्षितम्, प्राज्यान्नम् आज्यबहुलम् अन्नम् । दक्षिणार्धं हरं ध्यायेद् वामोर्ध्वं तु हरिं विभुम् । सोमसचन्द्रकवामार्धहरिम् इति विशेषणत्रयेण चन्द्रहरिरूपत्वं वामार्धस्योक्तम् ।

घृताद्यैर् ऐक्षवान्तैश् च लिङ्गम् स्नाप्य तु पूर्ववत् ।

घृताद्यैः पञ्चामृतसञ्ज्ञकैः ।

चन्दनेनेन्दुयुक्तेन दक्षिणार्धं विलेपयेत् ।

कुङ्कुमागुरुणा वामं घनम् अर्घ्यं तथैव च ॥

इन्दुयुक्तेन कर्पूरयुक्तेन, घनम् उशीरम् ।

काञ्चनेन सचन्द्रेण हरभागं तथार्चयेत् ।

समौक्तिकेन नीलेन हरेर् भागं विशेषतः ॥

चन्द्रेण होरकयुक्तेन ।

पश्चात् पुष्पैः शुभैर् वेष्ट्य कारयेत् पुष्पमण्डपम् ।

नीराजनं पुनः कुर्यात् पञ्चविंशतिपञ्चकैः ॥

उभाभ्यां चित्तदत्तेन प्रणमेच् च मुहुर् मुहुः ।

उभाभ्यां देवीदेवाभ्यां चित्तवृत्तेन हरिहरध्यायिना विधिना नीराजनस्य ।

आज्यसिद्धैः शुभैर् भक्ष्यैर् नैवेद्यं च निवेदयेत् ।

व्रतिनो ब्राह्मणांश् चैव पूजयित्वा विभावसुम् ॥

विभावसुर् अग्निः ।

[८३१]

मिथुनानि च सम्भोज्य यथाशक्त्या च दक्षयेत् ।

अष्टम्यां पितराव् अर्च्य विधिनानेन सुव्रत ॥

पितरौ ताव् एव देवीदेवौ ।

वत्सरं तु तदन्ते तु कर्तव्यं यन् निबोधत ।

प्रागुक्तविधिना पूज्य सितं पीतं युगद्वयम् ॥

दद्याद् वितानके चैव पताकाघण्टिके तथा ।

धूपसञ्चारेण वापि दीपवृक्षौ सुशोभिनौ (?) ॥

धूपसञ्चारणा धूपदहनया यौ दीपवृक्षौ वृक्षाकारौ दीपाधारौ ।

एवमादि नियोज्यैव पूर्ववद् भोजम् आचरेत् ।

अब्दपञ्चकम् एवं हि यः करिष्यत्य् असंशयम् ॥

उभाभ्यां लोकम् आसाद्य पदं यास्यत्य् अनामयम् ।

असंशयस्था जीवन्ति नियमेन समाचरेत् ॥

इहैव सरितः साक्षान् नररूपीति लक्षयेत् ।

न स्पृशेत् पापदं चान्नं न च दुःखी भवेत् खलु ॥

ज्वरग्रहादिभिर् नैव पीड्यते ऽसौ कदाचन ॥

तत्र व्रते नाममन्त्रैः पूजाहोमौ ।

इति कालिकापुराणोक्तं सोमव्रतम् ।

अथ शङ्करार्कव्रतम् ।

अनिलाद उवाच ।

अथ चानेन मार्गेण शुभां ताम् एव चाष्टमीम् ।

[८३२] सम्प्राप्यादित्ययोगेन प्राग्विधानेन वा नरः ॥

किं तु दक्षिणनेत्रस्थं भास्करं चार्चयेद् बुधः ।

पद्मरागेन हैमेन योज्येदं लेपनं शृणु ॥

नेत्रे न्यस्य ललाटाधः कुङ्कुमं रक्तचन्दनम् ।

वृत्तं तु योज्य मध्ये तु हरं पूर्ववद् अर्चयेत् ॥

अर्धचन्द्राकारं तन्मध्ये वृत्तं च लेपनं कृत्वा हेमनिबद्धं पद्मरागं वृत्तमध्ये निधाय सूर्यरूपनेत्रं (?) कुर्याद् इत्य् अर्थः ।

अभावे पद्मरागादेर् हेमं सर्वत्र योजयेत् ।

रुद्रबीजं परं पूतं यतस् तच् चैव सर्वदा ॥

शुक्लं माल्यां वरं वल्कं नैवेद्यं च घृतप्लुतम् ।

शेषः पूर्वविधानेन कर्तव्यो विधिविस्तरः ॥

किं त्व् अत्रोष्य प्रकुर्वीत सप्तम्यां विजितेन्द्रियः ।

शङ्करार्कयुतः पूज्य घृतं गव्यं च पारयेत् ॥

उष्य उपोष्य ।

एतत् प्राग्विधिना कार्यं पञ्चवृक्षायणौ विधौ ।

कुर्वन् सूर्यादिलोकेषु भुक्त्वा भोगान् व्रजेत् परम् ॥

एतत् तीर्त्वा प्रतापी स्याड् अदीनः स्वजनप्रियः ।

अस्मिन् लोके च धनवान् लोकवांश् च भवेत् पुनः ॥

इति कालिकापुराणोक्तं शङ्करार्कव्रतम् ।

[८३३]

अथ सोमाष्टमीव्रतम् ।

नन्द्य् उवाच ।

अथान्यत् सम्प्रवक्ष्यामि व्रतं श्रेयस्करं परम् ।

शिवलोकव्रतं पूज्यं सर्वसम्पत्करं नृणाम् ॥

वाएए सोमस्य चाष्टम्यां पक्षयोर् उभयोर् अपि ।

विधिवच् चन्द्रचूडाभं सोमं सम्पूजयेन् निशि ॥

सोमम् उमासहितम् । रूपं तु कृष्णाष्टम्याम् एव व्याख्यातम् ।

तिलसर्षपकल्केन स्नातो ऽमलजलाशये ।

गृहे वायतने वापि शिवैकाहितमानसः ॥

ब्रह्मकूर्चेन देवेशं प्राशयित्वा ततो व्रती ।

ब्रह्मकूर्चं पञ्चगव्यम् ।

वामादिनाममन्त्रैश् च देवं देवीं तथार्चयेत् ॥

चन्दनेनेन्दुयुक्तेन दक्षिणार्धं विलेपयेत् ।

इन्दुः कर्पूरम् ।

वामार्धं कुङ्कुमेनाथे सतुरुष्केण मन्त्रवत् ॥

तुरुष्कः सिह्लकम् ।

देव्या मूर्ध्नि न्यसेन् नीलं शिवस्योपरि मौक्तिकम् ।

पश्चात् पुष्पैः समभ्यर्च्य मितरक्तैस् त्व् अनुत्तमैः ॥

नीराजनं पुनः कुर्यात् पञ्चविंशतिदीपकैः ।

[८३४] घृतसिद्धान् शुभान् शुक्लान् फलानि च निवेदयेत् ॥

सम्पूज्यैवं शिवं सोमं स्तुत्वा पश्चात् समापयेत् ।

दीक्षितस्यैवम् अन्यो ऽपि नाममन्त्रेण भक्तिमान् ॥

ततो विधिवद् अव्यग्रो ब्रह्मकूर्चशृतांस् तिलान् ।

सद्योजातेन जुहुयात् समृद्धे ऽग्नौ सुभावितः ॥

सम्प्राप्य ह्य् अष्टमे वायं (?) प्रभाते नैव तत्क्षणः ।

तत् ब्रहकूर्चम् ।

सम्भोजयेत् सपत्नीकान् ब्राह्मणान् संशितव्रतान् ॥

सुवर्णं च तथा शक्त्या रौप्यं दत्वा विसर्जयेत् ।

प्रीयतां मे शिवो नित्यम् उमा देवी च सर्वदा ॥

एवम् आराध्य गौरीशं दशकृत्वो मुने शिवम् ।

व्रतस्यान्ते प्रकर्तव्यं यत् तत् सर्वं शृणुष्व तत् ॥

ऋत्वा महोत्सवं प्राप्य पूजयेत् परमेश्वरम् ।

पुष्पैः शुक्लैस् तथा धूपैर् नैवेद्यैश् च फलैः शुभैः ॥

वितानं वामलं छत्रं घण्टाम् वाप्य् उपयोगवत् ।

पूजाप्रकरणं शम्भोर् यथाशक्ति समर्चयेत् ॥

ततो वस्त्रैर् अलङ्कारैः स्वर्णरौप्यमयैर् गुरुम् ।

सभार्यम् अर्चयेद् भक्त्या शिवभक्तं च मानयेत् ।

रौप्यखुरीं स्वर्णशृङ्गीं सचेलां कांशदोहनाम् ॥

दद्याद् धेनुं सवत्सां च वृषभं च सुलक्षणम् ।

पूजयेच् च व्रती साघून् भोजनाच्छादनाशनैः ॥

[८३५] यज्ञशिष्टाशनं पश्चाद् भुञ्जीयात् प्रयतो गृही ।

य एवं कुरुते भक्त्या पार्थ सोमाष्टमीव्रतम् ॥

सर्वपापविनिर्मुक्तः शिवलोकम् अवाप्नुयात् ।

कुरुक्षेत्रादिदानेन यत् फलं लभते नरः ।

तत् फलं लभते विद्यान् पूज्येमां विधिवन् नरः ॥

इति स्कन्दपुराणोक्तं सोमाष्टमीव्रतम् ।

अथ अर्काष्टमीव्रतम् ।

कृष्ण उवाच ।

अथान्यद् अपि ते वच्मि व्रतं कामफलप्रदम् ।

सर्वपुण्यप्रदं लोके महापातकनाशनम् ॥

यदाष्टम्यां शुक्लपक्षे रविवारो ऽभिजायते ।

उपोष्या सा प्रयत्नेन तेनैव विधिना नृप ॥

अर्चयेद् देवदेवेशं सह देव्या महेश्वरम् ।

विशेष एव एवात्र (?) शिवस्य नयने स्थितम् ॥

भानुं सम्पूजयेद् भक्त्या गन्धपुष्पाक्षतैः शुभैः ।

शिवं च सितपुष्पैस् तु रक्तपुष्पैस् तथाम्बिकाम् ॥

रत्नै रक्तसितैर् दिव्यैर् भक्तिमान् अर्चयेद् विभुम् ।

कुङ्कुमेनालभेद् देवीं चन्दनेन महेश्वरम् ॥

[८३६] अभावे सर्वरत्नानां काञ्चनं तत्र दापयेत् ।

रुद्रबीजं जपन् सूक्तं प्रियं रुद्रस्य सर्वदा ॥

सितरक्तं वस्त्रयुग्मं नैवेद्यं घृतपाचितम् ।

शेषः पूर्वविधानेन कर्तव्यो विधिविस्तरः ॥

किं त्व् अत्रोपोष्य कर्तव्यं गोजलं प्राश्य पारणम् ।

गोजलं गोमूत्रम्, पूर्वविधानेनेति एतस्य व्रतस्य भविषोत्तरोक्तविधानेनेत्य् अर्थः ।

हविषान्नेन सहितो बान्धवै रथिभिस् तथा ।

एतत् प्राग्विधिना यस् तु कुर्यात् सूर्याष्टमीव्रतम् ॥

सर्वपापविनिर्मुक्तः सूर्यलोके महीयते ।

पूर्वविधानेनेति एतस्य व्रतस्य भविष्योत्तरोक्तविधानेन्न । अत्र यद्य् अपि भविष्योत्तरोक्तसोमाष्टमीविधिर् नैरन्तर्याद् अग्राह्यस् तथापि सत्साधर्म्याल् लिखितः । स्कन्दपुरानोक्तसोम्ष्टमीव्रतस्य विधिग्रहणे विशेषाभावान् न कश्चिद् रोष इति ।

हविषा म्लेनसहितो बान्धविअर् अर्थिभिस् तथा ॥

एतत् प्राग्विधिना यस् तु कुर्यात् सूर्याष्टमीव्रतम् ।

सर्वपापविनिर्मुक्तः सूर्यलोके महीयते ॥

इह वाभ्येत्य स स्याद् वै पार्थिवः पृथिवीपतिः ।

आरोग्यसर्वसौख्यैकभाजनो भानुभावितः ॥

प्रतापी भानुवद् भाति दीनानुग्रहकृद् भवेत् ।

यद्य् अष्टमी भवति सोमयुता कदाचिद्

अर्केण वा कुरुकुलोद्वह ताम् उपोष्य ।

[८३७] पूज्यो मया सह हरं हरिनाङ्कचूडं

भक्त्या पुमान् परम् उपैति पदं मुरारेः ॥

इति श्रीभविष्योत्तरोक्तम् अर्काष्टमीव्रतम् ।

अथ पुष्पाष्टमीव्रतम् ।

महादेव उवाच ।

शृणु देवि महापुण्यं मासपूजाफलं शुभम् ।

श्रावणे शुक्लपक्षस्य सप्तम्यां य उपोषितः ॥

स्नापयेद् घृतक्षीराभ्यां करवीरैश् च पूजयेत् ।

कृत्वाग्निकार्यं विधिवद् अथो ब्राह्मणभोजनम् ॥

कन्याकर्णितसूत्रेण कारयित्वा पवित्रकम् ।

कृत्वा विचित्रगन्धैश् च कुङ्कुमागुरुचन्दनैः ॥

कृतोपवासं सप्तम्याम् अष्टम्यां विप्रभोजनम् ।

आरोपयति यो भक्त्या सो ऽग्निष्टोमफलं लभेत् ॥

पुनर् भवति वै राजा भूतले नात्र संशयः ।

मासि भाद्रपदे ऽष्टम्यां शुक्लपक्षे वरानने ॥

स्नापयित्वा तु मां भक्त्या पयसा वा घृतेन वा ।

अपामार्गेण पूजां तु कृत्वा देवि विधानतः ॥

हंसयानसमारूढो मम लोकं व्रजेद् इति ।

[८३८] मासि चाश्वयुजे ऽष्टम्यां सर्वपुष्पैश् च पूजयेत् ॥

गैरिकं यानम् आरूढो ध्वजमालाकुलं शुभम् ।

गैरिकं सौवर्णम् ।

युक्तो मयूखप्रवरैर् मम याति स मन्दिरम् ॥

कार्त्तिकस्य तु मासस्य शुक्लाष्टम्यां तु यो नरः ।

स्नापयेन् मधुक्षीराभ्यां जातीपुष्पैस् तु पूजयेत् ॥

काञ्चनं यानम् आरुह्य किङ्कणीजालमालिनम् ।

स याति परमं देवि गन्धर्वाप्सरसां प्रियः ॥

मार्गशीर्षे च वै मासि पञ्चगव्येन यो नरः ।

स्नापयित्वा च तं भक्त्या रक्तपुष्पैस् तु पूजयेत् ॥

स्नापयेद् दधिक्षीरेण कुङ्कुमेन विलेपयेत् ।

कृत्वोपवासं सप्तम्याम् अष्टम्यां विधिवन् नरः ॥

स त्रैलोक्यम् अतिक्रम्य यत्राहं तत्र गच्छति ।

पौषे मासि तु यो ऽष्टम्यां भक्त्या मां पूजयेन् नरः ॥

उन्मत्तकस्य पुष्पैस् तु स्नापयित्वा घृतेन तु ।

स यानं दिव्यम् आरूढः पुष्पकं नाम नामतः ॥

ममालयं समासाद्य मोदते शाश्वतीः समाः (?) ।

माघमासे तथाष्टम्यां बिल्वपत्रेण यो ऽर्चयेत् ॥

स्नापयित्वा तु मां भक्त्या दिव्य-इक्षुरसेन वा ।

प्रतप्तार्कसमं यानं कान्त्यात्रेयसमस् तथा ॥

आरूढो मोदते नित्यं मम लोके न संशयः ।

[८३९] फाल्गुनस्य तु मासस्य गन्धतोयेन यो नरः ॥

अर्चयेद् द्रोणपुष्पैस् तु इन्द्रस्यावासनं लभेत् ।

चैत्रे मासि तथा देवि पुष्पतोयेन यो नरः ॥

स्नापयित्वार्चयेद् भक्त्या अर्कपुष्पैस् तु सुन्दरि ।

बहुस्वर्णस्य यज्ञस्य विन्दते स फलं महत् ॥

वैशाखे तु यथा मासि अष्टम्यां यस् तु मानवः ।

कर्पूरागुरुतोयेन स्नापयित्वा विधानतः ॥

अर्चयेच् छुभगन्धेन सो ऽश्वमेधफलं लभेत् ।

ज्यैष्ठे मासि तथाष्टम्यां दध्ना यः स्नापयेत् तु माम् ॥

अर्चयेत् पशुपुष्पैश् च स गच्छेत् परमां गतिम् ।

आषाढे यो नरो ऽष्टम्यां नानातीर्थोदकैर् नवैः ॥

स्नापयित्वार्चयेद् भक्त्या पत्रैर् धुस्तूरकस्य तु ।

गन्धर्वोरगयक्षैस् तु पूज्यमानो नरो दिवि ॥

क्रीडते च मया सार्धं यावद् इन्द्राश् चतुर्दश ।

य एवं वत्सरे देवि कारयेद् अष्टमीव्रतम् ॥

न तस्य पुनरावृत्तिः सत्यम् एतद् ब्रवीम्य् अहम् ।

नीलकण्ठं च शम्भुं च सर्वं भीमं महेश्वरम् ॥

विरूपाक्षं महादेवम् उग्रं त्र्यम्बकम् एव च ।

ईश्वरं च शिवं देवि सर्वलोकेषु पूजितम् ।

एतानि मासनामानि मासेष्व् एतेषु कीर्तयेत् ॥

इति भविष्यत्पुराणोक्तं पुष्पाष्टमीव्रतम् ।

[८४०]

अथ तिन्दुकाष्टकाष्टमीव्रतम् ।

ज्यैष्थे मासि द्विजश्रेष्ठ गुणाष्टम्यां त्रिलोचनम् ।

यः पूजयति देवेशम् ईशलोकं व्रजेन् नरः ॥

ज्यैष्ठे मासि तथाषाढे श्रावणे च तथा परे ।

पूजयेच् चतुरो मासान् नीलोत्पलकदम्बकैः ॥

त्रिपुरान्तकरं शम्भुं त्र्यम्बकान्धकसूदनम् ।

गन्धानां च कदम्बेन पूजयेद् गुग्गुलेन च ॥

टेम्बुरुकफलं विप्र प्राशयेत् कायशोधनम् ।

टेम्बुरुकं तिन्दुकफलम् ।

देवस्य कीर्तयेन् नाम भास्करेति पुनः पुनः ।

मासि चाश्वयुजे विप्र कार्त्तिकं च तथा द्विज ॥

मार्गशीर्षे तथा मासि पौषे मासि तथा हरम् ।

पूजयेद् विधिवद् भक्त्या उन्मत्तकुसुमैर् विभुम् ॥

उन्मत्तकुसुमैर् धुस्तूरपुष्पैः ।

कर्पूरागुरुधूपेन देवेशं पूजयेद् धरिम् ।

विरूपाक्षेति वै नाम प्राशयेद् विधिवत् यवान् ॥

माघे च फाल्गुने चैव कृष्णाष्टम्यां त्रिलोचनम् ।

चैत्रवैशाखयोर् भक्त्या शतपत्रैः समर्चयेत् ॥

महाधूपेन धूपेन विधिवत् कल्पितेन च ।

पूजयेद् विधिवद् देवं त्रिपुरान्तकरं हरम् ॥

कक्कोलागुरुकर्पूरदर्पकुङ्कुमचन्दनैः ।

[८४१] चतुर्जातेन च महान् यक्षकर्दम एव च ॥

इत्य् उक्तः, नैवेद्यैः खण्डत्रष्टैश् (?) च नाम ईशेति पूजयेत् ।

य एवं पूजयेद् देवं कृष्णाष्टम्यां महेश्वरम् ।

स्वम् एकम् एकं विप्रेन्द्र स याति परमां गतिम् ॥

यद् इष्टं देवदेवस्य शृणु तद् द्विजसत्तम ।

उन्मकेन पुष्पेण धूपे कृष्णागुरुः सदा ॥

श्रीखण्डः सर्वगन्धेषु नैवेद्यं (?) पायसं सदा ।

पूजाकारः पाशुपतः सर्वभोगविवर्जितः ॥

कल्पज्ञो ब्राःमणानां तु वाचकस् तस्य वल्लभः ।

एवं सम्पूज्य नृपते रुद्रेण विधिना हरिम् ॥

पूजा लिङ्गे शङ्करादिनाम्ना ।

वत्सरान्ते बलिं पुण्यं तथा पुस्तकवाचनम् ।

यः कारयति वै भक्त्या तस्य पुण्यफलं शृणु ।

स्वर्गलोकम् अवाप्नोति तेजसा शुक्रसन्निभः ॥

इति भविष्यत्पुराणोक्तं तिन्दुकाष्टकाष्टमीव्रतम् ।

अथ दाम्पत्याष्टमीव्रतम् ।

कार्त्तिके मासि विप्रेन्द्र पुत्रकामो नरो मुने ।

अष्टम्यां कृष्णपक्षस्य पूजयेद् विधिवद् द्विज ॥

[८४२] उमया सहितं देवं कृता दर्भमयं विभुम् ।

गन्धपुष्पोपहारैस् तु वासोभिर् भूषणैस् तथा ॥

नीलवैदूर्यसङ्काशान् समूलान् पुष्पवर्जितान् ।

वैतस्तिकान् तथा साग्रान् ऋजून् दर्भान् द्विजोत्तमम् ॥

गृहीत्वा कारयेद् देवं नीलकण्ठम् उमापतिम् ।

उमां च तां सतीं देवीं विधिवद् ब्रह्मसत्तम ॥

पूजयेद् गन्धपुष्पैस् तु फलैर् भक्ष्यैर् अनेकशः ।

नानाप्रेक्षणकैश् चैव मुखबाद्यैश् च सुव्रत ॥

य एवं कुरुते भक्त्या उमामाहेश्वरं व्रतम् ।

स्वम् एकम् एकं विप्रेन्द्र स याति परमां गतिम् ॥

स्वम् एकः संवत्सरः ।

चतुर्भिः पारणैर् एवं स्वम् एकं कीर्तितं बुधैः ।

प्रथमं तु त्रिभिर् मासैः पारणं कार्त्तिकादिभिः ॥

कार्त्तिके मार्गशीर्षे तु पौषे मासि तथा परे ।

उन्मत्तकस्य पुष्पैश् तु फलैर् भक्ष्यैर् अनेकशः ॥

उन्मत्तकस्य धूस्तूरकस्य ।

श्रीखण्डचन्दनेनेशं श्वेतेन तु विलेपयेत् ।

साज्यं तु गुग्गुलं दद्यान् नैवेद्यं पायसं परम् ॥

स्नानं तु पञ्चगव्येन प्राशनं तु प्रवर्तयेत् ।

महादेवेति वै नाम गौरीदेवीति पठ्यते ॥

माघे च फाल्गुने मासि तथा चैत्रे द्विजोत्तम ।

मालतीकुसुमैर् देवं कुसुमैर् मुहुर् अस्य च ।

[८४३] विरूपाक्षेति वै नाम देव्या नाम उमेति च ॥

पूजयेद् विधिवद् देवं धूपेनागुरुणा विभुम् ।

कुङ्कुमेन तथा भक्त्या विधिवत् तौ विलेपयेत् ॥

दध्ना शाल्योदनं दद्यान् नैवेद्यं शूलपाणये ।

कुशोदकं तथाश्नीयाद् आत्मनः कायशुद्धये ॥

वैशाखे तु तथा ज्यैष्ठे आषाढे पूजयेद् धरम् ।

करवीरैश् च पुष्पैश् च तथा रक्तोत्पलैर् मुने ॥

प्राजापत्येन धूपेन रसालामोदकैश् तथा ।

रसाला शिखरिणी ।

शिवः शिवा च वै नाम्नी तयोर् विप्र प्रकीर्तते ।

स्नानप्राशनयोः शस्ता घृतकृष्णतिला बुधैः ॥

अगुरुं सिह्लकं धूपं प्राजापत्यम् इति स्मृतम् ।

श्रावणादिषु मासेषु जातीपुष्पकदम्बकैः ॥

पूजयेद् विधिवद् देवीं त्रिपुरान्तकरं हरम् ।

चतुःसमेन देवेशम् अर्चयेद् विधिवन् मुने ॥

धूपेनागुरुमिश्रेण कृशरापूपपायसैः ।

चतुःसमेन त्वकपत्रैलाकेसरेण ।

एभिर् यः पूजयेद् देवं चतुर्भिः पारणैर् हरम् ॥

चतुर्वर्गम् अवाप्नोति कामयानो न संशयः ।

प्रकामयानश् च पुनस् तुरीयं केवलं लभेत् ॥

तुरीयो मोक्षः ।

कामयानो यथा मोक्षं कामं प्राप्नोति मानवः ।

पुत्रकामो लभेत् पुत्रं धनकामो लभेद् धनम् ॥

[८४४] विद्यार्थी लभते विद्यां नूनं प्राप्नोति शङ्करात् ।

कृत्वैवं वर्षम् एकं तु वर्षान्ते प्रीणयेद् धरिम् ॥

नानाप्रेक्षणकैर् ब्रह्मन् ब्राःमणांश् चान्नतर्पणैः ।

दाम्पत्यं भोजयेद् विप्रं प्रीतये शङ्करस्य तु ॥

कल्पस्थं वाचकं विप्रं सपत्नीकं विचक्षणः ।

वाचकं कल्पयेत् शम्भुं स्वपत्नीं ललितां मुने ॥

प्रीणयित्वा तु दाम्पत्यं भक्ष्यभोज्यैर् अनेकशः ।

कुसुम्भं रक्तवस्त्राणि ताभ्याम् दद्याद् द्विजोत्तम ॥

दक्षिणां च पुनर् दद्यात् सौवर्णप्रतिमाद्वयम् ।

वाचकाय महादेवं तत्पत्नीं ललितां मुने ॥

य एवं पूजयेद् देवं हरं श्रद्धासमन्वितः ।

स दिव्यं यानम् आरूढः सुवर्णोद्भवम् उत्तमम् ॥

तेजसा शुक्रसङ्काशः प्रभया हरिसन्निभः ।

स गच्छेत् परमं स्थानम् अचलं शूलपाणिनः ।

तस्माद् एत्य भवेद् राजा भूतले भूतलेश्वरः ॥

इति भविष्यत्पुराणोक्तं दाम्पत्याष्टमीव्रतम् ।

अथ पित्रीयव्रतम् ।

पुलस्त्य उवाच ।

प्रोष्ठपद्याम् अतीतायां कृष्णपक्षाष्टमी तु या ।

सोपवासो नरो ऽष्टम्यां योषिद् वा तनयार्थिनी ॥

[८४५] स्नाता सरसि धर्मज्ञा तोये वाप्य् अथ सारसे ।

पूजनं वासुदेवस्य यथा कुर्यात् तथा शृणु ॥

घृतप्रस्थेन गोविन्दं स्नापयित्वा जगत्गुरुम् ।

क्षौद्रेण च ततः पश्चाद् दध्ना वा स्नापयेत् ततः ॥

क्षीर्ण स्नपनं कृत्वा ततः पश्चाद् विरुक्षयेत् ।

सर्वौषधैश् च सजलैः सर्वबीजफलैस् तथा ॥

स्नापयित्वानुलिप्ता च चन्दनागुरुकुङ्कुमैः ।

कर्पूरेण तथा राम तथा जातीफलैः शुभैः ॥

ततः कालोद्भवैः पुष्पैः पूजयित्वा जगत्गुरुम् ।

धूपं वागुरुणा धूपं कृत्वा नैवेद्यम् ईप्सितम् ॥

विशेषाद् गोरसं प्राश्य पुन्नागैर् अन्वितं फलम् ।

पौरुषेण च सूक्तेन हुत्वा वानन्तरं ध्रुवम् ॥

शूद्रो वाप्य् अथ वा नारी नाम्ना हुत्वा जगद्गुरोः ।

यवपात्राणि दत्वा तु फलानि कनकं तथा ॥

पुत्रार्थं प्राशनं कुर्यात् फलैः पुन्नामभिः शुभैः ।

स्त्रीनामभिश् च कन्यार्थी ततो भुक्त्वा यथेप्सितम् ॥

पुत्रकन्याम् अवाप्नोति तथा सर्वान् अभीप्सितान् ।

हविष्यं देवदेवस्य भूमिपानां तु करयेत् ॥

संवत्सरम् इदं कृत्वा व्रतम् आप्नोत्य् अभीप्सितम् ॥

पुत्रीयम् एतद् व्रतम् उत्तमं ते

मयेरितं यद्य् अपि धर्मनित्यम् ।

तथाप्य् अनेनैव समस्तकामान्

कृतेन लोके पुरुषा लभन्ते ॥

इति विष्णुधर्मोक्तं पुत्रीयव्रतम् ।

[८४६]

अथ सन्तानाष्टमीव्रतम् ।

पुलस्त्य उवाच ।

शृणु दाल्भ परं काम्यं व्रतं सन्ततिदं नृणाम् ।

यद् उपोष्य न विच्छेदः पुत्रपिण्डस्य जायते ॥

कृष्णाष्टम्यां चैत्रमासे स्नातो नियतमानसः ।

कृष्णम् अभ्यर्च्य पूजां च देवक्याः कुरुते च यः ॥

निराहारातो नरः पश्चात् (?) कृष्णस्य जगतः पतेः ।

उपोषितो जपन् मन्त्रं रात्रौ प्रयतमानसः ॥

पूजायां चापि कृष्णस्य सप्तवारान् प्रकीर्तयेत् ।

पाखण्डिनो विकर्मस्थान् बैडालान् बकनास्तिकान् ॥

प्रभाते च ततः स्नातो दत्वा विप्राय दक्षिणाम् ।

भुञ्जीत कृतपूजस् तु कृष्णस्यैव जगत्पतेः ॥

वैशाखज्यैष्ठयोश् चैव पारणं हि त्रिमासिकम् ।

उपोष्य देवदेवस्य घृतेन स्नापयेद् धरिम् ॥

आषाढे श्रावणे चैव मासि भाद्रपदे तथा ।

उपोषितो द्वितीयं वै पारणं पूर्ववद् भवेत् ॥

आश्विने कार्त्तिके सौम्ये तृतीयं पारणं तथा ।

पौषे माघे फाल्गुने च चतुर्थं द्विजसत्तम ॥

पारणे पारणे पूर्णे घृतेन स्नापयेद् धरिम् ।

ब्राह्मणेभ्यो घृतं दद्यात् तथैव प्रतिपारणम् ॥

[८४७] कृत्वा व्रतं नाकम् अनुप्रयाति

मानुष्यम् आसाद्य च निर्वृत्तिः स्यात् ।

सन्तानवृद्धिश् च यथाप्नुते ऽसौ

यावन् महीं सागरमेखलान्ताम् ॥

इति विष्णुधर्मोत्तरोक्तं सन्तानाष्टमीव्रतम् ।

अथ महेश्वराष्टमीव्रतम् ।

मार्कण्डेय उवाच ।

शुक्लपक्षात् तथारभ्य सौम्याष्टम्यां नराधिप ।

पूजयेत् सोपवासस् तु देवदेवं त्रिलोचनम् ॥

सौम्याष्टम्यां गार्गशीर्षाष्टम्याम् ।

लिङ्गे वाप्य् अथ चार्चायां कमले यदि वा स्थले ।

घृतक्षीराभिषेकेण स्नातेन विविधेन वा ।

गन्धमाल्यनमस्कारदीपधूपान्नसम्पदा ।

गीतेन नृत्यवाद्येन वह्निसन्तर्पणेन च ॥

ब्राह्मणानां च पूजाभिर् यथावन् मनुजोत्तम ।

व्रतावसाने दत्वा तु तथा धेनुं पयस्विनीम् ॥

पौण्डरीकम् अवाप्नोति स्वर्गलोकं च गच्छति ।

पौण्डरीको नाम यज्ञविशेषः तस्य फलम् अवाप्नोतीत्य् अर्थः ।

अष्टमीद्वितयं कृत्वा तथा संवत्सरं नरः ॥

[८४८] प्राप्याश्वमेधस्य फलं यथावद्

भुक्त्वा च भोगान् सुरनाकलोके ।

लोकान् अवाप्याथ महेश्वरस्य

सायोज्यम् आप्नोत्य् अचिरेण तस्य ॥

इति विष्णुधर्मोत्तरोक्तं महेश्वराष्टमीव्रतम् ।

अथ वसुव्रतम् ।

मार्कण्डेय उवाच ।

ध्रुवो ऽध्रुवश् च सोमश् च आपश् चैवानिलो ऽनलः ।

प्रत्यूषश् च प्रभावश् च अष्टौ ते वसवः स्मृताः ॥

अष्टात्मा वासुदेवो ऽयं प्रभावेनादयेन च ।

अष्टम्यां पूजयेद् यस् तु सोपवासो नराधिप ॥

चैत्रमासाद् अथारभ्य शुक्लपक्षाच् च यादव ।

मण्डले प्य् अथ वार्चासु जपेच् च मनुजाधिप ॥

गन्धमाल्यनमस्कारदीपधूपान्नसम्पदा ।

बहिःस्नानेन राजेन्द्र तथाधःशयनेन च ॥

व्रतान्ते तु सदा दद्याद् धेनुं विप्राय शक्तितः ।

व्रतम् एतन् नरः स्नात्वा सर्वान् कामान् अवाप्नुते ॥

पुण्डरीकम् अवाप्नोति कुलम् उद्धरते स्वकम् ।

वसूनां लोकम् आसाद्य मोदते श्वरसन्निभः ॥

महातेजाः सत्यपरो ह्य् अरोगो विजितेन्द्रियः ।

[८४९] सत्यपरो विनीतः ।

धनेन धान्येन तथान्वितः स्यात् ।

स्त्रीणाम् अभीष्टश् च तथा भवेच् च ॥

इति विष्णुधर्मोत्तरोक्तं वसुव्रतम् ।

अथ कालाष्टमीव्रतम् ।

पुलस्त्य उवाच ।

नभस्ये मासि च तथा यास्यात् कृष्णाष्टमी शुभा ।

युक्ता मृगशिरैश् चैव सा तु कालाष्टमी स्मृता ॥

तस्यां सर्वैकलिङ्गेषु तिथौ स्वपिति शङ्करः ।

वसन्तसन्निधाने तु तत्र पूजाक्षया स्मृता ॥

एकलिङ्गानि वृषभगणपतिसहितानि पश्चिमाभिमुखानि प्रसिद्धानि ।

तत्र स्नायीत विद्वान् हि गोमूत्रेण जलेन च ।

स्नात्वा सम्पूजयेत् पुष्पैर् धूस्तूरस्य त्रिलोचनम् ॥

धूपः केशरनिर्यासैर् नैवेद्यं मधुसर्पिषा ॥

केशरो बकुलः ।

प्रीयतां मे विरूपाक्ष इत्य् उच्चार्य च दक्षिणाम् ।

विप्राय दद्यान् नैवेद्यं सहिरण्यं द्विजोत्तम ॥

तद्वद् आश्वयुजे मासि सोपवासो जितेन्द्रियः ।

नवम्यां गोमयस्नानं कृत्वा पूजां च पङ्कजैः ॥

तद्वद् आश्वयुजे मासि सोपवास इत्य् अभिधानात् [८५०] पूर्वमासे ऽप्य् उपवासो बोद्धव्यः ।

धूपयेत् सर्जनिर्यासैर् नैवेद्यं मधुमोदकान् ।

कृत्वोपवासम् अष्टम्यां नवम्यां स्नानम् आचरेत् ॥

प्रीयतां मे विरूपाक्ष दक्षिणा च तिलैः स्मृता ।

कार्त्तिके पयसा स्नानं करवीरेण चार्चनम् ॥

धूपं श्रीवासनिर्यासैर् नैवेद्यं मधुपायसैः ।

सनैवेद्यं च रजतं दातव्यं दानम् अग्रजे ॥

श्रीवासः सरलवृक्षः, अग्रजे ब्राह्मणे ।

प्रीयतां भगवान् स्थाणुर् इति वाच्यम् अनन्तरम् ।

कृत्वोपवासम् अष्टम्यां नवम्यां स्नानम् आचरेत् ॥

मासि मार्गशिरे स्नानं तत्रार्चा रुद्रजा स्मृता ।

अर्चा पूजा रुद्रजा शमीपुष्पजा ।

धूपः श्रीवृक्षनिर्यासो नैवेद्यं मधुमोदकम् ॥

श्रीवृक्षो बिल्वः ।

नैवेद्यं रक्तशालिश् च दक्षिणा परिकीर्तिता ।

नमो ऽस्तु प्रीयतां सर्व इति वाच्यं च पण्डितैः ॥

पौषे स्नानं च हविषा पूजा स्यात् पारणेन तु ।

हविषा घृतेन ।

धूपो ऽयं मधुकनिर्यासो नैवेद्यं मधुशष्कुली ॥

सामुद्रं दक्षिणा प्रोक्ता प्रीणनाय जगद्गुरोः ।

वाच्यं नमो ऽस्तु देवेश त्र्यम्बकेति प्रकीर्तयेत् ॥

माघे कुशोदकस्नानं मृगमदेन वार्चनम् ।

[८५१] मृगमदो लताकस्तूरी ।

धूपः कदम्बनिर्यासो नैवेद्यं सतिलोदनम् ॥

पयः कुम्भेन नैवेद्यं सरुक्मं प्रतिपादयेत् ।

प्रीयतां मे महादेव उमापतिर् इतीरयेत् ॥

एवम् एकं समुद्दिष्टं षड्भिर् मासैस् तु पारणम् ।

पारणान्ते त्रिगोरस्य स्नपनं कारयेत् क्रमात् ॥

गोरोचनां चन्दनकुङ्कुमेन

देवं समालभ्य च पूजयेच् च ।

त्रायस्व दीनो ऽस्मि भवन्तम् ईश

शशाङ्कनाथ प्रणतो ऽस्मि नित्यम् ॥

ततस् तु फाल्गुने मासि कृष्णाष्टम्यां यतव्रः ।

उपवासः समुदितः कर्तव्यो दिव्जसत्तम ॥

द्वितीये ऽह्नि ततः स्नानं पञ्चगव्येन कारयेत् ।

पूजयेत् कुन्दपुष्पैस् तु धूपयेच् चन्दनेन तु ॥

नैवेद्यं सघृतं दद्यात् ताम्रपात्रे गुडोदनम् ।

दक्षिणां च द्विजातिभ्यो नैवेद्यसहितां मुने ॥

ब्राह्मणेभ्यः प्रदद्याच् च रुद्रम् अभ्यर्च्य नामतः ।

चैत्रे चेन्दुम्बरफलैः स्नानं मन्दारकार्चनम् ॥

गुग्गुलुं महिषाख्यं च घृताक्तं धूपयेद् बुधः ।

समोदकं तथा सर्पिः प्रीणनं विनिवेदयेत् ॥

दक्षिणां चैव नैवेद्यम् उमाकान्ताय दापयेत् ।

[८५२] नन्दीश्वर नमस् ते ऽस्तु इदम् उच्चार्य नारद ॥

प्रीणनं देवनाथाय कुर्याच् च श्रद्दयान्वितः ।

वैशाखे स्नानम् उदितं सुगन्धिकुङ्कुमाम्भसा ॥

पूजनं शङ्करस्योक्तं भूतमञ्जरिभिर् विभो ।

धूपं सूर्याख्यपुष्पैस् तु नैवेद्यं सफलं घृतम् ॥

सूर्याख्यम् अर्कपुष्पम् ।

नाम जप्तव्यम् ईशेति कालघ्नेति विपश्चिता ।

जलकुम्भान् सनैवेद्यान् ब्राह्मणेभ्यो निवेदयेत् ॥

उपानद्युगलं छत्रं दानं दद्याच् च शक्तितः ।

नमस् ते भगनेत्रघ्न पुष्पदन्तविनाशन ॥

इदम् उच्चारयेद् भक्त्या प्रीणनाय जगत्पतेः ।

आषाढे स्नानम् उद्दिष्टं श्रीफलैर् अर्चनं तथा ॥

दूस्तूरकस्य कुसुमैर् धूपार्थं सिह्लकं तथा ।

नैवेद्यं सघृताः पूपाः दक्षिणा सघृतास् तथा ॥

नमस् ते दक्षयज्ञघ्न इदम् उच्चारयेत् ततः ।

श्रावणे मृगमदेन स्नानं कृत्वार्चयेद् धरिम् ॥

श्रीवृक्षपत्रैः सफलैर् धूपं दद्यात् तथागुरुम् ।

नैवेद्यं सघृतं दद्याद् दधिपूर्णांस् तु मोदकान् ॥

दध्योदनं कृशरकः कटिधानाः सशष्कुलाः ।

दक्षिणां श्वेतवृषभं धेनुं च कपिलां शुभाम् ॥

कनकं रक्तवसनं प्रदद्याद् ब्राह्मणाय तु ।

[८५३] गङ्गाधरेति वक्तव्यं नाम शम्भोश् च पण्डितैः ॥

अमीभिः षड्भिर् उदितैर् मासैः पारणम् उत्तमम् ।

एवं संवत्सरं पूर्णं सम्पूज्य वृषभध्वजम् ॥

अक्षयान् लभते लोकान् महेश्वरपरो नरः ।

इदम् उक्तं व्रतं पुण्यं सर्वाक्षयकरं शुभम् ।

स्वयं रुद्रेण देवर्षे तत् तथा न तदन्यथा ॥

इति वामनपुराणोक्तं कालाष्टमीव्रतम् ।

अथ रुक्मिण्यष्टमीव्रतम् ।

स्कन्द उवाच ।

भगवन् कथितं सर्वं यद् अभीष्टं मम प्रभो ।

साम्प्रतं श्रोतुम् इच्छामि भुवि जातस्य कस्यचित् ॥

येन पुत्रवियोगेन भवेच् चैवं कदाचन ।

गृहे हि वसतां केन नित्यं श्रीः परिकीर्तिता ॥

शङ्कर उवाच ।

शृणु पुत्र प्रवक्ष्यामि व्रतानाम् उत्तमं व्रतम् ।

येन चीर्णेन मात्रेण नारी वा पुरुषो ऽपि वा ॥

न पुत्रविरहं क्वापि न च भर्तुस् तथा क्वचित् ।

गृहस्थोपस्करैर् द्रव्यैर् हीनता न प्रजायते ॥

मासि मार्गशिरे कृष्णपक्षे ऽष्टम्यां षडानन ।

रुक्मिण्यष्टमिसञ्ज्ञा सा सर्वकामफलप्रदा ॥

[८५४] तस्यां प्रातः शुचिर् भूत्वा नारी नियमकारिणी ।

वर्षे च प्रथमे कुर्याद् एकद्वारं गृहं मृदा ॥

गृहोपकरणं सर्वं तस्मिन् निक्षिप्य सादरम् ।

व्रीहीन् स्तूपप्रकारान्नैर् घृतादींश् च रसांस् तथा ॥

वस्त्रैः काष्ठैस् तथा दन्तैश् चित्रेण लिखितास् तथा ।

कार्याः पुत्तलिकास् तत्र तासां नामानि मे शृणु ॥

कृष्णश् च रुक्मिणी चैव बलदेवस् त्व् अरुन्धती ।

प्रद्युम्नश् चैव तद्भार्या अनिरुद्ध उषा तथा ॥

देवकीवसुदेवादीन् सर्वांस् तत्र प्रकल्पयेत् ।

ततो ऽनुपूजयेत् सर्वान् अष्टधूपाक्षतादिभिः ॥

चन्द्रोदये तु सञ्जाते दद्याद् अर्घ्यं तद् इन्दवे ।

शङ्खकुन्दप्रतीकाश गगनाङ्गणदीपक ॥

गृहाणार्ध्यं मया दत्तं शङ्कराय नमो ऽस्तु ते ।

इति चन्द्रार्घ्यमन्त्रः ।

अर्घ्यं दत्वा तु भुञ्जीत मित्रस्वजनबन्धुभिः ॥

ततः प्रभातसमये कुमार्यै तद् गृहं शुभम् ।

दद्यात् प्रीतेन मनसा सर्ववस्तुप्रपूरितम् ॥

ततो द्वितीये अब्दे तु कुर्याद् वै मुखमन्दिरम् ।

पूर्ववत् पूरितं कृत्वा कुमार्यै विनिवेदयेत् ॥

ततस् तृतीये अब्दे तु कृत्वाभिमुखमन्दिरम् ।

सम्पूर्णं पूर्ववत् कृत्वा कुमार्यै विनिवेदयेत् ॥

ततश् चतुर्थे अब्दे तु कृत्वा सुखचतुष्टयम् ।

पञ्चमे ऽब्दे पञ्चद्वारं षष्ठे षण्मुखसंयुतम् ॥

[८५५] कृत्वा दद्यात् प्रयत्नेन कुमार्यै मुखचतुष्टयम् ।

पञ्चमे ऽब्दे पञ्चद्वारं षष्ठे षण्मुखसंयुतम् ॥

कृत्वा दद्यात् प्रयत्नेन कुमार्यै सप्तमन्दिरम् ।

ततस् तु सप्तमे वर्षे कुर्याद् उद्यापनं शुभम् ॥

सप्तद्वारं गृहं कृत्वा सुधाधवलितं महत् ।

शय्यां तूलीं च यानं च छत्रोपानहम् एव च ॥

आदर्शं चामरं चैव मुशलोलूखलं तथा ।

कांस्यभाजनपात्राणि ताम्रस्य तु महान्ति च ॥

गृहोप्करणं सर्वं गृहे निकिष्प्य सर्वतः ।

कृष्णं च रुक्मिनीं चैव प्रद्युम्नं च मनोहरम् ॥

कृत्वा स्वर्णमयान् शक्त्या पीतवस्त्रावगुण्ठितान् ।

पूजयित्वोपवासेन रात्रिजागरणेन च ॥

ततः प्रभातसमये तद्गृहे समुपागतम् ।

सपत्नीकं द्विजं पूज्य वस्त्रालङ्कारभूषणैः ॥

तस्माद् एतद् गृहं दद्याद् गां चैवाथ सुशीलिनीम् ।

एवं कृते व्रते पुत्र न दुःखानि व्रजेन् नरः ।

नारी वा पुत्रदुःखार्ता भवेन् नैव षडानन ॥

इति स्कन्दपुराणोक्तं रुक्मिण्यष्टमीव्रतम् ।

[८५६]

अथ दुर्गाव्रतम् ।

ब्रह्मोवाच ।

देवीव्रतं प्रवक्ष्यामि सर्वकामप्रसाधनम् ।

श्रावणे शुक्लपक्षे तु अष्टम्यां वायुभोजनः ॥

स्नात्वा सार्धपुटो भूत्वा जितक्रोधः क्रियान्वितः ।

देवीं संस्नाप्य तोयेन पुनः क्षीरेण वारिणा ॥

ततो गुग्गुलधूपं च सतुरुष्कं तु दापयेत् ।

तुरुष्कः सिह्लकः ।

ततो गन्धोदकस्नानं पुनः स्नानं च वारिणा ॥

श्रीखण्डेन समालभ्य बिल्वपत्रैः प्रपूजयेत् ।

पायसं दापयेद् देव्या नैवेद्यन्तेन भोजयेत् ॥

कन्याद्विजांश् च शक्त्या तु तेषां दद्याच् च दक्षिणाम् ।

कात्यायनीति चोच्चार्य प्रीयतां मम सर्वदा ॥

आत्मनः पारणं तच् च कृत्वा प्राप्नोति भार्गव ।

अश्वमेधफलं चाग्यं देव्या लोकं च गच्छति ॥

तथागत्य इमां भूमिं पृथिव्यां जायते नृपः ।

तेन संलभते योगं शिवप्राप्तिकरं परम् ॥

मासे प्रौष्ठपदे शुक्ले गोशृङ्गापग्रहौ तथा ।

मृदया ह्य् आत्मनो ह्य् अङ्गम् उपलिप्तं तु कारयेत् ॥

[८५७] शुक्ले तु शुक्लपक्षे तु अष्टम्याम् इत्य् अनुषङ्गः ।

तदा वामलकैः स्नात्वा शुचिः सङ्गविवर्जितः ।

पूजयेद् यूथिकापुष्पैर् देवीं क्षीरेण स्नापयेत् ॥

चन्दनोदकमिश्रेण कुङ्कुमेन विलेपयेत् ।

ततः पूपकनैवेद्यं कर्णवेष्टांश् च दापयेत् ।

अगुरुं धूपनैवेद्यं तिलतैलेन दीपकान् ।

तेन ता भजयेत् कन्याद्विजान् सद्वृत्तवर्तिनः ॥

तेन पूपकादिनैवेद्यान्नेन ।

पाषण्डान् नावलोकेत न च शास्त्रबहिष्कृतान् ।

दक्षिणाः शक्तितो देयाः स्वस्तिवाच्यं च मङ्गलम् ॥

पारणं चात्मनः क्र्त्वा सौत्रामणिफलं लभेत् ।

प्रयाति विष्णुलोकं च तथा विप्रो ऽभिजायते ॥

धनाढ्यो महतां गोत्रे वेदवेदाङ्गपारगः ।

पुत्रवान् धनवान् भोगी सुखं प्राप्य शिवो भवेत् ॥

शुक्लाष्टम्याम् आश्विने च मृदा स्नानं समाचरेत् ।

ततो देवीं स्नपेद् वत्स दध्ना वेक्षूदकेन च ॥

आलभ्य रोचनां चन्द्रैर् दहेद् धूपं च बालकम् ।

सनखं सितया मिश्रं पद्मपत्रैस् तथार्चयेत् ॥

नैवेद्ये रोहितं मांसं समानं शल्यजं तथा ।

गोधूमविकृतान् भक्ष्यान् घृतपक्वान् निवेदयेत् ॥

तेन कन्यास् तु सम्भोज्य द्विजांश् चापि क्षमापयेत् ।

[८५८] शक्तितो दक्षिणा देया आत्मनस् तच् च भोजनम् ॥

गोसहस्रप्रदानस्य फलं प्राप्नोति मानवः ।

अरोगी सुखवान् धन्यो जायते चेह मानवः ॥

दुर्गानामानि सङ्कीर्त्य तस्या लोके महीयते ।

कार्त्तिके दर्भमूलानि मृद्भिः स्नायीत भार्गव ॥

देवीं गन्धोदकैः स्नाप्य उशीरैः पूज्य लेपयेत् ।

धूपं पञ्चरसं देयं तिलतैलेन दीपिकाः ॥

पञ्चरसं वोलरालकन्दुरुश्रीवेष्टगुग्गुलक्र्तम् ।

नैवेद्यं यावकं सर्पिः कन्याविप्रेषु चात्मनि ।

भोजनं स्वस्तिवाच्यैव दक्षिणा प्रीयतां शिव ॥

अनेन विधिना वत्स विद्यादानफलं लभेत् ।

वेदवेदाङ्गतत्त्वज्ञस् तदन्ते शिवतां व्रजेत् ॥

मार्गशीर्षे तथा मासि अष्टम्यां गिरिमृत्सया ।

स्नात्वा देवीं ततः स्नाप्य तीर्थतोयेन भार्गव ॥

लेपयेद् वालकैः कुष्ठैः पूजा जातीगजाह्वयैः।

गजाह्वयैर् नागकेसरैः ।

धूपं कृष्णागुरुं दद्याद् घृतैर् दीपान् प्रबोधयेत् ।

दधिभक्तं तु नैवेद्यं कन्यास् तेनैव भोजयेत् ॥

शक्तितो दक्षिणा देया आत्मनस् तच् च पारणम् ।

उमा मे प्रीयतां वाच्यं वाजपेयफलं लभेत् ॥

इहैव धनवान् भोगी देहान्ते ब्रह्मणः पदम् ।

पौषाष्टम्यां तु दूर्वाग्रैः स्नात्वा शुक्लपरिच्छदः ॥

[८५९] जितक्रोधः स्नापयेच् च देवीं कर्पूरवारिणा ।

विलेपयेत् कुङ्कुमेन मांसी वालकचन्दनैः ॥

धूपं च निर्दहेत् प्राज्ञः पूजनीया कुरुण्टकैः ।

कृसरं गुडनैवेद्यं कन्या भोज्याश् च तेन वै ॥

आत्मनः पारणं तच् च शक्त्या वै दक्षयेद् द्विजान् ।

नारायणी सदा प्रीता मम देवी प्रसीदतु ॥

कृतेन ग्रहराजेन्द्र भूमिदानफलं लभेत् ।

सुभगो धनसम्पन्नः परत्र शिवम् आप्नुयात् ॥

माघमासे गवां शृङ्गमृद्भिः स्नात्वा तु भार्गव ।

देवीं तोयेन संस्नाप्य तथा क्षीरघृतेन च ॥

स्नापयेत पुनस् तोयैः कुङ्कुमेन विलेपयेत् ।

धूपं देवदलं दद्यात् कुन्दपुष्पैस् तु पूजयेत् ॥

घृतपूर्णं च नैवेद्यं कन्या विप्रांश् च तेन वै ।

भोजयेद् आत्मनस् तच् च दक्षिणा प्रीयतां जया ॥

सर्वयागफलं पुण्यं लभते नात्र संशयः ।

फाल्गुने सर्षपैः स्नात्वा देवीनाम्ना फलाम्बुना ॥

तथा इक्षुरसेनैव भूयस् तेनोदकेन च ।

रोचनालेपने पूजा शतपत्रिकया गुह ॥

दीपो घृतेन धूपस् तु चन्दनं न तु शर्करा ।

नैवेद्ये ऽशोकवर्तिश् च भोजनं कन्यकासु च ॥

आत्मनस् तच् च कुर्वीत दक्षिणां स्वस्ति वाचयेत् ।

[८६०] विजया सुखदा नित्यं सुमुखा चेतनेति च ॥

अनेन विधिना शुक्र राजसूयफलं समम् ।

लभेत श्रद्धया युक्तो ततो देवीमयं जगत् ॥

चैत्राष्टम्यां तु स्नायीत मातृस्नाने मृदाम्बुत्तिः (?) ।

देवीं तीर्थजलैः स्नाप्य मदलेपेन लेपयेत् ॥

धूपं तु रुक्मसौशीरं ह्य् अतिमुक्तैस् तु पूजयेत् ।

नैवेद्यं शालिजं भक्तं शर्करा कन्यास्व् अपि ॥

आत्मनस् तच् च वै भोज्यं शक्तितो दक्षिणा ददेत् ।

अजिता सर्वकामानां पूरणाय सुखाय वै ॥

विप्रकन्याः समाछाद्य हेमदानफलं लभेत् ।

सहकारफलैः स्नानं वैशाखे ह्य् अष्ठमीं शुचिः ॥

आत्मानं देवताः स्नाप्य मांसीवालकवारिभिः ।

लेपनं मृगकर्पूरं धूपं पञ्चसुगन्धिकम् ॥

देव्याः पूजां प्रकुर्वीत केतक्या चम्पकेन तु ।

शर्कराक्षीरनैवेद्यं कन्याविप्रेषु भोजनम् ॥

आत्मनः पारणं तच् च दक्षिणां शक्तितो ददेत् ।

अपराजिता भवानी च शिवा नाम्ना च वाचयेत् ॥

प्रीयतां सर्वकालं मे ईप्सितं तु प्रयच्छतु ।

सर्वतीर्थाभिषेकं तु अनेनाप्नोति भार्गव ॥

सूर्यलोकं व्रजेद् अन्ते तत्तुल्यो जायते सदा ।

अष्टम्यां चैव ज्यैष्ठस्य तिलैः स्नायाद् विचक्षणः ॥

[८६१] सर्वसङ्गपरित्यागी देवीं जातिफलम्बुना ।

स्नापयेल् लेपयेत् ताभिश् चन्दनेन सुगन्धिना ।

ततो विजयपुष्पैस् तु पूजयेद् ग्रहसत्तम ॥

विजयः कुम्भकः ।

नैवेद्ये शक्तवो देयाः शर्करा कन्यकास्व् अपि ।

दक्षिणा शक्तितो देया चर्चिकां प्रति वाचयेत् ॥

लभते शुक्र यज्ञस्य सौत्रामणिसमं फलम् ।

अष्टम्यां च तथाषाढे निशातोयेन स्नापयेत् ॥

ततो देवीं जलैः कुष्ठैर् वरदामधुकेन च ॥

जलैः कलकैः । मधुकेन यष्टिमधुना ।

स्नात्वा विलिप्य कर्पूरं चन्दनै रोचनाम्बुभिः ।

धूपश् चन्दनकर्पूरैर् वाह्लीकैः सितसिह्लकैः ॥

सिता शर्करा ।

भक्ष्यान्नशर्करापूपान् पानकानि शुभानि च ।

दापयेत् कन्यकां विप्र भोजनं चात्मनस् तथा ॥

शक्तितो दक्षिणां दद्यान् महिषघ्नीति कीर्तयेत् ।

दीपमाला घृतेनैव सर्वकामान् प्रयच्छति ॥

नैवेद्यं शुभ्रकंसारं कन्याविप्रांश् च भोजयेत् ।

सर्वयज्ञमहीदानसर्वतीर्थफलं लभेत् ॥

एतद् व्रतवरं शुक्र मया रुद्रेण विष्णुना ।

[८६२] जगतो हितम् इच्छद्भिश् चीर्णं दुर्गाव्रतं महत् ॥

भानुना ग्रहविध्वंससमरे च कृतं पुरा ।

यथा देवासुरैर् यक्षनागकिन्नरमानवैः ॥

अप्सरोभिस् तथा स्त्रीभिः सौभाग्यस्य विवृद्धये ।

कृतं वै ग्रहशार्दूल यश् च कुर्याद् यथाविधि ॥

श्रवणाद् अस्य चाप्नोति सर्वकामसुखानि च ।

इष्टानि लभते मर्त्यो वन्ध्या पुत्रं प्रसूयते ॥

इति देवीपुराणोक्तं दुर्गाव्रतम् ।

अथाशोकाष्टमीव्रतम् ।

कृष्ण उवाच ।

लिङ्गपुराणात् ।

अशोककलिकाश् चाष्टौ ये पिबन्ति पुनर्वसौ ।

चैत्रे मासि तथाष्टम्यां न ते शोकम् अवाप्नुयुः ॥ इति ।

कूर्मपुराणे ऽपि ।

चैत्रे मासि सिताष्टम्यां बुधवारे पुनर्वसौ ।

अशोककुसुमैर् रुद्रम् अर्चयित्वा विधानतः ॥

अशोकस्याष्तकलिका मन्त्रेणोक्तेन भक्षयेत् ।

शोकं नैवाप्नुयान् मर्त्यो रूपवान् अपि जायते ॥

अत्र बुधपुनर्वसुयोगः प्राशस्त्यार्थः ।

[८६३] अत एव लिङ्गपुराणे ।

अशोककलिकापानम् अशोकतरुपूजनम् ।

शुक्लाष्टम्यां तु चैत्रस्य कृत्वा प्राप्नोति निर्वृत्तिम् ॥ इति ।

प्राशनमन्त्रस् तूक्तो लिङ्गपुराणे ।

त्वाम् अशोकहराभीष्ट मधुमाससमुद्भव ।

पिबामि शोकसन्तप्तो माम् अशोकं सदा कुरु ॥ इति ।

कूर्मपुराणोक्तस् तु ।

त्वाम् अशोक नमाम्य् एनं मधुमासेति शोभितम् ।

शोकार्तः कलिकाः प्राश्ये मम् अशोकं सदा कुरु ॥ इति ।

इत्य् अशोकाष्टमीव्रतम् ।

अथ सोमव्रतम्

कृष्ण उवाच ।

चन्द्राष्टम्यां रोहिणी स्यात् तदा चन्द्रव्रतं चरेत् ।

शिवं सम्पूज्य विधिवत् स्नानैः पञ्चामृतादिभिः ॥

विलेपनं तु चन्द्रेण चन्दनेन तु वा हितम् ।

शुक्लवस्त्रैस् तथा पुष्पैः पूजयेत् परमेश्वरम् ॥

नैवेद्यं क्षीरकुम्भं तु सितशर्करया युतम् ।

प्राशनं चन्दनेनैव रात्रौ जागरणं हितम् ॥

आयुःकामैः सदा कार्यं कीर्तिश्रीसाधने हितम् ।

इति चन्द्रव्रतं नाम दारदानेन जायते ॥

इति कालान्तरोक्तं सोमव्रतम् ।

[८६४]

अथ राजराजेश्वरव्रतम् ।

बुधस्वात्यात्मिको योगो यदाष्टम्यां प्रजायते ।

उपोषितस् तु विधिना महास्नानपुरःसरम् ॥

सम्पूजयेद् विरूपाक्षम् अङ्गरागचतुःसमम् ।

महावर्तिद्वयं दीर्घदीपं साष्टोत्तरं शतम् ॥

लघुकुङ्कुमधूपं तु सितपुष्पैस् तु पूजयेत् ।

खण्डखाद्यान्य् अनेकानि नैवेद्यं तु प्रकल्पयेत् ॥

आचार्याय शिवस्याग्रे ग्रैवेयमुकुटादिकम् ।

रसनाकुण्डले चैव कङ्कणं मुद्रिकाद्वयम् ॥

वाहनं तु गजं चैव तदभावाद् धयोत्तम ।

सम्पूज्य परया भक्त्या अन्नं च शर्कराघृतम् ॥

राजराजेश्वरपदं प्राप्नुयाद् रोमसङ्ख्यया ।

राजराजेश्वरं तेन व्रतम् एतत् प्रकाशितम् ॥

इति कालोत्तरोक्तं राजराजेश्वरव्रतम् ।

अथ महाव्रतम् ।

शुक्लश्रावणयोगस् तु यदाष्टम्यां प्रजायते ।

चतुर्दश्याम् अथो वत्स तदा व्रतं समाचरेत् ॥

उपोषितस् तु विधिना महास्नानं समाचरेत् ।

[८६५] अगुरुचन्दनेनैव रोचनाकुङ्कुमेन च ॥

महादीपचतुष्केण धूपं कृष्णागुरुं शिवम् ।

नैवेद्यं घृतभूयिष्ठं यावकेन समन्वितम् ॥

भोगांस् तु विधिना तत्र शिवस्याग्रे प्रकल्पयेत् ।

आचर्यं पूजयित्वा तु वस्त्रहेमान्नभूषणैः ॥

प्रत्यग्रं कुङ्कुमं पुष्पैः शिवस्याग्रे प्रकल्पयेत् ।

ऋग्यजुःसामाथर्वणाम् एकैकं तद्वद् एव हि ॥

इमं महाव्रतं नाम मया ते परिकीर्तितम् ।

विलसेद् अवनीं सर्वां सप्तद्वीपां ससागराम् ॥

रात्रौ जागरणं कार्यं महाविभवसम्भवैः ।

पितॄन् पितामहांश् चैव तथैव प्रपितामहान् ॥

पुत्रान् पौत्रान् प्रपौत्रांश् च शिवलोकेषु यत् फलम् ।

इदं महाव्रतं नाम् कर्तव्यं पृथिवीश्वरैः ॥

इति कालोत्तरोक्तं महाव्रतम् ।

अथ विश्वरूपव्रतम् ।

रेवतीशनियोगस् तु सिताष्टम्यां यदा भवेत् ।

भूतायां वा महासेन तदा जातम् इदं शृणु ॥

महास्नानं प्रकर्तव्यं नित्यकृत्याद् अनन्तरम् ।

[८६६] चन्द्रेणैवाक्गराजं तु रत्नपूजां तु कल्पयेत् ॥

शितपद्मानि देयानि भूषणानि बहून्य् अपि ।

चन्द्रम् एवं दहेद् धूपं नैवेद्यं पायसं घृतम् ॥

श्वेताश्वं तरुणं सौम्यं शिवाय विनिवेदयेत् ।

अश्वाष्टकं कुञ्जरं च आचार्याय प्रदापयेत् ॥

ऋग्यजुःसामाथर्वणा प्रत्यश्वं कुञ्जरं तथा ।

राज्यार्थी लभते राज्यं यावद् आहूतसम्प्लवम् ॥

पुत्रार्थी लभते पुत्रान् वायुतुल्यपराक्रमः ।

भोगार्थी लभते भोगान् विद्यातत्त्वेन शाश्वतान् ॥

यान् यान् कामयते कामान् तांस् तान् कामान् अवाप्नुयात् ।

विश्वरूपम् इदं तेन व्रतम् एतद् उदाहृतम् ।

कुशोदकप्राशनं तु रात्रौ जागरणं ततः ॥

इति कालोत्तरोक्तं विश्वरूपव्रतम् ।

अथ बुधाष्टमीव्रतम् ।

श्रीकृष्ण उवाच ।

बुधाष्टमीव्रतं भूप ब्रवीमि शृणु पाण्डव ।

येन चीर्णेन नरकं नरः पश्यति न क्वचित् ॥

पुरा कृतयुगस्यादौ इलोराजा बभूव ह ।

बहुभृत्य युतो मित्रमन्त्रिभिः परिवारितः ॥

[८६७]

जगाम हिमवत्पार्शे महादेवानिवारितः ।

यौ ऽसौ प्रविशते भूमौ सा स्त्री भवति निश्चितम् ॥

स राजा मृगसङ्गेन प्रविशेत् तद् उमावणे ।

एकाकी तुरगोपेतः क्षणात् स्त्रीत्वं जगाम ह ॥

सा बभ्राम वने शून्ये पीनोन्नतपयोधरा ।

का त्वं कस्य कुतः प्राप्ता अनुरोधो ऽस्ति किञ्चन ॥

तां ददर्श बुधस् तन्वीं रूपौदार्यगुणान्विताम् ।

अष्टम्यां बुधवारेण तस्यास् तुष्टो बुधो ग्रहः ॥

ददौ गृहाश्रमं तस्या मानीयत प्रतोषिताम् ।

पुत्रम् उत्पादयामास यो ऽसौ ख्यातः पुरुरवाः ॥

चन्द्रवंशकरो राजा आद्यः सर्वमहीक्षिताम् ।

ततः प्रभृति पूज्येयम् अष्टमी बुधसंयुता ॥

सर्वपापप्रशमनी सर्वोपद्रवनागिनी ।

अज्ञानदयिते वच्मि कर्म राजकथाम् अलम् ॥

आसीद् राजा विदेहानां मिथिलाम् अनु वैरिभिः ।

सङ्ग्रामेनाहतो वीरस् तस्य भार्या दरिद्रिणी ॥

उर्मिला नाम बभ्राम महीं वालकसंयुता ।

अवन्तिविषयप्राप्तौ ब्राह्मणस्य निवेशने ॥

आकारोदरपूर्णार्थं नित्यं कण्डनपेषणम् ।

कृत्वा सा स्तोकगोधूमं ददौ बालकयोस् तदा ॥

कार्पण्यान् मातृवात्सल्यात् क्षुधा सम्पीड्यमानयोः ।

कालेन बहुधा साध्वी पञ्चत्वम् अगमच् छुभा ॥

पुत्रस् तस्या विदेहाख्यं गत्वा स पितुर् आसने ।

[८६८] उपविष्टः सत्वयोगाद् बुभुजे गमनाकुलम् ॥

अन्विष्य धर्मराजो ऽसौ सा कन्या मिथिवंशजा ।

विवाहिता हिता भर्तुः सामहानायिकाभवत् ॥

श्यामला नाम चार्वुअङ्गी प्रसिद्धा श्रूयते श्रुतौ ।

ताम् उवाच वरारोहां धर्मराजः स्वयं प्रियाम् ॥

वहस्व सर्वव्यापारं श्यामले त्वं गृहे मम ।

कुरु स्वजनभृत्यानां दानाक्षेपं यथेप्सितम् ॥

किं त्व् एते पञ्जराः सप्त नालोक्या अतियन्त्रिताः ।

कदाचिद् अपि घोराश् च त्वया वैदेहनन्दिनि ॥

एवम् अस्व्त्व् इति साप्य् उक्त्वा निजं कर्म चकार ह ।

कदाचिद् व्याकुलीभूता ब्रह्मराजविदेहजा ॥

उद्घाटयित्वा प्रथमं ददर्श जननीं स्वकाम् ।

सा पच्यमाना क्रन्दन्ती भीषणैर् यमकिङ्करैः ॥

हेलयाक्षिप्यते बध्वा तप्ततैले पुनः पुनः ।

तथैव तां समालोक्य व्रीडिता सा मनस्विनी ॥

द्वितीये पञ्जरे तद्वन् माताम् एव ददर्श ह ।

सुधावत् पिष्यमाणां तां शिलापाल्याष्टकेतुना ॥

तृतीये पञ्जरे तद्वत् तां ददर्श स्वमातरम् ।

क्रकचैः पाठ्यते (?) मूर्ध्नि घण्टयुक्तैः करोल्वणैः ॥

चतुर्थपञ्जरे स्थाने भीषणैः खरुणाननैः ।

भूज्यमानैः स्वापदैश् च क्रन्दतीं तां पुनः पुनः ॥

पञ्चमे निहतां भूमौ कण्ठं पादेन पीडिताम् ।

[८६९] सन्दर्शैर् घनघातैश् च विदीर्णा क्रियते तु सा ॥

षष्ठे भुर्यत्रमध्यस्थां मस्तके मुद्वराहताम् ।

सम्पीड्यमानाम् अनिशं सुदृढं खण्डखण्डवत् ॥

सप्तमे पञ्जरे चार्तस्वनां पूतिसुगन्धिना ।

दृष्ट्वा तथागतां तां तु मातरं दुःखकर्षिताम् ॥

श्यामला म्लानवदना किं च नोवाच भामिनी ।

अथागतयमं प्राह सरोषा श्यामला पतिम् ॥

किं तवापहृतं राजन् मम त्व् आशंस दारुणम् ।

येन त्वं विविधैर् घातैर् वध्यते बहुधाचया ॥

यमः प्राह प्रिये दृष्ट्वा भद्रे नोद्घटिता त्वया ।

एते पिञ्जरकाः सप्त निषिद्धा त्वं मया पुरा ॥

तव मात्रा सुतस्नेहाद् गोधूमो ऽपहृतः किल ।

किं न जानासि ते भद्रे येन तुष्ट्यापयोपरि ॥

ब्रह्मस्वं प्रणयाद् भूतं दहत्य् आसप्तमं कुलम् ।

तद् एव चौर्यरूपेण क्लिश्नात्य् आचन्द्रतारकम् ॥

गोधूमास् तद् इमे भूताः कृमिरूपाः सुदारुणाः ।

ये पुरा ब्राह्मणगृहे हता तव कृते मया ॥

श्यामलोवाच ।

जानामि तद् अहं सर्वं यन् मे मात्रा कृतं पुरा ।

तथापि त्वां समासाद्य त्वां च जामातरं शुभम् ॥

मुच्यते कृमिराशित्वाद् यथावद् अधुना कुरु ।

तच् छ्रुत्वा (?) चिन्तयाविष्टहृदयो ऽवस्थितश् चिरम् ॥

बुधाष्टमी सुसम्पूर्णा यथोक्तफलदायिनी ।

[८७०] तत् फलं यच्छतीवेयं (?) कुरु शीघ्रं जगाद ताम् ॥

धर्मराजः सहासीनां प्रियां प्राणधनेश्वरीम् ।

व्रतं च सप्तमे ऽतीते जन्मनि ब्राःमणी शुभा ॥

आर्तासि च त्वया सङ्गात् सखीनां पर्युपासिता ।

बुधाष्टमी सुसम्पूर्णा यथोक्तफलदायिनी ॥

तत् फलं यच्छती वाचं सत्यां कृत्वा ममाग्रतः ।

येन मुच्येत ते माता नरकात् पापसङ्कटात् ॥

तच् छ्रुत्वा त्वरितं स्नात्वा ददौ पुण्याहवाचकम् ।

स्वमातुः श्यामला तुष्टा तेन मोक्षं जगाम सा ॥

उर्मिला रूपसम्पन्ना दिव्यदेहधरा शुभा ।

विमानवरम् आरूढा दिव्यमाल्याम्बरावृता ॥

भर्तुः समीपे स्वर्गस्था दृश्यते ऽद्यापि सा जनैः ।

बुधस्य पार्श्वे नभसि मिथिराजसमीपतः ॥

विस्फुरति महाराज बुधाष्टम्याः प्रभावतः ॥

युधिष्ठिर उवाच ।

यद्य् एवं प्रवरा कृष्णा तिथिर् वैका बुधाष्टमी ।

तस्या एव विधिं ब्रूहि विधानं च विशेषतः ॥

तस्या एव विधिं ब्रूहि यदि तुष्टो ऽसि मे प्रभो ॥

श्रीकृष्ण उवाच ।

शृणु पाण्डवं यत्नेन बुधाष्टम्यां विधिं शुभम् ।

यदा यदा सिताष्टम्यां बुधवारो भवेद् यति ॥

तदा तदैव सा ग्राह्या एकभक्ताशनैर् नृभिः ।

स्नात्वा नद्यां तु पूर्वाह्णे गृहीत्वा करणं नवम् ॥

[८७१] जलपूर्णं सहेमानं कृत्वा खाद्यैः समन्वितम् ।

दद्याद् विधाय तं गत्वा गृहं चैव क्रमेण तु ॥

अष्टम्यष्टविधानेन विचित्रान्नैः पृथक् पृथक् ।

प्रथमा मोदकैर् भक्ष्यैः द्वितीया धाण्कैस् तथा ॥

तृतीया घृतपूरैश् च चतुर्थी वटकैर् नृप ।

पञ्चमी शुभ्रकासारैः षष्ठीसीहालकैः शुभैः ॥

अशोकवर्तिभिः शुभ्रैः सप्तमी चातिवाहयेत् ।

अष्टमी फाणितापूर्णैः खण्डवेष्टैर् युधिष्ठिर ॥

एवं क्रमेण कर्तव्याः सुहृत्स्वजनबान्धवैः ।

सहैकत्र स्थितैर् भोज्यं भोक्तव्यं प्रीतिपूर्वकम् ॥

उपाख्यानम् इदं पार्थ भोजनं सहसा त्यजेत् ।

तावद् एव हि भोक्तव्यं यावन् सा कथ्यते कथा ॥

ततो भूत्वा (?) बुधस्याग्रे आचम्य च समाहितः ।

विप्राय वेदविदुषे वाचकाय प्रदापयेत् ॥

साक्षतं सहिरण्यं च जातरूपमयं शुभम् ।

अर्चितं चर्चितं गन्धैः पुष्पैर् धूपैः सुगन्धिभिः ॥

पीतवस्त्रैः समाछन्नं बुधं सोमात्मजाकृतिम् ।

माषकेन सुवर्णस्य तदर्धार्धेन वा कृताम् ॥

बुधरूपम् उक्तं मत्स्यपुराणे ।

पीतमाल्याम्बरधरः कर्णिकारसमद्युतिः ।

खड्गचर्मगदापाणिः सिंहस्थो वरदो बुधः ॥ इति ।

भुक्तियुक्तस् तु कौन्तेय दद्याद् देवं समुच्चरन् ।

[८७२] ॐ बुधाय नमः । ॐ सोमात्मजाय नमः । ॐ दुर्बुद्धिनाशाय नमः ।

ॐ सुबुद्धिप्रदाय नमः । ॐ ताराजाताय नमः । ॐ पीताम्बराय नमः ।

ॐ सौम्यग्रहाय नमः । ॐ सर्वसौख्यप्रदाय नमः ।

इति पूजामन्त्राः ।

ॐ बुधो ऽयं प्रतिगृह्णाति द्रव्यस्थस् तु पुनः स्वयम् ।

दीयते बुधरूपेण तुष्यतां मे बुधोत्तमः ॥

दानमन्त्रः ।

ॐ दुर्बुद्धिबोध दुरितं नाशयत्व् अवयोर् बुधः ।

सौख्यं सौमनसं नित्यङ्करोतु शशिनन्दनः ॥

इत्य् उच्चार्य गृहीत्वा तु दत्वा मन्त्रपुरस्कृतम् ।

सप्तजन्मनि राजेन्द्र भवेज् जातिस्मरो भुवि ॥

धनधान्यसमायुक्तः पुत्रपौत्रसमृद्धिमान् ।

दीर्घायुर् विपुलान् भोगान् बहून् भुक्ता महीतले ॥

ततः सुतीर्थमरणं ध्यात्वा नारायणं लभेत् ।

मृतो ऽसौ स्वर्गम् आप्नोति पुरन्दरपुरीं नृप ॥

तत्रास्ते यावद् आ सृष्टेर् यावद् आभूतसम्प्लवम् ।

एवम् एषा समाख्याता गुह्या पार्थ बुधाष्टमी ॥

यं श्रुत्वा ब्रह्महा गोघ्नः सर्वपापैः प्रमुच्यते ।

यश् चाष्टमीं बुधयुतां समवाप्य भक्त्या

सम्पूजयेच् छशिसुतं करकोपरिस्थम् ।

पक्वान्नपानसहितं सहिरण्यवस्त्रं

[८७३] पश्यत्य् असौ यममुखं न कदाचिद् एव ॥

इति भविष्योत्तरे बुधाष्टमीव्रतम् ।

अथ दूर्वाष्टमीव्रतम् ।

विष्णुर् उवाच ।

ब्रह्मन् भाद्रपदे मासि शुक्लाष्टम्याम् उपोषितः ।

पूजयेच् छङ्करं भक्त्या यो नरः श्रद्धयान्वितः ॥

स याति परमं स्थानं यत्र देवस् त्रिलोचनः ।

गणेशं पूजयेद् यस् तु दूर्वया या हितं मुने ॥

गणेशो महेश्वरः ।

फलानां सकलैर् दिव्यैर् गन्धपुष्पैर् विलेपनैः ।

दूर्वां पूज्य तथेणानं मुच्यते सर्वपातकैः ॥

शुचौ देशे प्रजातायां दूर्वायां ब्राह्मणोत्तमः ।

स्नाप्य लिङ्गं ततो गन्धैः पुष्पैर् धूपैः समर्चयेत् ॥

खर्जूरैर् नारिकेलैश् च मातुलिङ्गफलैस् तथा ।

पूजयेच् छङ्करं भक्त्या दूर्वया विधिवद् द्विज ॥

दध्यक्षतैर् द्विजश्रेष्ठ प्रदद्यात् तु त्रिलोचने ।

दूर्वाशमीभ्यां सम्पूज्य मानवः श्रद्धयान्वितः ॥

स वै सुकृतजन्मा स्यात् सर्वदेवैस् तु वन्दितः ।

विद्यां प्राप्नोति विद्यार्थी पुत्रार्थी पुत्रम् आप्नुयात् ॥

[८७४] धर्मार्थी धर्मम् आप्नोति कन्यार्थी लभते च ताम् ।

मनसा यद् यद् इच्छेत तत् तद् आप्नोति मानवः ॥

य एवं पूजयेद् दूर्वां भूतेशं मानवः फलैः ।

सप्तजन्मनि पापौधैर् मुच्यते नात्र संशयः ॥

कृत्वोपवासं सप्तम्याम् अष्टम्यां पूजयेच् छिवम् ।

दूर्वासमेतं विप्रेन्द्र दध्यक्षतफलैः शुभैः ॥

त्वं दूर्वे ऽमृतजन्मासि वन्दितासि सुरासुरैः ।

सौभाग्यं सन्ततिं देहि सर्वकार्यकरौ भव ॥

यथा शाखाप्रशाखाभिर् विस्तृतासि महीतले ।

तथा ममापि सन्तानं देहि त्वम् अजरामरे ॥

दूर्वापूजनमन्त्रः ।

सलिङ्गमन्त्रैर् ईशानम् अर्चयेत् प्रयतः शुचिः ।

ततः सम्पूजयेद् विप्रान् फलैर् नानाविधैर् द्विज ॥

अनग्निपक्वम् अश्नीयाद् अन्नं दधि फलं तथा ।

अक्षरालवणं ब्रह्मन् नाश्नीयान् मधुनान्वितम् ॥

दद्यात् फलानि विप्रेषु फलाहारः स्वयं भवेत् ।

प्रणम्य शिरसा दूर्वां शिवं शिवम् अवाप्नुते ॥

य एवं कुरुते भक्त्या महादेवस्य पूजनम् ।

गणत्वं यात्य् असौ ब्रह्मन् मुच्यते ब्रह्महत्यया ॥

एवं पुण्या पापहरा अष्टमीदेवसञ्ज्ञिता ।

[८७५] चतुर्णाम् अपि वर्णानां स्त्रीजनानां विशेषतः ॥

इति भविष्यपुराणोक्तं दूर्वाष्टमीव्रतम् ।

अथ दूर्वाष्टमीव्रतम् ।

शुक्लाष्टम्यां तु सम्प्राप्ते मासि भाद्रपदे तथा ।

दूर्वाप्रतानं सुखेतम् उत्तराशाभिगामिनम् ॥

पूजयेद् गृहम् आनीय गन्धमाल्यानुलेपनैः ।

फलमूलैस् तथा चैव दीपं धूपैर् विसर्जयेत् ॥

अग्निपक्वं तथा सर्वं निवेद्य च कथञ्चन ।

भोक्तव्यं च तथा ब्रह्मन् वह्निपक्वविवर्जितम् ॥

दूर्वाङ्कुरस्थां सम्पूज्य विधिना यौवने प्रियम् ।

यैवनं स्थिरम् आप्नोति यत्र यत्राभिजायते ॥

इति आदित्यपुराणोक्तं दूर्वाष्टमीव्रतम् ।

अथाशोकाष्टमीव्रतम् ।

भानुर् उवाच ।

अष्टमीषु च सर्वासु पूजनीयाप्य् अशोकिका ।

गन्धमाल्यनमस्कारदीपधूपान्नसम्पदा ॥

तस्मिन्न् अहनि या भुङ्क्ते नक्तम् इन्दुविवर्जिते ।

भवत्य् अथो ऽविशोका सा यत्र यत्राभिजायते ॥

अष्टमीषु च सर्वासु न चेच् छुक्लेति वै मुने ।

[८७६] प्रोष्ठपद्याम् अतीतायां या स्यात् कृष्णाष्टमी द्विजाः ॥

तस्याम् अवश्यं कर्तव्यं देवीं पूज्य यथाविधि ।

इत्य् आदित्यपुरानोक्तम् अशोकाष्टमीव्रतम् ।

क़्थ मातृव्रतम् ।

मातॄणाम् अष्टमी दत्ता ब्रह्मणा तिथिर् उत्तमा ।

एताः क्षमापयेद् भक्त्या निराहारो नरः सदा ॥

तस्य ताः परितुष्टास् तु क्षेमारोग्यं ददन्ति च ।

इति वाराहपुराणोक्तं मातृव्रतम् ।

अथ नरसिंहव्रतम् ।

सनत्कुमार उवाच ।

अथाष्टमीव्रतं ब्रह्मन् प्रोच्यमानम् इदं शृणु ।

भवविध्वंसनं नॄणां सर्वार्तिहरणं परम् ॥

राजा वा राजपुत्रो वा यदि चेद् रिपुनाशनम् ।

तद् अष्टम्यां तु सुस्नातो यवाशं च प्रकाशयेत् ॥

कुर्याद् अष्टदलं पद्मं तन्दुलैर् वा प्रसूनकैः ।

कर्णिकायाम् अथेशानं नरसिंहाकृतिं स्मरेत् ॥

उग्ररूपं महादंष्ट्रं गम्भीराध्वानगर्जितम् ।

[८७७] बृहद्रजततुङ्गादिप्रवराहतनुद्युतिम् ।

चलत्करालकुटिलभ्रूभङ्गनिहताहितम् ॥

वक्त्रान्तवृत्तिज्वलितस्फुरत्पद्मविलोचनम् ।

दंष्ट्राग्रान्तविनिर्धूतज्वालाव्याप्तदिगन्तरम् ॥

नखरागविनिर्भिन्नवैरिवक्षः क्षतश्रुतिः ।

दैत्योरस्थलविक्षोदक्षतजानुकराम्बुजः ॥

रक्तपुष्पगुडान्नेन फलमूलेन चार्चयेत् ।

तत्प्रकाशे महाकुम्भम् अव्रणं भारसम्मितम् ॥

तीर्थोदकेन शुचिना गन्धयुक्तेन पूरितम् ।

वस्त्रयुग्मेन सञ्छन्नं कुशकूर्चसमन्वितम् ॥

सर्वौषधिसमायुक्तं सर्वरत्नसमन्वितम् ।

धान्यपूगे ऽथ वा श्वेततण्डुले स्थापयेत् सुधीः ॥

दिक्षु वा कलसान् अष्टौ शुभवस्त्रादिसंयुतान् ।

पूर्वादिक्रमयोगेन स्थापयेद् एकम् अग्रतः ॥

द्वारप्रदेशे संस्थाप्य कलशानां द्वयं द्वयम् ।

द्वारपालान् प्रतिष्ठाप्य कलशेष् वहि क्रमात् ॥

रथाङ्गं पाञ्चजन्यं च शार्ङ्गं नन्दकम् एव च ।

स्मरन् प्रतीचीपर्यन्तं कलशेषु यथाक्रमम् ॥

शरांश् च मुशलं चन्द्रं स्मरन् कोणेषु वै गदाम् ।

अनन्तरं च वै तार्क्षं वेदात्मानं च संस्मरन् ॥

[८७८] तत्र तत्र च वै नाम्ना पूजयेत् सुसमाहितः ।

रक्तानुलेपनैः पुष्पैः फलमूलैः समर्चयेत् ॥

तत्र तत्र च तन्मन्त्रं जपेद् अष्टसहस्रकम् ।

अष्टोत्तरसहस्रं वा शतं वापि स्वशक्तितः ॥

नृसिंहैकाक्षरं मन्त्रं जपेद् वानुष्टुभं परम् ।

जपान्ते कल्पयेत् कुण्डम् अग्रतः शास्त्रसम्मतम् ॥

द्विहस्तायाम् अविस्तारं योनिनाभिसमन्वितम् ।

चतुर्मेखलकं वास्य त्रिमेखलकम् एव वा ॥

उन्मत्तपुष्पसदृशं योनिरन्ध्रं विदुर् बुधाः ।

एवं कृत्वा ततः कुर्यात् समिद्धं जातवेदसम् ॥

तन्मध्ये संस्मरेद् देवं नरसिंहम् अनुत्तमम् ।

सुदर्शनाद्यायुधानि यथास्थानं च संस्मरेत् ॥

विधायास्ग्निप्रतिष्ठानं प्रणवेनैव मन्त्रवित् ।

आदौ कुण्डं च संशोध्य कुर्याद् अग्निनिमन्त्रणम् ॥

पश्चाद् अग्निं परिस्तीर्य प्रागग्रैर् वा कुशैर् अपि ।

ततः संशोध्य (?) पात्राणि प्रोक्षयेत् क्रमशस् ततः ॥

प्रणीताम् अपि संशोध्य कुर्यात् तत्परिषेचनम् ।

संशोध्य होमद्रव्याणि कुण्डस्यैवापसव्यतः ॥

विधायाज्यस्य संस्कारं पात्रादीन् परिधाप्य च ।

निधाप्य सम्यक् पात्राणि वाज्यभागौ तथैव च ॥

[८७९] देवतावाहने पश्चाद् धविषश् च समर्पणम् ।

आयुः कामस् तु दूर्वाभिः श्रीकामो बिल्वसम्भवैः ॥

आरोग्यकामो ऽपामार्गैस् तिलैर् वापि घृतेन च ।

मृत्योर् विजयम् अन्विच्छन् मध्वाक्तैः कमलैर् नवैः ॥

पुष्पैश् च चम्पकभवैर् धनार्थी जातिसम्भवैः ।

शत्रोर् मरणम् आकाङ्क्षेल् लाक्षैर् वापि विभीतकैः ॥

वश्यार्थी लवणोद्धूतैः सर्षपैः समरीचकैः ।

तुषैर् वा निम्बपत्रैर् वा तैलेनापि च साधयेत् ॥

उन्मत्तकैस् तथोन्मादैर् मोहने स्तम्भने ऽपि च ।

तद्बीजैस् तत्फलैर् वापि तत्काष्ठैर् ज्वलितानलैः ॥

अम्बुजैः श्रियम् अन्विच्छन् सितैर् अव्याकुलं यदि ।

श्रीलताकुसुमैश् चापि तत्पत्रैर् अक्षतैर् अपि ॥

तद्बीजैर् अङ्कुरैश् चापि त्रिमध्वाक्तैश् च तण्डुलैः ।

चन्दनक्षोदसंयुक्तिर् उत्पलैः कुमुदैर् अपि ॥

तथा चन्दनकाष्ठेन गव्येन पयसापि वा ।

एकपत्रैः परां पुष्टिं सहदेव्याप्य् अरोगताम् ॥

धान्यैर् अयुस् तथारोग्यम् अक्षतैः कदलीफलैः ।

यं यं कामयते मन्त्री तेन तेनैव साधयेत् ॥

साधारणो विधिर् अयं लभते वच्मि तं पुनः ।

जुहुयाद् दशसाहस्रं द्रव्यैर् वाथ यथाविधि ॥

यावत् साध्या गरीयस् त्वं तावत् सङ्ख्यानदर्शनम् ॥

श्रीनिवास नमस् ते ऽस्तु श्रीवृक्ष शिववल्लभ ।

[८८०] ममाभिलषितावप्तिं कृत्वा विघ्नहरो भव ॥

सप्तकृत्वस् ततो अभ्यर्च्य श्रीवृक्षं प्रणिपत्य च ।

ब्राह्मणान् भोजयेद् भक्त्या श्रीदेवी प्रीयतां मम ॥

ततो भुञ्जीत मौनेन तैलक्षारविवर्जितम् ।

अनग्निपक्वं मृत्पात्रे दधिधान्यफलं शुभम् ॥

एवं यः कुरुते पार्थ श्रीवृक्षाभ्यर्चनं नरः ।

नारी वा दुःखशोकाभ्यां मुच्यते नात्र संशयः ॥

सप्तजन्मान्तरं यावत् सुखसौभाग्यसंयुता ।

श्रीमती फलिनी सत्या मर्त्यलोके महीयते ॥

श्रीवृक्षम् अक्षतफलं वरदं नवम्यां

नैवेद्यदिच्यफलवस्त्रविरूढधान्यैः ।

पूज्यप्रभातसमये पुरुषोत्तमा ये

ते प्राप्नुवन्ति कमलां पुरुषेन्द्रचन्द्राः ॥

अथ देवस्य पुरतः साध्यं कृत्वासने स्थितः ।

कुम्भतोयेन कलशैर् मन्त्रेणैवाभिषेचयेत् ॥

दक्षिणां गुरवे दत्वा कुर्याद् ब्राह्मणभोजनम् ।

युद्धारम्भे जनक्षोभे राष्ट्रयात्रारिपीडने ॥

भये व्याधिपरिक्लेशे स कुर्याद् अष्टमीव्रतम् ।

विद्यार्थी विद्याम् अतुलां श्रियम् इच्छन् महाश्रियम् ॥

यद् यद् इच्छति तत् तस्य पुष्णात्य् एतं व्रतं परम् ॥

इति गरुडपुराणोक्तं नरसिंहव्रतम् ।

[८८१]

अथ हरव्रतम् ।

ब्रह्मोवाच ।

अष्टम्यां पूजितो देवो गोश्रुताभरणो हरः ।

ज्ञानं ददाति विपुलां कान्तिं जातिं बलं तथा ॥

गोश्रुताभरणः चक्षुःश्रवोभूषः शिव इत्यार्थः ।

मृत्युहा ज्ञानदश् चैव पापहा च प्रपूजितः ।

मूलमन्त्रस्वसञ्ज्ञाभिर् अङ्गमन्त्राश् च कीर्तिताः ॥

पूर्ववत् पद्मपत्रस्थः कर्तव्यश् चातिथीश्वरः ।

गन्धपुष्पोपहारैश् च यथाशक्ति विधीयते ॥

पूजाशाठ्येन शाठ्येन कृतापि तु फलप्रदा ।

आज्यधारासमिद्भिश् च दधिक्षीरान्नमाक्षिकैः ॥

पूर्वोक्तफलदो होमः कृतः शान्तेन चेतसा ।

एतद् व्रतं वैश्वानरप्रतिपद्व्रते व्याख्येयम् ।

इति भविष्यत्पुरानोक्तं हरव्रतम् ।

अथ् सुगतिव्रतम् ।

नक्ताशी त्व् अष्टमीषु स्याद् वत्सरान्ते तु गोप्रदः ।

पौरन्दरपदं याति सुगतिव्रतम् उच्यते ॥

अत्र पुरन्दरो देवता ।

इति पद्मपुराणोक्तं सुगतिव्रतम् ।

[८८२]

अथ वृषभव्रतम् ।

सिताष्टम्यां सोपवासो वृषभं यः प्रपश्यति ।

सितवस्त्रयुगछन्नं यदाभरणभूषितम् ॥

शिवलोके चिरं स्थित्वा ततो राजा भवेद् इह ।

वृषव्रतम् इह प्रोक्तं सर्वपापप्रणाशनम् ॥

सोपवास इति पूर्वदिने कृतोपवास इत्य् अर्थः । अत्र शिवो देवता ।

इति भविष्यत्पुराणोक्तं वृषभव्रतम् ।

इति भविष्यत्पुराणोक्तं वृषभव्रतम् ।

अथ गुर्वष्टमीव्रतम् ।

युधिष्ठिर उवाच ।

ब्रूहि कृष्ण व्रतं किञ्चित् सर्वपापप्रणाशनम् ।

प्रेतत्वनाशनं चैव भुक्तिमुक्तिफलप्रदम् ॥

कृष्ण उवाच ।

मासि भाद्रपदे राजन् शुक्लपक्षे यादाष्टमी ।

गुरुवारेण संयुक्ता सा तिथिर् धर्मवर्धिनी ॥

सम्पूर्णा सर्वपापघ्नी प्रेतयोनिविनाशनी ।

गृह्णीयान् नियमं सम्यग् दन्तधावनपूर्वकम् ॥

[८८३] एकभक्तेन राजेन्द्र तस्यां देवो बृहस्पतिः ।

स्नानं नद्यां तडागे वा गृहे वा नियमात्मना ॥

सौवर्णं कारयेज् जीवं राजतं वा नरोत्तम ।

तस्याभावे यथाशक्त्या श्रीकण्डेनापि कारयेत् ॥

शाल्योदनं च भोक्तव्यं षष्टिकान्नम् अथापि वा ।

पात्रेषु शालिं संस्थाप्य परिपूर्णं यथा भवेत् ॥

कपिला गौः प्रदातव्या व्रतसम्पूर्णहेतवे ।

जलपूर्णं तु सद्रव्ये स्थापयेद् ब्राह्मणो घटे ॥

नमस् ते ज्ञानिनां श्रेष्ठ नमो नीतिविशारद ।

त्रिदशो देवदेवेश देवराज नमो ऽस्तु ते ॥

त्रिदशाधिपं सम्पूज्य प्रारम्भे गिरिशस्तुतः ।

गृहाणार्घ्यम् इदं देव नमस् तुभ्यं बृहस्पते ॥

अर्घ्यमन्त्रः ।

बुद्धिं देहि श्रियं देहि गतिं देहि शुरार्चित ।

बृहस्पते विधिं चैव परिपूर्णं कुरुष्व मे ॥

प्रार्थनामन्त्रः ।

अत्रैवोदाहरिष्यामि इतिहासं पुरातनम् ।

प्रेतमोक्षप्रदं पुण्यं तच् छृणुष्व महामते ॥

शृणु राजन् महाबाहो सकले क्षितिमण्डले ।

सुरथो नाम राजाभूत् सोमवंशसमुद्भवः ॥

स कदाचिद् गतो ऽरण्ये प्रविष्टो गहने वने ।

[८८४] शाल्मलीवृक्षम् एकं च निर्जले सूर्यतापिते ॥

निर्जीवे निर्जले रौद्रे सर्वप्राणभयङ्करे ।

स ददर्श नृपस् तत्र दुष्टरोद्रनिभान्तकान् ॥

अस्थिचर्मावरोकांश् च ऊर्ध्वकेशभयावहान् ।

दंष्ट्रा करालरक्ताक्षान् पूर्वपापफलव्रतान् ॥

तान् उवाच नृपः पार्थ सुरथो विगतज्वरः ।

के यूयं निर्जने ऽरण्ये कथं भो भीषणाननाः ॥

ततस् तम् ऊचुः सम्प्रीताः सुरथं प्रेतसत्तमाः ।

राजन् कर्मविपाकेन वयं प्रेतत्वम् आगताः ॥

अथोवाच नृपः प्रेतान् कर्मणा केन कथ्यताम् ।

निर्जने येन वारण्ये तिष्ठन्ति प्रेतभीषणाः ॥

अथ चैकेन तन्मध्याद् उक्तो राजा यथाक्रमम् ।

कृतं परस्त्रीगमनम् असत्यं भाषितं मया ॥

तेन कर्मविपाकेन प्रेतत्वम् अहम् आगतः ।

द्वितीयो ऽथाब्रवीद् राजन् अस्मदीयं क्र्तं शृणु ॥

कुर्वन्तीनां गवां पानं जले विघ्नं मया कृतम् ।

तृतीयो ऽथाब्रवीद् राजन् पैशून्यं कृतवान् अहम् ॥

तेन कर्मविपाकेन प्रेतत्वं प्रगतो ऽह्य् अहम् ।

एतस्मिन् कथिते राजा प्रोवाच सुरथो नृपः ॥

कथं वो भोजनं पानं शयनं स्वस्ति ते कथम् ॥

प्रेत उवाच ।

यत्रोच्छिष्टं स्थितं भूमौ श्लेष्मा नासाविनिर्गतम् ।

रजोविनिःसृतं योनौ स्त्रीणां तद् अपि भोजनम् ॥

[८८५] नान्यथा भोजनं राजन् तेन लज्जामहे वयम् ।

न प्रष्टव्यं महाबाहो पानीयं न लभामहे ॥

सुरथ उवाच ।

किं यज्ञैः किं तपोदानैः किं वा तीर्थावगाहनैः ।

युष्माकं च भवेन् मोक्षो व्रतम् एकं विना प्रभो ॥

राजोवाच ।

किं व्रतं कथ्यतां शीघ्रं को विधिः का च देवता ।

कस्मिन् वारे दिने मासे येन मोक्षो भवेच् च वः ॥

प्रेत उवाच ।

मासि भाद्रपदे राजन् शुक्लपक्षे यदाष्टमी ।

गुरुवारेण सम्पूर्णा लभ्यते च महाव्रतम् ॥

गुर्वष्टमी महापुण्या सर्वपापप्रणाशिनी ।

बुधाष्टमी सहस्रस्य फलम् आप्नोति मानवः ॥

दिङ्मूढो ऽहं वने प्रेता भवन्तो दर्शयन्तु मे ।

भूपस्य दर्शयामासुस् ते च मार्गं सुगामिनम् ॥

राजा च स्वपुरं गत्वा कृत्वा च व्रतम् उत्तमम् ।

प्रेतान् नरेण विधिना ददौ पुण्यं त्रिवाचकम् ॥

प्रेतत्वाद् अथ मुक्तास् ते विमानवरम् आश्रिताः ।

सूर्ययुग्मसमं हृष्टा सुरथं नृपसत्तमम् ॥

एवं यः कुरुते पार्थ बृहस्पतिशुभव्रतम् ।

तस्मिन् वंशे च न प्रेता भविष्यन्ति कदाचन ॥

सर्वपापविनिर्मुक्तः पदं गच्छत्य् अनामयम् ।

[८८६] एतत् ते कथितं पार्थ गुह्यं गुर्वष्टमीव्रतम् ॥

यः श्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।

इति श्रीभविष्यत्पुराणोक्तं गुर्वष्टमीव्रतम् ।

इति श्रीमहार्जाधिराजश्रीमहादेवस्य समस्तकरणाधीश्वर-

**सकलविद्याविशारदश्रीहेमाद्रिविरचिते **

चतुर्वर्गचिन्तामणौ व्रतखण्डे अष्टमीव्रतानि ।

[८८७]

अथ त्रओदशो ऽध्यायः

अथ नवमीव्रतानि

अवाप्य यद् उपाश्रयं गुणिगणः परं श्लाधते

पवित्रितजगत्त्रयं जयति यस्य कान्तं यशः ।

क्रमागतम् अथोच्यते सकललोकशोकापहं

समस्तनवमीतिथिव्रतम् अनेन हेमादिणा ॥

अथ श्रीवृक्षनवमीव्रतम् ।

कृष्ण उवाच ।

समुत्पन्नेषु रत्नेषु क्षीरोदमथने पुरा ।

बिल्ववृक्षगणं गत्वा विश्रान्ता कमलालया ॥

ममेयम् इति चान्योन्यं युयुधुर् देवदानवाः ।

असुरा निर्जिताः सर्वे युद्धे चक्रेण चक्रिणा ॥

पातालं गमिता दैत्याः सश्रीकः स्वयम् आबभौ ।

श्रीकामावासितो यस्मात् श्रीवृक्षस् तेन स स्मृतः ॥

तस्माद् भाद्रपदे चैव शुक्लपक्षे कुरूत्तम ।

नवम्याम् अर्चयेद् भक्त्या ईषत् सूर्योदये ऽनघ ॥

श्रीवृक्षं विविधै रत्नैर् अनग्निपतितैः फलैः ।

तिलपिष्टान्नगोधूमैर् धूपगन्धानुलेपनैः ॥

ईषद्भानुकराक्रान्त श्रीकृता वै नभस्तले ।

मन्त्रेणानेन राजेन्द्र पूजयेद् भक्तिसंयुतः ॥

[८८८] श्रीनिवास नमस् ते ऽस्तु श्रीवृक्ष शिववल्लभ ।

ममापि सत्तमां तृप्तिं कृत्वा विघ्नहरो भव ॥

सप्तकृत्वस् ततो ऽभ्यर्च्य श्रीवृक्षं प्रणिपत्य च ।

ब्राह्मणान् भोजयेद् भक्त्या श्रीदेवी प्रीयतां मम ॥

ततो भुञ्जीत मौनेन तैलक्षारविवर्जितम् ।

अनग्निपक्वं मृत्पात्रे दधिधान्यफलं शुभम् ॥

एवं यः कुरुते पार्थ श्रीवृक्षाभ्यर्चनं नरः ।

नारी वा दुःखशोकाभ्यां मुच्यते नात्र संशयः ॥

सप्तजन्मान्तरं यावत् सुखसौभाग्यसंयुता ।

श्रीमती द्युतिनी चैव मर्त्यलोके महीयते ॥

श्रीवृक्षम् अक्षतफलं वरदं नवम्यां

नैवेद्यपुष्पफलरत्नविरूढधान्यैः ।

पूज्य प्रभातसमये पुरुषोत्तमो ऽस्यां

ते प्राप्नुवन्ति कमलां पुरुषेन्द्रचन्द्र ॥

इति भविष्योत्तरोक्तं श्रीवृक्षनवमीव्रतम् ।

अथ ध्वजनवमीव्रतम् ।

कृष्ण उवाच ।

उल्काख्यां नवमीं राजन् कथयामि निबोध ताम् ।

या काश्यपेन कथिता तारकस्यार्त्तिनाशिनी ॥

[८८९] अश्वयुक् शुक्लपक्षे या नवमीति च विश्रुता ।

नद्या स्नात्वा तम् अभ्यर्च्य भगवत्या महासुरैः ।

पूर्ववरम् अनुस्मृत्य सङ्ग्रामे बहवः कृताः ॥

नानारूपधरा देवी अवतीर्य पुनः पुनः ।

धर्मसंस्थापनार्थाय पतिघ्ने दैत्यसत्तमान् ॥

अथ रक्तासुरो नाम महिषस्य सुतो महान् ।

आसीत् तेन तपस् तप्तं वर्षाणाम् अयुतानि षट् ॥

तस्मै ददौ वतुर्वक्त्रो राज्यं त्रैलोक्यमण्डले ।

तेन लब्धवरेणाथ ह्य् अलपित्वा दनोः सुतान् ॥

प्रारब्धं सह शक्रेण युद्धं गत्वामरावतीम् ।

तं दृष्ट्वा दानवबलं सन्नद्धं बोद्धत धव्जम् ॥

युयुधे दानवः सार्धं सुरैः शुक्रपुरःसरैः ।

तत्र प्रावर्तत नदी शोणितौघतरङ्गिणी ॥

परमस्य गदा प्राह वसुलं दन्तकच्छपा ।

वहन्ती पित्तले काये सुरासुरभटानकाः ॥

अथ रक्तासुरो रोषाद् युयुधे विबुधैः सह ।

ते हन्यमाना विबुधा रक्ताक्षेण महारणे ॥

भ्रष्टाः स्वर्गं परिष्वज्य त्यक्तप्राहरणाहुतम् ।

कटछत्रां पुरीं प्राप्ता यत्रास्ते भववल्लभा ॥

दुर्गा चामुण्डया सार्धं नवदुर्गासमन्विता ।

आद्या तावन् महालक्ष्मीर् नन्दा क्षेमङ्करी तथा ॥

शिवदूती महातुण्डा भ्रामरी चन्द्रमङ्गला ।

रेवती हरिसिद्धिस् तु नवैताः परिकीर्तिताः ॥

[८९०] यस् तासां ते स्तुतिं चक्रे त्रिदशाः प्रणता मताः ॥

अमरकुकुटचुम्बितचरणाम्बुजाः

सकलभुवनसुखजननीम् ।

जपन्ती जगदीशं मुदिता सकलनिष्कला दुर्गा ॥ १ ॥

विष्णते नखदशनभूषणरुधिरवसाछुरितकृतखड्गहस्ता ।

जयति नररुद्रमण्डितपिशाचानुचरहारकुन्दरी ॥ २ ॥

प्रज्वलितशिखिगणोल्बणविकटजटाबद्धचन्द्रमणीशोभा ।

जयति दिगम्बरे भूषासिद्धवटे सा लक्ष्मीः ॥ ३ ॥

करकमलजनितशोभाविप्रावबद्धपद्मवचना च ।

जयति कमण्डलुहस्ता नन्दादेवी न नन्निहर (?) ॥ ४ ॥

दिग्वसना विकृतमुखा फेत्कारोद्दामपूरितदिक्शोभा ।

जयति विकारणदेहा क्षेमङ्करी रौद्रभावस्था ॥ ५ ॥

क्रोशतब्रह्माण्डोदरमुखरमुखरमुखहुङ्कृतनिनादा ।

जयति महातिहस्ता शिवदूती प्रथमशिवभक्तितः ॥ ६ ॥

मुक्ताट्टहासभैरवदुःसह उच्चकितमकलदिग्वक्त्रा ।

जयति भुजगेन्द्रबन्धनशोभितकर्णामदातुण्डा ॥ ७ ॥

पटहमुरजमर्दलकुल्लरिक्तानर्तितावयवा ।

जयति मधुव्रतात्तपादैत्यहरी भ्रामरी देवी ॥ ८ ॥

शान्ता प्रशान्तवदना सिहन्व्याध्यानयोगगतिनिष्ठा ।

जयति चतुर्भुजदेहा चन्द्रकला चन्द्रमण्डला देवी ॥ ९ ॥

पक्षपुटचञ्चुघातैः सचूर्नितविविधशत्रुसङ्घाता ।

जयति शिवशूलहस्ता बहुरूपा रेवती भद्रा ॥ १० ॥

पर्यति जगतिदुष्टा पितृवननिलयेषु योगिनी सहिता ।

जयति हरसिद्धि (?) नाम्नां हरसिद्धिर् वन्दिता सिद्धैः ॥ ११ ॥

[८९१] इति दुर्गा सूक्ष्मानुपममर्यादातिरमरराट् कृत्वा इदम् ऊचे सह देवैः सापह्य् अस्मात् सर्वभीतिभ्यः ।

पुनः पुनः प्रणम्यापुर् भवानां सिंहवाहिनीम् ।

अस्माकं भवभीतानां श्रुत्वा तेभ्यो भयं ततः ॥

सिंहात् तं च विनिर्गत्य दुर्गाभिः सहिता पुरात् ।

युयुधे दानवैः सार्धं महासमरदुर्दिनम् ॥

कुमारी विंशतिभुजा घनविद्युल्लतोपमा ।

ते ऽपि तत्रासुराप्राप्ताः प्रचण्डा रौद्ररूपिणः ॥

सर्वं लघुवरः सूरा सुतप्ततपसस् तथा ।

महाग्रहापक्रान्ता ह्य् अत (?) मायाविनिर्णये ॥

आब्रह्माण्या ह्य् अधमिषानामतश् (?) च निबोधितान् ।

इन्द्रमारी मनुकेशां प्रलम्बो नरकः कुतः ॥

कुष्ठः पुलोमा शरभः सम्बरो दुन्दुभिः खरः ।

इल्वलो नमुचिर् भौमो वाताग्र्यं (?) धेनुकः कलिः ॥

मायावृतो बलौ बन्धुअमधुकैटभकालवित् ।

रहः पौण्ड्रादिदैत्येन्द्राः प्राधान्याद् ये प्रकीर्तिताः ॥

धनगोभिर् जनाः सर्वे सन्नद्धा स्वोच्छृतोध्वजः ।

रूपतो वर्णितश् चैव ध्वजास् तेषां पृथक् पृथक् ॥

प्रत्यदृश्यन्त राजेन्द्र ज्वलिता इव पावकाः ।

काञ्चनाः काञ्चनापीडाः काञ्चनास्रगलङ्कृताः ॥

पताका विविधैर् बालैर् उत्थिता लक्षणान्विताः ।

नीलाः पीताः सिता रक्ताः कृष्णाभाः पञ्चवर्णकाः ॥

तत्र पदपटी सौचा कृतबुद्बुदकर्बुरा ।

[८९२] पताका कान्तिवलला कर्तव्या इव शोभनाः ॥

ततो हलहलारावं चक्रुस् ते दानवोत्तमाः ।

प्रास्फालयन्ति पणवा भेरीमुरजगोमुखाः ॥

तान् वादयत्यानकन्द्ये शङ्खाडम्बरडिण्डिमान् ।

एवं (?) ते समयुध्यन्त भवानी दैत्यदानवाः ॥

समाजघ्नुः शरैः शुलैः परिघैः शक्तितोमरैः ।

कणायैर् इव तैः कुन्तैः शतघ्नीकूटमुद्गरैः ॥

आहत्यमाणो रोषेण जज्वाल समरे ऽधिकम् ।

सिंहारूढा द्रुतं देवी रणमध्ये प्रधाविता ॥

अच्छिवाच्छप्रविह्नानि ध्वजा नानाविधास् तथा ।

बलात्कारेण दैत्यानाम् अनाथसमरे तु वा ॥

चिह्नकानि ददौ तुष्टा देवेभ्यः शीघ्रचारिणी ।

सर्वैर् अपि गृहीतानि जपेद् देवीतिवादिभिः ॥

अविद्या तु भृशं तुष्टा तेषां चक्रे क्षणात् क्षयम् ।

कालरात्रिर् दानवानां मरीचिर् (?) निपपात सा ॥

जीवितानि च जग्राह दैत्यानां दवनन्दिनी ।

अथ रक्तासुरं कण्ठे गृहीत्वापात्य भूतले ॥

देवी जग्राह तीक्ष्मेन त्रिशूलेन भृशं दिवि ।

सम्भिन्नहृदये मासाश् चक्रे दैत्यसुदारुणाः ॥

तथापि देव्याभिहितः पपात च ममार च ।

देवस् तान् असुराञ् जित्वा जित्वा शत्रुपुरे जितं ॥

ददृशुस् ते क्रणप्रान्ते लम्बमाना महाध्वजाः ।

यात्रायां चक्रुः सम्प्रहृद्यान् नवम्यां ध्वजचिह्निताम् ॥

[८९३] अतोद्यां पीह भूपालैर् जयलक्षै छिपादृतैः ।

उपेष्यते नरैर् भक्तैः नारीभिश् चैव पाण्डव ॥

युधिष्ठिर उवाच ।

कीदृग्विधानं तस्यास्तु नवम्यां ब्रूहि मे प्रभो ।

सरहस्यं च मन्त्रं च तुष्यते येन चण्डिका ॥

कृष्ण उवाच ।

कीदृग्विधानं तस्यास् तु नवम्यां ब्रूहि मे प्रभो ।

सरहस्यं च मन्त्रं च तुष्यते येन चण्डिका ॥

कृष्ण उवाच ।

पौषस्य शुक्लपक्षे या नवमी शम्बरी श्रुता ।

तस्यां स्नात्वा शुभैः पुष्पैर् अर्चनीया हरेश्वसा ॥

कुमारी भगवान् देवी सिंहस्यन्दनगामिनी ।

धजान् नानाविधान् कृत्वा पुरतस् तं च पूजयेत् ॥

मालतीकुसुमैर् दीपैर् गन्धधूपविलेपनैः ।

वलिभिः पशुभिर् मेध्यैः (?) सुरामांसस्रपिन्धनैः ॥

दधिचन्दनचूर्णैश् च फलैश् चानग्निपाचितैः ।

देवीं स्वर्णमयीं कृत्वा सिंहारूढां चतुर्भुजाम् ॥

खड्गशक्तिधरां शूलधरां नेत्रत्रयान्विताम् ।

मन्त्रेणानेन कौन्तेय ब्राह्मणो ऽप्य् अथ वा न तु ॥

भद्रां भगवतीं कृष्णां विश्वस्य जगतो हिताम् ।

प्रवेशनीं संवमनीं ग्रहनक्षत्रमालिनीम् ॥

प्रपन्नो ऽहं शिवां रात्रीं भद्रे मां पाहि सर्वदा ।

सर्वभूतपिशाचेभ्यः सर्वसत्वसरीसृपेः ॥

देवेभ्यो मानुषेभ्यश् चोभयेभ्यो रक्ष मां मनः ।

यक्षरक्षःपिशाचेभ्यो नागेभ्यो वृश्चिकेष्व् अपि ॥

[८९४] चौरादिदुष्टसत्वेभ्यो हिंस्रेभ्यो रक्ष सर्वतः ।

इत्य् उच्चार्य प्रधान्येकं ध्वजकिङ्कणिमालिनम् ॥

ततश् चारोपयेद् राजा देवीनां भवने तथा ।

भोजयेच् च कुमारीश् च प्रणिपत्य क्षमापयेत् ॥

वाचकं पूरयित्वा च परिप्राप्य क्षमाप्य च ।

उपवासेन कुर्वीत एकभक्तेन वा पुनः ॥

भक्त्या नरेण दृढया भक्तिस् तत्र गरीयसी ।

एवं ये पूजयिष्यन्ति ध्वजैर् भगवतीं नरः ॥

तेषां दुर्गा दुर्गमार्गे चौरव्यालाग्निसङ्कटे ।

रणे राजकुले गेहे युद्धमध्ये जले स्थले ॥

रक्षां करोति सततं भवानी सर्वमङ्गला ।

अस्यां बभूव विजयो नवम्यां पाण्डुनन्दन ॥

भगवत्यास् तु तेनैषां नवमी सततं प्रियाम् ।

धन्या पुण्या पापहरा सर्वोपद्रवनाशिनी ॥

अनुष्ठेया प्रयत्नेन सर्वकामान् अभीप्सितान् ॥

देव्यार्चनं हितम् इदं मनुजो नवम्यां

हेमस्रजं धवजवरां स हि रोपयेद् यः ।

कामान् अवाप्य मनसो पिहितान् विहाय

देहं प्रायाति परमेश्वरि पादमूलम् ॥

इति भविष्योत्तरे ध्वजनवमीव्रतम् ।

[८९५]

अथ उल्कानवमीव्रतम् ।

उष्ण (?) उवाच ।

उल्काख्या नवमी राजन् कथयामि निबोध ताम् ।

या काश्यपेन कथिता तारकस्यार्तिनाशिनी ॥

अश्वयुक्शुक्लपक्षे या नवमी लीकविश्रुता ।

नद्यां स्नात्वा समभ्यर्च्य पितृदेवान् यथाविधि ॥

पश्चात् सम्पूजयेद् देवीं चामुण्डां भैरवी प्रियाम् ।

पुष्पैर् धूपैः सवैवेद्यैः मांसमत्स्यसुरासवैः ॥

पूजयित्वा स्तवं कुर्यान् मन्त्रेणानेन मानवः ।

समारोप्याञ्जलिं मूर्ध्नि जानुभ्याम् अवनीं गतः ॥

महिषघ्नि महामाये चामुण्डे मुण्डमालिनि ।

द्रव्यम् आरोप्य विजयं देहि देवि नमो ऽस्तु ते ॥

भूतप्रेतपिशाचेभ्यो रक्षोभ्यश् च महेश्वरि ।

देवेभ्यो मानुषेभ्यश् च भयेभ्यो रक्ष मां सदा ॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।

उभे ब्रह्माणि कौमारी विश्वरूपे प्रसीद मे ॥

कुमारीर् भोजयेत् पश्चात् नवम्यां नीलकञ्चुकैः ।

परिधानैर् भूषणैश् च भूषयित्वा क्षमापयेत् ॥

सप्तपञ्चमयैषां वा वित्तवृत्तानुरूपतः ।

श्रद्धया तुष्यते देवी इति वीरानुशासनम् ॥

अभ्युक्ष्य मण्डलं कृत्वा गोमयेन शुचिः स्मृतः ।

[८९६] दत्वासनं चोपविशेत् पात्रं च पुरतो न्यसेत् ॥

ततः सुसिद्धम् अन्नं च तत् सर्वं परिवेषयेत् ।

सघृतं पायसं ते ऽपि स्वयं चापात्रसन्निधौ ॥

तृणानि पुष्ठिम् आदाय ह्य् आदाय ग्रामकं तथा ।

प्रज्वालयेत् ततो भोज्य यावज् ज्वलति पावकः ॥

प्रशान्ते भोजनं त्यक्ता समाचम्य प्रसन्नधीः ।

चामुण्डां हृदये ध्यात्वा गृहकृत्यपरो भवेत् ॥

अनेन विधिना सर्वं मासि मासि समाचरेत् ।

ततः संवत्सरस्यान्ते भोजयित्वा कुमारिकाः ॥

वस्त्रैर् आभरणैः पूज्य प्रणिपत्य क्षमापयेत् ।

सुवर्णं शक्तितो दद्याद् गां च विप्राय शोभनाम् ॥

य एवं कुरुते पार्थ पुरुषो नवमीव्रतम् ।

न तस्य शत्रवो नार्तिं न राजा नापि तस्करः ॥

भूताः प्रेताः पिशाचाश् च जनयन्ति भयं गुह ।

समुद्यतेषु शास्त्रेषु हता तस्य न विद्यते ॥

रक्षते जयदोयुक्ता सर्वात् सुवचण्डिका ।

नरो वा यदि वा नारी व्रतम् एतत् समाचरेत् ॥

उल्कावत्ससपत्नानां ज्वलगस्ते सदा हृदि ॥

तां शुष्कवोढरसुखी प्रकटी तु दंष्ट्रा

कामाकिनीं समबलं चितिमुण्डमालम् ।

उल्कव्रतेषु पुरुषो नवमीषु चण्डो

सम्पूज्य कस्य हृदयं न च शङ्करोति ॥

इति श्रीभविष्योत्तरे उल्कानवमीव्रतम् ।

[८९७]

अथ उक्लानवमीव्रतम् ।

ऋषय ऊचुः ।

व्रतेन येन देवेन्द्र प्रसीदत्य् आशु पार्वती ।

तच् चोल्का नवमीसञ्ज्ञं शृणु सर्वफलप्रदम् ॥

तस्यां नवम्यां सर्वाणि महिषादीन् महासुरान् ।

जघान समरे शत्रून् तेन सा नवमी प्रिया ॥

अश्वयुक्शुक्लपक्षस्य नवम्यां प्रयतात्मवान् ।

स्नात्वाभ्यर्च्य पितॄन् देवान् मनुष्यांश् च यथाक्रमम् ॥

जपेत् पश्चान् महादेवीं महिषासुरघातिनीम् ।

पुष्पैर् धूपैः सनैवेद्यैः पयोदधिफलादिभिः ॥

भक्त्या सम्पूजयित्वैवं देवीं सम्प्रार्थयेत् ततः ।

मन्त्रेणानेन वृत्रारिं श्रद्धया परया व्रती ॥

महिषघ्नि महामाये चामुष्डे मुण्डमालिनि ।

दिव्यम् आरोग्यविजयं देहि देवि नमो ऽस्तु ते ॥

भूतप्रेतपिशाचेभ्यो रक्षोभ्यश् च महेश्वरि ।

देवेभ्यो मानुषेभ्यश् च भयेभ्यो रक्ष मां सदा ॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।

उभे ब्राह्माणि कौमारि विश्वरूपे प्रसीद मे ॥

कुमारीर् जोजयित्वा च भोजयित्वा क्षमापयेत् ।

न च सप्ताष्टकं चैकं बालवित्तानुसारतः ॥

[८९८] श्रद्धया प्रीतिम् आप्नोति देवी भगवती शिवा ।

शास्त्रवयस्यजच् चैव स तं यत्नेन पूजयेत् ॥

यतः शास्त्रेषु सा देवी निवसत्य् एव सन्ततम् ।

अभ्युक्ष्य मण्डलं कृत्वा गोमयेन सुविस्तरम् ॥

दत्वा समं चोपविशेत् पात्रं च पुरतो न्यसेत् ।

तस्यां संसिद्धमन्त्राद्यं तत् सर्वम् उपवेषयेत् ॥

प्राक् च सर्वं समुद्धृत्य वायसेभ्यो निवेदयेत् ।

तृणानां मुष्टिम् आदाय हस्तमात्रं सुयन्त्रितम् ॥

अन्यहस्तस्थितं क्षाल्य स्वयं भुञ्जीत वाग्यतः ।

प्रशान्ते ऽग्नौ समाचम्य शुचिस् तद्गतमानसः ॥

चामुण्डां हृदये ध्यात्वा गृहकृत्यपरो भवेत् ।

अनेन विधिना वर्षे मासि मासि समाचरेत् ॥

ततः संवत्सरस्यान्ते भोजयित्वा कुमारिकाः ।

वस्त्रैर् आभरणैः पूज्य प्रणिपत्य विसर्जयेत् ॥

सरुक्मशृङ्गीर् दद्याच् च गास् तु विप्राय शोभनाः ।

नरो वा यदि वा नारी व्रतम् एतत् करोति यः ॥

उल्कैव सा सपत्नीनां तेजसा भाति भूतले ।

श्रीमहानवमी त्व् (?) एषा ख्याता सुरथ ते ऽधुना ॥

सर्वसिद्धिकरी पुण्या सर्वोपद्रवनाशिनी ।

नाध्यात्मिकं भयं तस्य दैवं स्यान् नाधिभौतिकम् ॥

रक्षते हि सदा शक्र सर्वापत्सु च चण्डिका ।

शान्तिपुष्टिकरी धन्या पुत्रारोग्यार्थलाभदा ॥

अनुष्ठेया सदा पुम्भिश् चतुर्वर्गफलार्थिभिः ।

[८९९] यश् छद्मनापि कुरुते व्रतम् एतद् इत्थं

चण्डीप्रियं सुरथ ते मुनिसिद्धजुष्टम् ।

रुद्राङ्गनाकुलवराकुलितं विमानम्

आरुह्य याति सुमुखेन शिवस्य लोकम् ॥

इति सौरपुराणोक्तम् उल्कानवमीव्रतम् ।

अथ प्रदीप्तनवमीव्रतम् ।

हस्तमात्रं तृणं कार्यम् अङ्गुष्ठतर्जनीगतम् ।

प्रदीपं यावन् नोद्दीप्तं तावद् भोजनम् आचरेत् ॥

आश्विनशुक्लनवम्याम् इति शेषः ।

देवीं सम्पूजयित्वा तु षोडशार्णेन भावितः ।

ॐ महाभगवत्यै महिषासुरमर्दिन्यै

नाम्ना हुं पट् इति षोडशाक्षरम् ।

हेमपुष्पैस् तथा गन्धै रत्नैश् चित्रैर् यथाविधि ।

संवत्सरं यथान्यायं सर्वान् कामान् अवाप्नुयात् ॥

प्रदीप्ता नवमी वत्स हेमगोदक्षिणा मता ।

आद्या सर्वगता शुद्धा सङ्ग्रामेष्व् अपराजिता ॥

भवते शत्रुसङ्घस्य यथा देवो महेश्वरः ।

अनेनैव विधानेन गुग्गुलोर् गुटिकान् दधन् ॥

पूजयित्वा शिवं मन्त्रैः प्रदीप्तां होमयेद् विधौ ।

पूर्वोक्तेन विधानेन शिवं पूजयित्वा गुग्गुलोर् गृटिकां होमयेद् इत्य् अन्वयः ।

[९००] मन्त्रैः दुर्गामन्त्रैः । प्रदीप्ते विधौ प्रौढे चन्द्रे प्रदोषान्त इत्य् अर्थः ।

पूर्वोक्ता दक्षिणा वात्र फलं वाजिमखोदितम् ॥

इति देवीपुराणोक्तं प्रदीप्तनवमीव्रतम् ।

अथ नवरात्रिव्रतम् ।

देवा ऊचुः ।

यावद् भूर् वायुर् आकाशं जलं वह्निशशिग्रहाः ।

तावद् वै चण्डिकापूजा भविष्यति सदा भुवि ॥

प्रावृट्काले विशेषेण आश्विने ह्य् अष्टमीषु च ।

महाशब्दो नवम्यां च लोके ख्यातिं गमिष्यति ॥

ब्रह्मोवाच ।

एतत् ते देवराजेन्द्र स्वर्गवासफलप्रदम् ।

वरावरविभागं तु क्रियायोगेन कीर्तितम् ॥

एवं महाबलं शक्र पुरा देवारिकण्टकम् ।

हत्वा देवीं वरं दध्युर् विद्याद्याश् च प्रतोषिताः ॥

शक्र उवाच ।

आश्विने घातिते घोरे नवम्यां प्रतिवत्सरम् ।

श्रोतुम् इच्छाम्य् अहं तात उपवासजपादिकम् ॥

घोरे घोरनाम्नि दैत्ये घातिते मारिते सतीत्य् अर्थः ।

[९०१] ब्रह्मोवाच ।

शृणु शक्र प्रवक्ष्यामि यथा त्वं पृच्छसि स्वयम् ।

महासिद्धिप्रदं धन्यं सर्वशत्रुनिबर्हणम् ॥

सर्वलोकोपकारार्थं विशेषाद् अतिवृष्टिषु ।

कृत्यर्थं ब्राह्मणाद्यैश् च क्षत्रियैर् भूमिपालने ॥

गोधनार्थं विशा वत्स शूद्रैः पुत्रसुखार्थिभिः ।

सौभाग्यार्थं स्त्रिया कार्यम् आढ्यश् च धनकाङ्क्षिभिः ॥

महाव्रतं महापुण्यं शङ्कराद्यैर् अनुष्ठितम् ।

कर्तव्यं देवराजेन्द्र देवीभक्तिसमन्वितैः ॥

कन्यासङ्ख्ये गुरौ शक्र शुक्लाद् आरभ्य नन्दिकाम् ।

नन्दिकां प्रतिपत् ।

यवाशीत्य् अथ वै काशी नक्ताशीत्य् अथ वा पुनः ॥

प्रातःस्नायीजितद्वन्द्वस् त्रिकालं शिवपूजकः ।

जपहोमसमासक्तः (?) कन्यकाभोजयेत् सदा ॥

अष्टम्यां नवगेहानि दारुजानि शुभानि च ।

एकं वा हि त्रिभावेन कारयेत् सुरसत्तम ॥

तस्मिन् देवी प्रकर्तव्या हैमी वा राजतीपि वा ।

युद्धकालक्षणोपेतखड्गशूलेन पूजयेत् ॥

सर्वोपहारसम्पन्ना वस्त्ररत्नफलादिभिः ।

कारयेद् रथदोलादिपूजां च बलिदैविकीम् ॥

बलिग्राहिणो देवा बलिदेवा विनायकादयः । [९०२] तत्सम्बन्धिनीं बलिदैवकीम् । पुष्पैश् चन्द्रेण बिल्वाम्रजातीपुन्नागचम्पकैः । द्रोणः कुरुवकः ।

विचित्रां रचयेत् पूजाम् अष्टम्याम् उपवासयेत् ।

दुर्गाग्रतो जपेन् मन्त्रम् एकचित्तः सुभावितः ॥

तदर्धयामिनीशेषे विजयार्थं नृपोत्त्तम ।

पञ्चाब्दं लक्षणोपेतं महिषं च सुपूजितम् ॥

विधिवत् कालकालीति जप्त्वा खड्गेन घातयेत् ।

तस्योत्थं रुधिरं मांसं गृहीत्वा पूजनादिषु ॥

नैरृताय प्रदातव्यं महाकौशिकमन्त्रितम् ।

तस्याग्रतो नृपः स्नायाच् छत्रुं कृत्वा सुपिष्टजम् ॥

खड्गेन घातयित्वा तु दद्यात् स्कन्दविशाखयोः ।

ततो देवीं सुमृत्पात्रे क्षीरसर्पिर्जलादिभिः ॥

कुङ्कुमागुरुकर्पूरचन्दनैश् चार्च्य धूपयेत् ।

हेमादिपुष्परत्नादिवासांसि आहतानि च ॥

नैवेद्यं सुप्रभूतं तु देयं देव्या सुभावितैः ।

देवीभक्तांश् च पूजेत कन्यकाः प्रमदादिकाः ॥

द्विजातीन् अन्धपाषण्डान् अन्नदानेन प्रीणयेत् ।

नन्दा भक्ता नरा ये तु महाव्रतधराश् च ये ॥

रथयात्राबलिज्ञेयं जयवाद्यरवाकुलम् ।

कारयेत् तुष्यते येन देवी वस्तनिघातनैः ॥

अश्वमेधम् अवाप्नोति भक्तितः सुरसत्तम ।

महानवम्यां पूजेयं सर्वकामप्रदायिका ॥

[९०३] सर्वेषु वत्स वर्णेषु तव भक्ताः प्रकीर्तिताः ।

कृत्वाप्नोति यशो राज्यं पुत्रायुर्धनसम्पदः ॥

इति देवीपुराणोक्तं नवरात्रिव्रतम् ।

अथ महानवम्युत्सवविधिम् ।

कुमारीपूजनम् अप्य् अशेषेणोक्तं स्कन्दपुराणे ।

एकैकां पूजयेत् कन्याम् एकवृद्ध्या तथैव च ।

द्विगुणां त्रिगुणां चापि पूजयेन् नवकं तथा ॥

नवभिर् लक्षते भूमिम् ऐश्वर्यं द्विगुणेन च ।

एकवृद्ध्या लभेत् क्षेमम् एकैकेन प्रियं लभेत् ॥

एकवर्षा तु या कन्या पूजार्थं तां विवर्जयेत् ।

गन्धपुष्पफलादीनां प्रीतिस् तस्य न विद्यते ॥

द्विवर्षकन्याम् आरभ्य दशवर्षावधि क्रमात् ।

पूजयेत् सर्वकार्येषु यथाविध्य् उक्तमार्गतः ॥

कुमारिका द्विवर्षा तु त्रिवर्षा च त्रिमूर्तिनी ।

चतुर्वर्षा तु कयाणी पञ्चवर्षा तु रोहिणी ॥

षड्वर्षा तु भवेत् काली सप्तवर्षा तु चण्डिका ।

अष्टवर्षा शाम्बवी तु दुर्गा तु नवमी स्मृता ॥

दशवर्षा सुभद्रेति नामभिः परिकीर्तिताः ।

अत ऊर्ध्वं तु याः कन्याः सर्वकार्येषु वर्जिताः ॥

[९०४] दुःखदारिद्रनाशाय शत्रूणां नाशनाय च ।

आयुष्यबलवृद्धार्थं कुमारीः पूजयेत् नरः ॥

आयुष्कामस् त्रिमूर्तिं तु त्रिवर्गस्य फलाप्तये ।

अपमृत्युव्याधिपीडा दुःखानाम् अपनुत्तये ॥

सौख्यधान्यधनारोग्यपुत्रपौत्राधिवृद्धये ।

कल्याणीं पूजयेद् धीमान् नित्यं कल्याणवृद्धये ॥

आरोग्यसुखकामी च जयकामी तथैव च ।

यशस्कामी नरो नित्यं रोहिणीं परिपूजयेत् ॥

विद्यार्थी च जयार्थी च राज्यार्थी च विशेषतः ।

शत्रूणां च विनाशार्थी कालिकां पूजयेन् नरः ॥

सङ्ग्रामे जयकामी च चण्डिकां परिपूजयेत् ।

दुःखदारिद्र्यनाशाय नृपसम्मोहनाय च ॥

महापापविनाशाय शाम्भवीं च प्रपूजयेत् ।

स चेत् कुलाटशत्रूणाम् उग्रसाधनकर्मणि ॥

दुर्गां दुर्गतिनाशाय पूजयेद् यत्नतो बुधः ।

सौभाग्यधनधान्यादिवाञ्छितार्थफलाप्तये ॥

सुभद्रां पूजयेन् मर्त्यो दासीदासविवृद्धये ।

कुमारीपूजाप्रकारं च तत्रैवोक्तः ।

प्रातःकाले विशेषेण कृताभ्यङ्गो विशेषतः ।

आवाहयेत् ततः कन्यां मन्त्रेणानेन भार्गव ॥

आवाहनमन्त्रः ।

मन्त्राक्षरमयी लक्ष्मीर् मातॄणां रूपधारिणी ।

नवदुर्गात्मिकां साक्षात् कन्याम् आवाहयाम्य् अहम् ॥

[९०५] त्रिपुरां त्रिपुराधारां त्रिवर्गां ज्ञानरूपिणीम् ।

त्रैलोक्यवन्दितां देवीं त्रिमूर्तिं पूजयाम्य् अहम् ॥

कलात्मिकां कलातीतां कारुण्यहृदयां शिवाम् ।

कल्याणजननीं नित्यां कल्याणीं पूजयाम्य् अहम् ॥

अणिमादिगुणाधारां मकाराद्यक्षरात्मिकाम् ।

अनन्तशक्तिकां लक्ष्मीं रोहिणीं पूजयाम्य् अहम् ॥

कामचारीं शुभां कान्तां बाणचक्रस्वरूपिणीम् ।

कामदां करुण्ōदारां कालीं सम्पूजयाम्य् अहम् ॥

चण्डवीरां चण्डमायां चण्डमुण्डप्रभङ्गनीम् ।

पूजयामि सदा देवीं चण्डिकां चण्डविक्रमाम् ॥

सदानन्दकरीं शान्तां सर्वदेवनमस्कृताम् ।

सर्वभूतात्मिकां लक्ष्मीं शाम्भवीं पूजयाम्य् अहम् ॥

दुर्गमे दुस्तरे कार्ये भवदुःखविनाशिनीम् ।

पूजयामि सदा भक्त्या दुर्गां दुर्गार्तिनाशिनीम् ॥

सुन्दरीं स्वर्णदर्णाभां सुखसौभाग्यदायिनीम् ।

सुभद्रां जननीं देवीं सुभद्रां पूजयाम्य् अहम् ॥

एवम् अभ्यर्चनं कुर्यात् कुमारीणां प्रयत्नतः ।

कम्बुकैश् चैव वस्त्रैश् च गन्धपुष्पाक्षतादिभिः ॥

नानाविधैर् भक्ष्यभोज्यैर् भोजयेत् पायसादिभिः ।

हीनाधिकाङ्गीं कुष्ठादिविकारां कुकुलान् तथा ॥

ग्रन्थिस्फुटितगर्भाङ्गीं रक्तपूयव्रणाङ्कितान् ।

जात्यन्धां केकरीं काणीं कुरूपां तनुरोमशाम् ॥

[९०६] सन्त्यजेद् रोगिणीं कन्यां दासीगर्भसमुद्भवाम् ।

अरोगिणीं सुपुष्टाङ्गीं सुरूपां व्रणवर्जिताम् ॥

एकवंशसमुद्भूतां कन्यां सम्यक् प्रपूजयेत् ।

ब्राह्मणीं सर्वकार्येषु जयार्थे नृपवंशजाम् ॥

दारुणे चान्यजातीयां पूजयेद् विधिना नरः ॥ इति ।

अत्र चाश्चस्य (?) पूजनम् उक्तं देवीपुराणे ।

अश्वयुक्शुक्लप्रतिपत्तिथियोगे शुभे दिने ।

पूर्वम् उच्चैः श्रवा नाम प्रथमं श्रियम् आवहन् ॥

तस्मात् सो ऽश्वो नरैस् तत्र पूज्यो ऽसौ श्रद्धया सह ¦

पूजनीयाश् च तुरगा नवमीं यावद् एव हि ॥

शान्तिः स्वस्त्ययनं कार्या तदा तेषां दिने दिने ।

धान्यभल्लातकं कुष्ठं वचां सिद्धार्थकांस् तथा ॥

पञ्चवर्णेन सूत्रेण ग्रन्थिस् तेषां तु बन्धयेत् ।

वायवैर् वारुणैः सौरैः शाक्तैर् मन्त्रैश् च वैष्णवैः ॥

वैश्वदेवैस् तथाग्नेयैर् होमः कुर्याद् दिने दिने ।

तुरङ्गा रक्षणीयास् तु पुरुषैः शस्त्रपाणिभिः ॥

दरिद्र्यतः क्वचित् तत्र न च बाह्याः कथञ्चन ॥ इति ।

अस्मिन् नवरात्रे षष्ठ्यां बिल्वशाखादिमन्त्रणं कार्यं तथा लिङ्गपुराणे ।

[९०७] ऐं रावणस्य वधार्थाय रामस्यानुग्रहाय च ।

अकाले ब्रह्मणा बोधो देव्यास् त्वयि कृतः पुरा ॥

अहम् अप्य् आश्रितः षष्ठ्यां सायाह्ने बोधयाम्य् अतः ।

श्रीशैलशिखरे जात श्रीफल श्रीनिकेतन ॥

नेतव्यो ऽसि मया गच्छ पूज्यो दुर्गास्वरूपतः ।

सप्तम्यां प्रतस् तां शाखां गृहं छित्त्वा प्रवेशयेत् ॥

तथा च तत्रैव ।

मूलाभावे ऽपि सप्तम्याम् केवलायां प्रवेशयेत् ।

उभाभ्याम् नवबिल्वस्य फलाभ्यां शाखिकां तथा ॥ इति ।

अष्टम्यां पूजाविशेषो विहितो ब्रह्मपुराणे ।

अत्राष्टम्यां भद्रकाली दक्षयज्ञविनाशिनी॥

प्रादुर्भूता महाघोरा योगिनी कोटिभिः सह ॥

अतो ऽर्थं पूजनीया सा तस्मिन्न् अहनि मानवैः ।

उपोषितैर् वस्त्रधूपैर् दीपैर् माल्यानुलेपनैः ॥

आमिषैर् विविधैः शाकैर् होमब्राह्मणतर्पणैः ।

बिल्वपत्रैः श्रीफलैश् च चन्दनेन घृतेन च ॥

नवम्यां तु कृतस्नानैः सर्वैः पूज्यास् तु ब्राह्मणाः ॥ इति ।

प्रतिपदादिषु नवसु प्रतिदिनं दुर्गापूजादिकरणासामर्थ्ये सप्तम्यादिदिनत्रयेण कर्तव्यम् । तद् आह धौम्यः ।

आश्विने मासि शुक्ले तु कर्तव्यं नवरात्रकम् ।

प्रतिपदादिक्रमेणैव यावच् च नवमी भवेत् ॥

[९०८] त्रिरात्रं वापि कर्तव्यं सप्तम्यादि यथाक्रमम् ॥ इति ।

श्रीकृष्ण उवाच ।

पुण्या महानवम्य् अस्ति तिथीनाम् उत्तमा तिथिः ।

सानुष्ठेया सुरैः सर्वैः प्रजापालैर् विशेषतः ॥

भवानीतुष्टये पार्थ संवत्सरसुखाय च ।

भूतप्रेतपिशाचानां प्रीत्यर्थं तूत्सवाय च ॥

युधिष्ठिर उवाच ।

कस्मात् कालात् प्रवृत्तेयं नवमी महशब्दिता ।

किमादाव् अपि कृष्णासीद् भगवत्याः प्रिया तिथिः ॥

यशोदागर्भसम्भूता भूतयात्रा प्रवर्तते ।

उताहो पूर्वम् एवासीत् कृतत्रेतायुगादिषु ॥

ये चान्ये प्राणिनः केचिद् धन्यन्ते घातयन्ति वा ।

हतानां प्राणिनां तेषां का गतिः पारलौकिकी ॥

स्वयं घ्नतां घातयताम् अनुमोदयतां तथा ।

एतन् मे संशयं सर्वं छेत्तुम् अर्हसि केशव ॥

श्रीकृष्ण उवाच ।

पार्थ या परमा शक्तिर् अनन्ता लोकपूजिता ।

आत्मा सर्वगता शुद्धा भावगम्या मनोहरा ॥

अर्धाष्टमी कालिकायाः सुषुप्ता सर्वमङ्गला ।

माया कात्यायनी दुर्गा चामुण्डा शङ्करप्रिया ॥

[९०९] ध्यायन्ति यां योगरतां सा देवी परमेश्वरी ।

रूपभेदैर् नामभेदैर् भवानी पूज्यते शिवा ॥

नवम्यां तु महाराज देवदानवराक्षसैः ।

गन्धर्वैर् उरगैर् यक्षैः पूज्यते किन्नरैर् नरैः ॥

अन्यैर् अपि महीपालैः सृष्टिपूर्वं प्रकीर्तिता ।

पूजितेयं पुरा देवैस् तेभ्यः पूर्वतरैः शुभैः ॥

अश्वयुक्शुक्लपक्षस्य अष्टमी मूलसम्युता ।

सा महानवमी नाम त्रैलोक्ये ऽपि सुदुर्लभा ॥

कन्यागते सवितरि शुक्लपक्षे ऽष्टमी तु या ।

मूलनक्षत्रसंयुक्ता सा महानवमी स्मृता ॥

अष्टम्यां च नवम्यां च जन्ममोक्षप्रदाम्बिकाम् ।

पूजयित्वाश्विने मासि विशोको जायते नरः ॥

सन्तर्जयन्ती हुङ्कारैर्। विघ्नौघछेदकृत् परा ॥

नवम्यां पूजिता देवी ददात्य् अनुपमं फलम् ।

सा पुण्या सा पवित्रा च सुधर्मसुखदायिनी ॥

तस्यां सदा पूजनीया चामुण्डा मुण्डमालिनी ।

तस्यै ये ह्य् उपयुज्यन्ते प्राणिनो महिषादयः ॥

सर्वे ते स्वर्गतिं यान्ति घ्नतां पापं न विद्यते ।

न तथा बलिदानेन पुण्यधूपविलेपनैः ॥

यथा सम्तुष्यते मेषैर् माहिषैर् विन्ध्यवासिनी ।

उद्दिश्य दुर्गां हन्यन्ते विविधा यत्र जन्तवः ॥

ते यान्ति स्वर्गं कौन्तेय घतयन्तो यशस्विनः ।

भवानी प्राङ्गणे प्राणा येषां याता युधिष्ठिर ॥

[९१०] तेषां स्वर्गे ध्रुवं वासो नरास् ते ऽप्सरसां प्रियाः ।

मन्वन्तरेषु सर्वेषु कल्पेषु कुरुनन्दन ॥

तेषु सर्वेषु वैवासीन् नवमीयं सुरार्चिता ।

प्रसिद्धानादिनिधना वर्षे वर्षे युधिष्ठिर ॥

भूयो भूयो ऽवतारेषु भवानी पूज्यते सुरैः ।

अवतीर्णावतीर्णा च भुवि दैत्यनिबर्हिणी ॥

स्वर्गपातालमर्त्येषु करोत्य् अतिथिपालनम् ।

सैषा काले महादेवी यशोदागर्भसम्भवा ॥

कंसासुरस्योत्तमाङ्गे पादं गत्वा गता दिवम् ।

ततः प्रभृति दैत्यघ्नी यशोदानन्दिनी मया ॥

विन्ध्याचले स्थापयित्वा पुनः पूज्या प्रवर्तिता ।

पूवप्रसिद्धापि पुनर् भगिन्या महिमाकृते ॥

भुवि सत्त्वोपकाराय सर्वोपद्रवशान्तये ।

एवं च निन्ध्यवासिन्यां नवरात्रोपवासिनः ॥

एकभक्तेन जनैर् देवी स्थाने स्थाने पुरे पुरे ।

गृहे गृहे शक्तिपरैर् गृअम् ग्रामे वने वने ॥

स्नातैः प्रमुदितैर् हृष्टैर् ब्राह्मणैर् क्षत्रियैर् नृपैः ।

ततः सम्पूजयेद् धीमान् मन्त्रैर् एव पृथक् पृथक् ॥

वैश्यैर् शूद्रैर् भक्तियुक्तैर् म्लेच्छैर् अन्यैश् च मानवैः ।

स्त्रीभिश् च कुरुशार्दूल तद्विधानम् इदं शृणु ॥

जयाभिलाशी नृपतिः प्रतिपत्प्रभृति क्रमात् ।

लोहाभिसारिकं कर्म कारयेद् यावद् अष्टमीम् ॥

[९११] प्रागुदक्प्लवणे देशे पताकाभिर् अलङ्कृतम् ।

मण्डपं कारयेद् दिव्यं नवसप्तकरं शुभम् ॥

आग्नेय्यां कारयेत् कुण्डं हस्तमात्रं सुशोभनम् (?) ।

मेखलात्रयसंयुक्तं योन्यश्वत्थदलालया ॥

राजचिह्नानि सर्वाणि शस्त्राण्य् अस्त्राणि यानि च ।

आनीय मण्डपे तानि सर्वाण्य् एवाधिवासयेत् ॥

ततस् तु ब्राह्मणैः स्नातः शुक्लाम्बरधरः शुचिः ।

ओङ्कारपूर्वकैर् मन्त्रैस् तल्लिङ्गैर् जुहुयाद् घृतम् ॥

लोहनामाभवत् पूर्वं दानवः सुमहाबलः ।

स देवैः समरे क्रुद्धैर् बहुधा शकलीकृतः ॥

तदङ्गसम्भवं सर्वं लोहं यद् दृश्यते क्षितौ ।

लोहाभिसारिकं कर्म तेनैतद् ऋषिआण् स्मृतम् ॥

हुतशेषं तुरङ्गाणां राजान्नम् उपहारयेत् ।

शस्त्रास्त्रमन्त्रैर् होतव्यं पायसं घृतसंयुतम् ॥

केवलं घृतहोमस् तु राजचिह्नसुमन्त्रकैः ।

वद्धानालानकैस् तत्र गजाश्वान् समलङ्कृतान् ॥

भ्रामयन् नगरे नित्यं नन्दिघोषपुरःसर्वान् ।

प्रत्यहं नृपतिः स्नात्वा सम्पूज्य पितृदेवताम् ॥

पूजयेद् राजचिह्नानि फलमाल्यानुलेपनैः ।

हृतशेषं प्रदातव्यम् औपनायनिके द्विजे ॥

तस्याभिहरणाद् राज्ञो विजयः समुदाहृतः ।

[९१२] पूजामन्त्रान् प्रवक्ष्यामि पुराणोक्तान् अहं तव ॥

यैः पूजिताः प्रयच्छन्ति कीर्तिम् आयुर् यशो बलम् ।

यथा चन्द्रश् छादयति शिवायेमां वसुन्धराम् ॥

तथाच्छादय राजानं विजयारोग्यवृद्धये ॥

छत्रमन्त्रः ।

गन्धर्वकुलजातस् त्वं मा भूयाः कुलदूषकः ।

ब्राह्मणान् सत्यवाक्येन सोमस्य वरुणस्य च ॥

प्रभावाच् च कुताशस्य वर्धयस्व तुरङ्गम ।

तेजसा चैव सूर्यस्य मुनीनां तपसा तथा ॥

रुद्रस्य ब्रह्मचर्येण पवनस्य बलेन च ।

स्वर त्वं राजपुत्रं च कौस्तुभं च मणिं स्मर ॥

याम् गतिं पितृहा गच्छेद् ब्रह्महा मातृहा तथा ।

भ्रूणहानृतवादी च क्षत्रियश् च प्रङ्मुखः ॥

सूर्याचन्द्रमसौ वायुर् यावत् पश्यन्ति दुष्कृतिं ।

व्रज त्वं तां गतिं क्षिप्रं तव पापं भवेत् तदा ॥

विकृतिं यदि वाज्छन्तो युद्धे ऽध्वनि तुरङ्गम ।

रिपून् विजित्य समरे सह भर्त्रा सुखी भव ॥

अश्वमन्त्राः ।

शक्रकेतो महावीर्य श्यामवर्णार्चयाम्य् अहम् ।

पतत्रि वैनतेय त्वं तथा नारायणध्वज ॥

काश्यपेयारुणभ्रातर् नागारे विष्णुवाहन ।

[९१३] अप्रमेय दुराधर्ष रणे देवारिसूदन ॥

गरुत्मान् मारुतगतिस् त्वयि सन्निहितो यतः ।

अस्त्रचर्मायुधान् पत्रं रक्ष त्वं च रिपून दह ॥

ध्वजमन्त्रः ।

कुमुदैरावणौ पद्मः पुष्पदन्तो ऽथ वामनः ।

सुप्रतीको ऽञ्जनो नील एते ऽष्टौ देवयोनयः ॥

तेषां पुराश् च पौत्राश् च वनान्य् अष्टौ समाश्रिताः ।

भद्रो मन्दो मृगश् चैव राजसङ्कीर्ण एव च ॥

वने वने प्रसूतास् ते स्मर योनिं महागज ।

पान्तु त्वां वसवो रुद्रा आदित्याः समरुद्गणाः ॥

भर्तारं रक्ष नागेन्द्र स्वामिवत् प्रतिपाल्यताम् ।

अवाप्नुहि जयं युद्धे गमने स्वस्ति नो व्रज ॥

श्रीस् ते सोमाद् बलं विष्णोस् तेजः सूर्याज् जवो ऽनिलात् ।

स्थैर्यं मेरोर् जयो रुद्राद् वीर्यं देवात् पुरन्दरात् ॥

युद्धे रक्षन्तु नागास् त्वाम् दिशश् च सह देवतैः ।

अश्विनौ सह गन्धर्वैः पान्तु त्वां सर्वतः सदा ॥

गजमन्त्रः ।

हुतभुग् वसवो रुद्रा वायुः सोमो महर्षयः ।

नागकिन्नरगन्धर्वा यक्षभूतगणग्रहाः ॥

प्रमथास् तु सहादित्यैर् भूतेशो मातृभिः सह ।

शक्रसेनापतिस्कन्दो वरुणः पार्श्वदास् त्व् इह ॥

[९१४] प्रदहन्तु रिपून् सर्वान् राजा विजयम् ऋच्छतु ।

यानि प्रयुक्तान्य् अरिभिर् भूषणानि समन्ततः ॥

पतन्तूपरि शत्रूणां हतानि तव तेजसा ।

कालनेमिवधे यद्वत् तद्वत् त्रिपुरघातने ॥

हिरण्यकशिपोर् युद्धे युद्धे देवासुरे तथा ।

शोभितासि तथैवाद्य शोभयास्मांश् च संस्मर ॥

नीलां श्वेताम् इमां दृष्ट्वा नश्यन्त्व् आशु नृपारयः ।

व्याधिभिर् विविधैर् घोरैः शस्त्रैश् च युधि निर्जिताः ॥

सद्यः स्वस्था भवन्त्व् अस्मात् त्वद्घातेनापमार्जिताः ।

पूतना रेवती गौरी कालरात्रिश् च या स्मृता ॥

पताकामन्त्रः ।

असिर् विशसनः खड्गी विकर्मा च दुरासदः ।

श्त्रीगर्भो विजयश् चैव धर्माधारस् तथैव च ॥

इत्य् अष्टौ तव नामानि स्वयम् उक्तानि वेधसा ।

नक्षत्रं कृत्तिका ते तु गुरुर् देवो महेश्वरः ॥

हिरण्यं च शरीरन्ते धाता देवो जनार्दन ।

पिता पितामहो देवस् तन् मां पालय सर्वदा ॥

खड्गमन्त्रः ।

ॐ शर्मप्रद त्वं समरे चर्मसर्वायसो हृदि ।

रक्ष मां रक्षणीयो ऽहं न हन्तव्यो नमो ऽस्तु ते ॥

[९१५] वर्ममन्त्रः ।

दुन्दुभे त्वं प्रपन्नानां रोषाहृदयकम्पनः ।

भव भूमिपसैन्यानां तथा विजयवर्धनः ॥

यथा जीवभूतघोषेण प्रहृष्यन्ति तु बर्हिणः ॥

तथास्तु तव शब्देन हर्षो ऽस्माकं मुदा वह ।

यथा जीमूतशब्देन स्त्रीणां त्रासो ऽभिजायते ॥

तथा वादित्रशब्देन त्रासो ऽस्त्व् अस्मद् रिपो रणे ॥

दुन्दुभिमन्त्रः ।

सर्वायुधमाहामात्र सर्वदेवारिसूदन ।

शिवभूमासि सैन्यानां तथा विजयवर्धनः ॥

चाप मां सर्वदा रक्ष साकं सायकसत्तमैः ॥

चापमन्त्रः ।

पुण्यस् त्वं शङ्खशब्दानां मङ्गलानां च मङ्गलम् ।

विष्णुना विधृतो नित्यम् अतः शान्तिप्रदो भव ॥

शङ्खमन्त्रः ।

शशाङ्ककरसङ्काश हिमडिण्डीरपाण्डुर ।

प्रोत्सारणाय मुदित चामरामरवल्लभ ॥

चामरमन्त्रः ।

सर्वायुधानां प्रथमा निर्मितासि पिनाकिना ।

शूलायुधाद् विनिष्कृष्य कृत्वा मुष्टिग्रहं शुभम् ॥

चण्डिकायाः प्रियासि त्वं सर्वदुष्टनिबर्हणी ।

त्वया विस्तारिता वासि देवानां प्रतिपादिता ॥

[९१६] सर्वसत्त्वाङ्गभूतासि शुभासुरनिबर्हणी ।

छुरिके रक्ष मां नित्यं शान्तिं यच्छ नमो ऽस्तु ते ॥

छुरिकामन्त्रः ।

प्रोत्सारणाय दुष्टानां साधुसङ्ग्रहणाय च ।

ब्रह्मणा निर्मितश् चापि व्यवहारप्रसिद्धये ॥

यशो देहि सुखं देहि जयदो भव भूपतेः ।

ताडयाशू रिपून् सर्वान् हेमदण्ड नोमो ऽस्तु ते ॥

कनकदण्दमन्त्रः ।

विजयो यजदो नाम रिपुघाति प्रियङ्कर ।

दुःखहा धर्मदः शान्तः सर्वारिष्टविनाशन ॥

एते ऽष्टौ सन्निधौ प्रोक्तास् तव सिंहा महाबलाः ।

तेन सिंहासनो ऽसि त्वं विप्रैर् वेदेषु गीयसे ॥

त्वयि स्थितः शिवः साक्षात् त्वयि शक्रः सुरेश्वरः ।

त्वयि स्थितो हरिर् देवस् त्वदर्थे तप्यते तपः ॥

नमस् ते सर्वतोभद्र भद्रदो भव भूपतेः ।

त्रैलोक्यजय सर्वस्य सिंहासन नमो ऽस्तु ते ॥

सिंहासनमन्त्रः ।

लोहाभिसारिणं कर्म कृत्वैवं मन्त्रपूर्वकम् ।

फलनैवेद्यकुसुमैर् धूपदीपविलेपनैः ॥

अष्टम्यां नियमं कृत्वा पूर्वाह्णे स्नानम् आचरेत् ।

दुर्गां काञ्चनमूर्तिस्थां रौप्यां वा मृण्मयीम् अथ ॥

[९१७] शैलीं वार्क्षीं च रैत्तीं वा ताम्रीं विभवतः कृत्वा ।

दारुविचित्रतो रणे न्यस्ता शोभने स्थाने ॥

पुरतो विन्यस्तदेशां विचित्रगृहमध्यगां देवीम् ।

चन्दनकुङ्कुमचम्पकचतुःसमैः शैलपिष्टैश् च ॥

चार्चितगात्रां देवीम् कुसुमैर् अभ्यर्चितां बहुभिः ।

कुमुदैः सपद्मपुष्पैः सुदीपधूपैः सुनैवेद्यैः ॥

मांसैर् बल्युपहारैर् मङ्गलशब्दैः समुच्चलितैः ।

विजयछत्रैर् यनैः स्पन्दनसितशस्त्रधारिजनलोकैः ॥

तुष्टैर् वरवस्त्रादि सुनिवेद्यते सर्वम् एव भगवत्यै । (??)

जयन्ती मङ्गला काली भद्रकाली कपालिनी ।

दुर्गा क्षमा शिवा धात्री स्वाह स्वधा नमो ऽस्तु ते ॥

अमृतोद्भव श्रीवृक्ष महादेवप्रियं सदा ।

बिल्वपत्रं प्रयच्छामि पवित्रं ते सुरेश्वरि ॥

दुर्गां सम्पूजयेच् चैव तद्दिने द्रोणपुष्पकैः ।

सा चाभीष्टा सुरेशान्यास् तथारूढव्रतो ऽग्रतः ॥

ततः श्ङ्खं नमस्कृत्य शत्रूणां चैव मर्दयेत् ।

इच्छेत विजयं राज्यं सुभिक्षं चात्मनो न्र्पः ॥

पुनः पुनः प्रणम्यासिं संस्मरण् हृदये शिवाम् ।

महिषघ्नी महाभुजां कुमारीं हिंहवाहनीम्॥

दान्वांस् तर्जयन्तीं च खड्गोद्यतकरां शुभाम् ।

घण्टाक्षस्रग्धरां दुर्गां रणारम्भे व्यवस्थिताम् ॥

[९१८] ततो जयजयालापैस् त्वं कुर्याद् इमं ततः ।

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थ्साधिके ॥

शरण्ये त्र्यम्बके गौरि नारायणि नमो ऽस्तु ते ।

कुङ्कुमेन समालभ्ये चन्दनेन विलेपिते ॥

बिल्वपत्रमहामले दुर्गे ऽहं शरणं गतः ।

दत्वैवम् अथ कौरव्य अष्टम्यां जागरं निशि ॥

नटनर्तकगीतैश् च कारयेत् तु महोत्सवम् ।

एवं हृष्टो निशां नीत्वा प्रभाते अरुणोदये ॥

घातयेन् महिषान् मेषान् अग्रतो नतकन्धरान् ।

शतम् अर्धशतं वापि तदर्धं वा यथेच्छया ॥

सुरासवभृतैः कुम्बैस् तर्पयेत् परमेश्वरीम् ।

कपालिकेभ्यस् तद् एवं तथा दुष्टजनेष्व् अपि ॥

विभज्य सर्वं कौन्तेय सुहृत्सम्बन्धिबन्धुषु ।

ततो ऽपराह्णसमये नवम्यां स्पन्दने स्थिताम् ॥

भवानीं भ्रामयेद् राष्ट्रे स्वयं राजा स्वसैन्यवान् ।

सुविदग्धैः पूरुषैर् वारथयुक्तैः सुपूजितैः ॥

शनैः शनैर् अम्बिकाया ज्वलद्भिर् दीपवृक्षजैः ।

आकृष्टखड्गैर् योधैस् तु धानुष्कैः सुप्रवल्गितैः ॥

नदद्भिः शङ्खपटहैर् नृत्यद्भिर् बहुचारणैः ।

कश्चिच् चोपोषितो वीरो विधृतो ऽन्येन खड्गिना ॥

भूतेभ्यस् तु बलिं दद्यान् मन्त्रेणानेन चामिषम् ।

सरक्तं सजलं चान्नं गन्धपुष्पाक्षतैर् युतम् ॥

[९१९] त्रींस् त्रीन् वारांस् त्रिशूलेन दिग्विदिक्षु क्षिपेद् बलिम् ।

बलिं गृह्णन् त्व् इमं देवा आदित्या वसवस् तथा ॥

मरुतश् चाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहाः ।

असुरा यातुधानाश् च पिशाचा मातरोरगाः ॥

डाकिन्यो यक्षवेताला योगिन्यः पूतनास् तथा ।

जृम्भकाः सिद्धगन्धर्वा मालाविद्याधरा नगाः ॥

दिक्पाला लोकपालाश् च ये च विघ्नविनायकाः ।

जगतां शान्तिकर्तारो ब्रह्माद्याश् च महर्षयः ॥

मा विघ्नं मा च मे पापं मा सन्तु परिपन्थिनः ।

सौम्या भवन्तु उग्राश् च भूतप्रेताः सुखावहाः ॥

इत्य् एवं भ्रामयेद् राष्ट्रे दुर्गादेवीं रथस्थिताम् ।

नरयानेन वा पार्थ ततो विघ्नं समापयेत् ॥

अथोत्पन्नेषु विघ्नेषु भूतशान्तिं समाचरेत् ।

येन विघ्ना न जायन्ते यात्रा सम्पूर्नतां व्रजेत् ॥

एवं ये कुर्वते यात्रां राजानो ऽन्ये ऽपि मानवाः ।

महानवम्यां नन्दायाः पुत्रिका हृष्टमानसाः ॥

ते सर्वे पापनिर्मुक्ता यान्ति भागवतीं पुरीम् ।

न तेषां शत्रवो नाग्निर् न चौरो न विनायकाः ॥

विघ्नं कुर्वन्ति राजेन्द्र येषां तुष्टा महेश्वरी ।

निरुजाः सुखिनो भोगान् भुक्त्वा रोगविवर्जिताः ॥

भवन्ति पुरुषा भक्ता भगवत्याः किम् उच्यते ।

इत्य् एतत् ते समाख्यातं दुर्गादेव्या महोत्सवम् ॥

[९२०] पठतां शृण्वतां चैव सर्वाशुभविनाशनम् ।

शूलाग्रभिन्नमहिषासुरपृष्ठपीठम्

अध्यास्य तत्सुरुचिराङ्गदवाहुदण्डाम् ।

अभ्यर्च्य चन्द्रवदनानुगतां नवम्यां

दुर्गां तु दुर्गगहनानि तरन्ति मर्त्याः ॥

इति भविषोत्तरपुराणोक्तो महानवम्युत्सवविधिः

अथ महानवम्युत्सवविधिः ।

अथाथर्वणगोपथब्राह्मणात् । [=अथर्ववेद परिशिष्ट १७.२.१–१७; थे अव्पर् रेअदिन्ग्स् अरे गिवेन् इन् ब्रच्केत्स्]

अथ नवम्याम् अपराह्णे वाहनानि स्नपयित्वा आहतवासा ब्राह्मणो द्वादशकुशमितं वेदम् कृत्वा अथ तन्त्रम् इत्य् उक्तां शान्तिं कृत्वा तद्भूषणवाहनानि त्रिः पोक्ष्य परिधीयान् निशालाम् इति सूक्तं जपन् प्रत्येत्याभिषेचयेत् । यद् एतेनाश्वलङ्गे कृतं सबलकण्टकम् ।


	कृत्वोपस्थाय निदध्याद् अभयैर् अपराजितैः ।


स्वपुण्यैः स्वस्त्ययनैर् अप्रतिरथेन च हुत्वा संस्थाप्य अग्ने रक्षांसि अपाहतेति वासोभिः प्रच्छाद्य रसैः कुम्भान् औडुम्बरान् पूरयित्वा प्रतिदिवसम् अवस्थाप्य निदध्याद् एवम् अन्यान्य् उदपात्राणि सम्मिश्र्य धान्याष्टपात्राण्य् अष्टासु दिक्षु तत्रैव देवताः यजेताग्निं वायुं वरुणं (??) सोमम् अश्विनाव् इति । पयसि स्थालीपाकं श्रपयित्वा समन्वारम्बो ऽग्ने [समास् त्वाग्ने] **[९२१]** त्वं नो अतम ममाग्ने वर्चो विहवेष्व् अस्तु उदुत्तमं (?) वरुणपाशम् अस्मान् सदस्पतिसम् अद्भुत अश्विना वाचम् इति पञ्चभिर् जुहुयात् । पौर्णमासी प्रथमेति जुहुयाद् दुन्दुभिम् आहन्याद् इत्य् उक्तम् । उप श्वासय इति तत्रैवानुमन्त्रम् ।


	सर्वाणि च वादित्राणि वाहनानि च तन्त्रं स्यात् प्रतिहर्षयन्ति पञ्चमीन् अधिष्ठापये तं च पक्षैनुदेव [यक्ष्मा ऐतु देव] इति गुग्गुलकुष्ठधूपं दद्यात् । यस् ते गन्धस् त्र्यायुषम् इति भूतिं प्रयच्छेत् । दुष्ट्या दूषितरसीति [दुषिर् असीति] प्रतिसरम् आबध्य नार्तः पुस्ताद् [पुरस्ताद्] इति प्रतिसङ्क्षिपेत् । बहिर् निसृत्योत्तरेण गत्वा बाह्योतापनिःक्रम्य [बाह्येनोपनिष्क्रम्य] सुहृदे कुर्यां [कुर्यात्] श्रद्दधते कुर्याद् हतानाम् अभयं कर्म विवर्जितपक्षयोर् नवमीं यत्नात् कुर्याच् च भयकर्मणि । 

इति गोपथब्राह्मणे महानवमीविधिः ।

इति महानवयुत्सवविधिः ।

अथ उभयनवमीव्रतम् ।

श्रीसुमन्तुर् उवाच ।

यो ऽब्दम् एकं प्रकुर्वीत नवम्यां नक्तम् आदरात् ।

इह भोगान् अवाप्याग्र्यान् परत्र च दिवं व्रजेत् ॥

पौषे मासे च सम्प्राप्ते यः कुर्यान् नक्तभोजनम् ।

जितेन्द्रियः सत्यवादी कामक्रोधविवर्जितः ॥

पक्षयोर् नवमीं यत्नाद् उपवासेन पालयेत् ।

[९२२] त्रिकालं पूजये दार्यां गन्धपुष्पोपहारतः ॥

कृत्वाग्निकार्यं विधिवद् भूमौ शय्यां प्रकल्पयेत् ।

मासान्ते स्नपनं कृत्वा भवान्यै च घृतादिभिः ॥

कृत्वा ध्यानं महापूजां चण्डिकायै प्रकल्पयेत् ।

नैवेद्यं तण्डुलप्रस्थं क्षीरसिद्धं निवेदयेत् ॥

कुमारीर् भोजयेद् चाष्टौ विप्रान् भागवतांस् तथा ।

भागवतान् भगवतीभक्तान् ।

कृत्वा पिष्टमयीं देवीं नाम्ना आर्येति पूजयेत् ॥

चतुर्भुजां शूलधरां कुन्दपुष्पैः सगुग्गुलैः ।

स्नानं कृत्वा फ़िलैर् विप्र्स् तिलानां प्राशनं तथा ॥

य एवं पूजयेद् आर्यां तस्य पुण्यफलं शृणु ।

सूर्यकोटिप्रतीकाशं विमानवरम् आस्थितः ॥

दोधूयमानश् चमरैः स्तूयमानः सुरासुरैः ।

गच्छेद् दुर्गापुरं रम्यं यत्रास्ते चण्डिका स्वयम् ॥

क्रीडते देवगन्धर्वैर् यावद् आहूतसम्प्लवम् ।

त्रिःसप्तकुलजैः सर्धं भोगान् भुक्त्वा यथेप्सितान् ॥

पुनर् एत्य भुवं वीर राजा भवति भूतले ।

माघे मासे तु सम्प्राप्ते यः कुर्यान् नक्तभोजनम् ॥

कुशरां घृतसंयुक्तां भुञ्जानः संयतेन्द्रियः ।

उपवासपरो ऽष्टम्यां पक्षयोर् उभयोर् अपि ॥

पूजयेद् विधिवद् दुर्गां नाम्ना गौरीति वै नृप ।

[८२३] विमानवरम् आरूढः सूर्यलोके महीयते ॥

प्राप्ते तु फाल्गुने मासि यः कुर्यान् नक्तभोजनम् ।

यवान्नं भुञ्जमानस् तु त्यक्त्वा दूरेण योषितम् ॥

कृत्वोपवासम् अष्टम्यां पक्षयोर् उभयोर् नृप ।

उपवासं मनसि कृत्वा पूजयेद् विधिवद् दुर्गां नवम्युपवासं मनसि निधायाष्टम्यां नक्तम् ।

पूजयेत् त्र्यम्बकां भक्त्या कृत्वा गोधूमचूर्णतः ॥

दुर्गाम् अष्टभुजां वीर त्र्यम्बकाम् इति नामतः ।

गन्धपुष्पोपहारैस् तु सर्वं रक्तैस् तु पूजयेत् ॥

धूपं कृष्णागुरुं दद्यान् मांसं दद्याच् च माहिषम् ।

धान्यं सिद्धार्थकाः स्नाने प्राशने वा यवाः स्मृताः ॥

य एवं माघमासे च पूजयेत् त्र्यम्बकां शुभाम् ।

पीतैस् तु पूजयेत् पुष्पैश् चन्दनागुरुमिश्रितैः ॥

दध्योदनं तु नैवेद्यं धूपो ऽयं सिह्लकः परः ।

स्नानप्राशनयोर् धान्यं गोमूत्रं कायशोधनम् ॥

नवम्यां च महादेवीं स्नानं कृत्वा घृतादिभिः ।

कुमारीर् भोजयेद् भक्त्या ब्राह्मणांश् च स्वशक्तितः ॥

य एवं पूजयेद् भक्त्या दुर्गादेवीं नृपोत्तम ।

स याति परमं स्थानं यत्र सा चण्डिका स्थिता ॥

चैत्रे मासे तु सम्प्राप्ते यः कुर्यान् नक्तभोजनम् ।

पिष्टकं पयसा युक्तं भुञ्जानः शालिसम्भवम् ॥

[९२४] पूजयेद् भगवतीं भक्तिया क्र्त्वा वै चन्दनस्य च ।

गन्धपुष्पोपहारैश् च विंशार्धभुजसम्मितां ॥

ज्वालामुखीति वै नाम्ना कुङ्कुमागुरुचन्दनैः ।

धूपं सागुरुकर्पूरं भगवत्यै निवेदयेत् ॥

दद्यात् पशुमुखं भक्त्या नैवेद्यं विधिवन् नृप ।

इत्थं सम्भोज्य देवेशीं कुमारीं भोजयेत् ततः ॥

ब्राह्मणांश् च तथा शक्त्या ततो भुञ्जीत वाग्यतः ।

पद्मरागगणैर् युक्तं सौवर्णमणिवेदिकम् ॥

विमानवरम् आरूढो ब्रह्मलोके महीयते ।

वैशाखे मासि राजेन्द्र पक्षयोर् उभयोर् द्वयोः ॥

उपवासपरो भक्त्या पूजयामास चण्डिकाम् ।

अष्टम्यां नक्तं नवम्याम् उपवासप्रकाराद् वेदितव्यम् उत्तरेष्व् अपि मासेषु ।

नाम्ना भगवतीत्येवं कृत्वा पक्षमयीं विभो ॥

रूपेणाष्टभुजां शुभ्रां पूर्णचन्द्रनिबाननाम् ।

मुद्गराणां प्रजाभिस् तु पूजयेच् छिवनायिकाम् ॥

नानागुरुककर्पूरधूपेन विजयेन च ।

नैवेद्यं गुडपूपाश् च अथ वा गुग्गुलं नृप ॥

एवं सम्पूज्य विधिवत् कुमारीर् भोजयेत् ततः ।

पुष्पेषु तनुसङ्काशस् तेजस्वी ध्रुवसन्निभः ॥

विमानवरम् आरूढो देवीलोके महीयते ।

[९२५] ज्यैष्ठे मासि नृपश्रेष्ठ यः कुर्यान् नक्तभोजनम् ॥

शाल्युत्तमं शृतं शुभ्रं भुञ्जानः पयसा सह ।

उपवासपरो भक्त्या नवम्यां पूजयेद् द्रुमम् ॥

कुङ्कुमागुरुकर्पूरैर् धूपेनागरुणाथ वा ।

अशोकवर्तिप्रमुखैर् नानाभक्ष्यैस् तु पूजयेत् ॥

आषाढे मासि राजेन्द्र यः कुर्यान् नक्तभोजनम् ।

भुञ्जानः खण्डाकाद्यानि पायसं च नराधिप ॥

उपवासपरो भक्त्या नवम्यां पक्षयोर् द्वयोः ।

पूजयेच् छ्रद्धया दुर्गाम् ऐन्द्रीनाम्ना तु नामतः ॥

ऐरावणगतिं शुभ्रां श्वेतरूपेण पक्षिणीम् ।

कृत्वा स्वर्णमयीं भक्त्या नानानयनभूषिताम् ॥

नानापुष्पविशेषैस् तु भक्ष्यैर् नानाविधैस् तथा ।

यक्षकर्दमगन्धैश् च धूपैः सागरुचन्दनैः ॥

एवं सम्पूज्य इन्द्राणीं कुमारीं भोजयेत् ततः ।

स्त्रियो विप्रान् यथा भक्त्या ततो भुञ्जीत वाग्यतः ॥

पञ्चगव्यकृतस्नातः पञ्चगव्यकृताशनः ।

ध्यायमानस् तथा चैन्द्रीं स्वयं भूमौ नराधिप ॥

य एवं पूजयेद् दुर्गां भक्त्या श्रद्धासमन्वितः ।

उपवासपरो वीर नवम्यां पक्षयोर् द्वयोः ॥

पूजयेद् ब्राह्मणं भक्त्या श्रद्धया चण्डिकां नृप ।

[९२६] कौमारीम् इति वै नाम्ना नामतः पूजयेत् सदा ॥

कृत्वा रौप्यमयीं भक्त्या योगं वै पाशनाशिनीम् ।

करवीरैस् तु पुष्पैस् तु गन्धैश् चागरुचन्दनैः ॥

नरो भाद्रपदे मासि यः कुर्यान् नक्तभोजनम् ।

भुञ्जानः पायसं वीर कालशाकं च श्रद्धया ॥

उपवासपरो नित्यं नवम्यां पक्षयोर् द्वयोः ।

पूजयेद् वैष्णवीं भक्त्या शङ्खचक्रासिधारिणीम् ॥

जातीपुष्पैर् महाबाहो गन्धैः श्रीखण्डमिश्रितैः ।

श्रीखण्डागुरुकर्पूरैः सिह्लकेन च धूपयेत् ॥

नैवेद्यं पायसयुक्तं यथाशक्त्या निवेदयेत् ।

मांसेन प्रीणनं तस्यास् ततः पूज्याश् च कन्यकाः ॥

गोसकृत् प्राश्य (?) विधिवत् ततो भुञ्जीत वाग्यतः ।

प्रीणयित्वा द्विजान् शक्त्या योषितश् च नराधिप ॥

य एवं पूजयेद् भक्त्या वैष्णवीं सततं नृप ।

विमानवरम् आरूढो विष्णुलोके महीयते ॥

राजन्न् अश्वयुजे मासि यः कुर्यान् नक्तभोजनम् ।

गुडोदनं प्रभुञ्जानो जितात्मा संयतेन्द्रियः ॥

उपवासपरो भूत्वा नवम्यां पक्षयोर् द्वयोः ।

माहेश्वरीं पूजयेच् च कृत्वा रौप्यमयीं शुभाम् ॥

वृषभं च तथा वीर श्वेतपुष्पोपलेपनैः ।

धूपनं च महाङ्गेन खण्डखाद्यादिभोजनैः ॥

अजानां महिषाणां च मेषाणां च यथवधात् ।

प्रीणयेद् विधिवद् देवीं मांसशोणितपायसैः ॥

[९२७] कुमारीं भोजयेद् भक्त्या ब्राह्मणान् योषितस् तथा ।

भक्ष्यभोज्यैर् अनेकैश् च समांसैर् विधिवन् नृप ॥

अश्वमेधसहस्रस्य फलं प्रप्य दिवं व्रजेत् ।

द्विजेन्द्रप्रभया तुल्यः कान्त्या पुष्पायुधस्य च ॥

पुष्पकं यानम् आरूढो मोदते शाश्वतीः समाः ।

कार्तिके मासि राजेन्द्र यः कुर्यान् नक्तभोजनम् ॥

क्षीरोदनं तु भुञ्जानः सत्यवादी जितेन्द्रियः ।

यवान्नं पयसा युक्तं भुञ्जानः संयतेन्द्रियः ॥

पूजयेच् छ्रद्धया देवीं वाराहीं चक्रधारिणीम् ।

शतपत्रभ्रजाभिश् च कुङ्कुमेन विलेपयेत् ॥

कृष्णागरुं सिह्लकं च धूपं देव्यै निवेदयेत् ।

नैवेद्यं खण्डवेष्ट्यांस् तु नवम्यां पक्षयोर् द्वयोः ॥

एवं सम्पूज्य वाराहीं कुमारीं भोजयेत् ततः ।

ब्राह्मणांश् च तथा शक्त्या ततो भुञ्जीत वाग्यतः ॥

प्राशयित्वा तिलान् वीर दत्वा हुत्वा च शक्तितः ।

एवं सम्पूजयित्वा तु वाराहीं स्वर्गम् आप्नुयात् ॥

क्रीडते विष्णुना सार्धं क्रीडमानैः सुरासुरैः ।

पुनर् एत्य भुवं राजा सार्वभौमो भवेन् नृप ॥

राजन् मार्गशिरे मासि यः कुर्यान् नक्तभोजनम् ।

भुञ्जानः शष्कुलीं नित्यं जितात्मा च जितेन्द्रियः ॥

पूजयेद् विधिवद् भक्त्या चामुण्डां मुण्डनाशनीम् ।

नीलोत्पलैस् तथा पद्मैर् बिल्वपत्रैः कदम्बकैः ॥

चन्दनागुरुकर्पूरगुग्गुलेन तथा नृपः ।

[९२८] भक्ष्यैर् भोज्यैर् अनेकैश् च सुरामांसैर् अनेकशः ॥

रुधिरेण तथा वीर शिरोभिर् विविधैर् नृप ।

गजाविमहिषाणां च स्वदेहस्य च भेदनात् ॥

नवम्यां विधिवद् भक्त्या पक्षयोर् उभयोर् अपि ।

कुमारीर् भोजयेच् चापि ब्राह्मणान् योषितस् तथा ॥

पञ्चगव्यकृतस्नातः सम्यक् प्राश्य विधानतः ।

ततो भुञ्जीत राजेन्द्र भूमिं कृत्वा तु भाजनम् ॥

य एवं पूजयेद् भक्त्या चामुण्डां सततं नरः ।

स याति परमं स्थानं यत्र सा परमा कला ॥

सौवर्णं यानम् आरुह्य ध्वजमालाकृतं शुभम् ।

मोदते देवतैः सार्धं यावद् इन्द्राश् चतुर्दश ॥

पुनर् एत्य महीं वीर राजा भवति भूतले ।

प्रभया भृगुसङ्काशस् तेजसा रविसन्निभः ॥

कान्त्या चन्दसमो वीर युद्धे चेन्द्रसमो भवेत् ।

रुच्या यमसमो वीर बुद्ध्या धिषणशुक्रयोः ॥

इति भविष्यत्पुराणोक्तम् उभयनवमीव्रतम् ।

अथ नामनवमीव्रतम् ।

सुमन्तुर् उवाच ।

नवम्यां शुक्लपक्षे तु कृते नक्ते विशेषतः ।

मासि चाश्वयुजे वीर दुर्गादेवीति पूजयेत् ॥

बिल्वपत्रैस् तथाद्भिश् च द्रोणपुष्पैस् तु सर्वशः ।

[९२९] गुग्गुलेनाथ दग्धेन भक्ष्यभोज्यैर् अनेकशः ॥

परमान्नेन रत्नेन अजमहिषैर् विघातितैः ।

सम्प्रीणनं तथा कुर्याद् देव्या वै भक्तिम् आचरन् ॥

भोजयित्वा नवम्यां तु ब्राह्मणानां तु कन्यकाः ।

ब्राह्मणानां स्वस्त्रियश् च यथा भवति शक्तितः ॥

पञगव्यं ततः प्राश्य नक्तं भुञ्जीत वाग्यतः ।

य एवं पूजयेद् अत्र दुर्गां भक्त्या समन्वितः ॥

सो ऽश्वमेधसहस्रस्य फलं प्राप्य दिवं व्रजेत् ।

कार्यम् आश्विनवत् सर्वं कार्त्तिके ऽपि हि सत्तम ॥

कृत्वोपवासम् अष्टम्यां मासि मार्गशिरे नृप ।

नवम्यां पूजयेद् यस् तु शक्त्या भगवतीं बुधः ॥

नाम्ना भगवतीत्य् एवं जातीपुष्पैर् नराधिप ।

कर्पूरागरुधूपेन मधुना पायसेन च ॥

भोजयित्वा कुमारीश् च स्त्रियो विप्रांश् च शक्तितः ।

गोमयं प्राश्य विधिवत् ततो भुञ्जीत वाग्यतः ॥

य एवं पूजयेद् भक्त्या नरो भगवतीं नृप ।

राजसूयफलं प्राप्य ततः शिवपुरं व्रजेत् ॥

पुष्पे ऽप्य् एवं महाबाहो नवम्यां सञ्जितेन्द्रियः ।

पूजयेत् त्र्यम्बकां चैव नाम्ना तात नरः शिवाम् ॥

करवीरस्य पुष्पेण कुङ्कुमेन तु केसरैः ।

निवेद्य सिह्लकं धूपं नैवेद्यं मांसपूरिकम् ॥

पूजयेद् विप्रकन्याश् च स्त्रियो विप्रांश् च शक्तितः ।

विधिवत् प्राश्य गोमूत्रं ततो भुञ्जीत वाग्यतः ॥

[९३०] य एवं पूजयेन् मर्त्यो वाजपेयशतं लभेत् ।

माघे शुक्लनवम्यां च पूजयेच् चण्डिकां बुधः ॥

सर्वमङ्गलनामाख्यां यूथिकाकुसुमैर् नृप ।

प्रबोधाख्येन धूपेन अथ वा गुग्गुलेन च ॥

नैवेद्यं चैव पूपाश् च मत्स्यमांसं च भारत ।

पूजयित्वा नरो ह्य् एवं विधिवत् सर्वमङ्गलाम् ॥

कुमारीर् भोजयेत् पश्चात् प्रीयतां सर्वमङ्गला ।

गोधूमानां शतं लब्ध्वा गोलोके च महीयते ॥

फाल्गुने मासि राजेन्द्र चण्डिकेति सदार्चयेत् ।

नाम्ना भगवतीं देवीं कुन्दपुष्पेण पूजयेत् ॥

धूपेनागरुणा वीर सिह्लकेनापि वार्चयेत् ।

नैवेद्यं मोदकान् दद्यान् मधुमांसं पयस् तथा ॥

गोक्षीरप्राशनात् पूतः पूतो भुञ्जीत वाग्यतः ।

पूर्वोक्तान् भोजयित्वा च यथा शक्त्या विधानतः ॥

एवं सम्पूज्य विधिवच् चण्डिकां मुण्डमण्डनाम् ।

अग्निष्टोमस्य यज्ञस्य फलं शतगुणं भवेत् ॥

चैत्रे मासि महाबाहो आर्या भगवती स्मृता ।

पूजयेद् विधिवद् भक्त्या पुष्पैर् मुद्गरकस्य च ॥

धूपेनागरुमिश्रेण सिह्लकेनापि चार्चयेत् ।

धूपेन कुसुमौघेन कासारेण च पूजयेत् ॥

वैशाखे मासि राजेन्द्र नाम्ना भगवतीं यजेत् ।

प्राशयेत् पुष्पतोयं तु ततो भुञ्जीत वाग्यतः ॥

[९३१] कुमारीर् भोजयेद् भक्त्या पालाशकुसुमैर् इमम् ।

धूपं कृत्वागुरुं चैव नैवेद्यं घृतपूपकान् ॥

ज्येष्ठे मासि नृपश्रेष्ठ पूजयेद् अम्बिकाम् उमाम् ।

कुशपुष्पोदकं प्राश्य ततो भुञ्जीत वाग्यतः ॥

कुमारीर् योषितो विप्रान् पूजयेद् विधिवद् नृप ।

यूथिकाकुसुमैर् भक्त्या धूपेनाशबलेन च ॥

शाल्योदरजलाजाश् च श्रियै नैवेद्यम् आदिशेत् ।

एवं पूज्य श्रियं देवीं विष्णुलोके महीयते ॥

आषाढे शुक्लपक्षस्य नवम्यां पूजयेद् उमाम् ।

कर्णमौढीति नाम्नी तु लम्बकर्णी प्रकीर्तिता ॥

शमीपत्रकदम्बैस् तु (?) पूजयेद् विधिवन् नृप ।

कर्पूरागरुमिश्रेण धूपेन च कपालिनाम् ॥

पूजयित्वा भगवतीं कुमारीं भोजयेत् ततः ।

स्त्रियश् चापि यथाशक्त्या ब्राह्मणांश् च नराधिप ॥

शमीपत्रं ततः प्राश्य ततो भुञ्जीत वाग्यतः ।

एवं पूज्य महाकालीं राजसूयफलं लभेत् ॥

श्रावणे मासि राजेन्द्र नवम्यां चण्डमर्दिनीम् ।

नारायणीति वै नाम्ना पूजयेत् सततं बुधः ॥

रक्तैस् तिलैः सबकुलैः सकदम्बैस् तथा नृप ।

सघृतं गुग्गुलं धूपं नैवेद्यं घृतपायसम् ॥

एवं सम्पूज्य विधिवत् कुमारीर् भोजयेत् ततः ।

योषितश् च तथा विप्रान् शक्त्या च विधिवन् नृप ॥

[९३२] भोजयित्वा घृतं प्राश्य नवम्यां विधिवन् नृप ।

एवं सम्पूजयेद् देवीं स गच्छेत् परमं पदम् ॥

मासि भाद्रपदे शुक्ले नवम्यां चन्द्रिकां सदा ।

महानन्देति वै नाम्ना पूजयेद् विधिवन् नृप ॥

श्वेतरक्तैस् तथा पीतैः सर्वपुष्पैश् च भारत ।

कर्पूरागरुधूपेन गुग्गुलेन विशेषतः ॥

भक्ष्यभोज्यैर् अनेकैश् च मोदकैर् लोपिकादिभिः ।

एवं सम्पूज्य विधिवन् महादेवीं नराधिप ॥

लोपिका गोधूमचूर्णपिण्डिका ।

कुमारीर् भोजयेद् भक्त्या योषितो ब्राह्मणांस् तथा ।

भोजयित्वा ततो बिल्वं प्राशयेत् कायशोधनम् ॥

भूमिं तु भाजनं कृत्वा ततो भुञ्जीत वाग्यमः ।

एवं त्रिः पूजयित्वा वै ब्रह्मलोके महीयते ॥

वर्षान्ते भोजयेद् विप्रान् दुर्गाभक्तिपरायणान् ।

पायसं मधुसंयुक्तं घृतेन च पवित्रकम् ॥

कुमारीः पूजयित्वा तु दद्याच् चात्र षडङ्गिनीम् ।

कपिलां कुरुशार्दूल शीलयुक्तां पयस्विनीम् ॥

षडङ्गिनीङ्गाम् (?) ।

करोति वै वर्षम् एकं नैरन्तर्येण यो नरः ।

नामाख्यनवमीं भक्त्या तस्य पुण्यफलं शृणु ॥

सर्वपापविनिर्मुक्तः सर्वैश्वर्यसमन्वितः ।

वसेद् दूर्गापुरं नित्यं न वेहायाति वा पुनः ॥

य एवं कुरुते पुण्यां नवमीं नामसञ्ज्ञिकाम् ।

[९३३] स हि कामान् अवाप्याथ ब्रह्मलोके महीयते ॥

अपुत्रो लभते पुत्रान् निर्धनश् च धनं लभेत् ।

कन्यार्थी लभते कन्यां यशोऽर्थी लभते यशः ॥

इति भविष्यत्पुराणोक्तं नामनवमीव्रतम् ।

अथ रूपनवमीव्रतम् ।

सुमन्तुर् उवाच ।

शूलं पिष्टमयं कृत्वा मार्गे मासि नराधिप ।

कृत्वा सुराजतं पद्मं सौवर्णं कृतकर्णिकम् ॥

निवेद्य श्रद्धया वीर भगवत्यै प्रपूजितम् ।

कामतो ऽपि कृतं पापं भ्रूणहत्यादि यद् भवेत् ॥

तत् सर्वं शूलदानेन देवी नाशयति ध्रुवम् ।

विमानवरम् आरूढो देवगन्धर्वपूजितः ॥

कल्पकोटिशतं साग्रं दुर्गालोके महीयते ।

चण्डिकाप्रीतिम् आप्नोति यद् इच्छेद् विपुलां श्रियम् ॥

पौषे मासि महाबाहो चतुर्दन्तं गजं शुभम् ।

कृत्वा रुक्ममयं भक्त्या न्यस्य पात्रे हिरण्मये ॥

इन्द्राण्यै विधिवद् दद्यान् नानामणिविभूषितम् ।

एवं पूजयते भक्त्या इन्द्राणीं विधिवत् ततः ॥

स ऐरावतम् आरूढः सोमलोके महीयते ।

वर्षकोटिशतं साग्रं देवगन्धर्वपूजितम् ॥

माघे कृत्वा तु वै मेषं सर्वसौवर्णम् उत्तमम् ।

[९३४] कृत्वा रुक्ममये पात्रे स्वाहायै विनिवेदयेत् ॥

भक्तगन्धैः समायुक्तं नानापुष्पोपशोभितम् ।

विनिवेद्य नरो भक्त्या अग्निलोके महीयते ॥

दिव्यं विमानम् आरूढो ध्वजमालाकुलं शुभम् ।

पुनर् एत्य महीं राजा मण्डलाधिपतिर् भवेत् ॥

मयूरं फाल्गुने मासि कृत्वा पिष्टमयं नृप ।

गन्धमाल्यैर् अलङ्कृत्य कुमार्यै विनिवेदयेत् ॥

निवेद्य विधिवद् भक्त्या विमानवरम् आस्थितः ।

क्रीडते देवगन्धर्वैर् गुहेन च महात्मना ॥

चैत्रे मासि महाबाहो गरुडं पिष्टजं कृतम् ।

सम्पूजयित्वा विधिवद् वैष्णव्यै विनिवेदयेत् ॥

स्रजाभिर् विविधैर् वीर गन्धमाल्यैश् च शोभितम् ।

तं निवेद्य महाबाहो विष्णुलोके महीयते ॥

चित्रं यानं समारुह्य नानान्नोदकद्म्बकैः ।

वर्षकोटिशतं साग्रं ज्वलन्न् इत्व सुतेजसा ॥

कृत्वा मणिमयं वीर वाराहं लोकपूजितम् ।

गन्धमाल्योपहारैस् तु पूजयित्वा विधानतः ॥

चित्रैस् तु कुसुमैर् एव गुग्गुलेन सुगन्धिना ।

चामुण्डायेति नैवेद्यैर् हविष्यान्नैर् लभेत् फलम् ॥

प्रयाति च परं लोकं यत्र सा चण्डिका स्थिता ।

पलायते च चौरादि सर्वशत्रुर् भयङ्करः ॥

कृत्वा पिष्टमयं ज्यैष्ठे कच्छपं रत्नभूषितम् ।

[९३५] भूषयित्वा रजोभिश् च पुष्पाणां चन्दनेन च ॥

निवेद्य भक्त्या वारुण्यै रुद्रलोके महीयते ।

शङ्खकुन्देन्दुसङ्काशं विमानवरम् आतरेत् ॥

वर्षकोटिशतं साग्रं क्रीडयित्वा नराधिप ।

पुनर् एत्य महाराजो मण्डलाधिपतिर् भवेत् ॥

कृत्वा मृगं पिष्टमयं आषाढे रत्नभूषितम् ।

स्वर्णशृङ्गं रौप्यखुरं वायव्यै विनिवेदयेत् ॥

पूजयित्वा सुविधिवत् पुष्पधूपविलेपनैः ।

नैवेद्येन महाबाहो वायुलोके महीयते ॥

नरयानं पिष्टमयं कृत्वा राजन् सुशोभितम् ।

अनेकावरकोपेतं श्रावणे मासि भूपते ॥

पुष्पमाल्याकुलं दिव्यं ध्वजमालाकुलं (?) तथा ।

गन्धपुष्पोपहारैश् च पूजयित्वा विधानतः ॥

कौवेर्ये विनिवेद्येह अश्वमेधफलं लभेत् ।

प्रयाति परमं स्थानं दुर्गालोके महीयते ॥

कृत्वा भाद्रपदे मासि सर्वहेममयं विभो ।

महिषं दिव्यसंस्थानं गन्धमाल्योपशोभितम् ॥

याम्यै निवेदयेद् भक्त्या सूर्यलोके महीयते ।

एकं निवेदयेद् भक्त्या सूर्यलोके महीयते ॥

तथा चाश्वयुजे मासि भगवत्यै विधानतः ।

सुस्निग्धैश् चैव गोधूमैर् बक्ष्यभोज्यैर् अनेकशः ॥

नानावस्त्रसमायुक्तं कृत्वा पुष्पमयं द्विज ।

[९३६] विचित्रयानम् आरूढो रुद्रलोके महीयते ॥

वर्षकोटिशतं साग्रं क्रीडयित्वा गणैः सह ।

क्रमाद् आगत्य लोके ऽस्मिन् प्राज्ञो भवति भूतले ॥

सप्तधातुसमायुक्तं सर्वबीजरसादिभिः ।

बाहुले बहुलं वीर वितानछत्रशोभितम् ॥

बाहुले कार्त्तिके ।

गन्धमाल्यैश् च बहुभिः पूजिते च तथा शुचिः ।

कृत्वा रुक्ममयं शक्त्या विधिवच् चन्द्रमण्डलम् ॥

सुवर्णं मणिमुक्ताढ्यं रोहिण्यां विनिवेदयेत् ।

य एवं कुरुते भक्त्या तस्य पुण्यफलं शृणु ॥

वेदान्तेषु च यत् पुण्यं कथितं मुनिभिः पुरा ।

तत् पुण्यं कोटिगुणितं प्राप्नुयान् नात्र संशयः ॥

स याति परमं स्थानं चण्डिका वरदा यतः ।

देवदानवगन्धर्वैः स्तूयमानो गणादिभिः ॥

कल्पकोटिशतं साग्रं क्रीडते सह देवतैः ।

चन्द्रलोकादिलोकेषु भोगान् भुक्त्वा यथेप्सितान् ॥

पुण्यक्षयाद् इहागत्य राजा भवति भूतले ।

सुरूपः सुभगो नित्यं चन्द्रिकावरदानतः ॥

कल्पकोटिं समुद्दिश्य नरनारीनपुंसकः ।

भगवत्यौ गृहं दत्वा सर्वान् कामान् अवाप्नुयात् ॥

एवं कुरुते नक्तम् एकभक्तम् अथापि वा ।

[९३७] नवम्याम् उपवासं तु कुर्वाणो विधिवन् नृप ॥

रूपाणि यच्छमानस् तु पूर्वोक्तानि नराधिप ।

अश्वमेधसहस्रस्य राजसूयशतस्य च ॥

लब्ध्वा फलं महाबाहो ब्रह्मलोके महीयते ।

कल्पकोटिसहस्राणि पूज्यमानः सुरासुरैः ॥

पुण्यक्षयाद् इहागत्य पुनर् एव महीपतिः ।

राजा भवति दुर्धर्षः सप्तद्वीपाधिपो नृप ॥

इति भविष्यत्पुराणोक्तं राउपनवमीव्रतम् ।

अथ वरव्रतम् ।

सुमन्तुर् उवाच ।

नवम्यां नववर्षाणि राजन् पिष्टाशनो भवेत् ।

तस्य तुष्टा भवेद् देवी सर्वकामफलप्रदा ॥

अग्निपक्वम् अभुञ्जानो यावज्जीवं व्रती भवेत् ।

इह चामुत्र वरदा तस्यानन्तफलं ददेत् ॥

इति भविष्यत्पुराणोक्तं वरव्रतम् ।

अथ दुर्गानवमीव्रतम् ।

सुमन्तुर् उवाच ।

नवम्यां तु सिते पक्षे नियतः सञ्जितेन्द्रियः ।

मासि चाश्वयुजे वीर कार्त्तिके कार्त्तिकोत्तरे ॥

[९३८] पुष्ये च पूजयेद् दुर्गां जातिपुष्पैर् विधानतः ।

धूपार्थं गुग्गुलं दद्यान् नैवेद्यं गुडपूपकान् ॥

दुर्गेति नाम जप्तव्यं प्रयतो ऽष्टशतं नृप ।

माघे च फाल्गुने मासि चैत्रे चैत्रोत्तरे नृप ॥

शुक्लपक्षे तु अष्टव्याम् उपवासपरायणः ।

चैत्रोत्तरे वैशाखे ।

मालतीकरवीरेण बिल्वपत्रैश् च पूजयेत् ॥

धूपेनागरुकर्पूरसिह्लकैर् वृषणेन च ॥

सिह्लकस् तुरुस्कः । वृषणं कस्तूरिका ।

नैवेद्यं पायसं मांसं मङ्गलायै निवेदयेत् ।

सर्वमङ्गल इत्य् एवं जप्तव्यं नाम भारत ॥

ज्येष्ठे मासे तथाषाढे श्रावणे श्रावणोत्तरे ।

श्रावणोत्तरे भाद्रे ।

चण्डिकां पूजयेद् भाद्रे चण्डमुण्डप्रणाशिनीम् ।

बिल्वपत्रैर् मुहुरकैः शातपतिकया तथा ॥

प्रबोधेनैव धूपेन नैवेद्यं मोदकान् न्यसेत् ।

स्वम् एकम् एकं यस् त्व् एवं पूजयेद् अम्बिकां नरः ॥

नवम्यां शुक्लपक्षे तु सोपवासो जितेन्द्रियः ।

अश्वमेधसहस्रस्य राजसूयशतस्य च ॥

[९३९] फलम् आप्नोति राजेन्द्र सूर्यलोकं च गच्छति ।

विमानं दिव्यम् आरूढः सौवर्णकिङ्किनीचितम् ॥

क्रीडित्वैवं महाराजश् चासौ भवति भूतले ।

प्रथमे पारणे दुर्गा द्वितीये सर्वमङ्गला ॥

तृतीये चण्डिका प्रोक्ता राजन् भगवती बुध ।

प्रथमं पञ्चगव्यं च स्नानप्राशनयोर् मतम् ॥

द्वितीयं बिल्वपत्रैश् च तृतीयं मधुसर्पिषा ।

मासि मासि महाबाहो कुमारीर् ब्राह्मणान् नृप ॥

स्वशक्त्या भोजयेद् राजन् भक्ष्यभोज्यैर् अनेकशः ।

पारणान्ते महाभोज्यं कर्तव्यं विधिवन् नृप ॥

गन्धपुष्पोपहारैश् च चण्डिकां पूजयेत् ततः ।

नानाप्रेक्षणकैर् वीर ब्राह्मणानां च तर्पणैः ॥

एवम् एकं स्वम् एकं तु सुव्रतेनार्चयेन् नरः ।

महानवमीसञ्ज्ञेन दुर्गाभक्तान् नराधिप ॥

स याति परमं स्थानं विमानवरम् आस्थितः ।

यत्र साक्षाद् भगवती पूज्या मान्य तिलै रसैः ॥

इति भविष्यत्पुराणोक्तं दुर्गानवमीव्रतम् ।

अथ गोपालनवमीव्रतम् ।

अतः परं त्वं च कृष्ण नवमीव्रतम् उत्तमम् ।

माङ्गल्यं परमं त्राणं सर्वपापप्रणाशनम् ॥

तथा समुद्रगामिन्यां नवम्यां स्नानम् आचरेत् ।

[९४०] शुचौ तत्पुलिने तीरे सिक्ताभिः समलङ्कृते ॥

वसुदेवसुतं विष्णुं गोपीगणनिषेवितम् ।

वनमालाचितोरस्कं वन्यकौशेयवाससम् ॥

समानवेषैर् अतुलैः (?) क्रीडद्भिर् इतरेतरम् ।

वृतं गोपकुमारैश् च नीलाकुञ्चितमूर्धजम् ॥

ध्यात्वा देवं परं विष्णुं सर्वलोकेश्वरेश्वरम् ।

वन्यपुष्पैश् च बहुभिः पायसेन समर्चयेत् ॥

फलमूलैश् च गन्धाद्यैः शुचिभिश् च यथाविधि ।

सुभगं पतिम् इच्छन्ती कन्यका शृणुयाद् व्रतम् ॥

गोपीजनमनःकान्तगोविन्दगरुडध्वजः ।

वरं प्रयच्छ सुभगं सुवेषं दयितं मम ॥

ततस् तु सर्पिषा पूर्णं हरिद्राचूर्णपूरितम् ।

कुलाङ्गनाभ्यस् तु दद्यात् पात्रं बीजप्रपूरितम् ॥

गुरवे च वरं दद्यात् तथा ब्राह्मणतर्पणम् ।

एवम् अभ्यञ्जनं नाम नवमीव्रतम् उत्तमम् ॥

एवं स्वस्त्ययनं स्त्रीणाम् उक्तं सर्वसुखप्रदम् ।

भ्राता पिता च कन्यार्थी व्रतम् एतत् समाचरेत् ॥

अङ्गनानां व्रतं चैव अर्चनीयः श्रियः पतिः ।

पतिर् विश्वस्य भगवान् सर्वान् कामान् प्रवर्षति ॥

यं यं कामयते कश्चित् सिद्धिर् भवति तस्य तम् ।

अलं ददाति भगवान् अर्चितः किम् उ योषितः ॥

परिपूर्णो हि भगवान् स्निग्धैर् यत् किञ्चिद् ईहितम् ।

[९४१] साक्षाद् एव ददात्येते तेभ्यः प्रीतो ददेत् फलम् ॥

इति गरुडपुराणोक्तं गोपालनवमीव्रतम् ।

अथ रामनवमीव्रतम् ।

अगस्त्य उवाच ।

सर्वानुष्ठानसारं ते सर्वदानोत्तमोत्तमं ।

रहस्यं कथयिष्यामि सुतीक्ष्णं शृणु सत्तम ॥

चैत्रे नवम्यां प्राक्पक्षे दिवा पुष्ये पुनर्वसौ ।

उदये गुरुगौरांश्वोः स्वोच्चस्थे ग्रहपञ्चके ॥

मेषे पूषणि सम्प्राप्ते लग्ने कर्कटकाह्वये ।

आविर् आसीत् सकलस्या कौशल्यायां (??) परः पुमान् ॥

तस्मिन् दिने तु कर्तव्यम् उपवासव्रतं सदा ।

तत्र जागरणं कुर्याद् रघुनाथपरो भुवि ॥

प्रातर् दशम्यां कृत्वा तु सन्ध्याद्याः कालिकीः क्रियाः ।

सम्पूज्य विधिवद् रामं भक्त्या वित्तानुसारतः ॥

ब्राह्मणान् भोजयेद् भक्त्या दक्षिणाभिश् च तोषयेत् ।

गोभूतिलहिरण्याद्यैर् वस्त्रालङ्करणैस् तथा ॥

रामभक्तान् प्रयत्नेन प्रीणयेत् परया मुदा ।

एवं यः कुरुते भक्त्या श्रीरामनवमीव्रतम् ॥

अनेकजन्मसिद्धानि पातकानि बहून्य् अपि ।

भस्मी कृत्य व्रजन्त्य् एव तद् विष्णोः परमं पदम् ॥

[९४२] सर्वेषाम् अप्य् अयं धर्मो भुक्तिमुक्त्येकसाधनम् ।

अशुचिर् वापि पापिष्ठः कृत्वेदं व्रतम् उत्तमम् ॥

पूज्यः स्यात् सर्वभूतानां यथा रामस् तथैव सः ।

यस् तु रामनवम्यां तु भुङ्क्ते स च नराधमः ॥

कुम्भीपाकेषु घोरेषु पच्यते नात्र संशयः ।

अकृत्वा रामनवमीव्रतं सर्वव्रतोत्तमम् ॥

व्रताण्य् अन्यानि कुरुते न तेषां फलभाग् भवेत् ।

रहस्यकृतपापानि प्रख्यातानि बहून्य् अपि ।

महान्ति च प्रणश्यन्ति श्रीरामनवमीव्रतम् ॥

एकाम् अपि नरो भक्त्या श्रीरामनवमीं मुने ।

उपोष्य कृतकृत्यः स्यात् सर्वपापैः प्रमुच्यते ॥

नरो रामनवम्यां तु श्रीरामप्रतिमाप्रदः ।

विधानेन मुनिश्रेष्ठ स मुक्तो नात्र संशयः ॥

सुमन्तुर् उवाच ।

श्रीरामप्रतिमादानविधानं वा कथं मुने ।

कथय त्वं च रामे ऽपि (?) भक्तस्य मम विस्तरात् ॥

अगस्त्य उवाच ।

कथयिष्यामि तद् धि श्रीप्रतिमादानम् उत्तमम् ।

विधानं चापि यत्नेन यतस् त्वं वैष्णवोत्तमः ॥

अष्टम्यां चैव मासेषु शुक्लपक्षे जितेन्द्रियः ।

दन्तधावनपूर्वं तु प्रातः स्नायाद् यथाविधि ॥

नद्यां तडागे कूपे वा ह्रदे प्रस्रवणे ऽपि वा ।

[९४३] ततः सन्ध्यादिकाः कार्याः संस्मरन् राघवं हृदि ॥

गृहम् आसाद्य विप्रेन्द्र कुर्याद् औपासनादिकम् ।

दानं कुटुम्बिनं विप्रं वेदशास्त्रपरं सदा ॥

श्रीरामपूजानिरतं सुशीलं दम्भवर्जितम् ।

विधिज्ञं राममन्त्राणां राममन्तैकसाधनम् ॥

आहूय भक्त्या सम्पूज्य वृणुयात् प्रार्थयन्न् इति ।

श्रीरामप्रतिमादानं करिष्ये ऽहं द्विजोत्तम ॥

भक्त्या चार्य भव प्रीतः श्रीरामो ऽसि त्वम् एव च ।

इत्य् उक्त्वा पूज्य विप्रं तं स्नापयित्वा ततः परम् ॥

तैलेनाभ्यज्य वस्त्राद्यान् चिन्तयन् राघवं हृदि ।

श्वेताम्बरधरः श्वेतगन्धमाल्यानि वारयेत् ॥

अर्चितो भूषितश् चैवं कृतमाध्याह्निकक्रियः ।

आचार्यं भोजयेद् भक्त्या सात्त्विकान्नैः सुविस्तरम् ॥

भुञ्जीत स्वयम् अप्य् एवं हृदि रामम् अनुस्मरन् ।

एकभक्तव्रती तत्र सहाचार्यो जितेन्द्रियः ॥

शृण्वन् रामकथां दिव्याम् अहःशेषं नयेत् पुते ।

सायंसन्ध्यादिकाः कुर्यात् (?) क्रिया रामम् अनुस्मरन् ॥

आचार्यसहितो रात्राव् अधःशायी जितेन्द्रियः ।

वसेत् स्वयं न चैकान्ते श्रीरामार्पितमानसः ॥

ततः प्रातः समुत्थाय स्नात्वा सन्ध्यां यथाविधि ।

प्रातः सर्वाणि कर्माणि शीघ्रम् एव समापयेत् ॥

ततः स्वस्थमना भूत्वा विद्वद्भिः सहितो ऽनघः ।

स्वगृहे चोत्तरे देशे दानस्योज्वलमण्डपम् ॥

[९४४] चतुर्द्वारं पताकाढ्यं (?) सवितानं सतोरणम् ।

मनोमयं महोत्सेधं पुष्पाद्यैः समलङ्कृतम् ॥

शङ्खचक्रहनूमद्भिः प्राग्द्वारे समलङ्कृतम् ।

गरुत्मन् शार्ङ्गबाणैश् च दक्षिणं समलङ्कृतम् ॥

गदाखड्गाङ्गदैश् चैव पश्चिमेषु विभूषितम् ।

पद्मस्वस्तिकनीलैश् च कौवेरे समलङ्कृतम् ॥

मध्ये हस्तचतुष्काढ्यं वेदिकायुक्तम् आयतम् ।

पवित्रनृत्यगीतैश् च वाद्यैश् चापि सुसंयुतम् ॥

पुण्याहं वाचयेत् तत्र विद्वद्भिः प्रीतमानसः ।

ततः सङ्कल्पयेद् देवं रामम् एव स्मरन् मुने ॥

अस्यां रामनवम्यां च रामाराधनतत्परः ।

उपोष्याष्टसु यामेषु पूजयित्वा यथाविधि ॥

इमां स्वर्णमयीं राम प्रतिमां च प्रयत्नतः ।

श्रीरामप्रीतये दास्ये रामभक्त्या विधीयते ॥

प्रीतो राम हरत्व् आशु पापानि सुबहूनि मे ।

अनेकजन्मसम्सिद्धान्य् अभ्यस्तानि महान्ति च ॥

ततः स्वर्णमयीं रामप्रतिमां पलमात्रतः ।

निर्मितां द्विभुजां दिव्यां वामाङ्कस्थितजानकीम् ॥

बिभ्रतीं दक्षिणकरे ज्ञानमुद्रां महामुने ।

वामे नाधःकरेणात्र देवीम् आलिङ्ग्य संस्थिताम् ॥

सिंहासने राजवेत्रं पलद्वयविनिर्मितम् ।

पञ्चामृतस्नानपूर्वं सम्पूज्य विधिवत् ततम् ॥

मूलमन्त्रेण नियतो न्यासपूर्वम् अतन्द्रितः ।

[९४५] दिवैवं विधिवत् कृत्वा रात्रौ जागरणं ततः ॥

दिव्यां रामकथां कृत्वा रामभक्तैः समन्वितः ।

नृत्यगीतादिभिश् चैव रामस्तोत्रैर् अनेकधा ॥

रामाष्टकं तथाध्याप्य गन्धपुष्पाक्षतादिभिः ।

कर्पूरागरुकस्तूरीकह्लाराद्यैर् (?) अनेकशः ॥

पूजयन् विधिवद् भक्त्या दिवारात्रं नयेद् बुधः ।

ततः प्रातः समुत्थाय स्नानसन्ध्यादिकाः क्रियाः ॥

समाप्य विधिवद् रामं पूजयेद् विधिवन् मुने ।

ततो होमं प्रकुर्वीत मूलमन्त्रेण मन्त्रवित् ॥

पूर्वोक्तपद्मकुण्डे वा स्थण्डिले वा समाहितः ।

लौकिकाग्नौ विधानेन शतम् अष्टोत्तरं ततः ॥

साज्येन पायसेनैव स्मरन् रामम् अनन्यधीः ।

ततो भक्त्या सुसम्पाद्य आचार्यं पूजयेन् मुने ॥

कुण्डलाभ्यां सरत्नाभ्याम् अङ्गुलीयैर् अनेकधा ।

गन्धपुष्पाक्षतैर् वस्त्रैर् विविधैः सुमनोहरैः ॥

ततो रामं स्मरन् दद्याद् एवं मन्त्रम् उदीरयेत् ।

इमां स्वर्णमयीं रामप्रतिमां समलङ्कृताम् ॥

चित्रवस्त्रयुगछन्नां रामाहं राघवाद्य ते ।

श्रीरामप्रीतये दास्ये तुष्टो भवतु राघवः ॥

इति दत्वा विधानेन दद्याद् वै दक्षिणां ध्रुवम् ।

अन्येभ्यश् च यथान्यायं गोहिरण्यादि शक्तितः ॥

दद्याद् वासोयुगं धान्यं यथाविभवम् आदृतः ।

[९४६] ब्राह्मणैः सह भुञ्जीत तेभ्यो दद्याच् च दक्षिणाम् ॥

ब्रह्महत्यादिपापेभ्यो मुच्यते नात्र संशयः ।

तुलापुरुषदानादिफलं प्राप्नोति सुव्रत ॥

अनेकजन्मसंसिद्धपापेभ्यो मुच्यते ध्रुवम् ।

बहुना किम् इहोक्तेन मुक्तिस् तस्य करे स्थिता ॥

कुरुक्षेत्रे महापुण्ये सूर्यपर्वण्य् अशेषतः ।

तुलापुरुषदानाद्यैः कृतैर् यल् लभ्यते फलम् ।

तत् फलं लभते मर्त्यो दानेनानेन सुव्रत ॥

इति अगस्त्यसम्हितायां रामनवमीव्रतम् ।

अथ रथनवमीव्रतम् ।

सुमन्तुर् उवाच ।

कृत्वैवाश्वयुजे मासि कृष्णपक्षे नराधिप ।

नवम्याम् उपवासं तु दुर्गादेवीं प्रपूजयेत् ॥

पुष्पधूपोपहारैस् तु ब्राह्मणानां च तर्पणैः ।

पूजयित्वा रथं कृत्वा नानावस्त्रोपशोभितम् ॥

शोभितं ध्वजमालाभिः छत्रचामरदर्पणैः ।

नानापुष्पस्रजाभिश् च सिंहैर् युक्तं मनोरमम् ॥

कृवा स्वर्णमयीं दुर्गां महिषासनशोभिताम् ।

दुर्गारूपं तु विष्णुधर्मोतरात् ।

[९४७] आलीढस्थानसंस्थानं तथा राजन् चतुर्भुजाम् ।

स्रुचः पात्रकरां देवीं शूलखड्गधरां तथा ॥

चतुर्थश् च करस् तस्यास् तथा कार्यस् तु सामिषः ॥ इति ।

विन्यस्य रथमध्ये तु पूजयेत् कृतलक्षणम् ॥

तं रथं राजमार्गेण शङ्खभेर्यादिनिस्वनैः ।

नवम्यां भ्रामयित्वा तु नयेद् दुर्गातपं नृप ॥

तत्र जागरपूर्वं तु प्रदीपाद्युपशोभितम् ।

नानाप्रक्षेपकैर् वीर नृत्यमानैश् च वालकैः ॥

जागरं कारयेत् तत्र पूजयानश् च चण्डिकाम् ।

प्रभाते स्नपनं कृत्वा तद्भक्तानां च भोजनम् ॥

रथं शोभासमायुक्तं भगवत्यै निवेदयेत् ।

भुक्त्वा च बान्धवैः सार्धं प्रणम्यार्यागृहं व्रजेत् ॥

सर्वव्रतानां प्रवरं सर्वपापप्रणाशनम् ।

सर्वयज्ञेषु यत् पुण्यं सर्वतीर्थेषु यत् फलम् ।

तत् फलं लभते विद्वान् नवमीव्रतपालनात् ॥

कल्पकोटिशतं साग्रं विष्णुलोके महीयते ।

पुनर् एत्य महीं राजा सार्वभौमो भवेद् इति ॥

रक्तोपकरणैर् युक्तां देवदारुमयीं शुभाम् ।

शय्यां निवेदयेद् यस् तु भगवत्यै नराधिप ॥

सम्पूज्य गन्धपुष्पाद्यैर् विधिवच् चण्डिकां नृप ।

दुकूलवस्त्रलूतानां परिसङ्ख्या च यावती ॥

[९४८] तावद् वर्षसहस्राणि दुर्गालोके महीयते ।

वृषं शूलाङ्कितं यश् च भगवत्यै निवेदयेत् ॥

आसप्तमं स तु कुलं महादेवालयं व्रजेत् ।

यश् चोभयमुखीं गङ्गां भगवत्यै सुशोभितां ॥

सप्तद्वीपान्धरां दत्वा यत् फलं तद् अवाप्नुयात् ।

पदद्वयं शिरोर्धं च यावद् वत्सस्य निर्गतम् ।

तावद् गोः पृथिवी ज्ञेया तद्दाता स्यान् महीप्रदः ॥

इति भविष्यत्पुराणे रथनवमीव्रतम् ।

अथ आनन्दनवमीव्रतम् ।

सुमन्तुर् उवाच ।

अनन्दा नन्दिनी नन्दा महानन्दा महीपते ।

तथाद्या नवमी पुण्या पञ्चमी महती स्मृता ॥

फाल्गुनामलपक्षस्य नवमी या महीपते ।

अनन्दा सा महापुण्या सर्वपापहरा शुभा ॥

कृत्वैकभक्तं पञ्चम्यां षष्ठ्यां नक्तं तथा नृप ।

अयाचितं तु सप्तम्याम् उपवासः परे ऽहनि ॥

य एवं पूजयेद् भक्त्या नवम्यां विधिवन् नृप ।

सोपवासो ऽर्चयेद् देवीं धूपं दद्यात् तथागुरुम् ।

मुद्गराणां स्रजाभिस् तु पुष्पैर् अन्यैश् च पूजयेत् ॥

नैवेद्यं पायसं दद्याद् रसालामोदनं तथा ।

[९४९] पञ्चगव्यं प्रशस्तं हि स्नानप्राशनयोर् नृप ॥

जप्तव्यं नाम देव्यास् तु आरुण्याख्यभयापहम् ।

इत्य् एतत् प्रथमं प्रोक्तं पारणं पापनाशनम् ॥

मासैश् चतुर्भिर् आदीयं द्वितीयं पारणं शृणु ।

आदीयं श्राद्धम् ।

भोजयेद् विप्रकन्याश् च नवम्यां ब्राह्मणस्त्रियः ।

मासि मासि महाबाहो यथाशक्त्या यथविधि ॥

आषाढे श्रावणे मासि मासि भाद्रपदे तथा ।

तथा वाश्वयुजे मासि पूज्या भगवती विभो ॥

कृत्वैकभक्तं पञ्चम्यां षष्ठ्यां नक्तं तथा नृप ।

अयाचितं तु सप्तम्याम् उपवासः परे ऽहनि ॥

सोपवासो नवम्यां तु पूजयेद् विधिवच् छिवाम् ।

सो ऽश्वमेधफलं प्राप्य विष्णुलोके महीयते ॥

जातिपुष्पस्रजाभिस् तु तथा रक्तैश् च चन्दनैः ।

कस्तूरिकाक्षतैर् गन्धैर् देवीम् आलेपयेत् तथा ॥

माहिष्याख्यं गुग्गुलं च धूपं परमपूजितम् ।

नैवेद्यं गुडपूपांश् च खण्डचेष्टाश् च शक्तितः ॥

बिल्वपत्रोदकस्नानं प्राशने च प्रकीर्तितम् ।

दुर्गाख्यं नाम जप्तव्यं सर्वपापभयापहम् ॥

इत्य् एवं पूजयित्वार्यां पूजयित्वा गुरुं तथा ।

कुमारीर् भोजयेच् छक्त्या ब्राह्मणान् योषितस् तथा ॥

एवं यः पूजयेद् भक्त्या यथाविभवम् आत्मनः ।

स सिंहासनम् आरूढो ब्रह्मलोकं प्रयाति वै ॥

[९५०] तृतीयं पारणं तस्मिन् सर्वपापविनाशनम् ।

ध्यायेच् छिवं सदा शान्तं सच्चिदानन्दविग्रहम् ॥

कार्त्तिकादि महापुण्यं दुर्गायाः प्रीतिवर्धनम् ।

नानाविधानां पुष्पाणां जलजानां विशेषतः ॥

स्रजाभिर् अर्चयेद् देवीं त्र्यम्बकां जगतो ऽम्बिकाम् ।

कुङ्कुमागरुकर्पूरैः सुगन्धैश् च प्रलेपयेत् ॥

मांसगर्भैस् तथा भक्ष्यैः श्रीवेष्टैश् चापि पूजयेत् ।

धूपो बिल्वागुरुः शस्तः सघृतो गुग्गुलस् तथा ॥

तिलस्नानं तिलैर् होमस् तिलानां प्राशनं वरम् ।

जपेन् नाम तथा देव्याः सर्वपापक्षयङ्करम् ॥

अपराजिताख्यम् अतुलं जपेद् अन्ते व्रतं नृणाम् ।

एवं यः कृच्छ्रपादेन नवमीं ताम् उपासते ॥

मासि मासि महाबाहो यावद् एव हि वत्सरम् ।

स हि पुत्रान् अवाप्याग्र्यान् (?) धनं धान्यं बलं यशः ॥

विपुलां च तथा कीर्तिम् आरोग्यम् अतुलां श्रियम् ।

ततस् त्व् इन्द्रपुरं याति सिंहासनसमन्वितः ॥

तेजसाम्बुजसङ्काशः प्रभयाम्बुजसन्निभः ।

य इदं शृणु यान् नित्यम् अनन्दाकल्पम् आदितः ।

स हि कामान् अवाप्याग्र्यान् ब्रह्मलोके महीयते ॥

इत्य् अनन्दानवमीव्रतम् ।

[९५१]

अथ मातृव्रतम् ।

राजा विजयम् आप्नोति भुक्त्वा राज्यम् अकण्टकम् ।

ब्राह्मणाः क्षत्रिया वैश्या ये चान्ये मन्दजातयः ॥

सर्वत्र जयम् आयान्ति भयेभ्यो ऽपि विवर्जिताः ।

मातरश् चैव सम्पूज्याः यथाशक्त्या प्रयत्नतः ॥

तदग्रे शिवभक्तांस् तु व्रताचार्यं विशेषतः ।

एवं कृत्वा विधानेन सर्वत्र जयम् आप्नुयात् ॥

ब्राह्मणीं चैव माहेशीं कौमारीं वैष्णवीं तथा ।

वाराहीं नारसिंहीं च शिवक्षेमजयां महीम् ॥

ऐन्द्रीं चामुण्डां योगेशीं गौरीं चैव तथाम्बिकाम् ।

आग्नेयीं वारुणीं चैव वायव्यां व्योमसञ्ज्ञिकाम् ॥

लम्पटां गजवक्त्रां च गारुडीं च जयां यजेत् ।

विजयां च जयन्तीं। च तथान्यां त्व् अपराजिताम् ॥

सिद्धरुक्तां तथा शुक्लाम् उत्पलां पूजयेत् तथा ।

गरुडां च तथा रात्रिं सुरात्रिं च तथा पुनः ॥

हंसवक्त्राश्ववक्त्रां च सिंहव्याघ्रमुखीं तथा ।

जम्बूलकमुखारावीं मार्जारीम् ऋक्षवानरीम् ॥

उष्ट्रवक्त्रां श्याममुखीं गोमुखीं सुमुखीं तथा ।

बैरवीं चैव सम्पूज्या तथा वै कृष्णरेवती ॥

शुक्लरेवतिसञ्ज्ञा च तथा शकुनिरेवतीम् ।

लङ्केश्वरी भद्रकर्णा श्रीशीघ्रा सिद्धिर् एव च ॥

[९५२] घण्टाकर्णी तथा निद्रा मातरः परिकीर्तिताः ।

नवम्यां पूजयेद् यस् तु मासि चाश्वयुजे सदा ॥

अखण्डितप्रभावस् तु भवते नात्र संशयः ।

अहन्य् अहनि यो नित्यं भक्त्या पूजावसानतः ॥

ग्रहदोषा न बाधन्ते परकृत्या विशेषतः ।

दुःस्वप्नो व्याधयो भूता हिंसकाश् च विनायकाः ॥

स्वग्रहाः पूतनाश् चण्डा डाकिन्यो मारिकास् तथा ।

नश्यन्ति स्मरणात् तस्य सर्वदुर्भिक्षकल्मषाः ।

मृततोका काकबन्ध्या सुप्रजा वै प्रजायते ॥

इति मातृव्रतम् ।

अथ वैशाखनवम्योर् भविष्योत्तरोक्तं नवमीव्रतम् ।

वैशाखे मासि रजेन्द्र नवम्यां पक्षयोर् द्वयोः ।

उपवासपरो भक्त्या पूजयानस् तु चण्डिकाम् ।

विमानवरम् आरूढो देवलोके महीयते \

इति वैशाखनवमीव्रतम् ।

अथ नन्दानवमीव्रतम् ।

सुमन्तुर् उवाच ।

मासि भाद्रपदे या तु नवमी बहुलेतरा ।

मातृनन्दा महापुण्या कीर्तिता पापनाशनी ॥

[९५३] बहुलः कृष्णपक्षः तदितरा शुक्ला ।

तस्यां यः पूजयेद् दुर्गां विधिवत् कुरुनन्दन ।

सो ऽश्वमेधफलं विन्द्याद् विष्णुलोकं च गच्छति ॥

एकभक्तं तु सप्तम्याम् अष्टम्यां समुपोषितः ।

जातीपुष्पैः कदम्बैश् च पूजयेद् विधिवच् छिवम् ॥

दूर्वां परिस्थितां देवीं यथा शास्त्रविनिर्मिताम् ।

खर्जूरनालिकेरैश् च त्रपुसमलकैस् तथा ॥

पूजयेत् सप्तधान्येन पिण्याकेन च सुव्रत ।

दध्ना साज्येन धूपेन दूर्वाङ्कुरैश् च धूपयेत् ॥

प्रजागरं ततो रात्रौ नन्दायाः पुरतो नृप ।

नानाप्रेक्षणकैः कुर्याद् ब्रह्मघोषैश् च पुष्फलैः (?) ॥

नन्दाख्यं च जपेन् मन्त्रम् अष्टोत्तरशतं विभो ।

विभो नन्दाख्यः ।

ॐ नन्दायै नमः स्वाहा हुं फड् इति ।

प्रभाते तु नवम्यां (?) तु पूजां कृत्वा तु चण्डिकाम् ।

प्रीणयित्वा गुरुं शक्त्या कुमारीर् भोजयेत् ततः ॥

एवं चाश्वयुजे मासि कार्त्तिके कार्तिकोत्तरे ।

कार्त्तिकोत्तरे मार्गशीर्षे ।

पूजयेच् चतुरो मासान् नन्दां भगवतीं विभो ॥

स्नाने कुशोदकं प्रोक्तं प्राशने च नराधिप ।

[९५४] इति ते कथितं वीर प्रथमं पारणं शुभम् ॥

द्वितीये शृणु मे पौषे पारणास्नानप्राशनम् ।

चण्डिकां पूजयेद् अत्र नाम्ना कनकनन्दिनीम् (?) ॥

नानास्रजाभिः कुसुमैः कुङ्कुमागरुचर्चिताम् ।

नानाविधैर् भक्ष्यभोज्यैर् धूपेनागुरुणा तथा ॥

पञ्चगव्यकृतस्नानः सोपवादो जितेन्द्रियः ।

पूजयित्वा महावेदीं रात्रौ स्वपिति भूतले ॥

पुनर् नवम्यां सम्पूज्य विधिवत् कनकनन्दिनीम् ।

हुत्वा तु शाण्डिलीपुत्रं कुमारीर् भोजयेत् ततः ॥

शाण्डिलीपुत्रम् अग्निम् ।

वैशाखादिषु मासेषु पूजयेद् विधिनाच्युतम् ।

मुहुराणां स्रजाभिस् तु अशोकानां च भारत ॥

कुङ्कुमागरुकर्पूरैश् चन्दनेन विलेपयेत् ।

धूपेनागुरुमिश्रेण पयसा पायसेन च ॥

अच्युताख्यं जपेन् नाम सर्वपापहरं शिवम् ।

गोरोचनाम्बुना स्नानं प्राशनं गोमयस्य तु ॥

कृत्वोपवासम् अष्टम्यां पूजयित्वा तथाच्युतम् ।

नवम्यां भोजयेच् छक्त्या कुमारीर् ब्राह्मणान् स्त्रियः ॥

य एवं कुरुते नन्दां नवमीं विधिवद् विभो ।

स्वम् एकम् एकं विधिवच् चिन्तितं लभते फलम् ॥

इति भविष्यत्पुराणोक्तं नन्दानवमीव्रतम् ।

[९५५]

अथास्याम् एव भविष्यत्पुराणोक्तं दुर्गापूजनम् ।

मासि भाद्रपदे या स्यान् नवमी बहुलेतरा ।

मातृनन्दा महापुण्या कीर्तिता पापनाशिनी ॥

तस्यां यः पूजयेद् दुर्गां विधिवत् कुरुनन्दन ।

सो ऽश्वमेधफलं प्राप्य विष्णुलोकं च गच्छति ॥

अथ भाद्रपदकृष्णनवम्यां देविपुराणोक्तं दुर्गाबोधनम् ।

कन्यायां कृष्णपक्षे तु पूजयित्वा उभे ऽपि वा ।

नवम्यां बोधयेद् देवीं गीतवादित्रनिस्वनैः ॥ इति ।

कन्यायां दर्शान्तभाद्रपदे ।

इति नानापुराणोक्तं दुर्गापूजनम् ।

अथ महानवमीव्रतम् ।

सुमन्तुर् उवाच ।

माघमासे तु या शुक्ला नवमी लोकपूजिता ।

महानन्देति सा प्रोक्तं सदानन्दकरी नृणाम् ॥

अस्यां (?) स्नानं तथा दानं तथा होम उपोषितम् ।

सर्वं तद् अक्षयं प्रोक्तं यद् अस्यां क्रियते नरैः ॥

श्वेतपुष्पस्रजाभिस् तु नन्दां भगवतीं यजेत् ।

कुङ्कुमेन तथा वीर धूपेनागरुणा तथा ॥

मोदकैर् विविधैर् वीर फलैर् नानाविधैस् तथा ।

तिलकल्ककृतस्नानो होमयेद् विधिवत् तिलान् ॥

[९५६] पूजयेच् चतुरो मासान् नन्दां भगवतीं शिवाम् ।

कुमारीं भोजयेद् भक्त्या योषितो ब्राह्मणांस् तथा ॥

ज्यैष्ठादिपारणे वीर जातीपुष्पकदम्बकैः ।

पूजयेद् विधिवद् दुर्गां नाम्ना विन्ध्यनिवासिनीम् ॥

प्राशयेत् पञ्चगव्यं तु स्नानं तेनैव पुण्यदम् ।

पायसान् मधुसर्पिभ्यां तथा दध्योदनं परम् ॥

कार्त्तिकादिषु मासेषु पूजयेद् धि स्मिताननाम् ।

कुन्दपुष्पस्रजाभिस् तु करवीरैश् च सुव्रत ॥

कस्तूरिकाकृतैर् गन्धैर् धूपेनागरुणा तथा ।

घृतपूरैः खण्डवेष्टैः श्रीफलैश् चापि पूजयेत् ॥

गोशृङ्गक्षालनस्नानात् पूतदेहो नराधिप ।

पूजयेद् विधिवद् देवीं भक्त्या श्वेतमुखीं विभो ॥

य एवं पूजयेद् वर्षं चण्डिकां समुपोषितः ।

सर्वान् कामान् अवाप्याग्र्यान् ब्रह्मलोके महीयते ॥

क्रीडित्वा ब्रह्मणः सार्धरात्रं तत्र प्रपूजितः ।

पूजयेद् विधिवद् देवीं भक्त्या भवति भूतले ।

धनधान्यसमृद्धस् तु पुत्रवान् कीर्तिमान् भवेत् ॥

इति भविष्यत्पुराणे महानवमीव्रतम् ।

अथ दुर्गानवमीव्रतम् ।

ब्रह्मोवाच ।

दुर्गां सम्पूज्य दुर्गाणि नवम्यां तरति तया ।

[९५७] सङ्ग्रामे व्यवहारे च सदा विजयम् आप्नुयात् ॥

मूलमन्त्राः स्वसञ्ज्ञाभिर् अङ्गमन्त्राश् च कीर्तिताः ।

पूर्ववत् पद्मपत्रस्था कर्तव्या च तिथीश्वरा ॥

तिथीश्वरात्र दुर्गा तद्रूपं तु रथनवमीव्रते ।

गन्धपुष्पोपहारैश् च यथाशक्ति विधीयते ।

पूजाशाठ्येन शाठेन कृत्वापि तु फलप्रदा ॥

आज्यधारासमिद्भिश् च दधिक्षीरान्नमाक्षिकैः ।

पूर्वोक्तफलदो होमः पयसा तेन वै कृतः ॥

इति भविष्यत्पुराणोक्तं दुर्गानवमीव्रतम् ।

अथ शौर्यव्रतम् ।

अगस्त्य उवाच ।

अतः परं प्रवक्ष्यामि शौर्यव्रतम् अनुत्तमम् ।

येन भीरोर् अपि म्हत् शौर्यं भवति तत्क्षणात् ॥

मासि चाश्वयुजे शुद्धा नवमी समुपोषिता ।

सप्तम्यां कृतसङ्कल्पः स्थित्वाष्टम्यां निरोदनः ॥

नवम्यां प्राशयेत् पिष्टं प्रथमं भक्तितो नृप ।

ब्राह्मणान् भोजयेद् भक्त्या देवीं चैव तु पूजयेत् ॥

दुर्गां देवीं महाभागां महामायां महाप्रभाम् ॥

एवं संवत्सरं यावद् उपोष्य विधिवन् नृप ।

[९५८] व्रतान्ते भोजयेद् धीमान् यथाशक्त्या कमारकान् ॥

हेमवस्त्रादिभिः स्नातुं पूजयित्वा तु शक्तितः ।

पश्चात् क्षमापयेत् क्षान्तुं देवी मे प्रीयताम् इति ॥

एवं कृत्वा भ्रष्टराज्यो लभेद् राज्यं न संशयः ।

अविद्यो लभते विद्यां भीरुः शौर्यं च विन्दति ॥

इति वाराहपुराणोक्तं शुअर्यव्रतम् ।

अथ वीरव्रतम् ।

नवम्याम् एकभक्तं तु कृत्वा कन्याः स्वशक्तितः ।

भोजयित्वा समां दद्याद् धेमकुम्भं च वाससी ॥

समां संवत्सरम्, यावन् नवम्याम् एव भोजयेत् ।

तथा हेमं तु दातव्यं मृतो शिवपुरं व्रजेत् ।

प्रतिजन्म सुरूपः स्याच् छत्रुभिश् चापराजितः ॥

एतद् वीरव्रतं नाम नारीणां च सुखप्रदम् ।

इति पद्मपुराणोक्तं वीरव्रतम् ।

अथ आग्नेयव्रतम् ।

कृष्ण उवाच ।

सकृन् नवम्यां भक्तेन पूजयेद् विन्ध्यवासिनीम् ।

[९५९] पुष्पैर् धूपैस् ततो दीपैर् नैवेद्यैर् विविधैर् अपि ॥

पूजयित्वा ततो विद्यात् पञ्जरं सुकसंयुतम् (?) ।

हेमं विप्राय दद्याद् यः स वाग्मी जायते नरः ॥

सकृद् भक्तेन नक्तेन अग्निलोकप्रदायकम् ।

इति भविष्योत्तरोक्तम् आग्नेयव्रतम् ।

अथ वर्षव्रतम् ।

मार्कण्डेय उवाच ।

हिमवान् हेमकूटश् च शृङ्गावान् मेरुमाल्यवान् ।

गन्धमादन एवैतान् पूजयेत् पार्थेवर्षभाह् (?) ॥

शैलान् नृप नवम्यां तु चैत्रम् आरभ्य पार्थिव ।

सोपवासेन धर्मज्ञ गन्धमाल्यान्नसम्पदा ॥

जम्बुद्वीपस्य संस्थानं व्रतान्ते राजतं नरः ।

तुलाप्रमाणां दद्यात् तु सर्वान् कामान् अवाप्नुते ॥

तुला प्रलशतम् ।

अश्वमेधम् अवाप्नोति स्वर्गलोकं च गच्छति ।

मानुष्यमानाद्यत ततोश् (??) चक्रवर्ती नृपो भवेत् ॥

चिरं च कलं वसुधां प्रशाद्युलोकावाप्नोति ततो ऽधिलोकान् (???) ।

इति विष्णुधर्मोत्तरोक्तं वर्षव्रतम् ।

[९६०]

अथ भद्रकालीव्रतम् ।

मार्कण्डेय उवाच ।

नवम्यां सोपवासस् तु भद्रकालीं प्रपूजयेत् ।

शुक्लपक्षे महाराज कार्त्तिक्ङात् प्रभृति क्रमात् ॥

गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ।

संवत्सरान्ते सम्पूज्ये व्रतान्ते ब्राह्मणाय तु ॥

वस्त्रयुग्मं नरो दत्वा यथेष्टं कामम् आप्नुयात् ।

रोगार्तो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात् ॥

राजकार्याभियुक्तश् च मुच्यते च महाभयात् ।

नामरेभ्यो भयं तस्मान् न नरेभ्यः कथञ्चन ॥

पुत्रान् अवाप्नोति धनं यथेष्टं

यशश् च पुण्यं विविधं च कुप्यम् ।

पूजां च कृत्वा विधिवद् भवान्याः

कामान् अवाप्नोति तथादिभूतान् ।

हेमरूप्यव्यतिरिक्तं धनं कुप्यम् ॥

इति विष्णुधर्मोत्तरोक्तं भद्रकालीव्रतम् ।

राजोवाच ।

विधिना पूजयेत् कन्यां भद्रकालीं नराधिप ।

नवम्याम् अश्विने मासि शुक्लपक्षे नरोत्तम ॥

पुस्कर उवाच ।

पूर्वोत्तरे तु दिग्भागे लिखेद् वास्त्य्मनोहरे ।

भद्रकालीं नृपगृहं चित्रवस्त्रैर् अलङ्कृतम् ॥

[९६१] भद्रकालीं पटे कृत्वा तत्र सम्पूजयेद् द्विज ।

भद्रकालीरूपनिर्माणं तत्रैव दर्शितम् ।

अष्टादशभुजा कार्या भद्रकाली मनोहरा ।

आलीढस्थानसंस्थाना चतुःसिंहे रथे स्थिता ॥

अक्षमालां त्रिशूलं च खड्गश् चन्द्राख्य एव च ।

बाणवापौ (?) च कर्तव्यौ शङ्खपद्मौ तथैव च ॥

श्रुक्श्रुवौ च तथा कार्यौ तथा वैदिकमण्डलम् ।

दण्डशक्ती च कर्तव्ये तथा शक्तिहुताशने ॥

हस्तानां भद्रकाल्यास् तु तारकानिकरः करः ।

एकं चैव महाभाग रत्नपात्रं भवेद् इति ॥

आश्विने शुक्लपक्षस्य अष्टम्यां प्रयतः शुचिः ।

तत्रैवायुधचर्माद्यं छत्रं वस्त्रं च पूजयेत् ॥

राजलिङ्गानि सर्वाणि तथा शस्स्त्राणि पूजयेत् ।

फलैर् मेध्यैस् तथा भक्ष्यैर् भोज्यैश् च सुमनोहरैः ॥

बलिभिश् च विचित्रैश् च प्रेक्ष्यादानैस् तथैव च ।

रात्रौ जागरणं कुर्यात् तत्रैव वसुधाधिप ॥

उपोषितो द्वितीये ऽह्नि पूजयेत् पुनर् एव ताः ।

आयुधानां च सकलं पूजयेद् वसुधाधिप ॥

एवं स पूजयेद् देवीं वरदां भक्तवत्सलाम् ।

कात्यायनीं कामगमां बहुरूपां वरप्रदाम् ॥

[९६२] पूजिता सर्वकार्यैः सा युनक्ति वसुधाधिप ।

एवं हि सम्पूज्य जगत्प्रधानां

यात्रासु देव्या वसुधाधिपेन ।

प्राप्नोति सिद्धिं परमां महेशाज्

जनस् तथान्यो ऽपि च वित्तशक्त्या ॥

इति विष्णुधर्मोत्तरोक्तं भद्रकालीव्रतम् ।

इति श्रीमहार्जाधिराजश्रीमहादेवस्य समस्तकरणाधीश्वर-

**सकलविद्याविशारदश्रीहेमाद्रिविरचिते **

चतुर्वर्गचिन्तामणौ व्रतखण्डे नवमीव्रतानि समाप्तानि ।

[९६३]

अथ चतुर्दशो ऽध्यायः ।

अथ दशमीव्रतानि ।

अन्यं न वेत्ति विषयान्तरम् अन्तरायं

यश् चन्द्रचूडचरणार्पितवित्तवृत्तिः ।

सत्यव्रतः सकलशैलसमूहसूर्यो

हेमद्रिर् अद्य दशमीव्रतवृन्दम् आह ॥

सनत्कुमार उवाच ।

अथ त्वं शृणु विप्रर्षे दशमीव्रतम् उत्तमम् ।

सर्वरोगार्तिशमनं सत्त्वपुष्टिप्रदं शुभम् ॥

व्रतम् एतन् महाबुद्धे कार्यम् आरोग्यम् इच्छता ।

सर्वकार्यार्थम् एतद् धि लिप्सुना जीवितं चिरम् ॥

उपवासश् च कर्तव्यो नवम्याम् इह सुव्रत ।

दशम्यां तु कृतस्नानो मङ्गलायतनं हरिम् ॥

देवम् इन्दिरया सार्धं ध्यात्वा च जगतां पतिम् ।

शङ्खचक्रगदापद्मशार्द्धासिधरम् उत्तमम् ॥

इन्दिरया लक्ष्म्या ।

फलैश् च धूपैश् च पुष्पैश् च पायसेन समर्चयेत् ।

अग्रतः स्थापयेत् कुम्भ्ं तीर्थतोयेन पूरितम् ॥

[९६४] अस्मिन्न् आवाहयेत् पद्म चक्राद्यान्य् आयुधान्य् अपि ।

पूजयेद् रक्तपुष्पैस् तु गुडान्नेन समाहितः ॥

द्रोणमात्रतिलैः कृष्ण कारयेद् अजिनोपरि ।

तस्मिन्न् अष्टदलं पद्मं सौवर्णं च निधाय वै ॥

मनःषष्ठानीन्द्रियाणि प्राणान् बुद्धिं दलेष्व् अपि ।

कर्णिकाय्ं तथा कालं क्रमेणैवम् अर्थार्चयेत् ॥

अनामयानीन्द्रियाणि प्राणश् च चिरसंस्थितः ।

अनाकूतासना बुद्धिः सर्वेषु निरुपद्रवा ॥

मनसा कर्मणा वाचा मया जन्मनि जन्मनि ।

सञ्चितं क्षपयत्व् एनः कालात्मा भगवान् हरिः ॥

इत्य् एवं पार्थिवं कृत्वा देवदेवस्य चाग्रतः ।

दरिद्राय सपुत्राय सत्पुत्राय द्विजन्मने ॥

इष्टापूर्तविधिज्ञाय दद्यात् सर्वम् अतन्द्रितः ।

गुरवे दक्षिणां दद्याद् ब्राह्मणेभ्यश् च भोजनम् ॥

आचार्यः साधकं पश्चात् स्नापयेत् कुम्भवारिणा ।

अवशिष्टेन चान्नेन गुर्वनुज्ञापुरःसरम् ॥

बान्धवैः सह भुञ्जीत नियमान् उत्सृजेत् ततः ।

जह्याद् द्व्याधिकृतां पीडां स्वप्नोक्ताम् अपि सुव्रत ॥

व्रतेनानेन वै मर्त्यः सकृत् सिद्धेन संयुतः ।

पुत्रपौत्रसुहृद्बन्धुपश्वादीन् अपि नित्यशः ॥

[९६५] आरोग्यं चिरजीवत्वं व्रतम् एतत् प्रयच्छति ।

राजयक्ष्मप्लीहाष्ठीलागुल्मशूलभगन्दराः ॥

नश्यन्ति च महासर्वे व्रतिनो नात्र संशयः ।

अनपत्यः सुतं देवि दीर्घम् आयुश् च विन्दति ॥

अन्तरामरणं जह्याद् आनन्दारोग्यम् ऋच्छति ।

अन्तरामरणं झ्यादित्य् अपमृत्युं नाप्नोतीत्य् अर्थः ।

इति गरुडपुराणोक्तम् आरोग्यव्रतम् ।

अथ राज्याप्तिदशमीव्रतम् ।

मार्कण्डेय उवाच ।

क्रतुर् दक्षो मुनिः सत्यः कालः कामो वसुस् तथा ।

कुरवान् मनुजो विप्र रोमसारश् च ते दश ॥

विश्वेदेवाः समाख्याता दशात्मा केशवो विभुः ।

तस्य सम्पूजनं कार्यं सितपक्षे नराधिप ॥

आरभ्य कार्तिकान् मासाद् दशम्यां नृपपुङ्गव ।

मण्डलेष्व् अथ पुण्येषु यदि वार्चासु यादव ॥

गन्धमाल्यनभस्कारदीपधूपान्नसम्पदा ।

अर्चा प्रतिमा, सा च यथासम्भवं सुवर्णादिधातुमयो विधेया ।

व्रतान्ते कनकं दद्याद् यथाशक्ति द्विजातये ।

[९६६] कृत्वा व्रतं केवलम् एतद् इष्टं

प्राप्नोति तेषां सुचिरं तु लोकान् ।

तत्रोष्य लोके पुरुषोत्तमस्य

राजा भवेद् ब्राह्मणपुङ्गवो वा ॥

इति विष्णुधर्मोत्तरोक्तं राज्याप्तिदशमीव्रतम् ।

अथ ब्रह्मावाप्तिव्रतम् ।

मार्कण्डेय उवाच ।

आत्मा ह्य् आयुर् मनो दक्षो मदः प्राणस् तथैव च ।

हविश्णोश् (?) च गतिस् तस्य दक्षः प्रत्यश् च ते दश ॥

देवास् त्व् अङ्गिरसो नाम दशम्यां पूजयेन् नरः ।

सोपवासः पूर्वपक्षे पूर्वोक्तविधिना चिरम् ॥

पूर्वोक्तविधिना अनन्तरोक्तविधिना ।

कृत्वा व्रतं वत्सरम् एतद् इष्टं

प्राप्नोति तेषां सुचिरं हि लोकान् ।

तरोष्य कालं पुरुषत्वम् एत्य

राजा भवेद् ब्राह्मणपुङ्गवो वा ॥

इति विष्णुधर्मोत्तरोक्तं ब्रह्मावप्तिव्रतम् ।

[९६७]

अथ पदार्थव्रतम् ।

मार्कण्डेय उवाच ।

शुक्लपक्षे दशम्यां तु सोपवासस् तथा नरः ।

मार्गशीर्षे तथारब्य यावत् संवत्सरं भवेत् ॥

गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ।

दिक्पालपूजनं कुर्याद् दिशां सम्पूजनम् तथा ॥

गां वत्सरान्ते दद्याच् च तथैव च पयस्विनीम् ।

ब्राह्मणाय महाभाग यथा च मनुजोत्तम ॥

एतद् व्रतं नरः कृत्वा यत्र क्वचन गच्छति ।

तत्रेष्टं काम्यम् आप्नोति पुत्रेष्टिफलम् अश्नुते ॥

वाणिज्यकण्ठस्य नरस्य सिद्धं

यावान् तथान्यां विजीगीषवश् च ।

विद्यार्थिनो वा रिपुनाशनं वा

हितं पदार्थं व्रतम् एतद् इष्यम् ॥

इति विष्णुधर्मोत्तरे पदार्थव्रतम् ।

अथ धर्मव्रतम् ।

मार्कण्डेय उवाच ।

शुक्लपक्षे दशम्यां तु सोपवासस् तु मानवः ।

धर्मं सम्पूजयेद् देवं सर्वलोकसुखावहम् ॥

[९६८] मार्गशीर्षाद् अथारभ्य नित्यम् एवम् अरिन्दम ।

गन्धमाल्यनमस्कारदीपधूपान्नसम्पदा ॥

घृतेन जुहुयाद् वह्निं ब्राह्मणांश् चात्र पूजयेत् ।

व्रतावसाने दद्याच् च तथा धेनुं पयस्विनीम् ॥

व्रतम् एतद् धि निर्दिष्टम् अश्वमेधफलप्रदम् ।

कृष्णपक्षे तथाप्य् एतत् कार्यं मनुजसत्तम ॥

राजसूयाश्वमेधाभ्यां फलं प्राप्नोत्य् असंशयम् ।

स्वर्गलोकम् अवाप्नोति कुलम् उद्धरति स्वकम् ॥

धर्मेति च भवेत् तस्य धर्मं प्राप्नोति मानवः ।

यत्र यत्राभिजायेत् तत्र धर्मपरो भवेत् ॥

व्रतेनानेन सर्वत्र नरो धर्मपरो भवेत् ।

आयुष्यम् आरोग्ययशस्करं तत्

स्थानप्रदं पापविनाशकारि ।

कर्तव्यम् एतत् पुरुषो यथावत्

पूज्यो हि विष्णुर् भगवान् स धर्मः ॥

इति विष्णुधर्मोत्तरोक्तं धर्मव्रतम् ।

अथापराजितदशमीविधिः ।

आथर्वणगोपथब्राह्मणे । [= अथर्ववेद परिशिष्ट १८ब्।२.६–८; १.२७.३, १; १.२८.२–४; १.३०.१–४; १.१७.१; १.१२.३; १.११.१–४]

अथापराजितदशम्यां पूर्वोक्तं [पूर्वाह्णे] विजयमुहूर्ते उक्तं प्रास्थानिकम् । एतानि खलु प्रास्थानिकम् (??) । एतानि खलु प्राग्द्वाराणीत्यादि (?) ये ते पन्थान इत्यादि नक्षत्रहोमश् च । दध्योदनं **[९६९]** भुक्त्वा कृत्तिकासु अभ्युदियात् सिद्ध्यर्थो हि पुनर् आगच्छति । तृटितमांसैर् [आविकैर् मांसैर्] भुक्त्वा पूर्वयोः फाल्गुण्योर् अभ्युदियाद् रसैर् उभयोः [उत्तरओय्ः] प्रियङ्गवं (?) हस्ते पवित्रं [चित्रं] भक्तं भुक्त्वा चित्राभ्युदियानि शस्तानि फलजातानि तेषां भुक्तो खादतिष्म भूरिपायसपूपान् विशाखयोर् ह्य् एतानि खलु दक्षिणद्वाराणि भवन्ति । तत्रैव दक्षिणां दिशम् अभ्युदितः [अभ्युत्तितः] । वराहहस्तेन जालहस्तेन वा मत्ससम्बन्धेन वा समेयानि वर्तेतार्वाक् खलु एतेक्त्वोथाद् (?) अर्क्वाक् द्यानुकर्मस्य भवन्ति खलु गुडैर् भुक्त्वानुराधाभिर् अभ्युदियाच् छलानाम् ओदनं भुक्त्वा श्रवणेनाभ्युदियाद् एतानि पादेतानि खलु पश्चिमद्वाराणि स यत्रैव दिशम् अभ्युत्थितः । शयनहस्तेन वा तृणहस्तेन वा आसन्दीहस्तेन वा नीवीहस्तेन वा जानुहस्तेन वा समेयान् निवृत्तोतार्वाक् (निवर्तेतार्वाक्) खल्व् एतक्वान्धाद् (एतत् क्रोशाद्) ऊर्ध्वं क्रोशाद् अर्वाक् घातुकथम् [क्रोशाद् अव्याघातुकम्] अस्य [अर्थस्य] भवति । विदलं तपेन [विदलसूपेन] भुक्त्वा श्रविष्ठास्व् अभ्युदयाद् [अभ्युदियात्] रासैर् उत्तरयोर् गृहीणीभक्तं भुक्त्वा रेवतीभिर् अभ्युदयातिर् अभ्युदयात् तिलान् भक्षयित्वा भरणीभिर् अभ्युदियात् एतानि खलूत्तरदिक्द्वाराणि **[९७०]** भवन्ति । सम्पन्नैर् वो देवीं (?) दिशम् अभ्युत्थितः । पानहस्तेन वा किण्वहस्तेन वा क्षीरेण [वाक्षीवेण] वा सयेपान्निभर्त्तितार्वाक् [वा समेयान् निवर्तेतार्वाक्] खल्व् एतत् क्रोशाद् अर्वाक् भाकुशङ्कुम् [अव्याघ्तुकम्] अर्थस्य भवति । अनिजनिवेज्योजनिः सनिशर्महोजनि ब्रह्माजनि चर्यं समजनि [अजन्य् अजनिर् यशो अजनिर् वर्चो अजनिस् तेजो अजनिः सहो अजनिर् महो अजनिर् ब्रह्मा अजनिर् ब्राह्मणवर्चसम् अजनिः] । सर्वेषां लोकानां सर्वेषां वेदानां सर्वेषां भूतानां सर्वासां श्रवन्तीनां अधिपतिः स्याद् इति । तस्माद् एतस्मिन् नक्षत्र एवं कुर्यात् । प्राञ्चम् (?) इध्मम् उपमासाधया प्रस्तीर्य बहिर् रसान् बर्हिष्य् आध्यायत्वालाय [आलभ्याथ] जुहुयात् पवित्राणि साकं हि रोचनानि स्वाहेत्य् अग्नौ हुत्वा रसेषु सम्पातान् आनीय संस्थाप्य होमस् [होमांस्] तु स्नपनं प्राशय निरसानि ववैतस्मै करोति सर्वेषां लोहानां सर्वेषां देवानां सर्वेषां भूतानां सर्वासां श्रवन्तीनां जनिताध्पतिरजनिर् भवति । 


	चित्राणि साकं दधिरोचनानि [दिवि रोचनानि]


		 सरीसृपाणि भवने जनानि । 


	तुर्मिशं सुमतिम् इच्छमानो


		अहानि गीर्भिः सपर्याणि नाकम् ॥ [वेर्से रेस्तोरेद् wइथ् अपरिश्]


	सुहत्वम् [सुहवम्] अग्ने कृत्तिका रोहिणी 


		चस्तु भद्रं मृगशिरः शम् आर्द्रा ।


**वास्तु प्राशयति रशान् एवं चैनस्मै सौवुभद्रेमृशतिरः समुद्रा** [थिस् इस् गर्ब्लेद् इन् हेमाद्रि]


	पुनर्वस्वोस् शून्यता [पुनर्वसू सूनृता] वातुषचाक्षुषो [चारु पुष्यो]


		भानुर् अश्लेषा आयनं गया [मघा] मे ।


	पुण्यं सर्वफाल्गुश् चानुहस्ताश् [पूर्वा फल्गुन्यौ चात्र हस्तश्]


		विनाशिश्चाति [चित्रा शिवा स्वाति] सुखो मे अस्तु ।


	**शून्यताचानुराधे विशाखासहबानुराधा**


	राधे विशाखे सुहवा अनुर्धा


		ज्येष्ठा सुनक्षत्रम् अरिष्ठमूलम् ॥


	अन्नं पूर्वा रसन्तां मे स्वाहा [अषाढा]


		**ऊर्ध्वं पूर्वाद् एत्युत्ररावाह** ।


		ऊर्जं देह्य् उत्तरा आ वहन्तु ।


उक्तं प्रास्थानिकम् इत्य् उपक्रम्य ।


तद् अप्य् एते श्लोकाः ।


	अलङ्कृतो भूषितभृत्यवर्गः 


		परिष्कृतोत्तुङ्गतुरङ्गमार्गः ।


	वादित्रनादप्रतिनादिताशः 


		सुमङ्गलाचारपरम्पराशीः ॥


	राजा निर्गत्य भवनात् पुरोहितपुरोगमाः ।


	प्रास्थानिकं विधिं कृत्वा प्रतिष्ठेत् पूर्वतो दिशि ॥

**[९७१] **गत्वा नगरसीमान्तं वास्तुपूजां समारभेत् ।

सम्पूज्य चार्थदिक्पालान् पूजयेत् पथि देवताः ॥

मन्त्रैः सर्वैर् दिक्पौराणैः पूजयेच् च शमीतरुम् ।

अमङ्गलानां शमनीं शमनीं दुष्कृतस्य च ॥

दुःस्वप्नशमनीं धन्यां प्रपद्ये ऽहं शमीं शुभाम् ।

सतताशीः पूर्वस्यां दिशि विष्णुक्रमात् क्रमेत् ॥

रिपोः प्रतिकृतिं कृत्वा ध्यात्वा वा मनसा तथा ।

शरेण स्वर्णपुङ्खेन विद्धो हृदयमर्मणि ॥

दिशां विजयमन्त्राश् च पठितव्याः पुरोधसा ।

एवम् एव विधिं कुर्याद् दक्षिणादिदिशास्व् अपि ॥

पूज्यान् द्विजांश् च सम्पूज्य संवत्सरं पुरोहितः ।

गजवाजिपदातीनां प्रेक्षाकौतुकम् आचरेत् ॥

जयमङ्गलशब्देन ततः स्वभवनं विशेत् ।

नीराज्यमानः पुण्याभिर् गणिकाभिः सुमङ्गलम् ॥

य एवं कुरुते राजा वर्षे वर्षे सुमङ्गलम् ।

आयुर् आरोग्यम् ऐश्वर्यं विजयं च स गच्छति ॥

नाधयो व्याधयस् तस्य भवन्ति न पराजयः ।

श्रियं पुण्याम् अवाप्नोति विजयश् च सदा भुवि ॥ इति ।

उक्तं प्रास्थानिकम् इति विवाहम् उद्दिश्य यद् उक्तम् प्रास्थानिकं तद् इहापि ज्ञातव्यम् इत्य् अर्थः ।

[९७२] तच् च प्रास्थानिकं यथा ।

अथातः प्रास्थानिकं व्याख्यास्यामो जनेषु गमिष्यत्सु पार्थिवा वा तस्य त्वां दुन्दुभयः स्युर् वीणाश् चोपवादयेरन् हृष्टालङ्कृतास् चारु वदन्त उदगयने पूर्वपक्षे पुण्यनक्षत्रे केशश्मश्रुरोमनखानि वापयित्वा सम्भारानुपकल्पयित्वा मुहूर्तम् उपसमाधाय शान्तिप्रतिसरं कारयित्वा वोढारन्तेनाभिषिञ्चेद् अन्यतोक्तम् अञ्जनाभ्यञ्ज्नानुलेपनं कारयित्वा वासो गन्धान् स्रजश् चावध्य पुरःस्थातारं स्नापयित्वा कर्तान्वालभ्य जुहोत्य् अभयैर् अपि राजितेरापुष्पैः स्वस्त्ययनैः शर्मवर्मभिजनैश् च हुत्वा पार्थिवस्येतिभाप्रगामेति बहुधा आगच्छता गतस्येतीस्येतीन्द्रं (?) स्थालिपाकेनेष्ट्वा आतिष्ठाजिष्णुरनृक्षराऋजेव (?) इति पन्थानम् अस्थाप्य जपेद् इमौ पादौ यत् इन्द्र त्रातारम् इन्द्रं मानोविदन्नभयं सोमो ऽहस्पतिर् नः परिपातु पश्चाद् इति त्रीन् विष्णुकामान् क्रान्त्वा विवाहं कारयेन् नद्धरात् प्रतिष्ठेन् न परिहसेत् सद्य एव कुर्याद् इति ।

पुराणसमुच्चये त्व् अस्याम् एवापराजिता पूजोक्ता । आश्विनशुक्लपक्षं प्रक्रम्य दशम्यां च नरैः सम्यक् पूजनीया पराजिता ।

ऐशानीं दिशम् आश्रित्य अपराह्णे प्रयत्नतः ॥ इति ।

इयं तिथिद्वैधे परदिने श्रवणाभावे पूर्वोक्ता । आश्विनशुक्लपक्षं प्रकम्य (?) दशम्यां च नरैः सम्यक् पूजनीयापराजिता ।

[९७३] यदा श्रवण्युक्ता तदा सैव कार्या । तद् उक्तं कल्पपेन ।

उदये दशमी किञ्चित् सम्पूर्णैकादशी यदि ।

श्रवणर्क्षं यदाकाले सा तिथिर् विजयाभिधा ॥

श्रवणर्क्षे तु पूर्णायां काकुत्स्थः प्रस्थितो यतः ।

उल्लङ्घयेयुः सीमान्तं तद्दिनर्क्षे ततो नराः ॥ इति ।

अन्येषु सर्वेषु पक्षेषु नवमीयुक्ता ग्राह्या । तद् उक्तं पुराणसमुच्चये ।

या पूर्णा नवमीयुक्ता तस्यां पूज्यापराजिता ।

क्षेमार्थं विजयार्थं च प्रसिद्धविधिना नरैः ॥

नवमी शेषसंयुक्ता दशम्याम् अपराजिता ।

ददाति विजयं देवी पूजिता जयवर्धनी ॥

तथा आश्विने शुक्लपक्षे तु दशम्यां पूजयेन् नरः ।

एकादश्यां न कुर्वीत पूजनं चापराजितम् ॥ इति ।

स्कन्दपुराणे ऽपि ।

दशमीं यः समुल्लङ्घ्य प्रस्थानं कुरुते नृपः ।

तस्य सम्वत्सरं राज्ये न क्वापि विजयो भवेत् ॥ इति ।

इत्य् अपराजितादशमीविधिः ।

कृष्ण उवाच ।

पूर्वं कृतयुगस्यादौ भृगोर् भार्या महासती ।

दिव्ये रामाश्रमे रम्ये गृहकार्येषु तत्परा ॥

[९७४] बभूव सा भृगोर् नित्यं हृदयेप्सितकारिणी ।

तस्यां मुनिर् महातेजा अग्निहोत्रं निधाय च ॥

विष्णोस् त्रासो दानवानां कुत्रालक्षणसमाकुलम् ।

मुक्त्वा युद्धस्थितं पार्श्वे समर्प्य मुनिपुङ्गवः ॥

दत्वा निक्षेपकं सर्वं दिव्यया सुमहातपाः ।

जगाम हिमवत्पार्श्वं हरं तोषयितुं हरः ॥

सञ्जीवनीकृते नित्यं कणैर् धूमम् अधोमुखः ।

ययौ दानवराजस्य विजयाय पुरोहितः ॥

आजगाम् गते तस्मिन् गरुडेनाश्रयो हरिः ।

अभ्येत्य तत्स्थलं चक्रे चक्रेण कृत्तकन्धरम् ॥

गलद्रुधिरपल्ललोधै (?) नोहितार्णवसन्निभम् ।

दृष्टासुरबलं सर्वं निहतं विष्णुना तदा ॥

दिव्यास्त्रसंयुकामो ऽभूत् विष्णुम् अस्र्वाविलेक्षणम् ।

यावन् नोच्चरते वाचं चक्रेण कृतकन्धरम् ॥

तावन् निपातयामास शिरस् तस्य सकुण्डलम् ।

पाप्य सञ्जीवनीं विद्यां यावद् आयात्य् असौ मुनिः ॥

तावत् सदैत्यदैत्यान् हि पश्य्ति स्म निपातितान् ।

रोषाछाशाप च हरिं भृकूटीकुटिलाननः ॥

अवश्यभावभावित्वाद् विश्वस्य हितकारणात् ।

यस्मात् त्वया हता दैत्या ब्राह्मणी मत्परिग्रहा ॥

तस्मात् त्वं मानुषे लोके दशवारं गमिष्यसि ।

अतीर्थं मानुषे लोके रक्षार्थं च महीभृताम् ॥

[९७५] अवतारो दशाकारो भूयो भूयः पृथग्विधः ।

पूर्वोक्तकारणैः पार्थ अवतीर्णं महीतले ।

मां नरा ये ऽर्चयिष्यन्ति तेषां वासस् त्रिपिष्ठपे ॥

युधिष्ठिर उवाच ।

व्रतं दशावताराख्यं कृष्ण ब्रूहि सविस्तरम् ।

समन्त्रं सरहस्यं च सर्वपापप्रणाशनम् ॥

कृष्ण उवाच ।

प्रोष्ठपदे सिते पक्षे दशम्यां नियतः शुचिः ।

स्नात्वा जलाशये स्वच्छे पितृदेवादितर्पणम् ॥

कृत्वा कुरुकुलश्रेष्ठ गृहम् आगत्य मानवः ।

गृह्णीयात् धान्यचूर्णस्य द्विहस्तप्रसृतित्रयम् ॥

क्रमेण पाचयेत् तत् तु पुंसञ्ज्ञघृतसंयुतम् ।

वर्षं वर्षं दिने तस्मिन् यावद् वर्षाणि वै दश ॥

प्रथमे पूरिकां वर्षे द्वितीये घृतपूरिकां ।

तृतीये शुक्लकासारं चतुर्थे मोदकान् शुभान् ॥

सोहालकान् पञ्चमे ऽब्दे षष्ठे ऽब्दे खण्डवेष्टकान् ।

सप्तमे ऽब्दे कोक्वरस्यलकापुष्टस् तथाष्टमे ॥

दशात्मनो दशहरे दशविप्राय दापयेत् ।

क्रमेण भक्षयित्वा च यथोक्तं भरतर्षभ ॥

अर्धार्धं विष्णवे देयं अर्धार्धं वा द्विजातये ।

स्वत एवार्धम् अश्नीयाद् गत्वा रम्ये जलाशये ॥

दशावतारान् अभ्यर्च्य पुष्पधूपविलेपनैः ।

[९७६] मन्त्रेणानेन मेधावी हरिम् अभ्युक्ष्य वारिणा ॥

    मत्स्यं कूर्मं नृसिंहं वराहं 


    त्रिविक्रमं रामं रामं रामं रामं च 

बुद्धश् चैव सकल्किकम् ।

गतो ऽस्मि शरणं देवं हरिं नारायणं प्रभुम् ॥

प्रणतो ऽस्मि जगन्नाथ स मे विष्णुः प्रसीदतु ।

छित्त्वा तु वैष्णवीं मायां भग्नां प्रीतो जनार्दनः ॥

श्वेतद्वीपं नयत्व् अस्मान् मयात्मा विनिवेदयेत् ।

एवं यः कुरुते पर्थ विधिनानेन सुव्रतम् ॥

दशावतारनामाख्यं तस्य पुण्यफलं शृणु ।

श्रूयते यास् त्व् इमा लोके पुरुषाणां दशादश ॥

तांश् छिनत्ति न सन्देहश् चक्रप्रहरणैर् हरिः ।

संसारसागरा घोरा तत् ऊर्ध्वरते हरिः ॥

श्वेतद्वीपं नयत्य् आशु व्रतेन्नेन तोषितः ।

किं तस्य न भवेल् लोके यस्य तुष्टो जनार्दनः ॥

सो ऽहं जनार्दनो राजन् कालरूपो रराम्य् अतः ।

मर्त्यलोके ऽभयं पार्थ चरिष्यति मयोदितम् ॥

सलक्ष्म्या चलया भक्त्या भर्तृपुत्रसमन्विता ।

मर्त्यलोके चिरं स्थित्वा विष्णुलोके महीयते ॥

विष्णुलोकाद् इन्द्रलोकं ततो याति परं पदम् ।

ये पूजयन्ति पुरुषाः पुरुषोत्तमस्य

मत्स्यादिकान् दशमीषु दशावतारान् ।

मर्त्ये दशस्व् अपि दशासु सुखं विहृत्य

ते यान्ति यानम् अधिरुह्य सुरेशलोकान् ॥

इति भविष्योत्तरे दशावतारं नाम ।

[९७७]

अथ सोद्यापनम् आशादशमीव्रतम् ।

कृष्ण उवाच ।

पार्थ पथि विवर्धन्तमुखपङ्कज सद्रवे ।

शृणुष्वावहितो वच्मि तवाशादशामीव्रतम् ॥

नलतापो भवेत् पूर्वं विषधेषु महीपते ।

स भ्रात्रा विजितो राजन् निष्करेनाति निष्कृतिः ॥

अक्षैर् दूतेन राजेन्द्र निर्ययौ भार्यया सह ।

वनं भयप्रतिभयं शून्यं शिल्लीतगणनादितः ॥

स गत्वा प्रीतिहोत्रान्नजलमात्रेण वर्जयेत् ।

ददर्श वनमध्यस्थां च्छ्कुनीन् काञ्चनच्छवीन् ॥

ग्रहीतुम् इच्छुस् तान् राजन् समाच्छाद्य स्ववाससा ।

समीपे तु खगात् तूर्णं गृहीत्वा वसनं शुभम् ॥

आससाद सभां काञ्चिद् धृतवासा सुदुःखितः ।

दमयन्ती सभां प्राप्य निद्रयापहृता तदा ॥

दुःखाद् उत्सृज्य गतवान् चान्यत्र प्रधनेश्वरम् ।

गते तु नैषेधे भैमी प्रबुद्धा चर्चितानना ॥

अपश्यन्ती नलं वीर भैमी सुतं पतिं वने ।

इतश् चेतश् च बभ्राम हाहेति रुदन्ती मुहुः ॥

दुःखशोकसमाक्रान्ता नलदर्शनलालसा ।

आससाद वने कैश्चित् सा चैद्यपुरपुञ्जसा ॥

उन्मत्तवत् परिवृत्ता शिशुभिः कौतकाकुलैः ।

[९७८] दृष्ट्वा च चेदिराजस्य जननी जनचेष्टिता ॥

चन्द्रलेखेव पतिता भूमौ भासितदिङ्मुखा ।

आरोप्य सा स्वभवनं पृच्छका त्वं वरानने ॥

उवाच भैमी सव्रीडं सैरिन्ध्रीं मां निबोधत ।

न धावयेयं चरणौ नोच्छिष्टं भक्षयाम्य् अहम् ॥

यदि प्रार्थयते कश्चिद् दण्ड्यस् ते साम्प्रतं भवेत् ।

प्रतिज्ञया तया देवि तिष्ठे ऽहं तव वेश्मनि ॥

एवम् अस्त्व् अनवद्याङ्गि राजमाताप्य् उवाच ताम् ।

एवं वै दासभवने कञ्चित् कालम् अनिन्दिता ॥

उवास वत्सरार्धेन प्रवृत्ताते किल द्विज ।

अनया मासम् उदिताद्दमयन्ती (?) गृहं पितुः ॥

मात्रा पित्रा समायुक्ता सुतैर् भ्रातृभिर् एव च ।

दमयन्ती तथाप्य् आस्ते दुःखं नैषधवर्जिते ॥

प्रोवाच विप्रान् आहूय व्रतं दानम् अथापि वा ।

कथयध्वं यथा मे स्याद् इष्टेन सहसङ्गमः ॥

तत्रेतिहासकुशलो विप्रः प्रोवाच बुद्धिमान् ।

भद्रे त्वम् आशादशमीं कुरुष्वेप्सितसिद्धिदम् ॥

चकार सर्वं तन्वङ्गी यत् पुराणविदा तदा ।

ख्यातम् आख्यानविदुषा दमनेन पुरोधसा ॥

व्रतस्यास्य प्रभावेन दमयन्त्या नरोत्तम ।

सञ्जातः सुखदीप्त्यर्थं (?) भर्त्रा सह समागमः ॥

युधिष्ठिर उवाच ।

कथम् आशादशम्येषा गोविन्द क्रियते कदा ।

[९७९] सर्वम् एतत् समाचक्ष्व मासतिष्यादि यादव ॥

कृष्ण उवाच ।

राज्याशया राजपुत्रः कृष्यर्थं तु कृषीवलः ।

भार्यार्थं तु वणिक्पुत्रः पुत्रार्थं गुर्विणी तथा ॥

धर्मार्थकामसंसिद्ध्यै लोके कन्या वरार्थिनी ।

यष्टुकामो द्विजवरो रोगी रोगापनुत्तये ॥

वीर प्रवसिते कान्ते तदार्त्तितापपीडिता ।

एतेष्व् अन्येषु कर्तव्यम् आशाव्रतम् इदं तदा ॥

यदा यस्य भवेद् आर्तिकार्यं तेन तदा व्रतम् ।

शुक्लपक्षे दशम्यां तु स्नात्वा सम्पूज्य देवताः ॥

नक्तं दशम्यां सम्पूज्यः पुष्पालक्तकचन्दनैः ।

गृहीगणो लिखयित्वा यवैः पिष्टालकेन वा ॥

स्त्रीरूपाश् चाधिपूज्यास् तु स्वचिह्नेनैव चिह्निताः ।

यथा देवस्य शक्रादेः शस्त्रवाहनलक्षणम् ॥

दत्वा घृताक्तं नैवेद्यं पृथक् दीपांश् च दापयेत् ।

फलानि कालजातानि ततः कार्यं निवेदयेत् ॥

आशास्वाशा सदा सन्तु विद्यन्तां मे मनोरथाः ।

भवानीनां प्रसादेन सदा कल्याणम् अस्त्व् इति ॥

एवम् सम्पूज्य भुञ्जीत दत्वा विप्राय दक्षिणाम् ।

अनेन क्रमयोगेन मासि मासि समाचरेत् ॥

धावन् मनोरथः पूर्णस् ततः पश्चात् समुद्यमान् ।

मासि पूर्णे च षण्मासे वर्षे वर्षद्वये गते ॥

[९८०] सौवर्णी कारयेद् आशाः रौप्या पिष्टातकेन वा ।

ज्ञातिबन्धुजनैः सार्धं स्नातः सम्यग् अलङ्कृतः ॥

पूजयेन् मन्त्रसन्दर्भैर् एभिर् ध्यात्वा गृहाङ्गणे ।

तव सन्निहितः शक्रः सुरासुरनमस्कृतः ॥

पूर्वच्चन्द्रेण सहिता ऐन्द्रीदिग्देवते नमः ।

अग्नेः परिग्रहाचार्ये त्वम् आग्नेयी समुच्यसे ॥

तेजो ह्य् अपां परा शक्तिर् आग्नेयी वरदा भव ।

देवराजं समासाद्य लोकः संयमत्य् असौ ॥

तेन संयमिनीयासि याम्ये कामप्रदा भव ।

खड्गं सहेति विकृतानैर् ऋतिस् त्वामुषामृतम् ॥

तेन नैरृतनाम्नि त्वं कृतवान् भवतः सदा ।

त्वयास्ते भवनाधार वरुणो यादसां पतिः ॥

इष्टकामार्थ्सिद्ध्यर्थं वारुणिप्रभवो भव ।

अधित्वासि च यस्मात् त्वं वायुदा जगतां पुनः ॥

वायव्ये त्वम् अतः शाण्तिं नित्यं यच्छ नमो नमः ।

कौवेरोवशिसौम्या च प्राभ्याप्ता (??) त्वम् अथोत्तरा ॥

निरुत्तरा भवास्मासु दत्वा सद्यो मनोरथान् ।

ये पानीजगदीशेन शम्भुना त्वम् अलङ्कृता ॥

अतस् त्वं शिवसान्निध्यं दभिव्याहि (?) शिवे नमः ।

सर्पाटक कुलेन त्वं सेवितासि तथाप्य् अधः ॥

नागाङ्गनाभिः सहितोताहिता (?) न सर्वदा भव ।

सप्तलोकैः परिगतः सर्वदा त्वं शिवाय तु ॥

सनकाद्यैः परिवृता ब्राह्मजिह्वानपां (?) कुरु ।

[९८१] नक्षत्राणि च सर्वाणि ग्रहास् ताराग्रहास् तथा ॥

नक्षत्रमातरो ये च भूतप्रेतविनायकाः ।

सर्वे ममेष्टसिद्ध्यर्थं भवन्तु प्रणता सदा ॥

एभिर् मन्त्रैः समभ्यर्च्य पुष्पधूपादिना ततः ।

आपोभिर् अभिसंस्थाप्य फलानि विनिवेदयेत् ॥

तत् सूर्यध्वनिघोषेण गीतमङ्गलनिस्वनैः ।

नृत्यतीभिः क्षुमाप्यस्तास् तां रात्रिम् अतिवाहयेत् ॥

कुङ्कुमक्षोदतीव्रेण दानमानादिभिः सुखम् ।

प्रभाते वेदविदुषे सर्वं तत् प्रतिपादयेत् ॥

अनेन विधिना सर्वं क्षमाप्य प्रश्रियस्य च ।

भुञ्जीत मित्रसहितः सुहृद्बन्धुजनैर् अपि ॥

य एवं कुरुते पार्थ दशमीव्रतम् आदरात् ।

स सर्वकामम् आप्नोति मनसाभीप्सितं नरः ॥

स्त्रीभिर् विशेषतः कार्यं व्रतम् एतद् युधिष्ठिर ।

लघुवित्तपतेर् नार्य सदा कामपरायणः ॥

धन्यं यशस्यम् आयुष्यं सर्वकामफलप्रदम् ।

कथितं ते महाराज मया व्रतम् अनुत्तमम् ॥

ये मानवा मनुजपुङ्गवकामकामाः

सम्पूजयन्ति दशमीषु सदा दशाशाः ।

तेषां विशेषनिहिता हृदये प्रकामम्

आशाः फलं तृलमलं बहुनोदितेन ॥

इति भविष्योत्तरे सोद्यापनम् आशादशमीव्रतम् ।

[९८२]

अथ यमव्रतम् ।

ब्रह्मोवाच ।

दशम्यां यमराड् इष्टः सर्वव्याधिहरो ध्रुवम् ।

मूलमन्त्राः स्वसञ्ज्ञाभिर् अङ्गमन्त्राश् च कीर्तिताः ॥

पूर्ववत् पद्मपत्रस्थः कर्तव्यश् च तिथीश्वरः ॥

नमो ऽस्तु पञ्चसुभुजोवरदण्डपाशाभयङ्करो महीष पृष्ठवरसुरार्यः ।

गन्धपुष्पोपहारैश् च यथाशक्ति विधीयते ।

पूजाशाठ्येन शाठ्येन कृतापि तु फलप्रदा ॥

आज्यधारासमिद्भिश् च दधिक्षीरान्नमाक्षिकैः ।

पूर्वोक्तफलदो होमः पायसान्नेन वा कृतः ॥

इदं व्रतं वैश्वानरप्रतिपद्व्रतवद् व्याख्येयम् ।

इति भविष्यत्पुराणोक्तं यमव्रतम् ।

अथ भौमव्रतम् ।

अगस्त्य उवाच ।

सार्वभौमव्रतं चान्यत् कथयामि समासतः ।

येन सम्यक् कृतेनाशु सार्वभौमो भवेन् नरः ॥

कार्त्तिकस्य तु मासस्य दशमी शुक्लपक्षगा ।

तस्यां नक्ताशनो मर्त्यो दिक्षु शुद्धवलिं हरेत् ॥

शुद्धवलिः पवित्रद्रव्यैः पूजोपहारः ।

[९८३] विचित्रैर् कुसुमैर् भक्ष्यैः पूजयेच् च द्विजांस् तथा ।

सर्वा भवत्यः सिद्ध्यन्तु मम जन्मनि जन्मनि ॥

एवम् उक्त्वा बलिं तासु दत्वा सुद्धेन चेतसा ।

ततोद्धिशत्रे (?) भुञ्जीत दध्यन्नं च सुसंस्कृतम् ॥

सर्वे पश्चाद् यथेष्टं च एवं संवत्सरं नृपः ।

यः करोति नृपो नित्यं तस्य दिग्विजयो भवेत् ॥

इति श्रीवाराहपुराणोक्तं सार्वभौमव्रतम् ।

अथ विश्वव्रतम् ।

पुलस्त्य उवाच ।

दशम्याम् एकभक्ताशी समान्ते दशधेनवः ।

दिशस् तु काञ्चनीर् दद्याद् यद् वा रूप्या महीपतिः ॥

तिलद्रोणोपरिगताः सार्वभौमो भवेन् नृप ।

एतद् विश्वव्रतं नाम महापातकनाशनम् ॥

इति पद्मपुराणोक्तं विश्वव्रतम् ।

इति श्रीमहार्जाधिराजश्रीमहादेवस्य समस्तकरणाधीश्वर-

**समस्तविद्याविशारदहेमाद्रिविरचिते **

चतुर्वर्गचिन्तामणौ व्रतखण्डे दशमीव्रतानि ।

[९८४]

अथ पञ्चदशो ऽध्यायः ।

अथैकादशीव्रतानि ।

लोकानुग्रहविग्रही स भगवान् चित्तेयदीये वसन्

क्षीरोदं मनसापि नेच्छति न वा वैकुण्ठम् उत्कण्ठितः ।

सो ऽयं सम्प्रति सुप्रतीतचरितः श्रीविष्णुभक्ताग्रनी

हेमादिर् व्रतजातम् अत्र कथयत्य् एकादशीसंश्रितम् ॥

तत्रैकदश्यां जागरणगीतनर्तनभगवत्-

पूजनोत्सवमाहात्म्यम् ।

ब्रह्मपुराणे ।

एकादश्यां नरो यस् तु कुरुते जागरं नरः ।

गीतैर् नृत्यैस् तथा वाद्यैः प्रेक्षणीयैः पृथग्विधैः ॥

स याति वैष्णवं लोकं यं गत्वा न निवर्तते ॥

हत्यायुतानीह सुसम्चितानि

स्तेयानि रुक्मस्य वसूनि सद्यः ।

निहत्य तेनैव निराकृतानि

सर्वाणि भद्राणि निशि जागरेण ॥

मार्गे भयं प्रेतपुरं न दूतात्

त्व् अनन्ततः स्वःवरखड्गपत्रम् ।

स्वप्ने न पश्यन्ति च ते मनुष्या

तेषां गता जागरणेन भद्रा ॥

काभासहस्रं विधिवद् ददाति

रत्नैर् अलङ्कृत्य स धर्मम् एव ।

गवां कुरुज दत्तं जागरेण विष्णोः ॥

[९८५] तथा ।

एकादश्यां निराहारः पूज्य दामोदरं हरिम् ।

रात्रौ जागरणं कृत्वा मुच्यते सर्वपातकैः ॥

ननु ये पापकर्माणः समायाताः प्रजागरे ।

संसारसागरे तीव्र न ते यान्ति हरेः पुरम् ॥

यथा यथा याति निशाप्रजागरैस्

तथा तथा विष्णुपुरे विचिन्त्यते ।

वासः पुरो वैष्णवलोकहेतवे

मदङ्गगीतध्वनिनादिते गृहे ॥

गदासिशङ्खारधरश् चतुर्भुजो

दैतेयदर्पापहरास्त्रधारी ।

प्रगीयमानः सुरसुन्दरीभिः

स याति खं खेचरगात्रसङ्गी ॥

ब्रह्मवैवर्ते ।

द्वादश्यां जागरं रात्रौ श्रद्धया श्रीपतिं स्तुवन् ।

कुरुते कुरुते तस्य नारकी नैव वासना ॥

यमः पापानि विप्रेन्द्र स्वपटात्माञ्जपत्कृता ॥

वाराहपुराणे ।

योगायति विशालाक्षि ज्ञानतो ऽज्ञानतो ऽपि वा ।

मम प्रजागरे गीतैर् नित्यं भक्त्या व्यवस्थितः ॥

यावन्तश् च स्वराः केचिद् गायमाना यशस्विनि ।

तावद् वर्षसहस्राणि शक्रलोके महीयते ॥

मद्भक्तश् चैव जायेत शक्रलोकम् उपास्थितः ।

सर्वकर्मगुणश्रेष्ठस् तत्रापि मम पूजकः ॥

[९८६] इन्द्रलोकपरिभ्रष्टो मम पूजापरायणः ।

प्रमुक्तः सर्वसंसारान् मम लोकाय गच्छति ॥

तथा शृणुत तत्त्वेन मे भूमिं कथ्यमानय ।

मम मायाप्रभावेण सिद्धिं प्राप्तो महौजसीं ॥

तत्रैव चाश्रमे कश्चिच् चण्डालः कृतनिश्चयः ।

दूराज् जागरणे गायेन् मम भक्तिव्यवस्थितः ॥

एवं तु गायतस् तस्य जग्मुर् वर्षाण्य् अनेकशः ।

स्वपाकं सुगुणः सो ऽथ मद्भक्तश् च वसुन्दहे ॥

कौमुदस्य तु मासस्य शुक्लपक्षस्य द्वादशीम् ।

सुसङ्गते जने याते वीणाम् आदाय जागरम् ॥

ततो ऽर्धमार्गे चण्डालो गृहीतो ब्रह्मराक्षसैः ।

अल्पप्राणः श्वपाको वै बलवान् ब्रह्मराक्षसः ॥

दुःखेन चैव सन्तप्तो न शक्नोति विचेष्टितम् ।

स वै प्रोक्तः श्वपाकेन बलवान् ब्रह्मराक्षसः ॥

किं त्वया चेष्टितं मह्यं यस् त्व् एवं परिधावसि ।

श्वपाकवचनं श्रुत्वा तदा वै ब्रह्मराक्षसः ॥

उवाच मधुरं वाक्यं मानुषोद्धारलोलुपः ।

अद्य मे दशरात्रो ऽयं निराहारस्य गच्छति ॥

धात्रा सुविहितो ऽसि त्वम् आहारार्थे पुरस्थितः ।

अद्य ते भक्षयिष्यामि नरमांसं च शोणितम् ॥

पीत्वा चैव यथान्यायं यथा वा तव रोचते ।

[९८७] ब्रह्मरक्षोवचः श्रुत्वा श्वपाको गीतलालसः ॥

राक्षसं छन्दयामास मम भक्त्या व्यवस्थितः ।

एवम् एतन् महाभाग भक्षाय समुपागतः ॥

अवश्यम् एव कर्तव्यं धात्रा दत्तं यथा तव ।

पश्चात् खादसि मां रक्षो जागरे विनिवर्तिते ॥

विष्णोः सन्तोषणार्थाय ममैतद् व्रतम् उत्तमम् ।

संरक्ष व्रतभङ्गाद् वै देवनारायणं प्रति ॥

जागरे विनिवृत्ते तु मां भक्षय यदीच्छसि (?) ।

श्वपाकस्य वचः श्रुत्वा ब्रह्मरक्षः क्षुधार्दितम् ॥

उवाच मधुरं वाक्यं श्वपाकं तदनन्तरम् ।

मिथ्या वदसि चाण्डाल त्वं कथं पुनर् एष्यसि ॥

को हि रक्षोमुखाद् भ्रष्टो मानवो विनिवर्तते ।

तथा ।

राक्षसस्य वचः श्रुत्वा चाण्डालो धर्मसंस्थितः ॥

उवाच मधुरं वाक्यं राक्षसं पिशिताशनम् ।

यद्य् अप्य् अलं हि चाण्डालः पूर्वकर्मविदूषितः ॥

प्राप्तो ऽस्मि मानुषं जन्म गर्हितेनान्तरात्मना ।

शृणु तत्समयं रक्षो येन मे पुनर् आगमः ॥

दूरस्थं जागरं कृत्वा लोकनाथस्य रात्रितः ।

सत्यमूलं जगत् सर्वं लोके सत्यं प्रतिष्ठितम् ॥

सत्येन लेभिरे सिद्धिम् ऋषयो ब्रह्मवादिनः ।

नाहं सत्यात् प्रमुच्येय तस्थौ ब्रह्मो ह्यतेन्द्रियः ॥

स याति चैव सत्येन नागम् इष्यामि यद्य् अहम् ।

ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते तथा ॥

[९८८] तेषां गतिं प्रपद्येयं नागम् इष्यामि यद्य् अहम् ।

ब्रह्मराक्षसम् उक्तस् तु श्वपाकः कृतनिश्चयः ॥

पुनर् गायति मत्स्थं वै मम भक्त्या व्यवस्थितः ।

अथ प्रभाते विमले गीतं नृत्यं च जागरे ॥

नाम्ना श्वपाका गायन्ति श्वपाको न निवर्तते ।

ततः स्वरितम् आगत्य पुरुषोदात्तरुपभाक् (?) ॥

उवाच मधुरं वाक्यं श्वपाकं तदनन्तरम् ।

कुतो गच्छति तत्त्वेन द्रुतं गमननिश्चितः ॥

एकदा चङ्क्रमेत् सर्वं यत्र तत्र प्रवर्तते ।

तस्य तद् वचनं श्रुत्वा श्वपाकः सत्यसङ्गरः ॥

उवाच मधुरं वाक्यं पुरुषाद् अस्य संसदि ।

समयो मे कृतः पूर्वम् अग्रतो ब्रह्मरक्षसः ॥

तत्राहं गन्तुम् इच्छामि नात्र कार्या विचारणा ।

ततो राक्षससान्निध्यं श्वपाक इत्य् उवाच ह ॥

गच्छ चण्डाल भद्रं ते गन्तुं तत्र न चार्हसि ।

यत्रासौ राक्षसः प्राप्तः पिशितासनसंसदः ॥

अथोवाच श्वपाको ऽसौ मरणे कृतनिश्चयः ।

नाहम् एवं करिष्यामि यथा त्वं वदसे ऽनघ ॥

न चाहं नाशये सत्यम् एतन् मे निश्चितं व्रतम् ।

नाहं समयम् उत्सृज्य शपथांश् च कदाचन ॥

सत्यम् इत्थं करिष्यामि गच्छ तावन् नमो ऽस्तु ते ।

[९८९] एवं प्रचारणं तस्मिन् वै श्वपाके सत्यवादिनि ॥

ब्रह्मरक्षसि सत्यत्वात् सत्यवाक्यप्रभाषणात् ।

दृष्ट्वा तु राक्षसं तत्र श्वपाकस् तम् उवाच् ह ॥

आगतो ऽस्मि महाभाग गीत्वा गाथां यथेप्सिताम् ।

विष्णोर् वै लोकनाथस्य मम पूर्णा मनोरथाः ॥

एह्य् एहि मम गात्राणि भक्षयस्व यथेप्सितम् ।

श्वपाकस्य वचः श्रुत्वा प्रोवाच ब्रह्मराक्षसः ॥

तव तुष्टो ऽस्म्य् अहं वत्स सत्यधर्मानुपालनात् ।

चाण्डालस्य विधिज्ञस्य यस्य वै बुद्धि ईदृशी ॥

ततः प्रोवास रात्रौ च विष्ण्वज्ये जागरः कृतः ।

फलं गीतस्य मे देहि यदि जीवितुम् इच्छसि ॥

अथोवाच श्वपाकस् तु मया सत्यं वचः कृतम् ।

खाद राक्षस मांसानि न दद्यां गीतजं फलम् ॥

उवाच राक्षसो गीतं दीयताम् अर्धरात्रिकम् ।

ततो मोक्ष्यामि कल्याण राक्षस्त्वाच् च भाषणात् ॥

अथोवाच श्वपाको ऽसौ त्वं पाहि ब्रह्मराक्षसः ।

त्वां भक्षयामीत्य् एवोक्तं गीते पुण्यं किम् इच्छसि ॥

श्वपाकस्य वचः श्रुत्वा ब्रह्मरक्षो जगाद ह ।

एकयामस्य मे देहि पुण्यं शान्तस्य वै फलम् ॥

तं राक्षसम् उवाचाथ चाण्डालो गीतलुब्धकः ।

न च याम्यफलं दद्मि ब्रह्मरक्षस् तवेप्सितम् ॥

पिबस्व शोणितम्मे ऽद्य यत् त्वया पूर्वभाषीतम् ।

श्वपाकस्य वचः श्रुत्वा राक्षसः प्रत्यभाषत ॥

[९९०] एकगीतस्य मे देहि यत् फलं विष्णुसंसदि ।

आत्मानं तारयिष्यामि तव गीतफलेन तु ॥

नाम्नाहं सोमशर्मेति ब्राह्मणो ब्रह्मयोनिना ।

सूत्रयन्त्रपरिभ्रष्टो यज्ञकर्मसु निष्ठितः ॥

ततो ऽस्मि कृतवान् यज्ञं लोमहोमप्रपीडितः ।

तस्य यज्ञस्य दोषेण जातो ऽस्मि ब्रह्मराक्षसः ॥

मन्त्रहीनस्य यद् दत्तं स्वरहीनं च यत् कृतम् ।

यद् इष्टं पुत्रहीनेन विध्वस्तं कर्मजन्मया ॥

परिमाणं च रूपं च मया नात्रोपलक्षितम् ।

लाभलोमस्य दोषेण योनिं प्राप्तो ऽस्मि राक्षसीम् ॥

त्वं तु गीतप्रदानेन मां तारयितुम् अर्हसि ।

युज्येयं राक्षसत्वाच् च विष्णुगीतप्रसादतः ॥

ब्रह्मरक्षोवचः श्रुत्वा श्वपाकः संशितव्रतः ।

बाढम् इत्य् एव तद्वाक्ये ब्रह्मराक्षसम् अब्रवीत् ॥

गीतवान् अस्मि यत् पश्चात् स्वरम् एकम् अनुत्तमम् ।

फलेन तस्य भद्र त्वां राक्षसत्वाद् अमोचयम् ॥

सकृद् गायति संयुक्तः कौशिकं विष्णुसन्निधौ ।

स तारयति दुर्गाणि श्वपाको राक्षसम् तथा ॥

एवं तत्र वरं (?) लब्ध्वा स तदा ब्रह्मराक्षसः ।

जातस् तु विमलो भद्रे शरदीव निशाकरः ॥

यज्ञशापाद् विनिर्मुक्तः सोमशर्मा द्विजस् तदा ।

जातो भागवतो भूमिक्षेत्रे दत्तो महायशाः ॥

श्वपाकश् चापि सुश्रोणि मम***ओपगायनात् [ब्रोकेन् त्य्पे] ।

[९९१] कृत्वा सुविमलं कर्म सो ऽपि ब्रह्मत्वम् आगतः ॥

एतद् भूमिकथां सर्वां कथितं तव सुन्दरि ।

ब्रह्मपुराणे ।

देवस्योपरि कुर्वीत श्रद्धया सुसमाहितः ।

नानापुष्पैर् मुनिश्रेष्ठ विचित्रपुष्पमण्डपम् ॥

कृत्वा वावरणं पश्चाज् जागरं कारयेन् निशि ।

कथां च वासुदेवस्य गीतकं वापि कारयेत् ॥

ध्यायन् पठन् स्तवन् देवं प्रेतयेद् रजनीं बुधः ।

मम जागरणे गीतस्वरसङ्घैकनिश्चितम् ॥

यस् तु गायति सुश्रोणि कौमुदद्वादशीनिशि ।

स सर्वसङ्गं सन्त्यज्य मम लोकाय गच्छति ॥

यस् तु गायति गीतानि मम जागरणे सदा ।

युक्तश् चान्तस्थिरो भूत्वा ब्रह्मभूयं स गच्छति ॥

यस् तु गायति गीतानि मम जागरणे सदा ।

युक्तम् अन्तस्थितो भूत्वा ब्रह्मभूयं स गच्छति ॥

एतत् ते कथितं भूमिगायने मम जागरे ।

नित्यं तु गायनेनैव तरेत् संसारसागरात् ॥

वादित्रस्य प्रवक्ष्यामि तच् छृणु त्वं वसुन्धरे ।

सप्तवत् तु फलं यस्माद् वादित्राद् धर्मसंस्थितः ॥

सम्यक् कालप्रयोगेण सन्निपातेन वा पुनः ।

[९९२] नववर्षसहस्राणि नववर्षशतानि च ॥

कुबेरभवनं गत्वा मोदते ऽसौ यदृच्छया ।

कुबेरभवनाद् भ्रष्टः स्वच्छन्दो धनवान् सुखी ॥

सम्यक् कालनिपातेन मम लोकाय गच्छति ।

नर्तनस्य प्रवक्ष्यामि तच् छृणु त्वं वसुन्धरे ॥

मनुजा येन गच्छन्ति छित्वा संसारसागरम् ।

त्रिंशद्वर्षसहस्राणि त्रिंशद्वर्षशतानि च ॥

पुष्करद्वीपम् आसाद्य स्वच्छन्दगमनो भवेत् ।

नृत्यं तु जागरे देवि मम कर्मपरायणः ॥

रूपवान् गुणवांश् चैव शीलवांश् चैव जायते ।

मद्भक्तश् चैव जायेत संसाराद् अपि मुच्यते ॥

यस् तु जागरणे नृत्ये मम कर्मपरायणः ।

जम्बूद्वीपं समासाद्य राजराजः स जायते ॥

सर्वकर्मसमायुक्तो रक्षिता पृथिवीतले ।

मद्भक्तश् चैव जायेत् शूरः सर्वगुणान्वितः ॥

उपगच्छेत् तु माम् अन्ते मम कर्मपथे स्थितः ।

एतत् ते कथितं भूमि गीतवादित्रनर्तनम् ॥

मद्भक्तानां सुखार्थाय सर्वसंसारमोक्षणम् ।

इति खलु निखिलस्मृतिपुराणनिगमादिविहितम् एकादशीव्रतम् ।

अथ बहवो विप्रतिपद्यन्ते ।

[९९३] एकादश्याम् उपवसेत् पक्षयोर् उभयोर् अपि ।

विष्णुरहस्यस्कन्दपुराणयोः ।

उपोष्यैकादशीं सम्यक् पक्षयोर् उभयोर् अपि ।

गरुडपुराणे ।

उपोष्यैकादशी नित्यं पक्षयोर् उभयोर् अपि ।

सनत्कुमारप्रोक्तम् ।

एकादशी सदोपोष्या पक्षयोः शुक्लकृष्णयोः ।

तथा ।

एकादश्याम् उपवसेन् न कदाचिद् अतिक्रमेत् ।

मत्स्यभविष्यपुराणयोः ।

एकादश्यां निराहारो यो भुङ्क्ते द्वादशिदिने ।

शुक्ले वा यद् दिवा कृष्णे तद् व्रतं वैष्णवं महत् ॥

आग्नेयपुराणे ।

एकादश्यां न भुञ्जीत व्रतम् एतद् धि वैष्णवम् ।

उपवासपरम् इदं वचनं युगलम्, व्रतम् इति वाक्यशेषात् ।

विष्णुधर्मोत्तरे कूर्मपुराणे च ।

न शङ्खेन पिबेत् तोयं न खादेत् कूर्मशूकरौ ।

एकादश्यां न भुञ्जीत पक्षयोर् उभयोर् अपि ॥

नारदीयपुराणे ।

परहोरटतेत्यर्थं मृगारिरिपुमस्तके ।

अभुक्त्वा दशमीं लोका ममत्वेन विवर्जिताः ॥

प्राणबाधेषु कार्येषु देवेशश् चिन्त्यतां हरिः ।

[९९४] रटन्तीह पुराणानि भूयो भूयो वरानने ॥

न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते हरिवासरे ।

विष्णुस्मृतौ ।

एकादश्यां न भुञ्जीत कदाचिद् अपि मानवः ।

एतान्य् अपि वचनानि नादित्यम् ईक्षतेति च वदत उपवासव्रतपराण्य् एव क्वचित् क्वचिद् उप्वासप्रतिपादनाच् च । अर्थविधौ मूलभूतवेदान्तरकल्पनाप्रसङ्गाल् लक्षणाप्रसङ्गाच् च एकमूलत्वाय लक्षणत्वानुमतैव (?) । यद् वैकादश्याम् उपवसेद् इत्य् उपक्रम्य एकादश्यां न भुञ्जीतेति देवलादिवचनं तद् उपसंहारार्थं गुणविधानार्थं वा तथा चोपवासप्रकरणपठनम् अप्य् उचितं भवति । तेन स्वतन्त्रं नार्थविधिपरम् एव मादिवचनम् इति मतम् अपास्तम् । तथा च सिद्धश् चोपवासो व्रतरूपः । स च नित्यः फलश्रवणात्, कल्पनायां प्रमाणाभावात्, विहितत्वाच् च सदाकरणं न कदाचिद् अतिक्रमेद् इति वचनात् अकरणे प्रत्यवायस्मरणाच् च । तथा हि सनत्कुमारप्रोक्ते ।

न करोति हि यो मूढ एकादश्याम् उपोषणम् ।

स नरो नरकं याति रौरवं तमसावृतम् ॥

तथा ।

एकादश्यां मुनिश्रेष्ठ यो भुङ्क्ते द्विजपुङ्गवः ।

[९९५] प्रतिग्रासं स भुङ्क्ते च मलं कुष्ठीसमुद्भवम् ॥ इति ।

निष्कृतिर् ब्रह्महप्रोक्ता धर्मशास्त्रे मणीषिभिः ।

एकादश्यन्नकामस्य निष्कृतिः क्वापि नोदिता ॥

मद्यपानान् मुनिश्रेष्ठ पापी च नरकं व्रजेत् ।

एकादश्यन्नकामस् तु पितृभिः सह मज्जति ॥

नारदीये ।

सो ऽश्नाति पार्थिवं पापं यो ऽश्नाति मधुभिर् दिने ।

तथा ।

यानि कानि च पापानि ब्रह्महत्यासमानि च ।

अन्नम् आश्रित्य तिष्ठन्ति सम्प्राप्ते हरिवासरे ॥

तानिपापानि वाप्नोति भुञ्जानो हरिवासरे ॥

स्कन्दपुराणे ।

मातृहा पितृहा चैव भ्रातृहा गुरुहा तथा ।

एकादश्यां तु भुञ्जानो विष्णुलोकाच् च्युतो भवेत् ॥

स्वीकृतव्रतपरित्यागे च पापं कृतम् । विष्णुपुराणे ।

समादाय विधानेन द्वादशीव्रतम् उत्तमम् ।

तस्य भङ्गं नरः कृत्वा रौरवं (?) नरकं व्रजेत् ॥

तथा द्वादशीव्रतम् आदाय व्रतभङ्गं करोति यः ।

द्वादशाब्दव्रतं चीर्णम् अफलं तस्य जायते ॥

परिगृह्य व्रतं सम्यग् एकादश्यादिकं यदि ।

न समापयते तस्य गतिः पापा गरीयसी ॥

[९९६] नारदीये ।

एकादश्यां विना रण्डा यतिश् च सुमहामते ।

पच्यते ह्य् अन्धतामिश्रे यावद् आभूतसम्प्लवम् ॥

कात्यायनः ।

विधवा या भवेन् नारी भूञ्जीतैकादशीदिने ।

तस्यास् तु सुकृतं नश्येद् ब्रह्महत्या दिने दिने ॥

विष्णुरहस्ये ।

द्वादशी न प्रमोक्तव्या यावदायुः सुवृत्तिभिः ।

अग्निपुराणे ।

उपोष्यैकादशी राजन् यावदायुः सुवृत्तिभिः ।

विष्णुरहस्यस्कन्दपुराणयोः ।

परम् आपदम् आपन्नो हर्षे वा स्मुपस्थिते ।

सूतके मृतके वापि न त्याज्यं द्वादशीव्रतम् ॥

ऋष्यशृङ्गः ।

एकादश्यां न भुञ्जीत नारी दृष्टे रजस्य् अपि ।

पुलस्त्यो ऽपि ।

सम्प्रवृत्ते ऽपि रजसि न त्याज्यं द्वादशीव्रतम् ।

सूतकादाव् उपवासमात्रं कार्यं न पुनर् अर्चनादि ।

विष्णुरहस्यस्कन्दपुराणे ।

सूतके ऽपि नरः स्नात्वा प्रणम्य मनसा हरिम् ।

एकादश्यां न भुञ्जीत व्रतम् एवं न लुप्यते ॥

सूतके ऽपि न भुञ्जीत एकादश्यां सदा नरः ।

[९९७] द्वादश्यां तु समश्नीयान् नो वा विष्णुं प्रणम्य च ॥

केचित् तु पुत्रवतो गृहिणः कृष्णैकादश्याम् उपवासे नाधिकार इत्य् आहुः । यद् आह पैठीनसिः ।

कृष्णैकादश्यां सङ्क्रान्त्यां ग्रहणे चापि वा पुमान् ।

उप्वासं न कुर्वीत सर्वबन्धुधनक्षयात् ॥

सङ्क्रान्त्यां कृष्णपक्षे च रविशुक्तदिने तथा ।

एकादश्यां न कुर्वीत उपवासं च पारणम् ॥

गौतमः ।

आदित्ये ऽहनि सङ्क्रान्ताव् असितैकादशीषु च ।

व्यतीपाते कृते श्राद्धे पुत्री नोपवसेद् गृही ॥

कात्यायनः ।

एकादशीषु कृष्णासु रविसङ्क्रमणे तथा ।

चन्द्रसूर्योपरागे च न कुर्यात् पुत्रवान् गृही ॥

उपवासम् इति शेषः । नैतत् साधीयः, कृष्णैकादश्यादिनिमित्तकाम्योपवासप्रतिषेधपरत्वाद् एषां वचनानाम् । तथा च कात्यायनः ।

तन्निमित्तोपवासस्य निषेधो ऽयम् उपाहृतः ।

प्रयुक्तान्तरयुक्तस्य न विधिर् न निषेधनम् ॥

स्मृतिमीमांसायां जैमिनिः ।

तन्निमित्तोपवासस्य निषेधो ऽयम् उपाहृतः ।

[९९८] नानुषङ्गकृतो ग्राह्यो यतो नित्यम् उपोषणम् ॥

अयम् अर्थः । तन्निमित्तस्य भानुदिनदिनादिनिमित्तस्योपवासस्यायम् उदाहृतो निषेधः । न तु भानुवाराद्यनुषक्तैकादश्युपवासविषयः । यत एकादश्याम् उपोषणं नित्यम् अवश्यकर्तव्यं । तथा विहितम्, न च तस्य निषेधः कल्प्यते विकल्पापत्तेः । न च सङ्क्रान्त्यादीनाम् एकादशीविशेषणत्वम् । चन्द्रसूर्यग्रहणसाहचर्यात्, असमानविभक्तिनिर्देशात्, तथा पदप्रयोगाच् च, सङ्क्रान्त्यादियुक्तायाम् अप्य् एकादश्युपवासविधानाच् च । तथा सनत्कुमारप्रोक्ते ।

भानुवारेण या युक्ता तथा सङ्क्रान्तिसंयुता ।

एकादशी सदोपोष्या सर्वसम्पत्करी तिथिः ॥

कात्यायनः ।

सङ्क्रान्ती रविवारो एकादश्यां यदा भवेत् ।

उपोष्या सा महापुण्या सर्वपापहरा हि सा ॥

तथा ।

व्यतीपातो वैधृतिर् वा एकादश्यां यदा भवेत् ।

उपोष्या सा तु विज्ञेया पुत्रसम्पद्विवर्धनी ॥

श्राद्धदिनेषु विशेषम् आह कात्यायनः ।

उपवासो यदा नित्यं श्राद्धं नैमित्तिकं भवेत् ।

उपवासं तदा कुर्याद् आघ्राय पितृसेवितम् ॥

अस्त्य् एव गृहिणः पुतवती रुक्माङ्गदादेः [९९९] कृष्णैकादश्युपवासश्रवणम् । किं च स्वीकृत उभयैकादशीव्रतोपवासः पुत्रजन्मनि कृष्णैकादशीपरित्यागप्रसङ्गः । तथा च, समादाय विधानेन द्वादशीव्रतम् इत्यादिवचनविरोधात् । अपरं तु,

एकादश्यां न भुञ्जीत पक्षयोर् उभयोर् अपि ।

वनस्थयतिधर्मो ऽयं शुक्लाम् एवं सदा गृही ॥

गौतमवचनबलाद् गृहिणः शुक्लायाम् एवोपवासः तद्व्रतं वैष्णवं महद् इति वचनविरोधः स्यात् । अपरथा वैष्णवो वाथ शैवो वा कुर्याद् एकादशीव्रतम् इति मत्स्यपुराणवचनविरोधः स्यात् । अतः सर्वेषां उभयैकादश्युपवासे ऽधिकार इति युक्तम् । तथा च स्कन्दकूर्मपुराणयोः ।

यथा शुक्ला तथा कृष्णा न विशेषो ऽस्ति कश्चन ॥

सनत्कुमारप्रोक्ते ।

यथा शुक्ला तथा कृष्णा यथा कृष्णा तथेतरा ।

नान्दीपुराणे ।

तस्मात् श्रद्धां पुरस्कृत्य कृष्णे शुक्ले हरेर् दिने ।

पूजयेज् जगतां बीज (?) सोपवासो जनार्दनम् ॥

सद्यौगैर् यत् पदं साङ्ख्यैः प्राप्यते वा नवा द्विज ।

अनायासेन यत् प्राप्यं पदं हरिदिनानुगैः ॥

[१०००] तस्य देवस्य नेदिष्ठं मूर्तिद्वयम् इदं स्मृतम् ।

पावको ब्रह्मणश् चेति तच् च ज्ञेयानुभावतः ॥

भविष्यत्पुराणे ।

शुक्ला वा यदि वा कृष्णा विशेषो नास्ति कश्चन ।

सौरधर्मेषु ।

एकादशी सदोपोष्या शुक्ला कृष्णा तथैव च ।

मत्स्यपुराणे ।

यथा सुपूजितो गौरः कृष्णो वा वेदविद् द्विजः ।

सन्तारयति दातारम् एकादश्यौ तथा स्मृते ॥

तैले शुक्लेतराणां वै तिलानां सदृशं यथा ।

कृष्णायाश् च सितायाश् च गोर् गव्यं सदृशं यथा ॥

द्वादश्याः सदृशं तद्वत् पुण्यं स्याच् छुक्लकृष्णयोः ।

दर्शश् च पूर्णमासी च पुण्यतस् तु यथा समे ॥

तथा तथा सिते पुण्ये द्वादश्यौ मुनिभिः स्मृते ।

यथोत्तरदक्षिणं च अयने च प्रकीर्तितम् ॥

तुल्यं पुण्यम् अवाप्नोति द्वादश्योस् तु तथोभयोः ।

पद्मपुराणे ।

सोमसूर्यग्रहौ पुण्यौ तथैव मुनिभिः स्मृतौ ।

तथा तथा सिते पुण्ये द्वादश्यां धर्मतः समे ॥

यथा विष्णुः शिवश् चैव सम्पूज्यौ मुनिभिः स्मृतौ ।

तथा पूज्यतमे प्रोक्ते द्वादश्यौ शुक्लकृष्णके ॥

इति शुककृष्णविवेके पापस्मरणात् । तथा च कूर्मपुराणे विष्णुधर्मोत्तरे च ।

सुब्रह्महा सुरापः स्यात् कृतघ्नो गुरुतल्पगः ।

[१००१] स्कन्दपुराणे ।

सुब्रह्महा सगोघ्नश् च सुरापो गुरुतल्पगः ।

कालिकापुराणे ।

सर्वेषाम् इह पापानाम् आश्रयः स तु कीर्तितः । इति ।

तेषाम् उत्तरार्थं विवेचयति ।

यश् च मोहाद् एकादश्यौ शुक्लकृष्णे सितासिते ।

भविष्यत्पुराणे ।

एवं ज्ञात्वा सदोपोष्या द्वादशी शुक्लकृष्णजा ।

तयोर् भेदं न कुर्वीत तद्भेदान् नरकं व्रजेत् ॥

गारुडपुराणे ।

शुक्ला वा यदि वा कृष्णा यावद् आहूतसम्प्लवम् ।

अथैकादशीव्रताकरणेन निन्दा सनत्कुमारपोक्ते ।

शुक्ला वा यदि वा कृष्णा विशेषो नास्ति कश्चन ।

विशेषं कुरुते यस् तु पितृहा स तु कीर्तितः ॥

सनत्कुमारप्रोक्ते ।

एकादश्योर् द्वयोर् यस् तु विशेषं कुरुते नरः ।

तस्योद्धारं न पश्यामि यावद् आहूतसम्प्लवम् ॥

अथैकादशीव्रताकरणनिन्दा सनत्कुमारप्रोक्ते ।

न करोति हि यो मूढ एकादश्याम् उपोषणम् ।

स नरो नरकं याति रौरवं तमसावृतम् ॥

तथा तथा मुनिश्रेष्ठ यो भुङ्क्ते द्विजजन्मवान् ॥

तथा ।

प्रतिग्रासं स भुङ्क्ते तु किल्बिषं श्वादिविट्समम् ।

निष्कृतिर् मद्यपस्योक्ता धर्मशास्त्रे मनीषिभिः ॥

[१००२] एकादश्यन्नकामस्य निष्कृतिः क्वापि नोदिता ।

मद्यपानां मुनिश्रेष्ठ पातैव नरकं व्रजेत् ॥

एकादश्यन्नकामस् तु पितृभिः सह मज्जति ।

नान्दीयपुराणे ।

सो ऽश्नाति पार्थिवं पापं यो ऽश्नाति मधुभिर् दिने ।

तथा ।

यानि कानि च पापानि ब्रह्महत्यासमानि च ।

अन्नम् आश्रित्य तिष्ठन्ति सम्प्राप्ते हरिवासरे ॥

तानि पापान्य् अवाप्नोति भुञ्जानो हरिवासरम् ।

दिने च सर्वपापानि भवन्त्य् अत्र स्थितानि तु ॥

तानि मोहेन यो ऽश्नाति न स पापैः प्रमुच्यते ।

तस्माद् अवश्यं कर्तव्या द्वादशी सोमकात्मजा ।

स केवलं मलं भुङ्क्ते यो भुङ्क्ते हरिवासरे ॥

स्कन्दपुराणे ।

मातृहा पितृहा चैव भ्रातृहा गुरुहा तथा ।

एकादश्यां तु भुञ्जानो विष्णुलोकाच् च्युतो भवेत् ॥

नारदीयपुराणे रण्डा यतीनाम् एकादशीव्रतस्याकरणे प्रत्यवायविशेषार्धम् आह ।

एकादशीं विना रण्डा यतिश् च सुमहामते ।

पच्यते ह्य् अन्धतामिश्रे यावद् आहूतसम्प्लवम् ॥

कात्यायनश् च ।

विधवा या भवेन् नारी भुञ्जीतैकादशीदिने ।

तस्यास् तु सुकृतं नश्येद् भ्रूणहत्या दिने दिने ॥

स्त्रीकृतव्रतपरित्यागे पापम् उक्तम् ।

[१००३] विष्णुरहस्ये ।

समादाय विधानेन द्वादशीव्रतम् उत्तमम् ।

तस्य भङ्गं नरः कृत्वा रौरवं नरकं व्रजेत् ॥

तथा ।

द्वादशीव्रतम् आदाय व्रतभङ्गं करोति यः ।

द्वादशाब्दं व्रतं चीर्णम् अफलं तस्य जायते ॥

तथा ।

परिगृह्य व्रतं सम्यग् एकादश्यादिकम् यदि ।

न समापयते तस्य गतिः पापा गरीयसी ॥

अथास्मिन् दिने अधिकारिणम् आह कात्यायनः ।

अष्टवर्षाधिको मर्त्यो ह्य् अपूर्णाशीतिवत्सरः ।

एकादश्याम् उपवसेत् पक्षयोर् उभयोर् अपि ॥

नान्दीयपुराणे ।

अष्टवर्षाधिको मर्त्यो अशीतिर् न हि पूर्यते ।

यो भुङ्क्ते मामके राष्ट्रे विष्णोर् अहनि पापकृत् ॥

स मे वध्यश् च दण्ड्यश् च विवास्यो देशतः स मे ।

कात्यायनः ।

एतस्माद् कारणाद् विप्र एकादश्याम् उपोषणम् ।

कुर्यान् नरो वा नारी वा पक्षयोर् उभयोर् अपि ।

अत्रानुकल्पे सर्व एवाधिकारी ज्ञातव्यः । यथाह ब्रह्मवैवर्ते ।

एकादशीं विना विप्र न संसाराद् विमोक्षणम् ।

तत्राप्य् अयं विशेषो ऽस्ति कर्यशक्तिमतां च सः ॥

न तु देहं विदुः प्राज्ञो पीडयानो महाग्रहात् ।

शरीरं पीड्यते येन सुशुभेनापि कर्मणा ॥

[१००४] अत्यन्तं तन् न कुर्वीत अनायासः स उच्यते ।

धर्मसाधनम् आद्यं यः शरीरं बहुपुण्यकृत् ॥

यथा कथञ्चिन् मौर्ख्यान् न पीडयेद् एव हेलया ।

गूढग्राहेणात्मनो यः पीडया कुरुते तपः ॥

न स सिद्धिम् अवाप्नोति न सुखं न परां गतिम् ।

अधिकारिणो ऽसामर्थ्ये प्रतिनिधिम् आह वाराहपुराणे ।

असामर्थ्ये शरीरस्य व्रते तु समुपस्थिते ।

कारयेद् धर्मपत्नीं वा पुत्रं वा विनयान्वितम् ॥

भगिनीं भ्रातरं वापि व्रतम् अस्य न लुप्यते ।

शृणु यो वान्यम् उद्दिश्य एकादश्याम् उपोषति ॥

यम् उद्दिश्य कृतो विप्रस् तस्य पूर्णफलं भवेत् ।

कर्ता दशगुणं पुण्यं प्राप्नोत्य् अस्य न संशयः ॥

अथोपवासव्रतानुष्ठानक्रमः । तत्रोपवासस्य सामान्येन स्व्रूपम् । यथाह वसिष्ठः ।

उपावृत्तस्य पापेभ्यो यस् तु वासो गुणैः सह ।

उपवासः स विज्ञेयः सर्वभोगविवर्जितः ॥

पापेभ्यो उपावृत्तस्य वर्ज्येभ्यो निवृत्तस्य, गुणैर् विष्णुनामकीर्तनादिभिः । [१००५] एतद् उपवासव्रतं द्विविधं नित्यं फलार्थं च । नित्ये तु यथा कथञ्चिद् एकादश्यां भोजनद्वयपरिहाररूपेणोपवासव्रतेन प्रत्यवायपरिहारः । तथा च ब्रह्मवैवर्ते ।

इति विज्ञाय कुर्वीतावश्यम् एकादशीव्रतम् ।

विशेषनियमाशक्तो ऽहोरात्रं भुक्तिवर्जितः ॥

निगृहीतेन्द्रियः श्रद्धासहायो विष्णुतत्परः ।

उपोष्यैकादशीं पापान् मुच्यते नात्र संशयः ॥

कात्यायनः ।

अथ नित्योपवासी चेत् सायम्प्रातर् भुजिक्रियाम् ।

सप्तजन्मेति मां देवि सम्प्राप्ते हरिवासरे ॥

अथ फलार्थम् उपवासव्रतस्वरूपं तत्रैवाह ।

शक्तिमांस् तु पुनः कुर्यान् नियमं सविशेषणम् ।

सायम् आद्यन्तयोर् अघ्नोः प्रातःसायं च मध्यमे ।

उपवासफलं प्रेप्सुर् जह्याद् भक्तचतुष्टयम् ॥

इति नित्यकाम्ययोर् उपवासव्रतयोर् अन्यतरम् आरम्भमाणः प्रथमदशम्यां भोजनानन्तरं दन्तधावनं कुर्यात् । तद् आह ।

दशम्यां दन्तकाष्ठेन जिह्वां लेढि यथा यथा ।

द्वादशीनियमार्थाय निराशः स्योद्यमस् तथा ॥

निर्मार्जयति तत् पापं तटस्थं दीनमानसः ।

अभुक्तकर्मा यद् याति पातकी वैष्णवं पदम् ॥

[१००६] ततो दशम्यां रात्रौ नियमग्रहणाय सङ्कल्पं कुर्यात् । ब्रह्मवैवर्ते ।

प्राप्ते हरिदिने सम्यग् विधाय नियमं निशि ।

दशम्याम् उपवासस्य प्रकुर्याद् वैष्णवं व्रतम् ॥

सङ्कल्पमन्त्रहेतुदैवतान्य् आह ।

एकादश्यां निराहारः स्थित्वाहम् अपरे ऽहनि ।

भोक्ष्यामि पुण्दरीकाक्ष तारणं मे भवाच्युत ॥

इति सङ्कल्प्यं विधाय एकादशीदिने देवस्य पुष्पमण्डपं विरचयेत् ।

यथाह ब्रह्मपुराणे ।

देवस्योपरि कुर्वीत श्रद्धया सुसमाहितः ।

नानापुष्पैर् मुनिश्रेष्ठा विचित्रं पुष्पमण्डपम् ॥

कृत्वा चावरणं पश्चाज् जागरं कारयेन् निशि ।

एवं मण्डपं विधाय रात्रौ देवं पूजयेत् ॥

तथा भविष्यत्पुराणे ।

एकादश्युपवासेन रात्रौ सम्पूजयेद् धरिम् ।

तां च रात्रिं यथाशक्ति पुराणश्रवणादिना ।

नीत्वेति शेषः । ब्रह्मवैवर्ते ।

तस्माच् छ्रद्धां पुरस्कृत्य शुक्लां कृष्णां च द्वादशीम् ।

सम्प्राप्य पूजयेद् देवं सोपवासो जनार्दनम् ॥

[१००७] ब्रह्मपुराणे ।

व्यास उवाच ।

एकादश्याम् उभे पक्षे निराहारः समाहितः ।

स्नात्वा सम्यग् विधानेन सोपवासो जितेन्दिर्यः ॥

सम्पूज्य विधिवद् विष्णुं श्रद्धया सुसमाहितः ।

पुष्पैर् गन्धैस् तथा धूपैर् दीपैर् नैवेद्यकैः परैः ॥

उपवासैर् बहुविधैर् जप्यहोमप्रदक्षिणैः ।

स्तोत्रैर् नानाविधैर् दिव्यैर् गीतवाद्यमनोहरैः ।

दण्डवत् प्रणिपातैश् च जयशब्दैस् तथोत्तमैः ॥

एवं सम्पूज्य जागरं कुर्यात् । अत्रैवाह

एवं सम्पूज्य विधिवद् रात्रौ कुर्यात् प्रजागरम् ।

अत्रैवाह ।

कथां च गीतिकां विष्णोर् ग्राहयन् विष्णुपरायणः ।

याति विष्णोः परं स्थानं नरो नास्त्य् अत्र संशयः ॥

कथां च वासुदेवस्य गीतकं वापि कारयेत् ।

ध्यायन् पठं स्तुवन् देवं पूजयेद् रजनीं बुधः ॥

एवं जागरं निर्वर्त्य द्वादश्यां प्रभाते स्नात्वा विष्णुं सम्पूज्य उपवासं समर्पयेत् ।

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव ।

प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव ॥

इति मन्त्रेण देवाय उपवासं सङ्कल्पयेत् ततः पारणं कुर्यात् । तथा ।

पारणं तु ततः कुर्याद् यथासम्भव्मार्गतः ।

एतच् च पारणं तुलसीमिश्रं कुर्याद् इत्याह [१००८] स्कन्दपुराणे ।

कृत्वा वै वोपवासं तु यो ऽश्नाति द्वादशीदिने ।

नैवेद्यं तुलसीमिश्रं हत्याकोटिविनाशनम् ॥

एवं दशमीम् आरभ्य पारणान्तं सर्वं नियमयुक्तं व्रतं निवर्तयेत् । ते च नियमा उच्यन्ते विष्णुधर्मोत्तरे ।

क्षमा सत्यं दया दानं शौचम् इन्द्रियनिग्रहः ।

शिवपूजाग्निहोत्रं च सन्तोषास् तेजभावनाः ।

सर्वव्रतेष्व् अयं कर्म सामान्यं दशधा स्मृतः ॥

तान्य् आह मनुः ।

विहितस्यानुष्ठानम् इन्द्रियाणाम् अनिग्रहः ।

निषिद्धसेवनं नित्यां वर्जनीयं प्रयत्नतः ॥

कूर्मपुराणे ।

कांस्यं माषं मसूरं च चणकं कोरदूषकान् ।

शाकं मधु परान्नं च वर्जयेद् उपवसन्न् इति ॥

मत्स्यपुराणे ।

कांस्यं मांसं मसूरं च क्षौद्रं तैलं वितथभाषणम् ।

व्यायामं च प्रवासं च दिवास्वप्नम् अथाञ्जनम् ।

शिलापिष्टं मसूरं च द्वादशैतानि वैष्णवः ॥

त्यजेद् इत्य् शेषः । हारीतः ।

पतितपाखण्डिनाश्तिकादिसम्भाषणानृतद्यूतादिकम् उपवासदिने वर्जनीयम् इति ।

[१००९] विष्णुधर्मोत्तरे ।

तज्जप्यजापी तद्ध्यानतत्कथाश्रवणादिकम् ।

तदर्चनं च तन्नामकीर्तनश्रवणादयः ॥

उपवासकृतो ह्य् एते गुणाः प्रोक्ताः मनीषिभिः ॥ इति ।

विष्णुरहस्ये ।

ब्रह्मोवाच ।

मनसा कर्मणा वाचा पूजयेद् गरुडध्वजम् ।

कुर्यान् नरस् त्रिषवणं बृहद्भक्तिर् जितेन्द्रियः ॥

नामावलोकनालापं विष्णोः कुर्याद् अहर्निशम् ।

भक्त्या विष्णोः स्तुतिर् वाच्या मृषावादं विवर्जयेत् ॥

सर्वसर्वदयायुक्तः शान्तिवृत्तिर् अहिंसकः ।

सुप्तो वा शयनस्थो वा वासुदेवं प्रकीर्तयेत् ॥

स्मृत्यालोचनगन्धादिलेपनं परिकीर्तनम् ।

धन्यस्य (?) वर्जयेत् सर्वं मांसानां चाभिकाङ्क्षणम् ॥

गात्राभ्यङ्गं शिरो ऽभ्यङ्गं ताम्बूलं सविलेपनम् ।

व्रतस्थो वर्जयेत् सर्वं यच् चान्यच् च निराकृतम् ॥

व्रतस्थो न गृहे किञ्चिद् विकर्मस्थैर् न चालपेत् ।

देवतायतने (?) स्तिष्ठन् न गृहस्थश् चरेद् व्रतम् ॥

ब्रह्मपुराणे ।

उपवासे तथा श्राद्धे न खादेद् दन्तधावनम् ।

दन्तानां काष्ठसंयोगो हन्ति सप्त कुलानि वै ॥

[१०१०] विष्णुधर्मेषु ।

पाषण्डिभिर् असंस्पर्शो ह्य् असम्भाषणम् एव च ।

विष्णोर् आराधनं यत्र नरैः कार्यम् उपोषितम् ॥

पद्मपुराणात् ।

रत्यौषधं परान्नं च पुनर्भोजनं (?) मैथुनम् ।

क्षौद्रं तिलामिषं चैव द्वादश्यां सप्त वर्जयेत् ॥

एते नियमा सङ्कल्पपारणान्तम् एव विधेयाः, पारणेनैव व्रतपरिसमाप्तेः (?) । अत ऊर्ध्वं यथेच्छया पारयेच् च यथारुचीति कात्यायनोक्तत्वात् । उपवासव्रताशक्तस्य नक्तादिकम् आह । भविष्यत्पुराणे ।

एकादश्याम् उपवसेन् नक्तं वापि समाचरेत् ।

कूर्मपुराणे ।

एकभक्तेन नक्तेन क्षीणवृद्धातुरो क्षिपेत् ।

नातिक्रमेद् द्वादशीं तु उपवासव्रतेन तु ॥

मार्कण्डेयपुराणे ।

एकभक्तेन नक्तेन तथैवायाचितेन च ।

उपवासेन दानेन न निर्द्वादशिको भवेत् ॥

नित्यैकादशीविधिः । वज्र उवाच ।

अकामेन कथं ब्रह्मन् द्वादशीषु जनार्दन ।

पूजनीयो द्विजश्रेष्ठ तन् मे आचक्ष्व पृच्छतः ॥

[१०११] मार्कण्डेय उवाच ।

मार्गशीर्षस्य मासस्य श्रुत्वा सर्वं त्वया बुध ।

अश्नीयान् मासि मास्य् एवं कुर्यात् संवत्सरं व्रती ॥

नामानि देवदेवस्य केशवस्य पृथक् पृथक् ।

कृष्णो ऽनन्तो ऽच्युतश् चक्री वैकुण्ठो ऽथ जनार्दनः ॥

उपेन्द्रो यज्ञपुरुषो वासुदेवस् तथा हरिः ।

योगेशः पुण्डरीकाक्षो मासनामान्य् अनुक्रमात् ॥

एतानि प्रातर् उत्थाय यः स्मरेत् पुरुषः सदा ।

अपि दुर्गतिकास् तस्य पितरः स्वर्गम् (?) आप्नुयुः ॥

तिलपात्रं द्वादशकं यो दद्यात् प्रत्यहं द्विजे ।

गावश् च कपिला दद्याज् जपेन् नामानि वै समाः ॥

मासोपवासिनां पुण्यां यज्वनां तीर्थयायिनाम् ।

पूज्यते देवदेवस्य प्रत्यहं मासनामभिः ॥

प्रतिमासं स्वनाम्नैवं पूजादानादिकं हरेः ।

नाम यस्मिन् मासे च यत् प्रोक्तं तेनैवेत्य् अर्थः ।

कृत्वान्ते च ततो होमः कार्यस् तद्देवतापदे ॥

अन्ते व्रतान्ते ।

अग्निप्रणयणाद् ऊर्ध्वं द्वादशैतान् अनुस्मरेत् ।

द्वादशाश्वत्थपत्रेषु स्थापयेच् छुक्लतण्डुलैः ॥

ॐ तस्मै नमः त्रायातु स इत्य् आवाहएत् पृथक् ।

संस्थाप्याग्निं ततः प्राच्यां ध्यायेन् नानात्मसम्मुखान् ॥

आसनं पाद्मम् अर्घ्यं च गन्धपुष्पार्चनानि च ।

[१०१२] धूपदीपांश् च वासांसि होमशेषं समापयेत् ॥

दत्वा वाचमनं पश्चाद् धोमशेषं निवेदयेत् ।

अष्टाष्टसमिधः पूर्वं हुत्वाष्टौ च घृताहुतीः ॥

कृशराहुतिकैका च यवाश् चाष्टौ तिलाहुतीः ।

देवोपहारशेषेण दत्वा स्विष्टकृतं ततः ॥

अग्निप्रतिष्ट्ःआन्तहोमं कृत्वा देवभ्यः आसनाद्याचमनं दत्वा शेषहोमं समाप्य हुतशेषं देवेभ्यो निवेद्य तच्छेषेण स्विष्टकृतं दद्यात् ।

पूर्णाहुत्या भवेन् मन्त्रस् तद् विष्णोः परमं पदम् ।

एवं कृते तु होमान्ते गाः कृष्णा द्वादशाष्ट वा ॥

षट् चतस्रो ऽथ वा देया एका वापि पयस्विनी ।

हेमशृङ्गीं रोप्यखुरां सघण्टाभरणाम्बराम् ॥

कांस्यप्ष्ठां तथा दोग्ध्रीं सुवर्णान्तरदक्षिणाम् ।

सवत्सां द्विजमुख्याय पूजयित्वा समर्पयेत् ॥

कृष्णभक्ताय शान्ताय विधिज्ञाय महात्मने ।

ते प्रीयन्ताम् इति प्रोक्ता देवद्वादशमासिकाः ॥

माम् एवम् उद्धरस्वेति चेत्य् आवाह्य प्रतिग्रहाः ।

मासि मासि च दत्तेषु तिलपात्रेषु तैर् घटैः ॥

सहार्थे तृतीया न केवलम् अस्मिन् दाने प्रतिमासं घटदाने ऽप्य् अयं मन्त्र इत्य् अर्थः ।

तस्मिन् काले प्रदातव्यास् ते घटा मासनामभिः ।

समानं तद् व्रतं पुण्यं तस्माद् अर्घ्यं समर्पयेत् ॥

सूर्यायेति शेषः ।

[१०१३] समाप्ते ऽस्मिन् व्रते भूमे यद् अभीष्टम् अवाप्यते ।

महारौरवपूर्नेभ्यो नरकेभ्यो ऽथ तारयेत् ॥

स्वपितुस् तत्पतेर् याम्यो न स्यात् कल्पशतैर् अपि ।

ब्रह्महस्त्यादिपापानाम् अश्वमेधैर् भवेत् क्षयः ॥

स्वकृतानां न वै भूमे कृतानां पितृभिः स्वकैः ।

अश्वमेधाद् गयाश्राद्धाद् व्रतम् एतद् विशिष्यते ॥

पितॄणाम् आत्मनश् चैव तारकं सर्वकामदम् ।

नरकस्थाश् च ये केचिद् गर्भवासे रणे च ये ॥

ये बाल्ये नरणेनापि (?) भूतप्रेतत्वम् आगताः ।

नेच्छन्ति सन्ततिं ये च मुच्यन्ते च किल्बिषैः ॥

उद्धारयेत् पितृगणान् दशपूर्वान् दशापरान् ।

आत्मानम् एकविंशं च कृष्णद्वादश्युपोषणात् ॥

इति वाराहपुराणोक्तं कृष्णद्वादशीव्रतम् ।

अथ कृष्णद्वादशीव्रतम् ।

युधिष्ठिर उवाच ।

कृष्ण कृष्ण न मे ख्याता द्वादशी केन हेतुना ।

किं सा न ते प्रिया देव किं वाख्यातुं न युज्यते ॥

कृष्ण उवाच ।

न कस्यचिन् मया ख्यातं गुह्यम् एतद् अनुत्तमम् ।

[१०१४] महापुण्यप्रदं पार्थ महापातकनाशनम् ॥

वाञ्छितार्थप्रदं नॄणां श्रुतं पापापहारकम् ।

श्रेष्ठं व्रतानां सर्वेषाम् उभयद्वादशीव्रतम् ॥

तत् ते ऽहं सम्प्रवक्ष्यामि समाहितमनः शृणु ।

ततो ऽपराह्णे सन्तर्प्य कृतसन्ध्यादिकः शुचिः ॥

प्राप्याज्ञां वेददिदुषः पुराणज्ञाज् जितेन्द्रियात् ।

सम्पूज्य देवदेवेशं (?) दन्तधावनपूर्वकम् ॥

कुर्याच् च नियमं पार्थ गुरुदेवाग्निसन्निधौ ।

एकादश्यां निराहारः स्थित्वाहम् अपरे ऽहनि ॥

भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत ।

इत्य् उक्त्वाथ गुरून् नत्वा पूजयित्वा जनार्दनम् ॥

भूमौ स्वपेज् जितक्रोधः शब्दादिविषयोज्झितः ।

ततः प्रभाते विमले केशवार्पितमानसः ॥

केशवेति तदा वाक्यं क्षुतप्रस्खलितादिषु ।

पाषण्डादिभिर् आलापं दर्शनस्पर्शनादिना ॥

त्यजेद् दिनत्रयं पार्थ व्रतवैकल्यकारकम् ।

ततो मध्याहूसमये नद्यादौ विमले जले ॥

स्नानं कुर्याज् जितक्रोधः पञ्चगव्यपुरःसरम् ।

स्नानं कृत्वैकचित्तस् तु प्रपूतात्मा दयान्वितः ॥

आदित्याय नमस्कृत्य केशवं कारणं व्रजेत् ।

उत्तीर्य परिधायीत छुक्रे ऽछिद्रे च वाससी ॥

पितृदेवमनुष्याणां दत्वा तोयाञ्जलींस् ततः ।

स्वर्णाचारविधिना कृतकृत्यो गृहं व्रजेत् ॥

[१०१५] पूजयेत् तत्र गोविन्दं केशवेति जपन् बुधः ।

पुष्पधूपैस् तथा दीपैर् नैवेद्यैर् विविधैर् अपि ॥

गीतवाद्यैः कथाभिश् च जागरं कारयेन् निशि ।

कुम्भम् संस्थापयित्वा तु रत्नगर्भं सकाञ्चनम् ॥

छादितं वस्त्रयुग्मेन शितचन्दनचर्चितम् ।

गन्धमाल्यसमायुक्तं दीपैर् दिक्षु स्वलङ्कृतम् ॥

कुम्भस्यैकाङ्गदेशे तु शितचन्दनचर्चिताम् ।

प्रतिमां देवदेवस्य शङ्खचक्रगदाभृतम् ॥

कृत्वाभ्यर्च्य यथान्यायं प्रभाते विमले सति ।

द्वादश्यां कृतकृत्यस् तु समभ्यर्च्य जगद्गुरुम् ॥

विप्राय दद्यात् कलशं दक्षिणोपस्करान्वितम् ।

सम्भोज्य विप्रमुख्याय दद्याच् छक्त्या च दक्षिणाम् ॥

भृत्यान् सम्भोजयित्वा तु दत्वा गोषु गवाह्निकम् ।

पञ्चगव्यं तु सम्प्राश्य स्वयं भुञ्जीत वाग्यतः ॥

अनेन विधिना मासि तस्मिन् कृष्णाम् उपोषयेत् ।

द्वादशीं पुरुषव्याघ्र द्यायन् सङ्कर्षणं विभुम् ॥

प्राग्वत् सर्वं ततः कृत्वा ब्राह्मणाय निवेदयेत् ।

भोजयित्वा द्विजश्रेष्ठं दद्यात् तेभ्यश् च दक्षिणाम् ॥

भुञ्जीत वाग्यतः पश्चात् पञ्चगव्यहुताशनम् ।

एवं पौषेतु सङ्कल्प्य द्वादश्यां शुक्लपक्षतः ॥

नारायणं जपन् प्राज्ञः सर्वं प्राग्विधिम् आचरेत् ।

स्नानप्राशनदानानि भोजनं तद्वद् आचरेत् ॥

ब्राह्मनेभ्यस् तथा दद्याद् दक्षिणां यदुनन्दन ।

[१०१६] नारायणः प्रीयतां मे इत्य् आचार्यं क्षमापयेत् ॥

अस्यैव पुष्यमासस्य द्वादश्यां कृष्णपक्षतः ।

वासुदेवेति सम्पूज्य प्रागुक्तविधिना नृप ॥

देवदेवं जगन्नाथं सर्वकारणकारणम् ।

ततो दद्याद् द्विजातिभ्यो दक्षिणां श्रद्धयान्वितः ॥

भोजनं पूर्ववत् कुर्याद् दानं पूजादिकं ततः ।

शुक्लायां माघमासस्य द्वादश्यां तु विशाम्पते ॥

माधवेति जपन् नाम पूजयेत् पूर्ववद् धरिम् ।

रात्रौ जागरणं तद्वत् पुष्पधूपदीपकैः ॥

पूजयित्वा द्विजश्रेष्ठान् माधवः प्रीयताम् इति ।

प्राशनादिकम् एवात्र पूर्वोक्तविधिना स्मृतम् ॥

अस्यैव माघमासस्य द्वादश्यां कृष्णपक्षतः ।

प्रद्युम्नेति जपन् प्राज्ञः सर्वं प्राग्विधिम् आचरेत् ॥

स्नानप्राशनदानानि भोजनं तद्वद् एव हि ।

ब्राह्मणेभ्यस् तथा दद्याद् दक्षिणां पाण्डुनन्दन ॥

फाल्गुनामलपक्षस्य द्वादश्यां नियतः शुचिः ।

गोविन्देति जपन् विष्णोः पूजयेत् प्रतिमां नरः ॥

विप्राय दक्षिणां दद्याद् गोविन्दः प्रीयताम् इति ।

जपपूजनदानानि पूर्वेण विधिनाचरेत् ॥

फाल्गुनस्य तथा कृष्णद्वादश्यां नियतेन्द्रियः ।

अनिरुद्धेति कृष्णस्य जपन् पूर्ववद् आचरेत् ॥

तेनैव विधिना पार्थ सर्वपापापहारणम् ।

पुष्पधूपनैवेद्यैश् च गन्धदीपादिशोभया ॥

[१०१७] नैवेद्याद्युपचारैस् तु पूर्वं दानं समाचरेत् ।

अनिरुद्धः प्रीयतां मे दानकाले ह्य् उदीरयेत् ॥

चैत्रस्यामलपक्षे तु द्वादश्यां पाण्डुनन्दन ।

पञ्चगव्यजलैः स्नात्वा विष्णुनामानुकीर्तयेत् ॥

उपस्थानं तु कुर्वीत भास्करस्य विचक्षणः ।

य एव भास्करो देवः स वै विष्णुः प्रकीर्तितः ॥

विष्णुर् भवतु सुप्रीतो देवदेवः सनातनः ।

भुक्तिमुक्तिप्रदानाय तव दत्तो मयाञ्जलिः ॥

इत्य् उच्चार्याञ्जलिं क्षिप्त्वा गन्धपुष्पाक्षतैर् युतम् ।

पूर्ववद् देवम् अभ्यर्च्य दानं दद्याच् च शक्तितः ॥

विष्णुर् मे प्रीयतां देवो जगद्योनिः सनातनः ।

अस्मिन् मासि तथा कृष्णां द्वादशीं विधिना क्षिपेत् ॥

स्नानभोजनकाले तु जपन् वै पुरुषोत्तमम् ।

तेनैव विधिना पार्थ स्नानदानं समाचरेत् ॥

वैशाखस्यामले पक्षे द्वादश्यां विधिवन् नरः ।

कृत्वा स्नानादिकं सर्वं पूजयेन् मधुसूदनम् ॥

पूर्ववत् पुष्पधूपाद्यैर् गन्धदीपं निवेदयेत् ।

दक्षिणां गुरवे दद्यात् प्रीयतां मधुसूदनः ॥

इत्य् उच्चार्य महाबाहो सर्वं निष्पादयेद् इदम् ।

मासे ऽस्मिन् कृष्णपक्षे तु द्वादश्यां भरतर्षभ ॥

कृत्वा प्राग्विधिना सर्वं जपन् देवम् अधोक्षजम् ।

पूजयन् प्रतिमां विष्णोः सुगन्धैः पुष्पचन्दनैः ॥

ततो दद्याद् द्विजातिभ्यो दक्षिणां वित्तसारतः ।

[१०१८] ज्यैष्ठमासामले पक्षे द्वादश्यां पूर्ववन् नृप ॥

स्नानादि सर्वं निर्वर्त्य पूजयेच् च त्रिविक्रमम् ।

पुष्पधूपादिनैवेद्यैः प्रभाते विमले सति ॥

प्राज्यक्षीराज्यसम्भोज्यैर् भोजयित्वा द्विजोत्तमान् ।

ज्यैष्ठमासामले पक्षे द्वादश्यां पूर्ववन् नृप ॥

स्नानादि सर्वं निर्वर्त्य पूजयेच् च त्रिविक्रमम् ।

पुष्पधूपादिनैवेद्यैः प्रभाते विमले सति ॥

पाज्यक्षीराज्यसम्भोज्यैर् भोजयित्वा द्विजोत्तमान् ।

तेभ्यश् च दक्षिणां दद्यात् प्रीयतां मे त्रिविक्रमः ॥

इत्य् उच्चार्य नरव्याघ्र स्वयं भुञ्जीत पूर्ववत् ।

ज्यैष्ठस्यैव हि कृष्णायां द्वादश्यां तु विशाम्पते ॥

स्नात्वा प्राग्विधिना भक्त्या नृसिंहं पूजयेद् विभुम् ।

पुष्पैर् धूपैस् तथा दीपैर् गन्धैर् नैवेद्यकरैर् अपि ॥

वामनः प्रीयतां देवो मम नित्यं सनातनः ।

भोजनं प्राग्विधानेन कर्तव्यं व्रतिना तदा ॥

आषाढस्यैव कृष्णायां द्वादश्यां नियतः शुचिः ।

पूजयेद् अच्युतं देवं तेनैव विधिना नृप ॥

निर्वर्त्य पूर्ववत् सर्वं प्रभाते निमले रवौ ।

विप्राय दक्षिणां दद्याद् अच्युतः प्रीयताम् इति ॥

श्रावणस्य तु मासस्य द्वादश्यां शुक्लपक्षतः ।

स्नात्वा पूर्वविधानेन श्रीधरेति जपन् बुधः ॥

पूजयेद् देवदेवेशं शङ्खचक्रगदाधरम् ।

ततो विप्राय दातव्या दक्षिणा शक्त्यपेक्षया ॥

[१०१९] विशेषान् नवनीतं तु तदा देयं द्विजातये ।

श्रीधरः प्रीयताम् एत्य श्रियं पुष्णात्व् अनुत्तमाम् (?) ॥

इत्य् उच्चार्य कुरुश्रेष्ठ ततो विप्रान् विसर्जयेत् ।

ततो भुञ्जीत पूर्वोक्तविधिना सुसमाहितः ॥

श्रावणस्यैव देवेशं तूर्श्वोक्तविधिना (?) ततः ।

जनार्दनेति सम्पूज्य प्रतिमां चक्रपाणिनः ॥

ततो विप्रेषु दातव्यं भोजनं सहदक्षिणम् ।

जनार्दनः प्रीयतां मे वाक्यम् एतद् उदीरयेत् ॥

स्वयं भृत्यैस् ततः सार्धं भुञ्जीयात् पूर्ववन् नृप ।

मासि भाद्रपदे भद्र द्वादश्यां शुक्लपक्षतः ॥

पूर्ववत् कल्पयेत् सर्वं देवम् अभ्यर्चयेत् ततः ।

हृषीकेशेति सङ्कल्प्य क्षुतप्रस्खलितादिषु ॥

ब्राह्मणान् भोजयेच् छक्त्या तेभ्यो दद्याच् च दक्षिणाम् ।

विशेषेणार्चयेद् देवं क्षीरं विप्रेषु पाण्डव ॥

कृषीकेशः प्रीयतां मे वाक्यम् एतद् उदीरयेत् ।

क्षमापणं ततः पार्थ भुञ्जीयात् पूर्ववद् गृही ॥

कृष्णाप्य् एवं हि कर्तव्या मासि भाद्रपदे नृप ।

उपेन्द्रेति च सम्पूज्य प्रतिमां शार्ङ्गधन्विनः ॥

पूर्ववद् दक्षिणां दद्याद् विप्राणां भक्तितत्परः ।

प्रीतये देवदेवस्य ममैव पाण्डुनन्दन ॥

अश्वयुच्छुक्लपक्षे तु द्वादश्यां नियतः शुचिः ।

स्नात्वा पूर्वविधानेन कृत्वा देवाय तर्पणम् ॥

[१०२०] पद्मनाभेति नाम्ना वै पूजयेत् प्रतिमां हरेः ।

पूर्वोक्तविधिना सर्वं कृत्वा जारणादिकम् ॥

ततः प्रभाते विमले कृतस्नानादिको गृही ।

विप्रान् सम्भोजयित्वा च तेभ्यो हेम स्वशक्तितः ॥

ततः प्रदक्षिणं कुर्यात् प्रणिपत्य क्षमापयेत् ।

प्रीयतां पद्मनाभाय इति वाचम् उदीयरेत् ॥

अश्वयुक्शुक्लपक्षे तु द्वादशीं भक्तिमान् नरः ।

उपोष्य विधिना तेन हरिर् इत्य् अपि पूजयेत् ॥

विप्राय दक्षिणां दद्याद् यथाशक्त्या नृपोत्तम ।

हरिर् मे प्रीयतां देवो मन्त्रम् एतम् उदीरयेत् ॥

कार्त्तिकस्य तु मासस्य द्वादश्यां शुक्लपक्षतः ।

आद्येन विधिना सर्वं स्नानादि विनिवर्त्य च ॥

शुक्लमाल्याम्बरधरः पाषण्डालापवर्जितः ।

गृहम् अभ्येत्य मेधावी विधिदृष्टेन कर्मणा ॥

कुर्याच् छोभादिकं सर्वं पुष्पधूपनिवेदनम् ।

वंशपात्रे च कर्तव्या सर्वकर्मसु भारत ॥

दासीदरायेति सम्पूज्य नाम देवस्य चक्रिणः ।

विशेषाद् उत्सवं कृत्वा गीतवाद्यादिभिर् नृप ॥

कृष्णाप्य् एवं तु निर्वर्त्य द्वादशी कार्त्तिके तदा ।

कृष्णेति नाम सम्पूज्य देवदेवस्य चक्रिणः ॥

प्रनुत्तस्य विधिः पार्थ विशेषान् न विधीयते ।

अस्मिन् व्रते केशवाद्या चतुर्विंशन्मूर्तयः पूजनीयाः ।

अत्र देयानि नामानि षोडशैव विधीयते ॥

[१०२१] गोलक्षं गोसहस्रं वा गोशतं द्वादशैव गाः ।

तुलापुरुषदानानि मुख्यानि विधिवत् तदा ॥

देयानि विप्रमुख्यानां व्रतान्ते समुपस्थिते ।

सूर्यापरागे यदा तु कुरुक्षेत्रे कुरूत्तम ॥

हेमवाससं दत्वा तत्फलं तद्दिने भवेत् ।

विभासं नाधिकं पार्थ न गया नव पुष्करम् ॥

वाराणसि न वा तद्वत् प्रयागम् अथ वापि च ।

तीर्थाणि च ततः पूर्वं पश्चिमानि जनेश्वर ॥

सर्वाण्य् एव नृपश्रेष्ठ उदीचिदिग्भवानि च ।

न समानि महाबाहो व्रतान्ते कार्त्तिकस्य च ॥

उभयद्वादशीयोगाच् छ्रद्दधानो नरोत्तम ।

वित्तशाठ्यां न कुर्वीत कृष्णैकगतमानसः ॥

सर्वदयादिसंयुक्तः पुराणार्थैकनिष्ठितः ।

कुलान्य् उद्धृत्य सप्तैव विष्णोः सायुज्यतां व्रजेत् ॥

एतद् उद्देशतः प्रोक्तम् उभयद्वादशीफलम् ।

श्रद्दधानस्य यत् पुण्यं पर्थ तत् केन वर्ण्यते ॥

एतत् पुण्यं पवित्रं च व्रतानाम् उत्तमं परम् ।

नाशिष्याय प्रदातव्यं न चाशुश्रूषवे क्वचित् ॥

नावैष्णवाय राजेन्द्र अन्यथा नरकं व्रजत् ।

मुमुक्षूणाम् इदं ब्रह्मण् बुभुक्षूणाम् इयं गतिः ॥

इदं हि यः पार्थ नरो महात्मा

शृणोति यो भक्तिपरः स्मरेद् वा ।

विमुक्तपापः स विहाय दुःखं

प्रयाति सान्निध्यम् अनन्तमूर्तेः ॥

इति भविष्योत्तरोक्तम् उभयद्वादशीव्रतम् ।

[१०२२] अथ मत्स्यद्वादशीव्रतम् ।

सत्यपा उवाच ।

को ऽसौ धरण्यां सञ्चीर्ण उपवासो महामुने ।

कानि व्रतानि च तथा एतन् मे वक्तुम् अर्हसि ॥

दुर्वासा उवाच ।

मार्गस्य शुक्लपक्षे तु दशम्यां नियतात्मवान् ।

स्नात्वा देवार्चनं कृत्वा अग्निकार्यं यथाविधि ॥

शुचिवासाः प्रसन्नात्मा हव्यं चान्नं सुसंस्कृतम् ।

भुक्त्वा पञ्चपदं गत्वा पुनः शौचं तु पादयोः ॥

कृत्वाष्टाङ्गुलम् आनन्तु क्षीरतृक्षसमुद्भवम् ।

भक्षयेद् दन्तकाष्ठं तु तत आचम्य यत्नतः ॥

स्पृष्ट्वा खानि तथाद्भिश् च चिरं ध्यात्वा जनार्दनम् ।

खानीन्द्रियाणि ।

शङ्खचक्रगदापाणिं पीतवस्त्रं किरीटिनम् ।

प्रसन्नवदनं देवं सर्वलक्षणलक्षितम् ॥

ध्यात्वा जलं गृहीत्वा तु भानुरूपं जनार्दनम् ।

दृष्ट्वार्घ्यं दापयेत् पश्चात् करतोयेन मानवः ॥

एवम् उच्चारयेद् वाचं तस्मिन् काले महामुने ।

एकादश्यां निराहारो भूत्वाहम् अपरे ऽहनि ॥

भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत ।

[१०२३] एवम् उक्त्वा ततो रात्रौ देवदेवस्य सन्निधौ ॥

जपन् नारायणयेति स्वयं भूमौ विधानतः ।

ततः प्रभाते विमले नदीं गत्वा समुद्रगाम् ॥

इतरां वा तडागं वा गृहे वा नियतात्मवान् ।

आनीय मृत्तिकां शुद्धां मन्त्रेणानेन मानवः ॥

धारणं पोषणं त्वत्तो भूतानां देवि सर्वदा ।

तेन सत्येन मां दिव्ये पापान् मोचय मृत्तिके ॥

मृत्तिकामन्त्रः ।

ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवेः ।

भवन्ति पूतानि यतो मृत्तिकाम् आलभेत् ततः ॥

आदित्यस्य मृत्तिकादर्शनमन्त्रः ।

त्वयि सर्वे स्थितान् नित्यं स्थिता वरुण सर्वदा ।

ते न मां मृत्तिकां प्राप्य मां पूतं कुरु माचिरम् ॥

मृत्तिकाभ्युक्षणमन्त्रः ।

एवं मृदं रविं तोयं प्रासाद्यात्मानम् आलभेत् ।

त्रिःकृत्वाशेषमृदया कुण्डम् आलिख्य वै जले ॥

ततः स्नात्वा नरः सम्यक् मन्त्रवच् चोपचारतः ।

आचम्यावश्यकं कृत्वा पुनर् देवगृहं व्रजेत् ॥

तत्राराध्य महायोगं देवं नारायणं विभुम् ।

केशवाय नमः पादौ कटिं दामोदराय च ॥

ऊरुयुग्मं नृसिंहाय उरः श्रीवत्सधारिणे ।

[१०२४] कण्ठं कौस्तुभनाथाय वक्षः श्रीपतये तथा ॥

त्रैलोक्यविजयायेति बाहू सर्वात्मने शिरः ।

रथाङ्गधारिणे वक्त्रं शङ्करायेति वारिजम् ॥

वारिजं शङ्खम् ।

गम्भीरायेति च कट्यां तु कजशान्तत्रिमूर्तये ।

एवम् अभ्यर्च्य देवेशं देवं नारायणं प्रभुम् ॥

पुनस् तस्याग्रतः कुम्भांस् चतुरः स्थापयेद् बुधः ।

जलपूर्णान् समाल्यांश् च सितचन्दनलेपितान् ॥

चतुर्भिस् तिलपात्रैश् च स्थगितान् रत्नगर्भिणः ।

चत्वारस् ते समुद्रास् तु कलशाः परिकीर्तिताः ॥

तेषां मध्ये शुभं पीठं स्थापयेद् वस्त्रसंयुतम् ।

तस्मिंश् च रौप्यं सौवर्णं ताम्रं वा दारवं तथा ॥

अलाभतस् तोयपूर्णं कृत्वा पात्रं ततो न्यसेत् ।

अलाभतः सौवर्णादीनाम् अलाभे दारवम् अपि कुर्याद् इत्य् अर्थः ।

सौवर्णं मत्स्यरूपेण कृत्वा देवं जनार्दनम् ।

वेदवेदाङ्गसंयुक्तं श्रुतिस्मृतिविभूषणम् ॥

तोयपूर्णं पात्रं कृत्वा तत्र मत्स्यरूपं जनार्दनं न्यसेद् इत्य् अन्वयः ।

तत्रानेकविधैर् भक्ष्यैः फलैः पुष्पैश् च शोभितम् ।

गन्धैर् मन्नैश् (?) च धूपैश् च अर्चयित्वा यथाविधि ॥

रसातलगता वेदा यथा देव त्वयाहृताः ।

मत्स्यरूपेण तद्वन् मां भवाद् उद्धर केशव ॥

[१०२५] एवम् उच्चार्य तस्याग्रे जागरं तत्र कारयेत् ।

यथाविभवसारेण प्रभाते विमले तथा ॥

चतुर्णां ब्राह्मणानां च चतुरो दापयेद् घटान् ।

पूर्वं च बह्वृचे दद्याच् छन्दोगे दक्षिणां तथा ॥

यजुः शाखान्विते दद्यात् पश्चिमं घटम् उत्तमम् ।

उत्तरे ऽथर्वणे दद्याद् एष एव विधिः स्मृतः ॥

ऋग्वेदः प्रीयतां पूर्वे सामवेदस् तु दक्षिणे ।

पश्चिमे तु यजुर्वेदो ऽथर्ववेदस् तथोत्तरे ॥

ताम्रपात्रैस् तु सतिलैः स्थगितान् कारयेद् घटान् ।

ततस् तु जलपात्रं वै ब्राह्मणाय कुटुम्बिने ॥

दद्याद् एव महाभाग ततः पश्चात् तु भोजयेत् ।

ब्राह्मणान् पायसेनाग्र्यान् ततः पश्चात् स्वयं नरः ॥

भुञ्जीत सहितो भृत्यैर् वाग्यतः संयतेन्द्रियः ।

यः सकृद् द्वादशीम् एतां करोति विधिवन् मुने ॥

स ब्रह्मलोकम् आप्नोति तत्कालं चैव तिष्ठति ।

द्वादशी दोत्रधरणी व्रतेष्व् एकादशीपरः ॥

तत्कालं ब्रह्मकालम् ।

ततो ब्रह्मोपसंहारे तल्लयस् तिष्ठते ऽचिरम् ।

पुनः सृष्टौ भवेद् देवो वैराजो नामनामतः ॥

ब्रह्महत्यादिपापानि इह लोके कृतान्य् अपि ।

अकामतः कामतो वा तानि नश्यन्ति तत्क्षणात् ॥

इह लोके दरिद्रो वा राज्यं भ्रष्टो भवेन् नृपः ।

उपोष्य तु विधानेन मेश्वरो राज्यभाग् भवेत् ॥

**[१०२६] **मेश्वरः लक्ष्मीश्वरः ।

वन्ध्या नारी भवेद् या तु अनेन विधिना शुभा ।

उपोष्यति भवेत् तस्याः पुत्रः परमधार्मिकः ॥

अगम्यागमनं येन जानताजानता कृतम् ।

स इमं विधिम् आस्थाय तस्मात् पापाद् विमुच्यते ॥

ब्रह्मक्रियाया लोपेन बहुवर्षकृतेन च ।

उपोष्येमां सकृद् भक्त्या वेदसंस्कारम् आप्नुयात् ॥

किं चात्र बहुनोक्तेन न तद् अस्ति महामुने ।

प्राप्यं वा प्राप्यते नैव पापवान् यन् न पश्यति ॥

अदीक्षिताय नो देयं विधानं नास्तिकाय च ।

देववेदद्विषे वापि न श्राव्यं तु कदाचन ॥

गुरुभक्ताय दातव्यं सर्वपापप्रणाशनम् ।

इह जन्मनि वारोग्यं धनं धान्यं वरस्त्रियः ।

भवन्ति विविधा यस् तु उपोष्यति विधानतः ॥

इति धरणीव्रतमत्स्यद्वादशीव्रतम् ।

अथ कूर्मद्वादशीव्रतम् ।

दुर्वासा उवाच ।

पुष्यमासस्य या पुण्या द्वादशी शुक्लपक्षतः ।

तस्यां प्राग् इव सङ्कल्पं कुर्यात् स्नानादिकाः क्रियाः ॥

निर्वर्त्याराधयेद् रात्राव् एकादश्यां जनार्दनम् ।

पृथङ् मन्त्रैर् द्विजश्रेष्ठ देवदेवं जनार्दनम् ॥

[१०२७] कूर्माय पादौ प्रथमं तु पूज्य

नारायणायेति कटिं हरेस् तु ।

सङ्कर्षणायेत्य् उदरं हरेस् तु

उरोविशोकाय भवाय कण्ठम् ॥

सुवाहवेत्य् एव भुजौ शिरश् च

नमो विशालाय रथाङ्गशङ्खौ ।

स्वनाममन्त्रैश् च सुधूपगन्धैर्

नानानिवेद्यैर् विविधैः फलैश् च ॥

अभ्यर्च्य देवं कलशं तदग्रे

संस्थाप्य माल्यास्तृतदामकण्ठम् ।

तं रत्नगर्भं तु पुरेव कृत्वा

स्वशक्तितो हेममयं च देवम् ॥

समन्दरं कूर्वरूपेण कृत्वा

संस्थापयेत् ताम्रपात्रे घृतस्य ।

पूर्णे घटे पर्यथ सन्निवेष्या-

थो ब्राह्मणायैव सर्वं तु दद्यात् ॥

घृतस्य पूर्णे ताम्रपात्रे समन्दरं कूर्मरूपं निधाय घटोपरि निवेश्य प्रभाते दद्याद् इत्य् अर्थः ।

श्वो ब्राह्मणान् भोज्य सदक्षिणांश् च

यथाशक्त्या प्रीणयेद् देवदेवम् ।

नारायणं कूर्मपुराणे पश्चात्

स्वयं भुञ्जीत सभृत्यवर्गः ॥

एवङ्कृते वै त्रिविधं हि पपं

विनश्यते नात्र विचारणास्ति ।

संसारचक्रं तु व्हिआय शुद्धं

प्राप्नोति लोकं तु हरेः पुराणम् ॥

अनेकजन्मान्तरसञ्चितानि

नश्यन्ति पापानि नरस्य भक्त्या ।

प्रागुक्तरूपं तु फलं लभेत

नारायणस् तुष्टिम् उपैति सद्यः ॥

इति धर्णीव्रते कूर्मद्वादशीव्रतम् ।

अथ वाराहद्वादशीव्रतम् ।

दुर्वासा उवाच ।

एवं माघे सिते पक्षे द्वादशीदरणीभृतः ।

वाराहस्य शृणुष्वान्यां पुण्यां परमधार्मिकः ॥

[१०२८] प्रागुक्तेन विधानेन सङ्कल्पस्नानम् एव च ।

कृत्वा देवं समभ्यर्च्य एकादश्यां विचक्षणः ॥

पुष्पैर् नैवेद्यगन्धैश् च ह्य् अर्चयित्वाच्युतं नरः ।

पश्चात् तस्याग्रतः कुम्भं जलपूर्णं तु विन्यसेत् ॥

वराहायेति पादौ तु माधवायेति वै कटिम् ।

क्षेत्रज्ञायेति जठरं विश्वरूपं पुरोहितः ॥

सर्वज्ञायेति वैकण्ठं प्रजानां पतये शिरः ।

प्रद्युम्नायेति च भुजौ दिव्यास्त्राय सुदर्शनम् ॥

अमृतोद्भवाय शङ्खं च एष एवार्चने विधिः ।

एवम् अभ्यर्च्य् मेधावी तस्मिन् कुम्भे तु विन्यसेत् ॥

सौवर्णं रौप्यं ताम्रं वा वाराहं कारयेद् बुधः ।

दंष्ट्राग्रेणोद्धृतां पृथ्वीं सपर्वतवनद्रुमाम् ॥

माधवं मधुहन्तारं वाराहं रूपम् आस्थितम् ।

सर्वबीजभृते पात्रे रत्नगर्भघऋओपरि ॥

स्थापयेत् परमं देवं जातरूपमयं हरिम् ।

सितवस्त्रयुगच्छन्नं तत्राभावे तु वैणवे ॥

स्थाप्यार्च्य गन्धपुष्पैश् च नैवेद्यैर् विविधैः फलैः ।

पुष्पमण्डयिकां कृत्वा जागरं तत्र कारयेत् ॥

प्रादुर्भावान् हरेस् तत्र वाचयेद् गाययेद् बुधः ।

एवं संस्तूयमानस्य प्रभाते ह्य् उदिते रवौ ॥

शुचिः स्नातो हरिं पूज्य ब्राह्मणाय निवेदयेत् ।

वेदवेदाङ्गविदुषे साधुवृत्ताय धीमते ॥

विष्णुभक्ताय विप्रत्षे विशेषेण तु दापयेत् ।

[१०२९] एवं विधानतो दत्वा हरिं वाराहरूपिणम् ॥

ब्राह्मणाय च तद् दद्यात् फलं तस्य निशामय ।

इह जन्मनि सौभाग्यं श्रीः कान्तिस् तुष्टिर् एव च ॥

ज्ञानवान् वित्तवान् भोगी अपुत्रः पुत्रवान् भवेत् ।

भोगी अपुत्रः पुत्रवान् भवेत् ।

इति धरणीव्रते वाराहद्वादशीव्रतम्

अथ नृसिंहद्वादशीव्रतम् ।

दुर्वासा उवाच ।

तद्वत् तु फाल्गुने मासि कृष्णपक्षे तु द्वादशी ।

उपोष्या प्रोक्तविधिना हरिम् आवाहयेद् बुधः ॥

नरसिंहाय पादौ तु गोविन्दायोदरं तथा ।

कटिं विश्वभुजे तद्वद् अनिरुद्धेत्य् उरस् तथा ॥

कण्ठं तु शितिकण्ठाय पिङ्गकेशाय वै शिरः ।

असुरध्वसनायेति चक्रवोढ्रात्मने तथा ॥

शङ्खम् इत्य् एव सम्पूज्य गन्धपुष्पफलैस् तथा ।

तदग्रे स्थाप्य तु घटं सितवस्त्रयुगान्वितम् ॥

तत्रोपरि नृसिंहं तु सौवर्णं ताम्रभाजने ।

सौवर्णं शक्तितः कृत्वा दारुवंशमयो ऽपि वा ॥

नृसिंहरूपं तु विष्णुधर्मोत्तरे ऽभिहितम् ।

पीनस्कन्धकटिग्रीवः कृशमध्यः कृशोदरः ।

सिंहासनो नृदेहश् च नीलवासा प्रभान्वितः ॥

[१०३०] आलीडस्थानसंस्थानः सर्वाभरणभूषणः ।

ज्यालामालाकुलमुखोज्वालाकेसरमण्डलः ॥

हिरण्यकशिपोर् वक्षः पाटयन्नखरैः खरैः ।

नीलोत्पलाभः कर्तव्यो देवतानुगतस् तथा ॥

हिरण्यकशिपुर् दैत्यः संवृतो ऽयम् इति ध्रुवम् । इति ।

रत्नगर्भघटे स्थाप्य तं सम्पूज्य विधानतः ॥

द्वादश्यां वेदविदुषे ब्राह्मणाय निवेदयेत् ।

एवं कृते फलं प्राप्तं यत् पुरा पार्थिवेन च ॥

वत्सनाम्ना तु तत् ते ऽहं प्रवक्ष्यामि महामुने ।

तस्य व्रतान्ते भगवान् नरसिंहस् तुतोष च ॥

चक्रं प्रादात् तु शत्रूणां विध्वंसनकरं मृधः । इति ।

तेनास्त्रेण स्वकं राज्यं जितवान् स नृपोत्तमः ॥

राज्ये स्थित्वाश्वमेधानां सहस्रम् अकरोत् प्रभुः ।

अन्ते च ब्रह्मलोकाख्यं पदम् आगाच् च सत्तम ॥

एषा धन्या पापहरा द्वादशी भवतो मुने ।

कथितेमां प्रयत्नेन श्रुत्वा कुरु यथेच्छसि ॥

इति धरणीव्रत नृसिंहद्वादशीव्रतम् ।

अथ वामनद्वादशीव्रतम् ।

दुर्वासा उवाच ।

एवम् एव मुने मासि चैत्रे सङ्कल्प्य द्वादशी ।

उपोष्य दारयद् भक्त्या देवदेवं जनार्दनम् ॥

[१०३१] वामनायेति पादौ तु विष्णवे कटिम् अर्चयेत् ।

वासुदेवेति जठरम् उरः सङ्कर्षणाय च ॥

कण्ठं विश्वभृते पूज्य शिरो वै व्योमरूपिणे ।

बाहू विश्वजिते पूज्य स्वनाम्ना शङ्खचक्रके ॥

अनेन विधिनाभ्यर्च्य देवदेवं जनार्दनम् ।

प्राग्वंशेनोदरं कुम्भं सयुग्मं पुरतो न्यसेत् ॥

युग्मं वस्त्रयुग्मम् ।

प्रागुक्तपात्रे संस्थाप्य वामनं काञ्चनं बुधः ।

यथाशक्तिकृतं ह्रस्वं सितयज्ञोपवीतिनम् ॥

कुण्डिकां स्थापयेत् पार्श्वे छत्रिकापादुके तथा ।

अक्षमालां च संस्थाप्य यष्टिकां च विशेषतः ॥

एतैर् उपस्करैर् युक्तं प्रभाते ब्राह्मणाय तु ।

दापयेत् प्रीयतां विष्णुः ह्रस्वरूपीति कीर्तयेत् ॥

मासनाम्ना तु संयुक्तं प्रादुर्भावाभिधानकम् ।

प्रीयताम् इति सर्वत्र विधिर् एष प्रकीर्तितः ॥

मासनाम्ना मार्गशीर्षादिमासकेशवादिनाम्ना प्रादुर्भावाभिधानकं मत्स्यरूपी कूर्मरूपीत्य् एवमादि ।

श्रूयते च पुरा राजा हर्यश्वः पृथिवीपतिः ।

अपुत्रः स तपस् तेपे पुत्रम् इच्छंस् तपोधनम् ॥

तस्यैवं कुर्वतस् त्व् इष्टं पुत्रार्थं मुनिसत्तम ।

आजगाम हरिर् देवो द्विजरूपसमन्वितः ॥

स उवाच नृपं राजन् किं ते व्यवसितं त्व् इति ।

पुत्रार्थम् इति चोवाच न च तं प्रत्युवाच ह ॥

[१०३२] इदम् एव विधानं तु कुरु राजन् प्रयत्नतः ।

स विप्र एवम् उक्त्वा च क्षणाद् अन्तर्हितस् ततः ॥

राजा च तच् चकाराथ मन्त्रवित् तु द्विजातये ।

दरिद्राय तथा प्रादाज् ज्योतिर्गर्भाय धीमते ॥

यथा दितेर् अपुत्रायाः वयं पुत्रत्वम् आगतः ।

भगवंस् तेन सफ़्त्वेन ममाप्य् अस्तु सुतो वरः ॥

इदम् एव विधानं वामनवद् द्वादशीव्रतम् । विधिमन्त्रवित् यथा दितेर् अपुत्राया इत्यादिमन्त्रज्ञः । तं वामनम् ।

अनेन विधिनोक्तेन तस्य पुत्रो ऽभवन् मुने ।

उग्राश्व इति विख्यातश् चक्रवर्ती महाबलः ॥

अपुत्रो लभते पुत्रान् धनहीनो लभेद् धनम् ।

भ्रष्टराज्यो लभेद् राज्यं मृतो विष्णुपुरं व्रजेत् ॥

इति धरणीव्रते वामनद्वादशीव्रतम् ।

अथ जामदग्न्यव्रतम् ।

दुर्वासा उवाच ।

वैशाखस्येवम् एवं तु सङ्कल्पविधिना नरः ।

तद्वत् स्नानं मृदा कृत्वा ततो देवालयं व्रजेत् ॥

तत्राराध्य हरिं भक्त्या एभिर् मन्त्रैर् विचक्षणः ।

जामदग्न्याय पादौ तु उदरं सर्वधारिणे ॥

[१०३३] मधुसूदनायेति कटिं उरः श्रीवत्सदारिणे ।

क्षत्रान्तकायं बाहू च मणिकण्ठाय कण्ठकम् ॥

स्वनाम्ना शङ्खचक्रे तु शिरो ब्रह्माण्डधारिणे ।

एवम् अभ्यर्च्य मेधावी प्राग्वत् तस्याग्रतो घटम् ॥

विन्यसेत् स्थगितं वस्त्रयुगेन च विशेषतः ।

वैणवेन च पात्रेण तस्मिन् संस्थापयेद् धरिम् ॥

जामदग्न्येन रूपेण कृत्वा सौवर्णम् अग्रतः ।

दक्षिणे परशुं हस्ते तस्य देवस्य कारयेत् ॥

सर्वगन्धैश् च सम्पूज्य पुष्पैर् नानाविधैस् तथा ।

ततस् तस्याग्रतः कुर्याज् जागरं शक्तिमान् नरः ॥

प्रीयतां मधुसूदनो जामग्न्यरूपीति मन्त्रः ।

प्रभाते विमले सूर्यं ब्राह्मणाय निवेदयेत् ।

एवं नियमयुक्तस्य यत् फलं तन् निबोध मे ॥

आसीद् राजा महाभागो वीरसेनो महाबलः ।

अपुत्रः स पुरा तीव्रं तपस् तेपे महाबलः ॥

चरतस् तत् तपो घोरं याज्ञवल्क्यो महामुनिः ।

आजगाम महायोगी तं द्रष्टुं वा नियोगतः ॥

राजोवाच ।

कथं मे भविता पुत्रः स्वल्पायासेन वै द्विज ।

एतन् मे कथय प्रीत्या भगवान् प्रणतस्य मे ॥

एवम् उक्तो मुनिस् तेन पार्थिवेन यशस्विना ।

आचख्यौ द्वादशीं चेमां वैशाखे सितपक्षजाम् ॥

[१०३४] स हि राजा विधानेन पुत्रकामो विशेषतः ।

उपोष्य लक्ष्मवान् पुत्रं नलं परमधार्मिकम् ॥

यो ऽद्यापि कीर्त्यते लोके पुण्यश्लोको नृपोत्तमः ।

प्रासङ्गिकं फलं ह्य् एतफ़् व्रतस्यास्य महामुने ॥

सुपुत्रो जायते वित्तविद्यावान् कीर्तिमांस् तथा ।

इह जन्मनि किं चित्रं परलोके शृणुष्व मे ॥

कल्पम् एकं ब्रह्मलोकम् उषित्वाप्सरसां गणैः ।

क्रीडते ऽतः पुनः सृष्टौ जायते चक्रवर्तिनः ॥

त्रिंशत्कल्पसहस्राणि जायते नात्र संशयः ॥

इति धरणीव्रते जामदग्न्यद्वादशीव्रतम् ।

अथ राघवद्वादशीव्रतम् ।

दुर्वासा उवाच ।

ज्यैष्ठमासेष्व् एवम् एवं सङ्कल्प्य विधिना नरैः ।

अर्चयेत् परमं देवं पुष्पैर् नानाविधैः शुभैः ॥

ॐ नमो राघवायेति पादौ पूर्वं समर्चयेत् ।

त्रिविक्तमायेति कटिं धृतवस्त्राय वै हरम् ॥

उरः संवत्सरायेति कण्ठं संवर्तकाय च ।

सर्वास्त्रधारिणे बाहू स्वनाम्नाब्जरथाङ्गके ॥

सहस्त्रशिरसे ऽभ्यर्च्य शिरस् तस्य महात्मनः ।

अब्जरथाङ्गके शङ्खचक्रके ।

[१०३५] एवम् अभ्यर्च्य विधिवद् घृतकुम्भं प्रकल्पयेत् ।

प्राग्वद् वस्त्रयुगच्छन्नो सौवर्णौ रामलक्षणौ ॥

अनयोः स्वरूपं विष्णुधर्मोत्तरात् ।

रामो दाशरथिर् मौली राजलक्षणलक्षितः ।

मौली मुकुटवान् ।

भरतो लक्षमनश् चैव शत्रुघ्नश् च धनुर्धरः ।

तथैव नूनं कर्तव्याः किं तु मौलिविवर्जिता ॥ इति ।

अर्चयित्वा विधानेन प्रभाते ब्राह्मणाय तौ ।

दातव्यौ मनसा कामम् ईहता पुरुषेण तु ॥

अपुत्रेण पुरा पृष्टो राज्ञा दशरथेन तु ।

वसिष्ठः पुत्रकामाय प्रोवाच परमार्थतः ॥

इदम् एव विधानं तु कथयामास स द्विजः ।

प्राग्रहस्यं विदित्वा तु स राजा कृतवान् इदम् ॥

तस्य पुत्रः स्वयं जज्ञे रामाख्यो मधुसूदनः ।

चतुरंशो ऽप्य् अभूद् विष्णुः परितोषान् महामुने ॥

एतद् एव हि चाख्यातं पारत्रिकम् अतः शृणु ॥

दिव्यान् भोगान् भुञ्जते स्वर्गसंस्थो यावद् इन्द्रा दश च द्विद्विसङ्ख्याः अतीतकाले पुनर् एत्य मर्त्यं राजजागो जायते यज्ञयाजी ।

दश द्विद्विसङ्ख्याः चतुर्दशेत्य् अर्थः ।

नश्यन्ति पापानि च तस्य पुंसः

कामान् अवाप्नोति यथासमीहान् ।

निष्काम एतद् व्रतम् एव चीर्त्वा

प्राप्नोति निर्वाणफलं स्थितं तत् ॥

एतद् व्रतम् एव निर्वाणसाधनान्तरम् अनुष्ठायापीत्य् अर्थः ।

इति धरणीव्रते राघवद्वादशीव्रतम् ।

[१०३६]

अथ वासुदेवद्वादशीव्रतम् ।

दुर्वासा उवाच ।

आषाढे ऽप्य् एवम् एवं तु सङ्कल्प्य विधिना ततः ।

अर्चयेत् परमं देवं गन्धपुष्पैर् विधानतः ॥

वासुदेवाय पादो तु कटिं सङ्कर्षणाय च ।

प्रद्युम्नायेति जठरम् अनिरुद्धाय वै उरः ॥

चक्रपाणयेति भुजौ कण्ठं भूपतये तथा ।

स्वनाम्ना शङ्खचक्रे तु पुरुषायेति वै शिरः ॥

एवम् अभ्यर्च्य मेधावी प्राग्वत् तस्याग्रतो घटम् ।

विन्यसेद् वस्त्रयुग्मं तु तस्योपरि ततो न्यसेत् ॥

काञ्चनं वासुदेवं तु चतुर्बाहुं सनातनम् ।

तम् अभ्यर्च्य विधानेन गन्धपुष्पादिभिः क्रमात् ॥

प्राग्वत् तु ब्राह्मणे दद्याद् देववादिनि सुव्रते ।

एवं नियमयुक्तस्य यत् पुण्यं तच् छृणुष्व मे ॥

वसुदेवो भवेद् राजा यदुवंशविवर्धनः ।

देवकी तस्य भार्यासीत् समानव्रतचारिणी ॥

सात्वपुत्रा भवेत् साध्वी पतिधर्मपरायणा ।

तस्याः कालेन महता नारदो ऽभ्यागमद् गृहम् ॥

वसुदेवेन तद्भक्त्या पूजितो वाक्यम् अब्रवीत् ।

कथयामास धर्मज्ञो देवकीवसुदेवयोः ॥

ताव् अप्य् एवं विधिं भक्त्या चक्रतुः श्रद्धयान्वितौ ।

[१०३७] तयोस् तुष्टः स्वयं विष्णुः पुत्रत्वं च जगाम ह ॥

एवम् एषा पापहरा द्वादशी पुत्रदा स्मृता ।

इमाम् उपोष्येह सुतान् विद्यावित्तं लभेत च ॥

राज्यं च भ्रष्टराज्यस् तु पापिनः पापसङ्क्षयम् ।

यया भावोपनीतस् तु धरण्यां केशवेन वै ॥

मृतो विष्णुपुरे रम्ये मोदते कालसङ्क्षयम् ।

मन्वन्तराणि षट्त्रिंशत् ततः कालात्यये पुनः ॥

इह लोके भवेद् राजा सप्तवर्षायुतानि तु ।

दाता यज्वा क्षमायुक्तस् ततो निर्वाणम् आप्नुयात् ॥

इति धरणीव्रते वासुदेवद्वादशीव्रतम् ।

अथ वृद्धद्वादशीव्रतम् ।

दुर्वासा उवाच ।

एवम् एव श्रावणे तु मासि सङ्कल्प्य द्वादशीम् ।

अर्चयेत् परमं देवं गन्धपुष्पनिवेदनैः ॥

बुद्धाय पादौ सम्पूज्य श्रौधरायेति वै कटिम् ।

पद्मोद्भवाय जठरम् उरः संवत्सराय वै ॥

सुग्रीवायेति कण्ठं तु भुजौ द्वौ विश्ववाहनः ।

प्राग्वच् छस्त्राणि सम्पूज्य शिरो वै परमात्मने ॥

एवम् अभ्यर्च्य मेधावी तस्याग्रे पूर्ववद् घटम् ।

[१०३८] स्थापयेत् तत्र सौवर्णं बुद्धं कृत्वा विचक्षणः ॥

बुद्धस्वरूपम् उक्तं पुराणान्तरे ।

बुद्धस् तु द्विभुजः कार्यो ध्यानस्तिमितलोचहः ॥ इति ।

तम् अप्य् एवं तु सम्पूज्य ब्राह्मणाय निवेदयेत् ।

अनेन विधिना पूर्वं द्वादशी समुपोषीता ॥

शुद्धोदनेन बुद्धो ऽभूत् स्वयं पुत्रो जनार्दनः ।

महतीं च श्रियं प्राप्तः पुत्रपौत्रसमन्वितः ।

भुक्त्वा राज्यश्रियं सो ऽथ परमिकां गतः ॥

इति धर्णीव्रते बुद्धद्वादशीव्रतम् ।

अथ कल्किद्वादशी व्रतम् ।

दुर्वासा उवाच ।

तद्वद् भाद्रपदे मासि शुक्लपक्षे तु द्वादशीम् ।

सङ्कल्प्य विधिना देवम् अर्चयेत् परमेश्वरम् ॥

नमो ऽस्तु कल्किने पादी हृषीकेशाय वै कटिम् ।

म्लेच्छध्वंसनायोरू जगन्मूर्तिस् तथोदरम् ॥

श्रीकण्ठायेति कण्ठं तु खड्गमाणीति वै भुजौ ॥

स्वनाम्ना शङ्खचक्रे तु विश्वमूर्तेस् तथा शिरः ।

एवम् अभ्यर्च्य मेधावी प्राग्वत् तस्याग्रतो घटम् ॥

विन्यस्य कल्किनं देवं सौवर्णं तत्र दारयेत् ।

कल्किस्वरूपम् पुराणान्तरात् ।

[१०३९] कृपाणपाणिः कर्तव्यः कल्की तुरगवाहनः ॥ इति ।

सितवस्त्रयुगच्छन्नं गन्धपुष्पोपशोभितम् ।

कृत्वा प्रभाते विप्राय प्रदेयं शास्त्रवित्तमे ॥

पूर्वं राजा विशालो ऽभूत् काशीपुर्यां महाबलः ।

द्वादशीं कृतवान् सो ऽपित् चक्रवर्ती बभूव ह ॥

यज्ञैश् च विविधैर् इष्ट्वा परं निर्वाणम् आप्तवान् ।

पूज्यते मत्स्यरूपेण सर्वज्ञत्वम् अभीप्सुभिः ॥

स्ववंशोद्धरणार्थाय कूर्मरूपी तु पूज्यते ।

भवोदधिनिमग्नेन वराहः पूज्यते नरैः ॥

वामनो मोहनार्थाय वित्तार्थे जमदग्निजः ।

क्रूरशत्रुविनाशाय यजेद् दाशरथिं बुधः ॥

बलकृष्णो यजेद् धीमान् पुत्रकामो न संशयः ।

रूपकामो यजेद् बुद्धं कल्किनं शत्रुघातने ॥

इति धरणीव्रते कल्किद्वादशीव्रतम् ।

अथ पद्मनाभद्वादशीव्रतम् ।

दुर्वासा उवाच ।

तद्वद् आश्वयुजे मासि द्वादशी शुक्लपक्षिणीम् ।

[१०४०] सङ्कल्प्याभ्यर्चयेद् देवं पद्मनाभं सनातनम् ॥

उदरं सर्वदेवाय पुष्कराक्षाय वै उरः ।

अव्याग्राय तथा बाहू प्राग्वद् अस्राणि पूजयेत् ॥

प्रभवाय शिरः पूज्य प्राग्वद् अग्रे घटं न्यसेत् ।

तस्मिन् हेममयं देवं पद्मनाभं तु विन्यसेत् ॥

पद्मनाभस् तु दक्षिणाधोहस्ताद् आरभ्य स्वयेन शङ्खपद्मगदाधारी कार्यः ।

तं देवदेवं सम्पूज्य गन्धपुष्पादिभिः क्रमात् ।

प्रभातायां तु शर्वर्यां ब्राह्मणाय निवेदयेत् ॥

आसीत् कृतयुगे राजा भद्राश्वं नाव वीर्यवान् ।

यस्य नाम्ना भवेद् वर्षं भद्राश्वं नामनामतः ॥

तस्यागस्त्यः कदाचित् तु गृहम् आगमद् भूपते ।

उवाच पञ्चरात्रं तु वसामि भवतो गृहे ॥

तं राजा शिरसा नत्वा स्थीयताम् इत्य् अभाषत ।

तस्य कान्तिमती नाम्ना भार्या परमशोभना ॥

ताम् अगस्त्यस् तथा दृष्ट्वा रूपतेजोऽन्वितां शुभाम् ।

सपत्न्यश् च भयात् सर्वाः कुर्वन्त्यः कुर्म शोभनम् ।

साधु पार्थ जगन्नाथ स्त्री शूद्रः साधुसाध्विति ॥

एवम् उक्त्वा ननर्तोच्चैर् अगस्त्यो राजसन्निधौ ।

राजोवाच ।

किं हर्षकारणं ब्रह्मन् येनैवं नृत्यते भवान् ।

[१०४१] अगस्त्य उवाच ।

इयं राज्ञी तवदीयाभूद् दासी वैश्यस्य वैदिशे ।

नगरे हरिदत्तस्य त्वम् अस्याः पतिर् एव च ॥

तस्यैव कर्मकारो ऽभूत् शूद्रो विध्येति नामतः ।

स वैश्यो ऽश्वयुजे मासि द्वादश्यं नियतः शुचिः ॥

स्वयं विष्ण्वालयं गत्वा गन्धपुष्पादिभिर् हरिम् ।

अभ्यर्च्य स्वगृहे प्रायाद् भवन्तौ रक्ष पालकौ ॥

स्थाप्य द्वाव् अपि दीपानां ज्वालनार्थं महामते ।

गते तस्मिन् भवने तद्दीपप्रज्वालने स्थितौ ॥

यावत् प्रभाता रजनी निःशाठ्येन नरोत्तम ।

ततः कालेन महता मृतौ द्वाव् अपि दम्पती ॥

तेन पुण्येन ते जन्म प्रियव्रतगृहे ऽभवत् ।

इयं च पत्नी ते जाता वैश्यदास्य् अभवत् पुरा ॥

स्वेनयः पुनर् अर्थेन विष्णुम् आभ्यर्च्य दीपकम् ।

ज्वालयेत् तस्य यत् पुण्यं तत् सङ्ख्यातुं न शक्यते ॥

इति श्रीधरणीव्रते पद्मनाभद्वादशीव्रतम् ।

अथ योगेश्वरव्रतम् । अथ धरणीव्रतम् ।

अगस्त्य उवाच ।

शृणुष्व भक्तितो राजन् कार्त्तिकेकादशीं (?) तथा ।

[१०४२] उपोष्य विधिना येन सर्वासां प्राप्नुयात् फलम् ॥

प्राग्विधानेन सङ्कल्प्य तद्वत् स्नानं समर्चयेत् ।

विलोमेनार्चयेद् देवं नारायणम् अकल्मषम् ॥

नमः सहस्रशिरसे शिरः सम्पूज्य वै हरेः ।

पुरुषायेति च भुजौ कण्ठे वै विश्वरूपिणे ॥

ज्ञानात्मनेति चास्त्राणि श्रीवत्साय तथा उरः ।

जगद्वसिष्णवे पूज्य उदरं विश्वमूर्तये ॥

कटिं सहस्रापादाय पादौ देवस्य पूजयेत् ।

अनुलोमेन देवेशं पूजयित्वा विचक्षणः ॥

नमो दामोदरायेति सर्वाङ्गं पूजयेद् धरिम् ।

एवं सम्पूज्य विधिना तस्याग्रे चतुरो घटान् ॥

स्थापयेद् रत्नघर्भांस् तु सितचन्दनचर्चितान् ।

स्रग्दामबद्धग्रीवांस् तु सितवस्त्रावगुण्ठितान् ॥

स्थगितान् ताम्रपात्रैस् तु तिलपूर्णैः सकाञ्चनैः ।

चत्वारः सागराश् चैते कल्पिता द्विजसत्तम ॥

तन्मध्ये प्राग्विधानेन सौवर्णं स्थापयेद् धरिम् ।

योगेश्वरं योगनिद्राशायिनं पीतवाससम् ॥

तम् अप्य् एवं तु सम्पूज्य जागरं तत्र कारयेत् ।

कुर्यात् तु वैष्णवं यागं जपेद् योगेश्वरं हरिम् ॥

षोडशारे रथाङ्गे तु रजोभिर् बहुभिः कृते ।

षोडशारे रथाङ्गे षोडशारचक्रे ।

एवं कृत्वा प्रभाते तु ब्राह्मणान् पञ्च वानयेत् ॥

चत्वारः कलशा देवाश् चतुर्णां पञ्चमस्य तु ।

[१०४३] सौवर्णं प्रदद्यात् प्रयतः शुचिः

वेदाध्येत्रे समं दत्तं तद्विदे द्विगुणं तथा ॥

आचार्ये पञ्चरात्राणां सहस्रगुणितं भवेत् ।

यस् त्व् इमं सरहस्यं तु समन्त्रं चोपपादयेत् ॥

विधानं तस्य भक्त्या वै दत्तं कोटिगुणोत्तरम् ।

योग्ये तिष्ठति यस् त्व् अन्यम् आसन्नं पूजयेत् सुधीः ॥

दुर्गतिं समवाप्नोति दत्तं तस्य च निश्फलम् ।

एवं दत्वा विधानेन तत्त्वतो विष्णुम् अर्च्य च ॥

विप्राणां भोजनं दद्याद् यथाशक्त्या च दक्षिणाम् ।

धरणीव्रतम् एतद् धि पुरा कृत्वा प्रजापतिः ॥

प्रजां लेभे तथा मुक्तिं ब्राह्मणं विमलं शुभम् ।

युवनाश्वश् च राजर्षिर् अनेन विधिना पुरा ॥

मान्धातारं लेभे परं ब्रह्म च शाश्वतम् ।

तथा हैहयदायादः कृतवीर्यो नराधिपः ॥

कार्तवीर्यं सुतं लेभे परं ब्रह्म च शाश्वतम् ।

शकुन्तलाप्य् एवम् एव व्रतं चीर्त्वा महामुने ॥

लेभे शाकुन्तलं पुत्रं दौश्मन्तं चक्रवर्तिनम् ।

अनेन विधिना प्राप्तं चक्रवर्तित्वम् उत्तमम् ॥

धरण्या अपि पाताले पद्मया तु कृतं पुरा ।

व्रतम् एतत् ततो नाम्ना धरणीव्रतम् उच्यते ॥

सुप्ते ऽस्मिंस् तु धरा देवी हरिणा क्रीडरूपिना ।

[१०४४] उद्धृताद्यापि तुष्टेन धारिता नौर् इवाम्भसि ॥

धरणीव्रतम् एतद् धि कीर्तितं तन् मया मुने ।

य इदं शृणुयाद् भक्त्या यश् च कुर्यान् नरोत्तमः ॥

सर्वपापविनिर्मुक्तो विष्णुसालोक्यतां व्रजेत् ।

एकैकयापि वापत्सु राज्यम् एकैव यच्छति ।

किं पुनर् द्वादशैतास् तु यत्रेदं न ददुः परम् ॥

इति योगेश्वरद्वादशी । इति वाराहपुराणोक्तं धरणीव्रतम् ।

अथ भीमद्वादशीव्रतम् ।

पुल्स्त्य उवाच ।

कृष्णः कदाचिद् आसीनः स्वपुर् यामम् अतिद्युतिः ।

प्रवृत्तासु पुराणीषु धर्मसम्बन्धिनीषु च ॥

कथासु भीमसेनेन परिपृष्टः प्रतापवान् ।

धार्मिकस्याप्य् अशक्तस्य तीव्राग्नित्वाद् उपोषणे ॥

किञ्चिद् व्रतम् अशेषाणां व्रतानाम् अधिकं मम ।

निरूपयतु विश्वात्मा वासुदेवो जगद्गुरुः ॥

अशेषयज्ञफलदम् अशेषाघविनाशनम् ।

अशेषदुष्टदमनम् अशेषसुरपूजितम् ॥

पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् ।

वासुदेव उवाच ।

यद्य् अष्टम्यां चतुर्दश्यां द्वादशीष्व् अथ भारत ।

[१०४५] अन्येष्व् अपि दिनर्क्षेषु न शक्तस् त्वम् उपोषितुम् ॥

ततः पुण्याम् इमां भैमीं सर्वपापप्रणाशनीम् ।

उपोष्य विधिनानेन गच्छ विष्णोः परं पदम् ॥

माघमासस्य दशमी यदा शुक्ला भवेत् तदा ।

घृतेनाभ्यञ्जनं कृत्वा तिलैः स्नानं समाचरेत् ॥

तथैव विष्णुम् अभ्यर्च्य नमो नारायणेति च ।

कृष्णाय पादौ सम्पूज्य शिरः सर्वात्मने नमः ॥

वैकुण्ठायेति वै कण्ठम् उरः श्रीवत्सधारिणे ।

शङ्खिने चक्रिणे तद्वद् गदिने वरदाय वै ॥

सर्वे नारायणस्यैवं सम्पूज्या बाहवः क्रमात् ।

दामोदरायेत्य् उदरं मेढ्रं पञ्चशराय वै ॥

ऊरू सौभाग्यनाथाय् जानुनी भूतधारिणे ।

नमो नीलाय वै जङ्घे पादौ विश्वसृजे नमः ॥

नमो देव्यै नमः शान्त्यै नमो लक्ष्म्यै नमः श्रिये ।

नमः पुष्ट्यै नमस् तुष्ट्यै नमस् तुष्ट्यौ तथा प्रिये ॥

नमो विहङ्गनाथाय वायुवेगाय पक्ष्मणे ।

विषप्रभाविणे नित्यं गरुडं चाभिपूजयेत् ॥

एवं सम्पूज्य गोविन्दम् उमापतिविनायकौ ।

गन्धमाल्यैस् तथा धूपैर् भक्ष्यैर् नानाविधैस् तथा ॥

गव्येन पयसा सिद्धां कृशरां त्व् अथ वाग्यतः ।

सर्पिषा सह भुञ्जानो गत्वा शतपदं बुधः ॥

[१०४८] चतुर्भिर् बह्वृचैर् होमस् ततः कार्य उदङ्मुखैः ।

रुद्रजापश् चतुर्भिश् च यजुर्वेदपरायणैः ॥

वैष्णवानि च सामानि चत्वारः सामवेदिनः ।

अरिष्टवर्गसहितान्य् अभितः परिपाठयेत् ॥

अरिष्टवर्गः तपमूषुवाजितम् इत्य् अस्यामृन्मुत्पन्नसामद्वयम् ।

एवं द्वादशविप्रांस् तान् वस्त्रमाल्यानुलेपनैः ।

पूजयेद् अङ्गुलीयैश् च कटकैर् हेमसूत्रकैः ॥

वासोभिः शमनीयैश् च वित्तशाठ्यविवर्जितः ।

पञ्चक्षपातिवाह्या वै गीतमङ्गलनिस्वनैः ॥

उपाध्यायस्य च पुनर् द्विगुणं सर्वम् एव तु ।

ततः प्रभाते विमले समुत्थाय त्रयोदश ॥

गाश् च दद्यात् कुरुश्रेष्ठ सौवर्णमुखसंयुताः ।

पयस्विनीः शीलवतीः कांस्यदोहसमन्विताः ॥

रौप्यखुराः। सवस्त्राश् च चन्दनेनाभिषेविताः ।

तास् तु तेषां ततो दत्वा भक्ष्यभोज्यान्नपिण्डितान् ॥

कृत्वा वै ब्राह्मणान् सर्वान् रत्नैर् नानाविधैर् युतान् ।

भुक्त्वा वाक्षारलवणम् आत्मना च विसर्जयेत् ॥

अनुगम्य पदान्य् अष्टौ पुत्रभार्यासमन्वितः ।

प्रीयताम् अत्र देवेशः केशवः क्लेशनाशनः ॥

शिवस्य हृदयं विष्णुः विष्णोर्श् च हृदयं शिवः ।

यथोत्तरं न पश्यामि तथा मे स्वस्ति वायुधः ॥

एवम् उच्चार्य तान् कुम्भान् गाथैवं शांयनानि च ।

[१०४९] वासांसि चैव सर्वेषां गृहाणि प्रापयेद् बुधः ॥

अभावे बहुशय्यायाम् एकाम् अपि सुसंस्कृताम् ।

शय्यां दद्याद् गृही भीम सर्वोपस्करसंयुताम् ॥

इतिहासपुराणानि वाचयित्वातिवाहयेत् ।

तद् दिनं नरशार्दूल य इच्छद् विपुलां श्रियम् ॥

तस्मात् त्वं सत्त्वम् आलम्ब्य भीमसेनो विमत्सरः ।

कुरु व्रतम् इदं सम्यक् स्नेहाद् गुह्यं मयोदितम् ॥

त्वया कृतम् इदं वीर त्वन्नामकं भविष्यति ।

सा भैमी द्वादशी ह्य् एषा सर्वपापहरा शुभा ॥

या तु कल्याणिनी नाम पुरा कल्पेषु पठ्यते ॥

स्नातः पुरा मण्डलम् एष तद्वत्

तेजोमयं वेदशरीरम् आप ।

अस्यां च कल्याणतिथौ विवस्वान्

सहस्रधारेण सहस्ररश्मिः ॥

इदम् इह हि कृतं महेन्द्रमुखैर्

वसुभिर् अथासुरदेवकोटिभिश् च ।

फलम् इह हि न शक्यते ऽनुवक्तुम्

यदि जिह्वायुतकोटयो मुखेषु ॥

कलिकलुषविदारिणीम् अतस् ताम्

इति कथयिष्यति यावदेन्द्र ते ।

अपि नरकगतान् पितॄन् अशेषान्

अलम् उद्धर्तुम् इहैव यः करोति ॥

इति श्रीपद्मपुराणे भीमद्वादशीव्रतम् ।

अथ भीमद्वादशीव्रतम् ।

कृष्ण उवाच ।

विदर्भादिपतिः श्रीमान् आसीत् पूज्यः सुधार्मिकः ।

[१०५०] दमयन्त्या पिता पुऋवं नलस्य श्वशुरो भुवि ॥

सत्यवदनशीलश् च प्रजापालनतत्परः ।

क्षात्रधर्मरतः श्रीमान् सङ्ग्रामेष्व् अपराजितः ॥

तस्यापि कुवतो राज्यं शास्त्रदृष्टेन कर्मणा ।

आजगाम महाभागः पुलस्त्यो ब्रह्मणः सुतः ॥

सर्वज्ञानविधिः श्रीमांस् तीर्थयात्राप्रसङ्गतः ।

तम् आयतम् अतो दृष्ट्वा ब्रह्मयोनिम् अकल्मषम् ॥

उत्थाय प्रददौ राजा स्वम् आसनम् अभीप्सितम् ।

अर्घैः पाद्यैश् च किञ्चित् तत् तस्मै प्रददेत् स्वयम् ॥

राज्यं चैवात्मना सार्धं निवेद्य स कृताञ्जलिः ।

तेन चैवाभ्यनुज्ञातो निससाद च आसनम् ॥

पप्रच्छ कुशलं प्रश्नं तपस्य् अध्ययने तथा ।

तथेति चोक्तः स मुनिस् तं राजानम् अभाषत ॥

पुलस्त्य उवाच ।

कथितं कुसलं राजन् कोशे जनपदे पुरे ।

धर्मे च ते मतिर् नित्यं तस्मात् पार्थिव वर्त्यते ॥

भीम उवाच ।

सर्वत्र कुशलं ब्रह्मन् येषां कुशलम् इच्छति ।

तवागमनतो नाहं प्रचितः सङ्गचारिणः ॥

एतं नो सर्वदा कृत्वा सम्भाष्ये ऽपि परस्परम् ।

रसान्तैः पूर्ववृत्तान्तैः कथाभिर् इतरेतरम् ॥

ततः कथान्ते राजेन्द्र पुलस्त्यो याति विस्मयम् ।

पप्रच्छ सर्वलोकस्य हिताय जगतः पतिः ॥

[१०५१] भगवन् प्राणिनः सर्वे संसारार्णवमध्यगाः ।

दृश्यन्ते विविधैर् दुःखैः पीड्यमानां दिवानिशम् ॥

नरके गर्भवासे च व्याधिभिर् जनपा तथा ।

तथाचेष्टवियोगादिदुःखैर् दौर्गत्यसम्भवैः ॥

बलापचयम् आपन्नान् परिपीडोपजीविनः ।

एवंविधान्य् अनेकानि दुःखानि मुनिपुङ्गव ॥

दैवान्य् एतानि तान्य् एव भृशम् मे व्यथितं मनः ।

तेषां दुःखानि भूतानां प्राणिनां भूमिम् आपदा ॥

उपकारकरं ब्रूहि ममानुग्रहकाम्यया ।

स्वल्पायासेन सुमहज् जायते सुमहत् फलम् ॥

पुलस्त्य उवाच ।

शृणु राजन् प्रवक्ष्यामि व्रतानाम् उत्तमं व्रतम् ।

याम् उपोष्य न दुःखानां भाजनं भजते जनः ॥

माघमासे सिते पक्षे द्वादशी पावना स्मृता ।

तस्यां जलार्द्रवसन उपोष्य सुखभाग् भवेत् ॥

भीम उवाच ।

कथं सा मुनिशार्दूल उपोष्या द्वादशी भवेत् ।

विधिना केन विप्रेन्द्र तन् मे ब्रूहि यथाक्रमम् ॥

पुलस्त्य उवाच ।

शृणु राजन् न् अवहितो व्रतं पापप्रणाशनम् ।

[१०५२] तव शुश्रूषणाद् वाच्यं मयाप्य् एतन् न संशयः ॥

अदीक्षिताय नो देया नाशिष्याय कदाचन ।

विष्णुभक्ताय शान्ताय धर्मनिष्ठाय चैव हि ॥

वाच्यम् एतन् महाराज भवतान्यस्य कस्यचित् ।

ब्रह्महा गुरुघाती च सोमस्त्रीघातकस् तथा ॥

कृतघ्नो मित्रध्रुक् चौरः क्षुद्रो भग्नव्रतस् तथा ।

मुच्यते पातकैः सर्वैर् व्रतेनानेन भूपते ॥

शुद्धे तिथौ मुहूर्त्ते च मण्डपं कारयेत् तथ ।

दशहस्तप्रमाणेन देशे पूर्वोत्तरप्लवे ॥

तन्मध्ये पञ्चहस्तां तु वेदिकां परिकल्पयेत् ।

शुक्लां सकर्दमां भूमिं वेदीं कृत्वा प्रयत्नतः ॥

विलिखेन् मण्डलं तत्र पञ्चवर्णविधानतः ।

ब्राःमणो वेदसम्पन्नो विष्णुभक्तो जितेन्द्रियः ॥

पञ्चविंशतितत्त्वज्ञः स्वाचाराभिरतस् तथा ।

कुण्डानि कल्पयेत् तत्र अष्टौ चत्वारि वा पुनः ॥

ब्राह्मणास् तेन युञ्जीत चातुश्चरणिकाः शुभाः ।

मध्ये च मण्डलस्याथ कर्णिकायां जनार्दनम् ॥

प्राङ्मुखं तु न्यसेद् देवं चतुर्बाहुम् अरिन्दम ।

पूजयेत विधानेन शास्त्रोक्तेन विचक्षणः ॥

गन्धपुष्पैस् तथा धूपैर् नैवेद्यैर् विविधैर् अपि ।

एवम् सम्पूज्य देवेशं ब्राह्मणैः सह देशिकः ॥

[१०५३] न्यसेत् स्तम्भद्वयं पश्चान् निम्बकाष्ठसमन्वितम् ।

देवस्याभिमुखं तत्र पीठस्योपरि कल्पयेत् ॥

षड्त्रिंशदङ्गुलं श्रेष्ठं चतुरस्रं समन्ततः ।

तत्र शिलां समालम्ब्य सुवृत्तं सुदृढं नवम् ॥

आरोपयेद् घटं तत्र यादृशं तु शृणुष्व मे ।

कलधौतं तथा रौप्यं ताम्रं वाप्य् अथ मृण्मयम् ॥

सर्वलक्षणसम्पूर्णं सुदृढं व्यङ्गवर्जितम् ।

तं सहस्रशतं कुर्याद् अधिद्रम् अथ वापि वा ॥

स्वकुलत्वानुरूपेण पार्श्वैकछिद्रम् एव वा ।

सन्निधाने ततः कुर्यात् सलिलं वस्त्रमातलम् ।

होमार्थं कल्पयेच् चापि पलाशाः समिधः शुभाः ॥

तिला घृतं तथा क्षीरं शमीपत्राणि चैव हि ।

वेद्याः पूर्वोत्तरे भागे ग्रहपीठं प्रकल्पयेत् ॥

तत्र पूज्या ग्रहाः सर्वे ग्रहयज्ञविधानतः ।

पूर्वस्यां दिशि शक्रस्य पूजां कुर्वीत यत्नतः ॥

दक्षिणस्यां यमस्याथ प्रतीच्यां वरुणस्य च ।

कुबेरस्य तथोदीच्यां बलिं कुर्यात् फलाक्षतैः ॥

एवं सम्भृत्य सम्भारं शुकाम्बरधरस् तथा ।

समलम्ब्य शुभैर् गन्धैर् दर्भपाणिर् अतन्द्रितः ॥

पीठम् आरोपयेयुस् ते यजमानं द्विजोत्तमाः ।

यजमानो ऽपि देवस्य सम्मुखः प्रयतः शुचिः ॥

उपविश्य पठन् मन्त्रं पुराणोक्तम् इदं शृणु ।

नमस् ते देवदेवस्य नमस् ते भुवनेश्वर ॥

[१०५४] व्रतेनानेन मान्त्राहि परमात्मा नमो ऽस्तु ते ।

तिलोदकस्य धारास् ताः प्रतिसन्ध्यासमन्वितः ॥

शिरसा धारयेत् तूष्णीं तद्घृतेनान्तरात्मना ।

होमं कुर्युस् ततो विप्रा दिक्षु सर्वासु तत्पराः ॥

पठेयुः शान्तिकाध्यायं विष्णुसञ्ज्ञानि यानि च ।

वादित्रैस् ताड्यमानैश् च शङ्खगेयस्वनैस् तथा ॥

पुण्याहं जयशब्दैश् च वेदध्वनिविमिश्रितैः ।

मङ्गलैः स्तुतिसंयुक्तैः कारयेत् तु महोत्सवम् ॥

देवदेवस्य चरितं केशवस्य महात्मनः ।

हरिवंशादिकं सर्वं श्रावयेद् ब्राह्मणो वरः ॥

सौवर्णिकम् अथाख्यानं भारताख्यानम् एव च ।

व्याख्यानकुशलः कश्चिच् छ्रावयेत् पुरतः स्थितः ॥

अनेन विधिनासाद्य तां रात्रीं प्रत्यवर्धिनीम् ।

यजमानो नयेद् धीमान् यावत् सूर्योदयो भवेत् ॥

ब्राह्मणाश् चापि तां रात्रिं सुकृतो जातवेदसम् ।

मन्त्रैस् तु वैष्णवैर् दिव्यैः क्षपेयुर् महीपते ॥

वासुदेवस्य शिरसो धारां तत्र प्रपातयेत् ।

क्षीरेणाज्येन वा राजन् सर्वसिद्धिप्रदायिनीम् ॥

ततः प्रभातसमये यजमानो द्विजैः सह ।

स्नानं कुर्यान् नृपश्रेष्ठ नद्यां सरसि वा पुनः ॥

अथ वा शक्तिहीनस् तु यजमानोष्णवारिणा ।

ततः शुक्लानि वस्त्राणि परिधाय यतव्रतः ॥

[१०५५] अर्घ्यं दत्वा भास्करस्य सविधानं प्रसन्नधीः ।

पुष्पैर् धूपैः सनैवेद्यैः पूजयेत् पुरुषोत्तमम् ॥

हुत्वा हुताशनं भक्त्या दत्वा पूर्णाहुतिं ततः ।

दक्षयेद् ब्राह्मणान् सर्वान् होतारो ये ऽत्र कल्पिताः ॥

शय्यालाजैश् च गोदानैर् वस्त्रैर् आभरणैस् तथा ।

आचार्यः पूजनीयो ऽत्र सर्वस्वेनापि भारत ॥

येन वा तुष्टिः स्याद् एव देवतुल्यो गुरुर् यतः ।

वित्तशक्तिविहीनस् तु भक्तिशक्तिसमन्वितः ॥

दीनानाथविशिष्टएभ्यो बन्दिनश् च समागताः ।

तेषाम् अन्नं हिरण्यं च दद्याच् छुद्धेन चेतसा ॥

एवं सम्पूज्य विप्राय भोजयित्वा यथेप्सितम् ।

यथाविभवसारेण पश्चाद् भुञ्जीत वाग्यतः ॥

हविष्यम् अन्नं यत्नेन न हविष्यातिलस् तथा ।

एष यज्ञो महाराजन् चोक्तो यस् ते प्रकीर्तितः ॥

यत् कृत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।

वाजपेयातिरात्राभ्यां याजयन्ति शतं समाः ॥

सर्वे ते विद्धि यागस्य कलां नार्हन्ति षोडशीम् ।

सप्तजन्मनि सौभाग्यम् आयुरारोग्यसम्पदः ॥

प्राप्नोति द्वादशीम् एतां याम् उपोष्य विधानतः ।

मृतो विष्णुपुरं याति विष्णुना सह मोदते ॥

चतुर्युगानि द्वात्रिंशद् विष्णुरूपधरस् तथा ।

रुद्रलोके तथा राजन् युगानि द्वादशैव तु ॥

[१०५६] ब्रह्मलोके तथा त्रीणि सूर्यलोके युगे तथा ।

पुण्यक्षयाद् इहाभ्येत्य राजा भवति धार्मिकः ॥

पृथिव्यधिपतिः श्रीमान् विजितारिः प्रतापवान् ।

व्रतम् एतत् पुरा चीर्णं सगरेण महात्मना ॥

अजेन धुन्धुमारेण दिलीपेन ययातिना ।

अन्यैश् च पृथिवीपक्षपालितैर् इह भूतले ॥

स्त्रीभिर् वैश्यैस् तथा शूद्रैः धर्मकामैः सदा नृप ।

भृग्वाद्यैर् मुनिसङ्घैश् च ब्राह्मणैर् वेदपारगैः ॥

त्वया च पृष्टेन मया कथितं तन् नराधिप ।

अद्यप्रभृति चैवेति ख्यातिं यास्यति भूतले ॥

भीमाख्या द्वादशी चेति कृतकृत्या नरा यतः ।

एषा पुलस्त्यमुनिना कथिता कुरुनन्दन ॥

यश् चैनां कथितां यत्नात् कुर्याद् वा भक्तिभावितः ।

सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥

दरिद्रेणापि वा पार्थ वित्तशाठ्यं विवर्जयेत् ।

विष्णुभक्तेन कर्तव्या संसारभयभीरुणा ॥

भीमेन या किल पुरा समुपोषितत्वाद्

रात्रौ गलत्स्थिरसुशीतलवारिधारा ।

तां द्वादशीं त्रिदशवेद्यमुखां स्मरेद् यः

सम्यक् समाचरति याति स विष्णुलोकम् ॥

इति भविषोत्तरोक्तं सोमद्वादशीव्रतम् ।

[१०५७]

नन्दिकेश्वर उवाच ।

शृणु राजन् प्रवक्ष्यामि विष्णोर् व्रतम् उत्तमम् ।

विभूतिद्वादशी नाम सर्वाभरणभूषिता ॥

कार्त्तिके वाथ वैशाखे मार्गशीर्षे ऽथ फाल्गुने ।

आषाढे वा दशम्यां तु शुक्लायां लघुभुङ् नरः ॥

कृत्वा सायन्तनीं सन्ध्यां गृह्णीयान् नियमं बुधः ।

एकादश्यां निराहारः समभ्यर्च्य जनार्धनम् ॥

द्वादश्यां द्विजसंयुक्तः करिष्ये भोजनं ततः ॥

तद् अविघ्नेन मे यातु साफल्यं मधुसूदन ॥

ततः प्रभाते चोत्थाय कृत्वा स्नानजपं शुचिः ।

पूजयेत् पुण्डरीकाक्षं शुक्लमाल्यनुलेपनैः ॥

विभूतिदे नमः पादौ विकोशायेति जानुनी ।

नमः शिवायेति चोरू कटिं वै विश्वरूपिणे ॥

कन्दर्पाय नमो मेढ्रम् आदित्याय नमः करौ ।

दामोदरायेत्य् उदरं वासुदेवाय च स्थनौ ॥

माधवायेत्य् उरो विष्णो कण्ठम् उत्कण्ठिने नमः ।

श्रीधराय मुखं केशान् केशवायेतिना रदः ॥

धृतशार्ङ्गधारायेति श्रवणे वरदाय वै ।

स्वनाम्ना शङ्हचक्रासि गदावरदपाणयः ॥

शिरः सर्वात्मने ब्रह्मन् नम इत्य् अभिपूजयेत् ।

मत्स्यम् उत्फुल्लसंयुक्तं हैमं कृत्वा तु शक्तितः ॥

उदकुम्भसमायुक्तम् अग्रतः स्थापयेद् विभोः ।

[१०५८] गुडपात्रं तिलैर् युक्तं सितवस्त्राभिवेष्टितम् ॥

रात्रौ च जागरं कुर्याद् इतिहासकथादिकम् ।

प्रभातायां तु शर्वर्यां ब्राह्मणाय कुटुम्बिने ॥

सकाञ्चनोत्पलं देवं सोदकुम्भं निवेदयेत् ।

यथा नामोच्यते विष्णो सदा सर्वविभूतिभिः ॥

तथा माम् उद्धराशेषदुःखसंसारकर्दमात् ।

दशावताररूपाणि प्रतिमासक्रमान् मुने ॥

दत्तात्रेयं तथा व्यासम् उत्पलएन समन्वितम् ।

प्रतिमासं तु कर्तव्या मूर्तयः काञ्चनेन वै ॥

काञ्चनस्यैव पद्मस्य संस्थाप्योपरि पूजयेत् ।

पुष्पधूपादिनैवेद्यैर् भक्ष्यभोज्यैः सदीपकैः ॥

वस्त्रैर् आभरणैश् चैव यथाविभवसारतः ।

रात्रौ जागरणं कुर्याद् गीतनृत्यादिभिर् नरैः ॥

ततः प्रभाते विमले कृतस्नानादिकक्रियः ।

उपदेष्ट्रे तु दातव्यं सर्वम् एतत् समाहृतम् ॥

प्रतिमासं पुराणज्ञैर् वेदवेदाङ्गपारगैः ।

ततः संवत्सरस्यान्ते विशेषं शक्तिपूर्वकम् ।

शक्तिपूर्वकं विभूतिपुरःसरम् ।

कृत्वा सम्पूज्य लवणपर्वतेन समन्वितम् ॥

लवणपर्वतदानविधिस् तु दानखण्डे विलोकनीयः ।

शय्यां सोपस्करां श्रेष्ठां गां चैवोपष्करान्विताम् ।

ग्रामं देशपतिर् दद्यात् क्षेत्रं ग्रामादिपस् तथा ॥

निवर्तनं क्षेत्रपतिर् बवनं च समृद्धिमत् ।

[१०५९] एवं विभवसारेण पूजयित्वेदृशं गुरुम् ॥

अन्यान् अपि यथाशक्त्या तर्पयित्वा द्विजोत्तमान् ।

वस्त्रान्नगोहिरण्यादिसत्त्वम् आस्थाय चोत्तमम् ॥

यत्र सत्त्वं तत्र हरिस् तोषम् आयात्य् असंशयम् ।

यश् चातिनिष्ठः पुरुषो भक्तिमान् माधवं प्रति ॥

पुष्पार्चनविधानेन स कुर्याद् वत्सरद्वयम् ॥

पद्मपुराणात् ।

शेषे गास् तु प्रदातव्या मध्यमे भूमिर् उत्तमा ।

कन्या सकाञ्चना देया हीत्य् एषा दक्षिणा स्मृता ॥

प्रथमं ब्रह्मदैवत्यं द्वितीयं वैष्णवं तथा ।

तृतीयं रुद्रदैवत्यं त्रयो देवाः त्रिषु स्थिताः ॥

मत्स्यपुराणात् ।

अनेन विधिना यस् तु विभूतिद्वादशीव्रतम् ।

कुर्यात् स पापनिर्मुक्तो गुरूणां तारयेच् छतम् ॥

सप्तजन्मान्य् असौ मर्त्यो विभूतिं प्राप्नुयात् परम् ।

रोगदौर्गत्यपापानां भाजनं नोपजायते ॥

भक्तिश् च यज्ञपुरुषे तस्य जन्मनि जन्मनि ।

प्राप्नुयाद् अच्य्तं स्थानम् अच्युतस्य प्रसादतः ॥

इयं चाखण्डिता कार्या विभूतिद्वादशी नरैः ।

सर्वपापोपशमनी फलम् ईदृक्प्रदायिनी ॥

[१०६०] इति कलुषविदारणं जनानां

पठति सदा शृणोति यश् च भक्त्या ।

मतिम् अपि च ददाति देवलोके

वसति चिरं च स पूज्यते ऽमरो ऽघैः ॥

इति मत्स्यपुराणोक्तं विभूतिद्वादशीव्रतम् ।

वज्र उवाच ।

द्वादशीषु कथं विष्णुः सोपवासेन पूजितः ।

राज्यप्रदः स्याद् धर्मज्ञ तन् मे त्वं ब्रूहि तत्त्वतः ॥

ब्रह्मचारी गृहस्थश् च वानप्रस्थो ऽप्य् अभिक्षुकः ।

राज्ञा संरक्षिताः सर्वे शक्नुवन्ति निषेवितुम् ॥

मानुषेण शरीरेण राजा देववपुर्धरः ।

क्षत्रियो ऽपि सतां पूज्यो ब्राह्मणानां महात्मनाम् ॥

विना राज्यं हि या लक्ष्मीः परतन्त्रा हि सा मता ।

तस्माद् राज्यं प्रशंसन्ति तत्राज्ञानं विहन्यते ॥

तुल्यधातुशरीराणां तुल्यावयवधारिणाम् ।

नरेन्द्राणां नरैर् ब्रह्मन् देववद् भुवि वर्तते ॥

राज्यदां द्वादशीं तस्माद् वक्तुम् अर्हति मे भवान् ।

याम् उपोष्य महद्राज्यं प्राप्तवान् स तु वै द्विज ॥

मर्कण्डेय उवाच ।

शृणुष्वावहितो राजन् द्वादशीं राज्यदां शिवाम् ।

[१०६१] याम् उपोष्य नरो लोके राज्यम् आप्नोत्य् अकण्टकम् ॥

मार्गशीर्षस्य मासस्य शुक्लपक्षे नराधिप ।

दशम्यां प्रयतः शुद्धः स्नानम् अभ्यङ्गपूर्वकम् ॥

हविष्यभुक् प्रशान्तात्मा दन्तधावनपूर्वकम् ।

उपवासस्य सङ्कल्पं श्वोभूतस्य तु कारयेत् ॥

देवाङ्गणे कुशस्तीर्णाम् एकवस्त्रोत्तरछदाम् ।

अध्यासीत महीं तत्र तां रात्रीं संयतो नयेत् ॥

द्वितीये ऽह्नि ततः कुर्याद् अद्भिः स्नानम् अतन्द्रितः ।

पूजनं चैव सर्वस्य सर्वमुक्तेन कारयेत् ॥

कर्पूरं चन्दनं देयं मल्लिका श्वेतयूथिका ।

जात्यश् च शुक्ला राजेन्द्र धूपं कुन्दुरुम् एव च ॥

घृतेन दीपा दातव्या शुक्लवर्तिसमन्विताः ।

घृतोदनं दधिक्षीरे परमान्नं तथैव च ॥

इक्षुम् इक्षुविकारं वा देवदेवे निवेदयेत् ।

कालोद्भवं मूलफलं पर्णं तत्र न चिन्तयेत् ॥

यथालाभेन तद् देयं शुक्लं वा स्याद् विशेषतः ।

हवनं च ततः कार्यं परमान्नेन पार्थिव ॥

तद् विष्णोः (?) परम् इत्य् एवं होममन्त्रो ऽभिधीयते ।

द्वादशाक्षरकं मन्त्रं स्त्रीशूद्रेषु विधीयते ॥

ततो ऽग्निहवनं कृत्वा शक्त्या सम्पूज्य च द्विजान् ।

[१०६२] सितरङ्गेण कर्तव्या भूमिशोभा सुरालये ॥

रात्रौ जागरणं कार्यं गीतं नृत्यं च पार्थिव ।

कर्मणा देवदेवस्य कर्तव्यं श्रवणं तथा ॥

द्वादश्यां विधिनैनेन पुनः पूज्यः सनातनः ।

राज्यलिङ्गं प्रदातव्यम् एकं विप्राय दक्षिणा ॥

ततश् च पश्चाद् भोक्तव्यं हविष्यं पार्थिवोत्तम ।

एकादशी यथा मध्ये स्नानयोर् वर्तते नृप ॥

तथा भोक्तव्यम् इत्य् शेषः । द्विवचनबलाद् एकभक्तस्नानम् अनुकृष्यते । अयम् अर्थः । एकादश्याम् अनागतायां यो मे विप्राय दक्षिणां तम् अभुक्तम् अतीतायां पारणम्, स्नानग्रहणं दूरतो वर्जनार्थम् ।

कार्त्स्न्यं मौनं च कर्तव्यं जप्यं कार्यं तु मानसम् ।

द्वादशीष्व् अथ शुक्लासु सर्वास्व् एव विशेषतः ॥

विधिस्तवायं (?) निर्दिष्टः कृष्णाष्व् एवं च कारयेत् ।

विशेषं तासु वक्ष्यामि तन् मे निगदतः शृणु ॥

रक्तवस्त्रेण कर्तव्या देवपूजा यथाविधि ।

रक्तं च देयं नैवेद्यं पुष्पगन्धानुलेपनम् ॥

तिलतैलेन दीपाश् च महारजतरञ्जिताः ।

दीएषु वर्त्तयो देया होमः कर्यस् तथा तिलैः ॥

भूमिशोभा च कर्तव्या रक्तैर् भूपाल वर्णकैः ।

अनेन विधिना पूज्य राजन् संवत्सरं प्रभुम् ॥

कार्त्तिक्यां समतीतायां कृष्णा या द्वादशी भवेत् ।

व्रतावसाने तस्यां तु महावर्त्तिं प्रदापयेत् ॥

[१०६३] वाससा च समग्रेण तुलया च घृतस्य च ।

ब्राह्मणाय च दातव्या धेनुः कांस्योपदोहना ॥

हेमशृङ्गैः खुरैर् रौप्यैर् मुकालाङ्गूलभूषिताः ।

वस्त्रोत्तरीया दातव्या शक्त्या द्रविणसंयुता ॥

संवत्सरेण राज स्यान् नरः पर्वतगह्वरे ।

त्रिभिः संवत्सरैः पुण्यैर् जायते मण्डलेश्वरः ॥

तथा द्वादशभिः पुण्यैः राजा भवति पार्थिवः ।

राज्यप्रदा ते ऽभिहिता मयैषा

स्याद् द्वादशी पापहरा वसिष्ठा ।

उपोघ्य यां भूमितले नरेन्द्रो

भवत्य् अज्येयस् तु रणे ऽरिसङ्घैः ॥

इति विष्णुधर्मोत्तरोक्तं राज्यद्वादशीव्रतम् ।

अम्बरीष उवाच ।

कथं सुनामभिर् देवो द्वादश्यां मुनिसत्तम ।

पूज्यते केशवा मर्त्ये मुक्तिमामफलार्थिभिः ॥

वसिष्ठ उवाच ।

शृणुष्वैकमना भूप सुनामद्वादशी शुभा ।

सर्वपापहरा स्वर्ग्या भुक्तिमुक्तिप्रदायिका ॥

मनसा च चिकीर्षन्ति द्वादशी ये नरोत्तमाः ।

ते ऽपि घोरं न पश्यन्ति पुनः संसारसागरम् ॥

[१०६४] आद्यं सर्वव्रतानां तु वैष्णवानां नृपोत्तम ।

नरैस् त्रिभिश् च कर्तव्यं विष्णोस् तुष्टिकरं परम् ॥

मार्गशीर्षे शुभे मासि शुक्लपक्षे यतव्रतः ।

प्रथमं चैव गृह्णीयाद् द्वादशी विधिवन् नरः ॥

मनोवाक्कायचेष्टाभिः सुविशुद्धो जितेन्द्रियः ।

दशम्यां नियतः स्नात्वा प्रणिपत्य जनार्दनम् ॥

हविष्यान्नकृताहारः शुचिर् भूत्वा भवेद् व्रती ।

उपतिप्ते शुचौ देशे बक्षयेद् दन्तदावनम् ॥

उपोष्यैकादशीं सम्यक् पूजयित्वा जनार्दनम् ।

सुनामद्वादशीं देव अहं भोक्ष्ये परे ऽहनि ॥

एवं सङ्कल्प्य नियमं प्रणम्य गरुडध्वजम् ।

दशम्याम् एकभक्ताशी संयतः संवसेन् निशाम् ॥

एकादश्यां ततः प्रातर् एकचित्तः समाहितः ।

पूर्वे सम्पूजयेत् सूर्यं ततो देवं प्रपूजयेत् ॥

देवं विष्णुम् ।

नमस् ते देवदेवेश नमस् ते भक्तवत्सल ।

भास्कराय नमस् तुभ्यं रवये त्वयि भानवे ॥

नमः सूर्याय देवाय नमस् ते सप्तसप्तये ।

एकस्मै हि नमस् तुभ्यम् एकवक्ररथाय च ॥

ज्योतिषां पतये नित्यं सर्वतेजोहराय च ।

दिवाकर नमस् ते ऽस्तु प्रभाकर नमो ऽस्तु ते ॥

एवं सम्पूज्य विधिवत् पुष्पधूपानुलेपनैः ।

[१०६५] दीपैर् वस्त्रैः सनैवेद्यैस् ततो विष्णुगृहं व्रजेत् ॥

अच्युतं चार्चयेद् भक्त्या मालतीकुसुमैर् भृशम् ।

गुग्गुलं घृतसंयुक्तं दीपं दद्याद् अहर् निशम् ॥

पायसापूपसंयावकरम्भादिकदम्बकैः ।

नैवेद्यं हरये दद्यात् फलमोदकफाणितैः ॥

गीतवाद्यैर् हरेर् इष्टैः प्रणमेच् च मुहुर् मुहुः ।

एवं पूजां हरेः कृत्वा द्विजं ज्ञानप्रदायकम् ॥

पूजयेद् अन्तरं नास्ति विप्रकेशवयोर् इव ।

ततो व्रतं समालभ्य चन्दनेन नवं घटम् ॥

स्रग्विणं तोयसम्पूर्णं न्यसेद् देवस्य सन्निधौ ।

सुनीलमौक्तिकाख्यं तु वज्रं रत्नसुवर्णकम् ॥

न्यस्तगर्भं सवस्त्रं तु पूजयेत् तत्र केशवम् ।

केशवमूर्तिस् तु दक्षिणाधोहस्ताद् आरभ्य प्रदक्षिणं पद्मशङ्खचक्रगदाधारिणी सा च स्वर्णमयी विधेया ।

यस्य रोचिस्थिता मेघाः सर्वे सविषपन्नगाः ॥

सागराः कुक्षिदेशस्थाः सोत्रासनजगत्पतिः ।

वनस्पतिरसो दिव्यः सर्वगन्धेषु चोत्तमः ॥

घृतेन सहसम्मिश्रः धूपो ऽयं प्रतिगृह्यताम् ।

केशवं केशिहा दुष्टकंसदैत्यनिषूदनः ॥

सर्वकामप्रदो देवः स मे पापं व्यापोहतु ।

एवम् अभ्यर्च्य देवेशं प्रणिपत्य क्षमापयेत् ॥

[१०६६] द्वादश्यां गन्धतोयेन स्नापयित्वेह माघवम् ।

सर्वपापविनिर्मुक्तो वैष्णवीं लभते तनुम् ॥

कृताभिषेकः पुण्यात्मा सम्यग् अभ्यर्च्य केशवम् ।

नवसूतां तथा धेनुं ब्राह्मणायोपपादयेत् ॥

केशवः प्रीयतां देवः केशिहन्ता महाद्युतिः ।

स च मे भगवान् प्रीत इष्टान् कामान् प्रयच्छतु ॥

एवं प्रदक्षिणं कृत्वा शृणु तस्यापि यत् फलम् ।

त्रिंशदब्दकृतं पापं हत्वा स त्रिविधं नरः ॥

षष्टिर् वर्षसहस्राणि स्वर्गे मोदति देववत् ।

यदा कालादिहायानि स धर्मधनवान् भवेत् ॥

अथ वा दशधेनूनां तन्मात्रं कल्पयेन् नरः ।

तत्फलं हि विनिर्दिष्टं यथाशक्त्या तु दक्षिणा ॥

विभक्त्या फलम् आप्नोति भक्तिर् एवात्र कारणम् ।

पौषे चैव तु मासे वा यश् चैवं कुरुते नरः ॥

समाहितमना भूप रसं नु विप्रदायकः ।

आपो नरा इति प्रोक्ता आपो वै नरसूनवः ॥

अयनं वर्तयेत् तस्मान् नारायण इति स्मृतः ।

नारायणः प्रीयतां मे देवो नरप्रियः सदा ॥

इष्टकामप्रदं नित्यं स मे पापं व्यपोहतु ।

ततः प्रदक्षिणं कृत्वा ब्राह्मणान् भोजयेत् ततः ॥

एवं हि यजमानस्य तस्य पुण्यफलं शृणु ।

[१०६७] षष्टिर्वर्षकृत्ं पापं स्वल्पं वा यदि वा बहु ॥

दत्वा स्वर्गम् अवाप्नोति वर्षाणाम् अयुतं शुभम् ।

माघस्यैव तु मासस्य द्वादशी शुक्लपक्षतः ॥

यः क्षपेद् धि शुचिर् भूत्वा एकचित्तः समाहितः ।

तपने पूजने नित्यं ब्राह्मणानां च तर्पणैः ॥

प्रदाने नृपशार्दूल इमं मन्त्रम् उदीरयेत् ।

महालक्ष्मीः पुरारेत्यी भगिनी शशिनो ऽनुजा ॥

धवस्त्वम् अपि तस्यास्तु सर्वकामद माधव ।

प्रीयतां देवदेवो मे मधुकैटभसूदनः ॥

कंसकेशिनिहन्ता च मम पापं व्यपोहतु ।

एवं यः कुरुते नूनं तस्य पुण्यफलं शृणु ॥

यावज्जन्मकृतं पापं हत्वा सर्वम् अशेषतः ।

दिव्यवर्षसहस्राणि स्वर्गं वसति षोडश ॥

गुडधेनुप्रदो माघे इहायातः सदा सुखी ।

भवेद् राजनिरातङ्कः सर्वैश्वर्यसमन्वितः ॥

तत्र विष्णुपरो भूत्वा क्रमान् मोक्षम् अवाप्नुयात् ।

फाल्गुनामलपक्षस्य दशम्यां नियतः शुचिः ॥

पूजयित्वा विधानेन गन्धपुष्पादिना हरिम् ।

तिलधेनुं ततो दद्याद् वृषं चापि सुभक्तितः ॥

मन्त्रेणानेन राजेन्द्र गोविन्दः प्रीयताम् इति ।

गवां भक्तो ऽसि गोस्वामी गोवासो गोकृतालयः ॥

सर्वकामप्रदो नित्यं स मे पापं व्यपोहतु ।

ततः प्रदक्षिणं कृत्वा शृणु पुण्यं यथातथम् ॥

[१०६८] बलीवर्दसहस्राणां दशानां धुरवाहिनी ।

न तैस् तत् फलम् आप्नोति द्वादश्यां यद् भवेन् नृप ॥

दिव्यवर्षसहस्राणि स्वर्गं तिष्ठति स्वर्गिवत् ।

चैत्रस्य द्वादशी शुक्ला समुपोष्या नृपोत्तम ॥

स्नात्वा सम्पूजयेद् विष्णुं जगतान्तरचारिणम् ।

पूर्वोक्तविधिवत् स्नात्वा गोमूत्रैर् गोमयेन वा ॥

स्नापयित्वामृतेनैव पञ्चानां गव्यसंयुतैः ।

जलैः पश्चात् तु पूज्यैवं गन्धधूपविलेपनैः ॥

पुष्यवासोभिर् एवं हि मन्त्रेणानेन बुद्धिमान् ।

प्रवेशनो सदाशीलो भगवान् रक्षणाय च ॥

दुर्वृत्तांश् (?) च विनिर्जेतुं मासि विष्णुरतो हरेः ।

विष्णुर् भवतु मे प्रीतो विष्णुर् देवः सनातनः ॥

सर्वपापविनाशाय विष्णुर् मे प्रीयताम् इति ।

मधुधेनुम् अभावाच् च शक्तितः पात्रम् एव च ॥

दत्वा यत् फलम् आप्नोति तद् इहैकमनाः शृणु ।

सर्वजन्मनि यत् पापम् इह जन्मनि साम्प्रतम् ॥

वर्तते सकलं हत्वा स्वर्गलोके महीयए ।

वैशाखस्य तु मासस्य पूजयेन् मधुसूदनम् ॥

पूर्वोक्तविधिना राजन् सौवर्णं मधुसूदनम् ।

जलकुम्भेन संस्थाप्य मन्त्रेणानेन पूजयेत् ॥

एकार्णवे जले धातर् हता वेदाः पुरा हरे ।

मधुनामा हतः सो ऽपि तेनानु मधुसूदनः ॥

[१०६९] स मे भवतु सुप्रीतो देवदेवः सनातनः ।

सर्वपापापनोदाय प्रीयतां मधुसूदनः ॥

घृतम् अन्नम् अथो दत्वा ब्राह्मणान् भोजयेत् ततः ।

ततः प्रदक्षिणं कृत्वा दत्वा देयां तथैव गाम् ॥

एवं तु रक्षमाणस्य तस्य पुण्यम् अतः शृणु ।

कपिलायाः सहस्रस्य सम्यक् दत्तस्य यत् फलम् ।

तत् फलं समवाप्नोति भक्तियुक्तो न संशयः ॥

यावद् इन्द्रो वसेत् स्वर्गे तावद् एव स तिष्ठति ।

ज्यैष्ठस्यैव तु मासस्य शुक्लपक्षे तु द्वादशीम् ॥

पूजयेद् विधिवद् भक्त्या समुपोष्य त्रिविक्रमम् ।

जलधेनुम् अथो दद्याद् विप्राय नियतः शुचिः ॥

यज्ञभागभुजो दैत्यान् सन्निहत्य क्रमैस् त्रिभिः ।

त्रैलोकय्म् आहतं तस्मात् तेनासि त्वं त्रिविकर्मः ॥

त्रिविक्रमं त्रिलोकेशं प्रीणयामि त्रिविक्रमम् ।

ततः प्रदक्षिणं कृत्वा बाह्मणेभ्यश् च दक्षिणाम् ॥

दत्वा तु भोजयेत् तांस् तु शृणु तस्यापि यत् फलम् ।

वाजपेयस्य यज्ञस्य सम्यग् इष्टस्य पार्थिव ॥

तत् फलं लभते मर्त्यो परत्रैव सुखी भवेत् ।

वामनं तु यथाषाढे समुपोष्य प्रयत्नतः ॥

द्वादश्यां नियमाहारो वामनं तत्र पूजयेत् ।

हिताय सर्वदेवानाम् आदित्यः कामदो यथा ॥

तथा त्वं भव मे देव वामनो बलिबन्धनः ।

[१०७०] तिलधेनुं ततो दद्याद् वामनः प्रीयताम् इति ॥

इन्द्रस्थानाच् च सरसस् तथा पर्वतमस्तकान् ।

एताभिः स्नाप्य देवेशं दद्याद् गोरोचनां शुभाम् ॥

ततस् तु कलशा देया यथावत् समलङ्कृताः ।

जातीपल्लवसंयुक्ताः सफलाश् च सकाञ्चनाः ॥

पुण्याहवेदशब्देन वीणावेणुरवेण च ।

शब्देन मधुरेणैव सूतमागधबन्दिनां ॥

एवं संस्थाप्य गोविन्दं स्वनुलिप्तं स्वलङ्कृतम् ।

सुवासः (?) सम्पूजयेत् तं सुमनोभिश् च कुङ्कुमैः ॥

धूपैर् दीपैर् मनोज्ञैश् च पायसेन तु भूरिणा ।

मात्रारत्नप्रदानैश् च होमैः पुण्यैः सदक्षिणैः ॥

वासोभिर् भूषणैर् हृद्यैर् गोभिर् अश्वगजैर् अपि ।

ब्राह्मणाः पूजनीयाश् च विष्णोर् आद्याः सुमूर्तयः ॥

विष्णो रात्रौ प्रसुप्तस्य दामोदरगतस्य च ।

ब्रह्माण्डस्य सुतो ऽसि त्वं दामोदर इति स्मृतः ॥

दामोदर इमां धेनुं गृह्णातु स्वयम् एव हि ।

द्विजरूपेण ते विष्णो प्रकृत्येषा सनातनी ॥

इत्य् एवं पृथिवीदानात् फलं प्राप्नोति मानवः ।

सुवर्णस्य महाधेनुं दत्वा वरं नृपोत्तम ॥

हत्वा पापान्य् अशेषाणि शतजन्मान्तराणि वै ।

वैष्णवं लोकम् आप्नोति यावद् इन्द्राश् चतुर्दश ॥

सम्यग् अत्र व्रते चीर्णे सप्तजन्मानुगं फलम् ।

ददाति भगवान् विष्णुः क्रमात् मोक्षं नरेश्वर ॥

[१०७१] ब्राह्मणान् भोजयेद् भक्त्या भक्ष्यैस् तूच्चावचैर् अपि ।

ततः प्रदक्षिणं कृत्वा यथाशक्त्या च दक्षिणाम् ॥

कलशान् द्वादशांश् चैव ब्राह्मणेभ्यः प्रदापयेत् ।

वज्रेण वेष्टते ग्रीवान् होमगर्भोपशोभितान् ॥

दधिक्षीरयुतांश् चैव सगुणान नृप भूरिशः ।

शक्तिर् यथा तथा दद्याद् भक्तिर् एवात्र कारणम् ॥

प्रसङ्गे नापि यो राजन् सुनामद्वादशीं नरः ।

करोति पुण्यभागी स यथा दद्याद् भवेद् बलिः ॥

एवं यः कुरुते राजन् सुनामद्वादशीं नरः ।

राजसूयस्य यज्ञस्य फलं समधिकं भवेत् ॥

सर्वदानेषु यत् पुण्यं यच् च पुण्यं तपोवने ।

सर्वतीर्थेषु यत् पुण्यं तत् पुण्यं समुदाहृतम् ॥

गावो द्वादश् दातव्या वस्त्रयुग्मानि काञ्चनम् ।

अलाभाच् चैव गाम् एकां पात्रं च स्वर्णसंयुतम् ॥

समासेनाथ वाप्य् एवं चञ्चलं जीवितं ततः ।

बहुविघानि धर्मस्य कर्तुः छिद्रं न जायते ॥

एतज् ज्ञात्वा तु मेधावी व्रते युग्मेन यत्नतः ।

न तस्य वित्तलोभो ऽस्तु भक्तिग्राह्यो ऽस्ति केशवः ॥

अनेन विधिना यस् तु द्वादशीं परिवत्सरम् ।

कृत्वा नरः परं याति विष्णुलोकम् अनामयम् ॥

सुनामद्वादशी चैषा व्रतानाम् उत्तमं व्रतम् ।

आद्या नरैस् तु कर्तव्या तोषयद्भिर् जनार्दनम् ॥

यश् चैमां कीर्तयेत् पुण्यां शृणुयाद् द्वादशीं नरः ।

[१०७२] ताव् उभौ गच्छतः स्वर्गं कर्ता विणूपुरं व्रजेत् ॥

इति वह्निपुराणोक्तं सुनामद्वादशीव्रतम् ।

पुलस्त्य उवाच ।

फाल्गुनामलपक्षस्य एकादश्याम् उपोषितः ।

नरो वा यद् वा नारी समभ्यर्च्य जगत्पतिम् ॥

हरेर् नाम जपन् भक्त्या सप्तवारान् जनेश्वर ।

उत्तिष्ठन् प्रस्वपंश् चैव हरिम् एवाशु कीर्तयेत् ॥

अतः प्रभाते विमले द्वादश्यां नियतो हरिम् ।

स्नात्वा सम्यक् समभ्यर्च्य दत्वा विप्राय दक्षिणाम् ॥

हरिम् उद्दिश्य चैवाग्नौ घृतहोमं समाचरेत् ।

प्रणिपत्य जगन्नाथम् इति वाणिम् उदीरयेत् ॥

पातालसंस्था वसुधा प्रदाद्य च मनोरथान् ।

अवाप वासुदेवो मे स ददातु मनोरथान् ॥

यम् अभ्यर्च्य दिति (?) प्राप्ता सकलांश् च मनोरथान् ।

भ्रष्टराज्यश् च देवेन्द्रो यम् अभ्यर्च्य जगत्पतिम् ॥

मनोरथान् अवाप्याशु स ददातु मनोरथान् ।

एवम् अभ्यर्च्य पूजां च निष्पाद्य हरते ततः ॥

सम्भोज्य तिथिभृत्यांश् च हविष्यान्नेन वागयतः ।

स्वयं भुञ्जीत च नरो हरिं ध्यात्वा विमत्सरः ॥

फाल्गुनश् चैत्रवैशाखौ ज्यैष्ठमासश् च पार्थिव ।

चतुर्भिः पारणं मासैर् एभिर् निष्पादितं भवेत् ॥

रक्तपुष्पैश् च चतुरो मासान् कुर्वीत वार्चनम् ।

[१०७३] दहेच् च गुग्गुलं प्रास्य गोशृङ्गक्षालनं (?) परम् ॥

हविष्यान्नं च नैवेद्यम् आत्मनश् चापि भोजनम् ।

तद् अस्तु श्रूयताम् अन्या आषाढादिषु वा क्रिया ॥

जातीपुष्पाणि धूपश् च शस्तः सर्जरसेन तु ।

प्राश्य दर्भोदकं चात्र शाल्यन्नं च निवेदयेत् ॥

स्वयम् एव तद् अश्नीयाच् छेषं पूर्ववद् आचरेत् ।

कार्त्तिकादिषु मासेषु गोमूत्रं कायशोधनम् ॥

सुगन्धं स्वेच्छया धूपं पूजां भृङ्गारकेण च ।

भृङ्गारको माकन्दः ।

कासारं वात्र नैवेद्यं भुञ्जीयात् तच् च वै स्वयम् ।

प्रतिमासं च विप्राय दातव्या दक्षिणा तथा ॥

प्रीणनं देवदेवस्य पारणे पारणे गते ।

यथाशक्त्या च कुर्वीत वित्तशाठ्यविवर्जितः (?) ॥

सद्भावेनैव गोविन्दः प्रीतिम् आप्नोत्य् अनुत्तमाम् ।

अतो ऽर्थं पारणस्यान्ते प्रीणनीयो जनार्दनः ॥

प्रीणीतश् चेप्सितान् कामान् ददात्य् अव्याहतान् भुवि ।

वर्षान्ते प्रतिमां विष्णोः कारयित्वा सुशोभनाम् ॥

सुवर्णं न यथाशक्त्या गदा शङ्खासि भूषिताम् ।

शुक्लवस्त्रयुगच्छन्नां ब्राह्मणाय निवेदयेत् ॥

द्वादश् ब्राह्मणांस् तत्र भोजयित्वा क्षमापयेत् ।

[१०७४] द्वादशात्र प्रदातव्याः कुम्भाः सान्नजलाक्षताः ॥

छत्रोपानद्युगैः सार्धं दक्षिणाभिश् च सत्तम ।

गाश् चैवात्र प्रदातव्या गुरवे च पयस्विनीः ॥

सर्वोपस्करसंयुक्ताः सवत्साः शीलसंयुताः ।

एषा पुण्या पापहरा द्वादशी फलम् इच्छताम् ॥

यथाभिलषितान् कामान् ददाति नृपसत्तम ।

पूरयित्वाखिलान् भक्त्या यतश् चैषा मनोरथान् ॥

मनोरथा द्वादशीयन्ततो लोके विश्रुता ।

उपोष्यैतां त्रिभुवनं प्राप्तम् इन्द्रेण वै पुरा ॥

आदित्या वेप्सितान् पुत्रान् धनम् औशनसा तथा ।

धौम्येनाध्ययनं प्राप्तम् अन्यैश् चाभिमतं फलम् ॥

अपुत्रो लभते पुत्रान् निर्धनो धनम् आप्नुयात् ।

रोगाभिभूतश् चारोग्यं कन्या प्राप्नोति सत्पतिम् ॥

समागमः प्रवसितैर् उपोष्यैतद् अवाप्यते ।

सर्वकामान् अवाप्नोति मृतः स्वर्गं च मोदते ॥

नापुत्रो नापि निधनो वियुक्तो न च निर्गुणः ।

उपोष्यैतद् व्रतं मर्त्यः स्त्रीजितो वापि जायते ॥

स्वर्गलोकं सहस्राणि वर्षाणां मनुजाधिप ।

भोगान् अभिमतान् भुक्त्वा स्वर्गलोके ऽभिकाङ्क्षितान् ॥

इह पुण्यवतां नॄणां धनिनां साधुशीलिनाम् ।

गृहेषु जायते राजा सर्वव्याधिविवर्जितः ॥

न द्वादशीम् उपवसन्ति मनोरथाख्यां

नैवार्चयन्ति पुरुषोत्तमम् आदिदेवम् ।

[१०७५] गोब्राह्मणांश् च न नमन्ति न पूजयन्ति

ये ते मनोऽभिलषितं कथम् आप्नुवन्ति ॥

इति श्रीपद्मपुराणोक्तं मनोरथद्वादशीव्रतम् ।

भीष्म उवाच ।

किम् अभीष्टवियोगशोकसङ्घान्

अलम् उद्धर्तुम् उपोषणं व्रतं वा ।

विभवोद्भवकारि भूतले ऽस्मिन्

भवभीतेर् अपि सूदनं च पुंसाम् ॥

पुलस्त्य उवाच ।

परम् इष्टम् इदं जगत् प्रियन्ते

विबुधानाम् अपि दुर्लभं महत्वात् ।

तव भक्तिमतस् तथा च वक्ष्ये

व्रतम् इन्द्रादिसुरदानवेषु गुह्यम् ॥

पुण्ये वाश्वयुजे मासि विशोकद्वादशीव्रतम् ।

यच् चीर्त्वा शोकदौर्गत्यभाजनं न नरो भवेत् ॥

दशम्यां लघुभुक् रात्रौ कृत्वा वै दन्तधावनम् ।

उदङ्मुखो प्राङ्मुखो वा वाक्यम् एतद् उदीरयेत् ॥

एकादश्यां निराहारः समभ्यर्च्य च केशवम् ।

श्रियं च जगतां भूतिं भोक्ष्यामीत्य् अपरे ऽहनि ॥

एवं नियमम् आख्याय सुप्ता रात्रौ जितेन्द्रियः ।

प्रभाते विमले गत्वा मध्याह्ने तु जलाशयम् ॥

[१०७६] स्नानं सर्वौषधैः कुर्यात् पञ्चगव्यजलेन च ।

शुक्लमाल्याम्बरधरः समभ्येत्य गृहं ततः ॥

पूजयेज् जगतां नाथं लक्ष्मीदयितम् उत्पलैः ।

केशवाय जानुनी तद्वद् ऊरू च जलशायिने ।

कन्दर्पाय नमो गुह्यं माधवाय नमः कटिम् ॥

दामोदरायेत्य् उदरं पार्श्वे च विपुलाय वै ।

नाभिं च पद्मनाभाय हृदयं मन्मथाय च ॥

श्रीधराय विभोर् वक्षः करौ तु मधुघातिने ।

चक्षिणे (?) वामबाहुं च दक्षिणं गदिने नमः ॥

नासां शोकविनाशाय वासुदेवाय चाक्षिणी ।

ललाटं वामनायेति हरये च पुनर् भ्रुवौ ॥

अलकान् साधनायेति करीटं विश्वरूपिणे ।

नमः सर्वात्मने तुभ्यं सर्वाङ्गान्य् अभिपूजयेत् ॥

एवं सम्पूज्य गोविन्दं गन्धमाल्यानुलेपनैः ।

तद् असु मण्डपस्याग्रे स्थण्डिलं कारयेन् मृदा ॥

चतुरस्रं समन्ताच् च त्रिरत्निमात्रम् उच्छ्रयम् (?) ।

सूक्ष्मं हृद्यं च पुरतो वप्रद्वयसमावृतम् ॥

वप्रप्रकारः ।

त्रिर् अङ्गुलोच्छ्रितं वप्रं तद्विस्तारो द्विरङ्गुलः ।

स्थण्डिलस्योपरिष्टात् तु भित्तिर् अष्टाङ्गुला भवेत् ॥

[१०७७] नदी वालुकया शूर्पे लक्ष्म्याः प्रतिकृतिं न्यसेत् ।

स्थण्डिले शूर्पम् आरोप्य लक्ष्मीम् इत्य् अर्चयेद् बुधः ॥

नमो देव्यै नमः शान्त्यै नमस् तस्यै नमः श्रिये ।

नमस् तुष्ट्यै नमः पुष्ट्यै सृष्ट्यै वृष्ट्यै नमो नमः ॥

विशोका दुःखनाशाय विशोका वरदास्तु ते ।

विशोका मे ऽस्तु सन्तत्यै विशोका सर्वसिद्धये ॥

शुकाम्बरधरः सूर्यं वेष्ट्य सम्पूजयेत् फलैः ।

भक्ष्यैर् नानाविधैस् तद्वत् सौवर्णे कमलेन च ॥

यथा विभवतो भीष्म वित्तशाठ्यविवर्जितः ।

दर्भोदकं प्रशंसन्ति रात्राव् अस्मिन् व्रते सदा ॥

प्राशनं जागरं चैव गीतनृत्यादिभिस् तथा ।

यामत्रये व्यतीते तु सर्वोपस्करसंयुतः ॥

अभिगम्य च विप्राणां मुथुनानि समर्चयेत् ।

शक्तितस् त्रीणि चैकं वा वस्त्रमाल्यानुलेपनैः ॥

शयनस्थानि पूज्यानि नमो ऽस्तु जलशायिने ।

ततस् तु गीतवाद्यादि निशाशेषे विवर्जयेत् ॥

प्रभाते कृतकृत्यस् तु दम्पत्यानि च भोजयेत् ।

यथाशक्त्या कुरुश्रेष्ठ ततो भुञ्जीत वाग्यतः ॥

दिवास्वप्नं परान्नं च पुनर्भोजनं (?) मैथुनम् ।

क्षौद्र्ं तैलामिषं चैव द्वादश्यां सप्त वर्जयेत् ॥

अतो ऽर्थं पारणाद् ऊर्ध्वं पुराणश्रवनादिभिः ।

सिद्धिनादैस् तथा चान्यैस् तद् दिनं चातिवाहयेत् ॥

अनेन विधिना सर्वं मासि मासि समाचरेत् ।

[१०७८] व्रतान्ते शयनं दद्याद् गुडधेनुसमन्वितम् ॥

सोपधानकविश्रामं सवस्त्राभरणं शुभम् ।

मन्त्रेणानेन राजेन्द्र विप्रेन्द्राय निवेदयेत् ॥

यथा लक्ष्मीर् न देवेश त्वां परित्यज्य तिष्ठति ।

तथारोग्यं च रूपं च विशोकं वास्तु मे सदा ॥

यथा देवेन रहिता न लक्ष्मीर् जातु जायते ।

तथा विशोकता मे ऽस्तु भक्तिर् अग्र्या च केशवे ॥

विधिनानेन तत् सर्वं शूर्पं सकलं तथा ।

दातव्यं वेदविदुषे आत्मनो भूतिम् इच्छता ॥

उत्पलं करवीरं च अम्लानकुसुमं तथा ।

भृङ्गारं सिन्धुवारं च मल्लिकागन्धपाटलम् ॥

कदम्बकुमुदं जाती शस्तान्य् एतानि पूजयेत् ।

विशोकद्वादशी चैषा सर्वपापप्रणाशिनी ॥

याम् उपोष्य नरो भक्त्या शुभसौभाग्यभाग् भवेत् ।

भुक्त्वा कामान् अशेषांस् तु अन्ते स्मरणम् आप्नुयात् ॥

स्मृत्वाच्युतं ह्य् अन्तकाले याति तत्समम् अन्ततः ।

इति पठति य इत्थं यः शृणोतीह सम्यक्

मधुमुरनरकारेर् अर्चनं चापि पश्येत् ।

मतिम् अपि कुरुते यो देवतास्व् इन्द्रलोके

वसति च ससुराद्यैः पूज्यमानः सदैव ॥

इति पद्मपुराणोक्तं द्वादशीव्रतम् ।

[१०७९]

दाल्भ्य उवाच ।

अतीव भीषणा नित्यं शस्त्राग्निभयदाक्षर ।

कथं न गच्छेन् नरकान् एतन् मे वक्तुम् अर्हति ॥

अहो ऽतिकष्टं पापानां विपाको नरकस्थितिः ।

पुरुषैर् भुज्यते ब्रह्मन् तन् मोक्षं वद सत्तम ॥

पुलस्त्य उवाच ।

पुण्यस्य कर्मणः पाकः पुण्य एव द्विजोत्तम ।

चेतसः परिणायार्थं स्वर्गस्थैर् भुज्यते नरैः ॥

तथैव पाकः पापानां पुरुषैर् नरकस्थितैः ।

भुज्यते तावद् अखिलो यावत् पापं क्षयं व्रजेत् ॥

यथेयं द्वादशी शस्ता नृणां सुकृतकर्मणाम् ।

याम् उपोष्य द्विजश्रेष्ठ न याति नरकं नरः ॥

फाल्गुनामलपक्षस्य एकादश्याम् उपोषितः ।

द्वादश्यां च द्विजश्रेष्ठ पूजयेन् मधुसूदनम् ॥

एकादश्यां समुत्थिष्टन् (?) विष्णोर् नामानुकीर्तनम् ।

पूजायां वासुदेवस्य कुर्वीत सुसमाहितः ॥

नमो नारायणायेति वाक्यं वाक्यम् अहर्निशम् ।

क्रोधं पापं तथेर्ष्यां च दम्भलोभं च वर्जयेत् ॥

कामक्रोधं मदं वापि मानम् ऐश्वर्यम् एव च ।

सर्वम् एतत् परित्याज्यं विष्णुभक्तेन चेतसा ॥

असारतां च लोके ऽस्मिन् संसारे भावयन्न् इति ।

तथैव कुर्याद् द्वादश्यां नाम्नाम् उच्चारणं द्विज ॥

भविष्योत्तरात् ।

[१०८०]

सौवर्णताम्रपात्राणि मृण्मयान्य् अपि पाण्डव ।

यवपात्रस्थानि कृत्वा प्रतिमासम् उपोषितः ॥

नामत्रयम् अशेषेण मासि मासि दिनद्वयम् ।

तथैवोच्चारयेद् अद्याद् (?) द्वादश्यां च यथोदितम् ॥

प्रणम्य च हृषीकेशं कृत्वा पूजां प्रसादयेत् ।

विष्णो नमस् ते जगतः प्रसूते श्रीवासुदेवाय नमो ऽस्तु ते ॥

नारायणो ऽस्तु धर्मा (?) मे जहि पापम् अशेषतः ।

सर्वपापक्षयो मे ऽस्तु महासुकृतकर्मभिः ॥

अनेकजन्मजनितं बाल्ययौवनवार्द्धके ।

पुण्यं विवृद्धिम् आयातु पापं च सङ्क्षयं व्रजेत् ॥

तत्शान्तिवृद्धिम् आयातु पापानां पञ्चक्षयम् ।

आकाशादिषु शब्दादौ श्रोत्रादिमहदादिषु ॥

प्रकृतिपुरुषौ चैव ब्रह्मसम्प्राप्तिम् आप्नुते ।

यथैक एव सर्वात्मा वासुदेवो व्यवस्थितः ॥

तेन सत्येन मे पापं नरकार्तिप्रदक्षयम् ।

प्रयातु सुकृतस्यास्तु मम तु दिनसञ्चयम् (?) ॥

पापस्य हानिं पुण्यं तु वृद्धिम् अभ्येत्व् अनुत्तमाम् ।

एवम् उच्चार्य विप्राय दत्वा वा कथितं तव ॥

भुञ्जीत कृतकृत्यस् तु पारणे पारणे गते ।

पारणान्ते च देवस्य प्रीणतां शक्तितो द्विज ॥

कुर्वीताखिलपाषण्डैर् आलापं च विवर्जयेत् ।

एवं संवत्सरस्यान्ते काञ्चनीं प्रतिमां हरेः ॥

पूजयित्वा वस्त्रपुष्पघृतपात्रेण संयुताम् ।

[१०८१] गां सवत्सां च विप्राय दद्यात् कृष्णां समाहितः ॥

विलम्बितं च यत् पूर्वं दैवात् पात्रं भवेद् यदि ।

तस्मिन्न् अहनि दातव्यं भोजनं चानिवारितम् ॥

इत्य् एषा कथिता दाल्भ्य सुकृतस्य जयावहाः ।

द्वादशी नरकं मर्त्यो याम् उपोष्य न पश्यति ॥

नाग्नयो न च शस्त्राणि न च लोहमुखाः खगाः ।

नरकास् तं न बाधन्ते मतिर् यस्य जनार्दने ॥

नामोच्चारणमात्रेण विष्णोः क्षीणाघसञ्चयः ।

भवत्य् अपास्तपापस्य नरके गमनं कुतः ॥

नमो नारायनायेह वासुदेवेति कीर्तयेत् ।

न याति नरकं मर्त्यः सङ्क्षीणाशेषपातकः ॥

तस्मात् पाषण्डिसंसर्गम् अकुर्वन् द्वादशीम् इमाम् ।

उपोष्य पुण्योपचयीं न याति नरकं नरः ॥

इति विष्णुधर्मोक्तं सुकृतद्वादशीव्रतम् ।

पुलस्त्य उवाच ।

एकादश्यां शुक्लपक्षे फाल्गुने मासि यो नरः ।

जपन् कृष्णेति देवस्य नाम भक्त्या पुनः पुनः ॥

देवार्चनं वाष्टशतं कृत्वैतत् तु जपेच् छुचिः ।

स्नानप्रस्थानकाले च उत्थाने स्खलिते क्षये ॥

पाशण्डान् पतितांश् चैव तथैवान्त्यावसायिनः ।

नालपेत् तु तथा देवम् अर्चयेच् छ्रद्धयान्वितः ॥

इदं चोदाहरेन् मन्त्रं मनश् चाधाय तत्परः ।

[१०८२] कृष्ण कृष्ण कृपालस् त्वम् अगतीनां गतिर् भव ॥

संसारार्णवमग्नानां प्रसीद मधुसूदन ।

एवं प्रसाद्योपवासं कृत्वा नियतमानसः ॥

पूर्वाह्ण एव चान्येद्युर् गवां सम्प्राश्य वै सकृत् ।

स्नातो ऽर्चयित्वा कृष्णेति पुनर् नाम प्रकीर्तयेत् ॥

वारिधारात्रयं चैव विक्षिपेद् देवपादयोः ।

चैत्रवैशाखयोश् चैवं तद्वज् जैष्ठे च पूजयेत् ॥

मर्त्यलोके गतिं श्रेष्ठां दाल्भ्य प्राप्नोति वै नरः ।

उत्क्रान्तिकाले कृष्णस्य स्मरणं च तथाप्नुयात् ॥

आषाढे श्रावणे चैव मासि भाद्रपदे तथा ।

तथैवाश्वयुजे देवम् अनेन विधिना नरः ॥

उपोष्य सम्पूज्य तथा केशवेति च कीर्तयेत् ।

गोमूत्रप्राशनात् पूतः स्वर्गलोके महीयते ॥

आराधितस्य जगताम् ईश्वरस्य महात्मनः ।

उत्क्रान्तिकाले स्मरणं केशवस्य तथाप्नुयात् ॥

क्षीरस्य प्राशनं श्रेष्ठं विधिनेदं यथोदितम् ।

कार्त्तिकादि यथान्यायं कुर्यान् मासचतुष्टयम् ॥

तेनैव विधिना ब्रह्मन् तत्र विष्णुं प्रकीर्तयेत् ।

स याति विष्णुसालोक्यं विष्णुं स्मरति तत्क्षये ॥

प्रतिमासं द्विजातिभ्यो दद्याद् दानं यथेच्छया ।

चातुर्मास्ये च सम्पूर्णे पुण्यश्रवणकीर्तनम् ॥

कथां च वासुदेवस्य तद्गीतं वापि कारयेत् ।

एवम् एव गतिं श्रेष्ठां देवानाम् अनुकीर्तनात् ॥

[१०८३] कथितं पारणं यत् ते कुर्यान् मासचतुष्टयम् ।

आधिपत्यं तेन भोगान् दिव्यम् आप्नोति मानवः ॥

द्वितीयेन तथा भोगान् ऐन्द्रान् प्राप्नोति मानवः ।

विष्णुलोके तृतीयेन पारणं तु तथाप्नुयात् ॥

एवम् एतत् समाख्यातं गतिप्रापकम् उत्तमम् ।

विधानं द्विजशार्दूल कृष्णतुष्टिप्रदं नृणाम् ॥

सुगतिद्वादशीम् एतां श्रद्दधानश् च यो नरः ।

उपोष्यति तथा नारी प्राप्नोति त्रिविधां गतिम् ॥

एषा धन्या पापहरा तथिर् नित्यम् उपासिता ।

आराधनाय शस्तेषा देवदेवस्य चक्रिणः ॥

इति विष्णुधर्मोक्तं सुगतिद्वादशीव्रतम् ।

युधिष्ठिर उवाच ।

ऋणैस् त्रिभिः परिवृतः पुरुषो जायते किल ।

ऋणत्रयात् तु मुच्येत पुरुषः पुत्रदर्शनात् ॥

पुन्नामनरकाद् यस्मात् पितरं त्रायते सुतः ।

तस्मात् पुत्र इति प्रोक्तः स्वयम् एव स्वयम्भुवा ॥

दिगम्बरं गतव्रीडं जटिलं धूलिधूसरम् ।

पुण्यहीना न पश्यन्ति गङ्गाधरम् इवात्मजम् ॥

तस्मात् पुत्रस्य लाभाय व्रतम् एतद् उदीरयेत् ।

कृष्ण उवाच ।

एकादश्यां चाश्वयुजे स्नात्वोपोष्यार्चयेद् धरिम् ।

गां रात्रौ पूजयेद् दद्यात् सवस्ताया गवाह्निकम् ॥

[१०८४] अपरे ऽह्नि तथाभ्यार्च्य निशि भुञ्जीत वाग्यतः ।

मासे मासे ऽथ चैतानि हरिनामानि कीर्तयेत् ॥

अपराजितो ऽजातशत्रुः पुरुहूतः पुरन्दरः ।

वर्धमानः सुरेशश् च महाबाहुः प्रभुर् विभुः ॥

सुभूतिः सुमनाश् चैव सुप्रचेता इतीरयेत् ।

एवं द्वादशभिर् मिश्रैर् मासैर् वा पारयेद् व्रतम् ॥

व्रतान्ते जुहुयाद् (?) देवं नामभिर् घृतपायसम् ।

ब्राह्मणान् भोजयेत् पश्चाद् वरान्नं माससङ्ख्यया ॥

मासि मासि यथाशक्त्या दानं प्रार्थनम् एव च ।

यथा दितेर् भवान् पुत्रः शाश्वतश् चाक्षयो ऽच्युतः ॥

तथा भवतु मे देवः पुत्रो जन्मनि जन्मनि ।

वैष्णवी सुरभी माता ब्रह्मणा देवपूजिता ॥

गृहाणेदं मया दत्तं पिण्डम् आनृण्यमुलकम् ।

वस्त्राभरणगोदानैर् ब्राह्मणं प्रीणयेद् गुरुम् ॥

इति भविष्यत्पुरानोक्तं गोवत्सद्वादशीव्रतम् ।

युधिष्ठिर उवाच ।

हत्वा भयङ्करं पापं पृथिवीक्षयकारकम् ।

परिपृच्छामि गोविन्द त्वां नमस्कृत्य पादयोः ॥

गुह्याद् गुह्यतरं ब्रूहि व्रतं किञ्चिद् अनुत्तमम् ।

तरामि येन पापौघं भीष्मद्रोणवधार्णवम् ॥

[१०८५] कृष्ण उवाच ।

आसीत् पुरा नरो नामा विदर्भायां कुशध्वजः ।

शान्तः पुरुसुतो येन चक्रे राष्ट्रम् अतन्द्रितः ॥

जघान तापसं सो ऽप्य् अप्रमादं मृगयाङ्गतः ।

मृगं मत्वा महारण्ये ब्राह्मणं देवमोहितः ॥

तेन कर्मविपाकेन देहान्ते गवयस् ततः ।

तत्रासौ पतनाद् घोराश्व (?) तु भूपातिपीडितम् ॥

तस्माद् इधागतो मर्त्यो रौद्रो विषधरो भवेत् ।

अदर्शत् सो ऽपि राजेन्द्र ब्राह्मणं चरणे तु षा (?) ॥

सलतां हतपञ्चत्वं जगाम द्विपसूनुताम् ।

विपन्नश् च ततः सिंहो द्वितीये ऽभूत् सुदारुणः ॥

विदारितमुखो हिंस्रो नाम सत्त्वभयङ्करः ।

जन्मान्ते सो ऽभवत् श्रेष्ठराजन्यो मृगयागतः ॥

ततोभि (?) बहुभिः शस्त्रै राजा लोकैर् निपातितः ।

पुनर् व्याघ्रो बभूवासौ तृतीये ऽपि भवान्तरे ॥

तीक्ष्णपादनखाघातव्यापादितमृगान्वयः ।

तेनापि वैश्यो निधनं गतः कश्चिल् लतान्तरे ॥

सनीरकृमिराशित्वं लोकैः ख्यातनिपातनान् ।

स जातस् तापकृद् रक्षो नखराहतजन्तुभुक् ॥

जघान वालं चण्डालाद् असौ मृत्युम् अवाप्नुयात् ।

[१०८६] पञ्चमे मकरो जातः समुद्रेति भयङ्करः ॥

स्त्रियं जघान तरुणीं स्नातुकामां यथागताम् ।

प्रभाते शङ्करस्याग्रे शशाङ्कग्रहणे निशि ॥

तत्रापि बडिसं दत्वा जनैः प्राणैर् वियोजयेत् ।

पुनः षष्ठे भवे जातौ पिशाचः पिशिताशनः ॥

क्रूरः छिद्रपरः क्षुद्रो नरप्राणवियोजकः ।

सो ऽवतीर्णो नरस्याङ्गङ्कनामा स च कस्यचित् ॥

मन्त्रेण पूयसिद्धेन वातिकेन व्यसुः कृतः ।

सप्तमे स पुनर् जातौ दुर्निरीक्षवपुर् भृशम् ॥

क्रूरदंष्ट्रः करालास्यो मांसशोणितभोजनः ।

दिग्वासा मनुभसीषु वासिष्ठो ब्रह्मराक्षसः ॥

राष्ट्रं च गौर् जरं शून्यं सर्वं चक्रे विषादिषु ।

आक्रम्य सोमदासेन राजा राक्षसशत्रुणा ॥

समारोप्य धनुः सङ्ख्ये ब्रह्मास्त्रेण निपातितः ।

भूयो भवद्व्याघ्रसमः स्याज् जन्मन्य् अष्टमे भुवि ॥

वने तराणां क्तुद्वीगो (?) ब्राह्मणार्तौ निगन्धनम् ।

स तु हस्ती जभल्लेन मातङ्गेन धौष्मता ॥

एकादेशे ऽपि पाञ्चालो पञ्चमध्ये ऽतिभीषणः ।

ऊर्ध्वकर्णो ऽतिरक्ताक्षो जातौ ह्रस्वतनुर् दृढः ॥

पापो धर्मध्वजो रक्षो देवतोजिनमाल्यधृक् ।

स दण्डपाशिकेनैव वृक्षाग्रे ह्य् अवलम्बितः ॥

द्वादशे स पुनर् जातः पुल्कशः क्लेशभाजनः ।

[१०८७] भक्ष्यलोभाद् विलगतो व्याधेन विनिपातितः ॥

तेन वासीत् कृतं पूर्वं तारकद्वादशीव्रतम् ।

तस्य प्रभावाज् जातो ऽपि दुष्टयोनौ पुनः पुनः ॥

अवाप शीघ्रं पञ्चत्वं संसारभवसागरे ।

पुनर् एवाभवद् राजा विदर्भायां सुधार्मिकः ॥

भूयः सोपोषिता तेन तारका द्वादशो शुभा ।

पश्यतां व्रतमाहात्म्यं जातौ जातौ पुनः पुनः ॥

व्रतप्रभावाद् भुवने भुक्त्वा राज्यम् अकण्टकम् ।

प्राप विष्णुपुरे स्थानं यावद् आहूतसम्प्लवम् ॥

युधिष्थिर उवाच ।

कथं तत् कृष्ण कर्तव्यं तारकद्वादशीव्रतम् ।

पापो ऽपि सद्गतिं प्राप्तो यत्प्रभावात् कुशध्वजः ॥

कृष्ण उवाच ।

मार्गशीर्षे सिते पक्षे गृहीत्वा द्वादशीव्रतम् ।

अकृत्तिमे जले स्नानम् अपराह्णे समाचरेत् ॥

प्रणम्य भास्करं भक्त्या कृत्वा देवार्चनं तथा ।

मौनेनैवावस्थातव्यं यावद् अस्तं व्रजेद् रविः ॥

ततो मुक्ताफलैः पुष्पैर् गन्धधूपविलेपनैः ।

सजलं साक्षतं युक्तं हिरण्यात्तफलैः शुभैः ॥

रम्ये ताम्रमये पात्रे जानुभ्यां धरणीं गतः ।

पूर्वामुखः प्रदोषाग्रे मूर्ध्नि कृत्वार्घ्यभाजनम् ॥

भूमौ मण्डलिकं कृत्वा गोमयेन सताङ्कितम् ।

चन्दनेन समालिप्य ध्रुवं च मृगगोमुखम् ॥

[१०८८] सहस्रशीर्षामन्त्रेण भूमौ ध्यात्वा जगद्गुरुम् ।

तारकानां कुरुश्रेष्ठ दद्याद् अर्घ्यं जितेन्द्रियः ॥

पर्युक्ष्य धूपम् उत्क्षिप्य दद्याद् विप्राय दक्षिणाम् ।

क्रमेण सर्वं निर्वर्त्य भोज्यं भोज्यं निशागमे ॥

मार्गशीर्षे खण्डखाद्यैः पुष्पैः शोवालकैः सुभैः ।

माघे तिलान्नकृशरैः फाल्गुने गुडपूरकैः ॥

वसन्ते मोदकैर् दिव्यैर् वैशाखे खण्डवेष्टकैः ।

ज्यैष्ठे शक्तुभृतैः पात्रैर् आषाढे गुडपूरकैः ॥

श्रावणे शष्कुलीभिश् च नभस्ये पायसेन च ।

घृतपूरैर् अश्वयुजे कासारैः कार्त्तिके क्रमात् ॥

एभिर् द्वादशभिर् भक्ष्यैर् भोजयित्वा द्विजान् स्वयम् ।

भुञ्जीत वाग्यतः पार्थ पश्चाद् विप्रान् क्षमापयेत् ॥

समाप्ते तु व्रते कृत्वा राजतं तारकागणम् ।

पैष्टं वा पूर्वविधिना पूजयित्वा क्षमापयेत् ॥

कुम्भा द्वादश दातव्याः सोदका मोदकान्विताः ।

ब्राह्मणानां परीधानं पद्मरागं सकञ्चुकम् ॥

श्वेतां च गां ब्राह्मणाय चन्दनं चोपवीतकम् ।

कुङ्कुमाञ्जनताम्बूलं स्त्रीणां दत्वा क्षमापयेत् ॥

अनेन विधिना राजन् यः करोति व्रतं नरः ।

नारी वा भर्तृपरमा विधवा शीलभूषणा ॥

नक्षत्रलीकं व्रजति विमानेनार्कवर्चसा ।

अप्सरोगणगन्धर्वयक्षविद्याधरैः शुभैः ॥

तीव्रतारावृतः स्वर्गे युगान्तम् अपि पूज्यते ।

[१०८९] एतद् व्रतं पुरा चीर्णं शव्या राज्ञ्या श्रिया मया॥

या सीतया दमयन्त्या रुक्मिण्या सत्यभामया ।

अन्याभिर् अपि नारीभिः पुरुषैश् च पृथग्विधैः ॥

चीर्णम् एतद् व्रतं पार्थ सर्वपापभयापहम् ।

जन्मान्तरेष्व् अपि कृतानि दहत्य् अघानि

या सन्दधात्य् अहर् अहः सुकृतोपयोगम् ।

ताराभिधानम् अतिपातकतूलकीला

तन् नास्ति यत्र विदधाति कृता मनुष्यैः ॥

इति भविष्योत्तरोक्ततारकाद्वादशीव्रतम् (?) ।

श्रुता मे मानवा धर्मा वासिष्ठाश् च मया श्रुताः ।

द्वैपायन यथोद्दिष्टा वैष्णवान् वक्तुम् अर्हसि ॥

व्यास उवाच ।

श्रुतास् ते मानवा धर्मा वैदिकाश् च श्रुता मया ।

कलौ युगे शक्यन्ते ते वै कर्तुं नराधिप ॥

सुखोपायम् अल्पधनम् अल्पक्लेशं महाफलम् ।

पुराणानां च सर्वेषां सारभूतं वदामि ते ॥

एकादश्यां न भुञ्जीत पक्षयोर् उभयोर् अपि ।

एकादश्यां न भुङ्क्ते यो न याति नरकं तु सः ॥

व्यासस्य वचनं श्रुत्वा कम्पितो ऽश्वत्थपर्णवत् ।

[१०९०] भीमसेनो महाबाहुर् भीतो वाक्यम् अभाषत ॥।

भीम उवाच ।

पितामह न शक्तो ऽहम् उपवासं करोमि किम् ।

अतो बहुफलं ब्रूहि व्रतम् एकम् अपि प्रभो ॥

व्यास उवाच ।

वृषस्थे मिथुनस्थे ऽर्के शुक्ला ह्य् एकादशी भवेत् ।

ज्यैष्ठे मासि प्रयत्नेन सोपोष्या जलवर्जितैः ॥

स्नाने वाचमने चैव वर्जयित्वोदकं बुधः ।

उपभुञ्जीत नैवान्यद् व्रतभङ्गो ऽन्यथा भवेत् ॥

उदयाद् उदयं यावद् वर्जयित्वा जलं बुधः ।

अप्रयत्वाद् अवाप्नोति द्वादश्यां द्वादशी नरः ॥

ततः प्रभाते विमले द्वादश्यां स्नानम् आरभेत् ।

जलं सुवर्णं दत्वा तु द्विजातिभ्यो यथाविधि ॥

भुञ्जीत कृतकृत्यस् तु ब्राह्मणैः सहितो वशी ।

एवं कृते तु यत् पुण्यं भीमसेन शृणुष्व तत् ॥

संवत्सरं यथा मध्ये एकादश्यो भवन्त्य् उत ।

तासां फलम् अवाप्नोति अत्र मे नास्ति संशयः ॥

इति मां केशवः प्राह शङ्खगदाधरः ।

अस्य व्रतस्य यत् पुण्यं तन् मे ब्रूहि जनार्दन ॥

एकादश्यां सिते पक्षे ज्यैष्ठस्योदकवर्जितम् ।

उपोष्य फलं प्राप्नोति यत् तु शृणु वृकोदर ॥

सर्वतीर्थेषु यत् पुण्यं सर्वदानेषु यत् फलम् ।

[१०९१] सर्वहोमेषु यत् पुण्यं तद् अस्याः समुपोषणात् ॥

संवत्सरस्य यावत्यः शुक्लाः कृष्णा वृकोदरः ।

उपोषितास् तु ताः सर्वा एकादश्यां न संशयः ॥

धनधान्यवहाः पुण्याः पुत्रारोग्यप्रदास् तथा ।

उपोषिता नरव्याघ्र इति सत्यं ब्रवीमि ते ॥

यमदूता महाकाया करालकृष्णरूपिणः ।

दण्डपाशधरा रौद्रा मरणे दृष्टिगोचराः ॥

न प्रयान्ति तरव्याघ्र एकादश्याम् उपोषणात् ।

पीताम्बरधराः सौम्याश् चक्रहस्ता मनोजवाः ॥

अन्तकाले नयत्य् एवं वैष्णवा वैष्णवीं पुरीम् ।

तस्मात् सर्वप्रयत्नेन उपोष्य जलवर्जितम् ।

जलधेनुं तथा दत्वा सर्वपापैः प्रमुच्यते ॥

इति श्रीमहाभारतोक्तनिर्जलैकादशीव्रतम् ।

युधिष्ठिर उवाच ।

भगवन् ब्रूहि ते सम्यक् गणय द्वादशीव्रतम् ।

सप्राशनं सोपवासं सरहस्यं समन्त्रकम् ॥

श्रीकृष्ण उवाच ।

कौन्तेय यत् पुरा चीर्णं सितया वनसंस्थया ।

व्रतं राघववाक्येन अगस्त्यऋषिभाषितम् ॥

लोपामुद्रालये सर्वा मुनिपत्न्यो बहुप्रजाः ।

भोजितास् तर्पिताः सर्वैर् आहारैः सर्वकायिकैः ॥

[१०९२] ताम् इहैकमनाः पार्थ अरण्यद्वादशीं शृणु ।

मार्गशीर्षे सिते पक्षे एकादश्यां दिनोदयम् ॥

स्नात्वा नरः सोपवासः कृत्वा पूजां जनार्दने ।

गन्धपुष्पार्घ्यधूपैश् च दीपैर् जागरणादिभिः ॥

निशां नीत्वा प्रभाते च वनोद्देशे ऽतिशोभने ।

सजले कृष्णसान्निध्ये वेदवेदाङ्गपारगम् ॥

भोजयित्वा फलप्रायं स्वयं भुञ्जीत वाग्यतः ।

पञ्चगव्यपूर्णम् एव प्राशनं वाथ तद्दिने ॥

वर्षम् एकं सुसम्पूर्णं पारयित्वा युधिष्ठिर ।

श्रावणे कार्त्तिके माघे चैत्रे वाथ समुद्यमेत् ॥

व्रती पक्वान्नसम्पूर्णान् भाडुकान् (?) घृतपूरकान् ।

अन्नं स्वादु च सुस्विन्नं खण्डखाद्यादिसंयुतम् ॥

भक्ष्यैर् नानाविधैः पार्थ संयुतं षड्रसेण तु ।

व्यञ्जनैः पत्रशाकैश् च शुष्काद्रैर् अतिशोभनैः ॥

पानकैः पत्रसारैश् च सुगन्धैः स्वादुशीतलैः ।

फलैः कालोद्भवैः सर्वैर् यथाविभवम् आत्मनः ॥

गत्वा वनं मुक्तजनं (?) स्वादुतोयं धनञ्जय ।

तत्र विप्रान् सुखासीनान् प्रागुदीच्यमुखाञ् छुचीन् ॥

भोजयेद् दश च द्वौ च कृतपूजादिकक्रियः ।

अलाभे यतिमुख्यानां गृहस्थान् अपि भोजयेत् ॥

सुपत्नीकान् सदाचारान् अग्नियुक्तान् गुणप्रियान् ।

उद्दिश्य देवं गोविन्दं पृथक् द्वादशनामभिः ॥

वासुदेवं हृषीकेशं विष्णुं दामोदरं हरिम् ।

[१०९३] त्रिविक्रमं च गोविन्दं पद्मनाभं जनार्दनम् ॥

गोवर्धनधरं कृष्णं श्रीधरं क्रमशो नृप ।

प्रणवादिनमस्कारैर् नामभिः पूजयेद् द्विजान् ॥

गन्धपुष्पादिना पार्थ भक्त्या तद्भावितात्मना ।

भोजयित्वा शुभान्नानि स्वाचारांस् तान् सदक्षिणान् ॥

प्रणम्याथो विसृज्यैतान् विष्णुर् मे प्रीयताम् इति ।

ततो भुञ्जीत सहितो भृतैर् बन्धुजनेन च ॥

आश्रितैर् अर्थिभिः पार्थ सामान्यैर् अथ वाग्यतः ।

एवं यः कुरुते सम्यग् अरण्यद्वादशीं नरः ॥

स देहान्ते विमानस्थो दिव्यकन्यासमावृतः ।

उद्धृत्य स्वपितॄंश् (?) चापि श्वेतद्वीपं हरः प्रियम् ॥

यत्र लोकाः पीतवस्त्राः श्यामदेहाश् चतुर्भुजाः ।

शङ्खचक्रगदापद्मव्यग्रहस्ताः सकौस्तुभाः ॥

तार्क्ष्यासनाः समुकुटा दिव्यकुण्डलमण्डिताः ।

नीलोत्पलमहापद्ममालया ललितोरसः ॥

लक्ष्मीधरा मेघवर्णाः केयूराङ्गदभूषणाः ।

तिष्ठन्ति विष्णुसामान्या यादवाहूतसम्प्लवम् ॥

तत्र भोगांश् चिरं भुक्त्वा पश्यन् विष्णुं सनातनम् ।

पुण्यशेषात् समायातः पृथिव्यां पृथिवीपते ॥

सार्वभौमः श्रिया युक्तो राजा स्याद् राजपूजितः ।

तत्रापि पुनर् एवेमाम् अरण्यद्वादशीं शुभाम् ॥

करोति द्वादशैवासौ जन्मानि हरितत्परः ।

तदन्ते बन्धुनिर्मुक्तो याति ब्रह्म सनातनम् ॥

[१०९४] एकादशीम् उपवसन्ति सितासरण्य-

नाम्नीं वने द्विजवरा व्रतम् आचरन्ति ।

साध्यस्त्रियः शुचरिताभरणाश् च तेषां

विष्णुः प्रसादम् उपयान्ति ददाति मोक्षम् ॥

इति भविषोत्तरोक्तम् अपराद्वादशीव्रतम् ।

याज्ञवल्क्य उवाच ।

कृष्ण्पक्षे तु पौषस्य सम्प्राप्तिद्वादशीं शृणु ।

याम् उपोष्य समाप्नोति सर्वान् एव मनोरथान् ॥

पाषण्डादिभिर् आलापम् अकुर्वन् विष्णुतत्परः ।

पूजयेत् प्रयतो देवम् एकाग्रमतिर् अच्युतम् ॥

पौषादिपारणं मासैः षड्भिर् ज्यैष्ठान्तिकं स्मृतम् ।

प्रथमे पुण्डरीकाक्षनाम देवस्य गीयते ॥

द्वितीये माधवाख्यं तु विश्वरूपं तु फाल्गुने ।

पुरुषोत्तमाख्यं च ततः पञ्चमे ऽच्युतसञ्ज्ञितम् ॥

षष्ठे जयेति देवस्य गुह्यं नाम प्रकीर्तयेत् ।

पूर्वेषु षट्सु मासेषु स्नानप्राशनयोस् तिलाः ॥

आषाढादिषु मासेषु पञ्चगव्यम् उदाहृतम् ।

स्नानं च प्राशनं चैव पञ्चगव्यं सदेष्यते ॥

पूजयेत् पुण्डरीकाक्षं पुनस् तेनैव नामभिः ।

[१०९५] प्रतिमासं च देवस्य कृत्वा पूजां यथाविधि ॥

विप्राय दक्षिणां दद्याच् छ्रद्दधानः स्वशक्तितः ।

पारणान्ते तु देवस्य प्रीणनं भक्तिपूर्वकम् ॥

कुर्वीत शक्त्या गोविन्दे सदा साभ्यर्चनं यतः ।

नक्तं भुञ्जीत च नरस् तैलक्षारविवर्जितम् ॥

एकादश्याम् उषित्वैवं द्वादश्याम् अथ वा दिने ।

एवम् एकादश्याम् उपोष्य द्वादशीनक्तं दिनं वा भुञ्जीतेत्य् (?) अन्वयः ।

एवं संवत्सरस्याने ददाति प्रीतिमांस् ततः ।

धेनुं वस्त्रं हिरण्यं च धान्यं भोजनम् आसनम् ॥

शय्यां च ब्राह्मणे दद्यात् केशवः प्रीयताम् इति ।

एताम् उपोष्य विधिवद् विष्णुप्रीणनतत्परः ॥

सर्वान् कामान् अवाप्नोति सर्वपापैः प्रमुच्यते ।

यतः सर्वम् अवाप्नोति यद् यद् इच्छति चेतसा ॥

ततो लोकेषु विख्यातं सम्प्राप्तिद्वादशीति वै ।

कृताभिलाषिता दृष्ट्वा प्रारब्धा कर्मतत्परैः ।

पूरयत्य् अखिलान् कामान् संस्मृता च दिने दिने ॥

इति विष्णुधर्मोक्तं सम्प्राप्तिद्वादशीव्रतम् ।

पौषे कृष्णे विशाखासु युक्ता चैकादशी भवेत् ।

तस्यां सम्पूजयेद् विष्णुम् उपोष्य विधिवन् नरः ॥

सुगन्धपुष्पनैवेद्यैर् वस्त्रभूषणसम्भवैः ।

मासानुमासं पूजयेद् विधिना जगतीपतिम् ॥

[१०९६] प्राशण्ं कायशुद्ध्यर्थं कार्यं मासक्रमेण (?) तु ।

गोमूत्रम् उदकं सर्पिर् आचस्य (?) कामतः परम् ॥

ततो दर्व्या दधिव्रीहितिलांश् चैव यवांस् तथा ।

जलम् अर्ककरैस् तप्तं दर्भांश् च क्षीरम् एव च ॥

द्वादश्यां भोजयेद् विप्रान् दधिक्षीरगुडौदनैः ।

मासक्रमेण विप्रेभ्यो दद्यात् सम्यक् कृते (?) व्रती ॥

घृतं तिलान् व्रीहियवसुवर्णसंयुतं घटम् ।

मोदकैश् च युतं कुम्भम् आतपत्रं तु पायसम् ॥

फाणितं चन्दनं मालाः सुगन्धाश् चेति दक्षिणाः ।

व्रतम् एतन् महापुण्यं दृष्टादृष्टफलप्रदम् ॥

कर्तव्यं धर्मनिरतैर् विष्णुपूजनतत्परैः ।

व्रतम् एतन् नरः कृत्वा विप्राणां प्रवरे कुले ॥

सुजन्मा जायते धीमान् वेदवेदाङ्गपारगः ।

निरातङ्को ऽनन्तसुखः सुखतश् च तथारिहा ॥
बहुपुत्रो भवेद् धीमान् धनैश् च धनदोपमैः ।

यथा नरस् तथा नारी व्रतम् एतत् समाचरेत् ।

इह प्राप्य परां लक्ष्मीं मृतो विष्णुपुरं व्रजेत् ॥

इति विष्णुरहस्योक्तं महाफलद्वादशीव्रतम् ।

द्वादश्यां भोजयेद् विप्रान् तेभ्यो दद्याच् च दक्षिणाम् ।

प्रतिमासं तिथौ तस्यां गोभ्यो दद्याद् गवाह्निकम् ॥

[१०९७] गवां क्षीरेण संयुक्तं दध्ना वाथ घृतेन वा ।

मृत्पात्रे च समश्नीयाद् अक्षारलवणं व्रती ॥

संवत्सरम् उपोष्यैव गोविन्दद्वादशीं नरः ।

पुनर् गोभ्यो यथाशक्त्या भूयो दद्याद् गवाह्निकम् ॥

गोविन्दद्वादशी यातु उपोष्य विधिवन् नरः ।

प्राप्नोति विधिवद् दत्वा गोसहस्रस्य यत् फलम् ॥

समुपोष्य महापुण्यां गोविन्दद्वादशीम् इमाम् ।

गवां लोकम् अवाप्नोति दधिक्षीरघृतप्लुतम् ॥

तत्र भोगान् वरान् भुक्त्वा चिरकालं मनोरथान् ।

गोविन्दस्य सदाननं ततो लोकम् अवाप्नुयात् ॥

तत्र तिष्ठेन् निरातङ्को मुदा परमया युतः ।

गोविन्दस्य प्रसादेन यावद् इन्द्राश् चतुर्दश ॥

इति विष्णुरहस्योक्तं गोविन्दद्वादशीव्रतम् ।

नारद उवाच ।

द्वादश्यो विधिवत् प्रोक्तास् त्वया लोकपितामह ।

अनुष्ठानविहीनानां तासां ब्रूहि क्रियाफलम् ॥

प्रारम्भं च समाप्तिं च द्वादशीनां यथाविधि ।

व्रतचर्याफलं चैव कथयस्व पितामह ॥

ब्रह्मोवाच ।

शृणुष्वैकमना विप्र विष्णोः प्रीतिकरं शुभम् ।

पुण्यं व्रतानां सर्वेषां द्वादशीव्रतम् उत्तमम् ॥

मार्गशीर्षे शुभे मासि शुक्लपक्षे यतव्रतः ।

[१०९८] प्रथमं चैव गृह्णीयाद् द्वादशीं विधिवन् नरः ॥

कारयेच् च हरेर् यज्ञम् आचार्याद्यैर् विधानतः ।

अर्चयित्वा हरिं तत्र लब्ध्वानुज्ञां द्विजस् ततः ॥

चक्रतीर्थं हरिं दृष्ट्वा मथुरायां च केशवम् ।

दृष्ट्वाशोकवने विष्णुं कुञ्जाग्रे च जनार्दनम् ॥

तत् फलं समवाप्नोति द्वादश्यां समुपोषणे ।

मनोवाक्कायचेष्टाभिः शुचिः शुद्धो दृढव्रतः ॥

ततो बन्धून् गुरून् विप्रान् प्रणम्यैवानुमन्य च ।

धर्मकामो नरः कुर्याद् एतैः कृच्छ्रैर् न कारयेत् ॥

गुओर्श् चानुज्ञया तत्र भक्षयेद् दन्तकाष्ठकम् ।

साक्षतं चोदकं गृह्य व्रतस्यानुपकल्पयेत् ॥

उपोष्यैकदशीं विष्णोर् यावच् च परिवत्सरम् ।

अविघ्नविद्धिम् आयातु त्वत्प्रसादाज् जनार्दन ॥

एवं संवर्त्य नियमं प्रणम्य गरुडध्वजम् ।

जितेन्द्रियः शान्तमना दशम्यां निवसेन् निशाम् ॥

एकादश्यां ततः प्रातःस्नानं कृत्वा विधानतः ।

मधुना नास्प्य देवेशं दधिक्षीरघृतादिभिः ॥

सर्वौषधिजलैः पूर्णैः कुम्भैः पल्लवचन्दनैः ।

कुङ्कुमोशीरकर्पूरैः स्रग्दामपरिशोभितैः ॥

तत्रार्चयेत् स्थितं भक्त्या मालतीकुसुमैः शुभैः ।

धूपं वागुरुसंसिद्धं गुग्गुलं वा घृतप्लुतम् ॥

दहेद् देवाधिदेवाय दीपं दद्याद् अहर्निशम् ।

[१०९९] पायसं पूपसंयावं फलैः सार्धं करम्भकम् ॥

करम्भा दधिसम्मिश्राः शक्तवः ।

नैवेद्यं तु हरेर् दद्याद् भक्त्या चैव विधानतः ।

गीतवाद्यं ततः कृत्वा यथाशक्त्या निशाम् नयेत् ॥

एवं पूजां हरेः कृत्वा द्विजं चैवानुपूजयेत् ।

योग्ये सति च न त्व् अन्यम् आसन्नं पूजयेद् यदि ॥

स दुर्गतिम् अवाप्नोति खण्डं चैव व्रतं नयेत् ।

खण्डव्रताच् च निरयं गत्वा कल्पशतं स्थितः ॥

यातो भवति देवर्षे खण्डस्थानां तु भजनम् ।

यथाशक्त्या नरो दद्याद् गुरवे दक्षिणां सुधीः ॥

गुरुणा तत्र वै कुम्भे जपः कार्यः प्रयत्नतः ।

एकाक्षरेण मन्त्रेण यत् तोयं चानुमन्त्रयेत् ॥

अष्टोत्तरशतं जप्त्वा जलरूपं न्यसेद् रविम् ।

यस्य रोम्नि स्थिता मेघाः सर्वसन्धिषु निम्नगाः ॥

समुद्राः कुक्षिमध्यस्थाः सर्वतीर्थाणि पादयोः ।

एवं न्यस्य जले विष्णुं तां रात्रिं वासयेद् वदन् ॥

एवं वदन् जले न्यस्येत्य् अन्वयः ।

द्वादश्यां तेन तोयेन तं शिष्यं स्नापयेद् गुरुः ।

तेन स्नानेन विधिवन् मन्त्रपूतेन नारद ॥

पुनर् तु सर्वतीर्थानि सर्वे देवाः सवासवाः ।

तोयेनाद्याभिषिञ्चन्तु सर्वपापविमुक्तये ॥

सर्वपापविनिर्मुक्तो वैष्णवीं तु लभेत् तनुम् ।

कृताभिषेकः पुण्यात्मा समब्यर्च्याथ केशवम् ॥

[११००] गुरुं ज्ञानप्रदं चैव भोजयेद् ब्राह्मणैः सह ।

भोजयित्वा द्विजेभ्यो ऽथ दक्षिणां प्रतिपादयेत् ॥

एवम् अभ्यर्च्य देवेशं प्रतिमासं द्विजोत्तमम् ।

अर्चयेत् कीर्त्य नामानि मासि मासि तथा शृणु ॥

मार्गशीर्षे तु पुष्ये च नाम नारायणं तथा ।

माघे तु माधवं पूज्य गोविन्दं फाल्गुने तथा ॥

चैत्रे च केशवं विष्णुं वैशाखे मधुसूदनम् ।

ज्यैष्ठे त्रिविक्रमं देवम् आषाढे वामनं मुने ॥

श्रावणे श्रीधराख्यं च हृषीकेशं नभस्य् अथ ।

पद्मनाभं चाश्वयुजे तस्माद् दामोदरं तथा ॥

एवं सङ्कीर्त्य नामानि द्वादशैव यथाक्रमम् ।

प्रीयतां मे हृषीकेश इत्य् उक्त्वा प्रणमेत् ततः ॥

ततो विप्राय शान्ताय सवत्सां गां पयस्विनीम् ।

कृष्णस्य प्रीतये दद्याद् व्रतस्यास्य च सिद्धयेत् ॥

उपानहौ च वस्त्राणि मुद्रिकां च कमण्डलुम् ।

कर्णमात्रान् घटांस् तोयपूर्णांश् च सह मोदकैः ॥

द्वादश द्वादशेभ्यश् च विप्रेभ्यश् च सदक्षिणान् ।

अनेन विधिना यस् तु द्वादशीं समुपोषयेत् ॥

पूजयित्वा हरिं यान्ति विष्णोर् लोकम् अनामयम् ।

नामाख्यद्वादशी ह्य् एतद्व्रतानां प्रथमं मुने ॥

नरैस् त्रिभिर् अनुष्ठेया तोषयद्भिर् जनार्दनम् ।

ओङ्कारः सर्ववेदानां यथादौ परिपठ्यते ॥

यश् चैनां कीर्तयेद् भक्त्या शृणोति श्रद्धयान्वितः ।

[११०१] तत्सर्वपापनिर्मुक्तो विष्णुलोके व्रजत्य् असौ ॥

एवं कृते यच् च फलं लभते च तद् उच्यते ।

मानी धनी ज्ञानयुतो ऽथ विप्र-

कुले प्रधाने धनदान्यपूर्णे ।

विवेकविन्यस्तसमस्तदुःखे

प्राप्नोति जन्माविकलेन्द्रियश् च ॥

तस्मात् त्वम् अप्य् एतद् अमोघविद्यो

नारायणाराधनम् अप्रमत्तः ।

कुरुष्व विष्णुं भवन्तम् ईशम्

आराध्यमानश् च फलान्य् अपैहि ॥

धाते तद् उक्त्वा ह्य् अभवत् स तूष्णीं

तदा स वाग्भिः परिपूजितः सन् ।

इति विष्णुरहस्योक्तनामद्वादशीव्रतम् ।

अगस्त्य उवाच ।

शृणु राजन् महाभाग शुभव्रतम् अनुत्तमम् ।

येन सम्प्राप्यते विष्णुः शुभेनैव न संशयः ॥

मासि मार्गशिरे पुण्ये प्रथमाब्दात् समाचरेत् ।

एकभक्तं सिते पक्षे यावत् स्याद् दशमी तिथिः ॥

ततो दशम्यां मध्याह्ने स्नात्वा केशवम् अर्चयेत् ।

भुक्त्वा सङ्कल्पतः प्राग्वद् द्वादश्यां शुद्धमानसः ॥

केशवेति हरिं पूज्य दद्यात् तत्प्रीतये तिलान् ।

[११०२] सहिरण्यं तथा कृष्णद्वादश्यां प्रयतो नृप ॥

ताम् अप्य् एवम् उषित्वा च यवान् दद्याद् द्विजातये ।

कृष्णायेति हरिर् वाच्यो दाने होमे तथार्चने ॥

चातुर्मास्याम् अथैवं तु क्षपित्वा राजसत्तम ।

चैत्रादिषु पुनस् तद्वद् उपोष्य प्रयतः शुचिः ॥

शक्तुपात्राणि विप्राणां सहिरण्यानि दापयेत् ।

श्रावणादिषु मासेषु तद्वद् गोविन्दम् अर्चयेत् ॥

त्रिषु मासेषु यावत् तु कार्त्तिकः स्याद् इहागतः ।

तम् अप्य् एवं क्षपयित्वा दशम्यां प्रयतः शुचिः ॥

अर्चयित्वा हरिं भक्त्या मासनाम्ना विचक्षणः ।

प्रियदत्तेत्यादिमन्त्रेण ।

सङ्कल्प्य कारयेद् भक्त्या द्वादश्यां संयतेन्द्रियः ॥

एकादश्यां यथा भक्त्या कारयेत् पृथिवीं नृप ।

काञ्चनीं सप्तपातालकुलपर्वतसंयुताम् ॥

भूविन्यासविधानेन स्थापयेत् तां हरेः पुरः ।

सितवस्त्रयुगछन्नां सर्वबीजसमन्विताम् ॥

सम्पूज्य प्रियदत्तेति पञ्चगन्धैर् विचक्षणः ।

जागरं तत्र कुर्वीत प्रभाते तु पुनर् द्विजान् ॥

आमन्त्र्य सङ्ख्यया राजन्न् एकविंशतिनामतः ।

तेषाम् एकैकशो गां च अनड्वाहं च दापयेत् ॥

एकैकं वस्त्रयुग्मं च एकैकं चाङ्गुलीयकम् ।

कटकं चैव सौवर्णं कर्णाभरणम् एव च ॥

[११०३] एकैकं ग्रामम् एतेषां राजा राज्यप्रदो भवेत् ।

यथाविभवसारेण ततो गां सम्प्रदापयेत् ॥

अशक्त्या करणे चैव दरिद्रो ऽपि स्वशक्तितः ।

यथाशक्त्या महीं कृत्वा काञ्चनीं गोयुगं तथा ॥

वस्त्रयुग्मम अथैकं वा दद्याद् विभवशक्तितः ।

गोयुग्मासम्भवात् सर्वं हिरण्येनैव कारयेत् ॥

एवं कृत्वा तथा कृष्णद्वादश्याम् एवम् एव तु ।

रौप्यां चेत् पृथिवीं कृत्वा यथाविभवशक्तितः ॥

प्रदद्याद् ब्राह्मणानां तु तथा तेषां तु भोजनम् ।

उपानहौ यथाशक्त्या पादुके छत्रिकां तथा ॥

एवं दद्याद् वेदविदे कृष्णो दामोदरो मम ।

प्रीयतां सर्वदेवो ऽपि विश्वरूपो हरिर् मम ॥

दाने च भोजने चैव मुक्त्वा यत् फलम् अश्नुते ।

न तच् छक्यं सहस्रेण वर्षाणाम् अपि कीर्तितुम् ॥

शुभव्रतम् इदं यस् तु पुण्यं कुर्यान् नरेश्वरः ।

स सर्वसम्पदं प्राप्य ततो विष्णुपदं व्रजेत् ॥

इति वाराहपुराणोक्तं शुभद्वादशीव्रतम् ।

पुलस्त्य उवाच ।

शृणु राजन् महाभाग व्रतं चानुत्तमं शुभम् ।

मासि चाश्वयुजे ब्रह्मन् यदा पद्मजसन्निधिः ॥

नाभ्यां निर्याति जगताम् ईशितुश् चक्रधारिणः ।

तस्मिन् रम्ये शुभे काले या शुकैकादशी भवेत् ॥

[११०४] तस्यां सम्यग् यजेद् विष्णुं येन खण्डं प्रपूर्यते ।

येन विष्णुप्रपूजनेन खण्डम् असम्पूर्णं धर्मादिभिः परिपूर्णं भवतीत्य् अर्थः ।

पुष्पैः पत्रैः फलैर् वापि गन्धवर्णसमन्वितैः ।

ओषधीभिश् च सर्वाभिर् यावत्स्थावरसम्भवैः ॥

घृतं तिलान् व्रीहियवान् हिरण्यं कनकादि च ।

मणिमुक्ताप्रवालानि वस्त्राणि विविधानि च ॥

रसाश् च स्वादुकत्वम्लकषायलवणानि च ।

तिक्तानि च निवेद्यानि तान्य् अखण्डानि यानि हि ॥

तत्पूजार्थं प्रदातव्यं केशवाय महात्मने ।

येन संवत्सरं पूर्णम् अखण्डं जायते गृहे ॥

कृतोपवासो देवर्षे द्वितीये ऽहनि सर्वतः ।

स्नानेन तेन स्नायीत येनाखण्डं हि वत्सरम् ॥

सिद्धार्थकैस् तिलैर् वापि तेनैवोद्वर्तनं स्मृतम् ।

हविषा पद्मनाभस्य स्नानम् एव समाचरेत् ॥

होमे तद् एव गदितो दाने शक्त्या द्विजोत्तम ।

पूजयेच् चाथ कुसुमैः पादाद् आरभ्य केशवम् ॥

धूपयेद् विधिवद् धूपं येन स्याद् वत्सरं परम् ।

हिरण्यरत्नवासोभिः पूजयेत् तं जगद्गुरुम् ॥

सरसद्रवचूष्याणि हविष्याणि निवेदयेत् ।

प्रथमैकादश्यां येन द्रव्येण यत् कर्म निष्पादितं शेषास्व् एकादषीषु तेनैव द्रव्येणान्यन् निष्पाद्यम् ।

[११०५] ततः सम्पूज्य देवेशं पद्मनाभं जगद्गुरुम् ।

विज्ञाययेन् मुनिश्रेष्ठ मन्त्रेणानेन सुव्रत ॥

नमो ऽस्तु पद्मनाभाय पद्मावह महाद्युते ।

धर्मार्थकाममोक्षाणि अखण्डानि भवन्तु मे ॥

विकासिपद्मपत्राक्ष यथाखण्डो ऽसि सर्वतः ।

तेन सर्वेण धर्माद्यास् त्व् अखण्डाः सन्तु केशव ॥

एवं संवत्सरे पूर्णे सोपवासो जितेन्द्रियः ।

अखण्डं पारयेद् ब्रह्मन् व्रते वै सर्ववस्तुषु ॥

अस्मिंश् चीर्णे व्रते व्यक्तं परितुष्यति माधवः ।

धर्मार्थकाममोक्षाद्याः स्वेच्छया सम्भवन्ति च ॥

इति वामनपुराणोक्ताखण्डद्वादशीव्रतम् ।

मुनय ऊचुः ।

कुम्भिकाव्रतम् अस्माकं प्रब्रूहि मुनिसत्तम ।

यथा जागरणं तस्यां यथा वै देवपूजनम् ॥

यद् देवं यत् फलं तस्यां तद् ब्रूहि मुनिसत्तम ।

शौनक उवाच ।

अतिव्रतम् इदं पुण्यं पवित्रं पापनाशन ।

श्रावयेत् पुण्डरीकाक्षं देवानाम् अपि दुर्लभम् ॥

एकादश्यां कार्त्तिकस्य शुक्लपक्षे तु कारयेत् ।

कुम्भ्यादिनरकेभ्यस् तु उद्धरेत् स्वम् अशेषतः ॥

प्रयत्नात् कार्त्तिके मासि विष्णोर् अग्रे तु जागरम् ।

[११०६] सुशुक्लैकादशीं रात्रौ विशेषाद् अर्चयन्ति च ॥

चतुरस्रं चतुर्द्वारं गोमयेनोपलिप्य च ।

चतुर्भिः शालिगोधूमवर्णकैर् उपशोभितम् ॥

स्नात्वा नारायणं पूज्य स्थण्डीले प्रतिमासु च ।

हुत्वा दिशां बलिं दत्वा विधानम् अवधारयेत् ॥

दीपमालान्वितं गन्धपुष्पाद्यैः पूजयेत् ततः ।

कुम्भीं देवमयीं ध्यत्वा मुच्यते सर्वकिल्बिषैः ॥

कुम्भीनाम प्रसिद्धा ।

यदा सुकुमोपेता कुम्भी कल्मषनाशिनी ।

तस्या मूले स्थितो विष्णुस् तदूर्ध्वे च पितामहः ॥

स्कन्धे च संस्थितो रुद्र अन्ते च त्रिपुरान्तकः ।

इन्द्रवायुसमायुक्तशाखासु ऋषयस् तथा ॥

पर्णे चरन्ति देवाश् च मूलेषु मरुतः स्मृताः ।

सर्वदेवनमस्कार्या सर्वव्रतकरी स्मृता ॥

सर्वदेवनमस्कार्या सर्वव्रतकरी स्मृता ॥

तस्मात् सर्वप्रयत्नेन कार्यं वै कुम्बिकाव्रतम् ।

सदा जागरणं कार्यं नृत्यगीतपुरःसरं ॥

दम्पत्योः परिधानं च पूजा च मधुसूदन ।

यथाशक्ति तथा देया दक्षिणा पापनाशनी ॥

य एवं कुरुते कश्चित् कुम्भीजागरणं शुभम् ।

मन्त्रेण पूजयेत् कुम्भीं कुम्भीजागरणं शुभम् ॥

वल्लीं स्वर्णमयीं कृत्वा रौप्यं च पुष्पम् एव च ।

सौवर्णं केसरं चैव नानाफलसमायुतम् ॥

[११०७] लक्ष्मीं नारायणं चैव सौवर्णं कारयेद् बुधः ।

पूजयेत् परया भक्त्या कुम्भीकायाः समीपतः ॥

ईशे त्वं दैवतैः पूर्वं प्रेषिता भुवनागता ।

गृहान पूजां भद्रन्ते सर्वकार्यार्थसिद्धये ॥

पूजामन्त्रः ।

फलपुष्पाक्षतैस् तोयैः कर्पूरैश् चन्दनेन च ।

रौप्यपात्रे च शङ्खे वा दद्याद् अर्घ्यं प्रयत्नतः ॥

अर्घ्यं गृहाण मे देवि सर्वपापप्रणाशनी ।

अर्घ्यं तुभ्यं मया दत्तं कुम्भीकायै नमो ऽस्तु ते ॥

अर्घ्यमन्त्रः ।

त्वन्माता सर्वभूतानां त्वम् एव परमेश्वरी ।

विद्या परमविद्यानां सर्वभूतवशङ्करी ॥

पुत्रसौभाग्यदा देवी सर्वसौख्यहितैषिणी ।

मत्स्याय पादौ सम्पूज्य ऊरू कूर्माय वै तथा ॥

वराहाय कटिं पूज्य नृसिंहाय उरस् तथा ।

वामनाय च कण्ठं च भुजौ रामद्वयेन च ॥

रामनाम्ना च नेत्रे तु बुद्धनाम्नः श्रिअस् तथा ।

कल्किनाम्ना तथा केशान् वामनायेति सर्वतः ॥

पूजामन्त्रः ।

जय विष्णो जयानन्त जय वामनरूपधृक् ।

[११०८] सवत्सां वस्त्रसंवीतां शुभां यज्ञोपवीतिनीम् ॥

स्वर्णशृङ्गीं रौप्यखुरां ताम्रपृष्ठां सघण्टिकाम् ।

काम्स्योपदोह्नयुतां सितचन्दनचरीताम् ॥

मुक्त्वा फलस्रजन्दिव्यां हिरण्योपरिसंस्थिआम् ।

हिरण्यं वाचयिताग्रे ब्राह्मणाय निवेदयेत् ॥

नन्दाचैवोपनन्डा च सुशीला सुरभी तथा ॥

गावो मम गृहे सन्तु गावो मे लोकमातरः ।

एवं सम्पूज्य विधिना नक्तं वा व्याद् उपोषणम् ॥

रात्रौ जागरणं कुर्यात् सकलं प्राप्नुयात् फलम् ।

स पुत्रपशुरत्नानि अक्षयाणि पितामह ॥

सप्तकल्पसहस्राणि सप्तकल्पशतानि च ।

कुर्वीत कुम्भीव्रतम् इदं विष्णुलोके महीयते ॥

इति स्कन्दपुराणोक्तं कुम्भीव्रतम् ।

दाल्भ्य उवाच ।

अल्पायासेन विप्रर्षे दानेनाल्पेन वा विभो ।

पापप्रशमम् आयाति येन तद् वक्तुम् अर्हसि ॥

पुलस्त्य उवाच ।

शृणु दाल्भ्य परां पुण्यां द्वादशीं पापनाशनीम् ।

याम् उपोष्य परं पुण्यं प्राप्नुयाच् छ्रद्धयान्वितः ॥

[११०९] माघमासे तु सम्प्राप्ते आषाढर्क्ष्यं भवेद् यदि ।

मूलं वा कृष्णपक्षस्य द्वादश्यां नियतव्रतः ॥

गृह्णीयात् पुण्यफलदं विधानं तस्य मे शृणु ।

देवदेवं समभ्यर्च्य सुस्नातः प्रयतः शुचिः ॥

कृष्णनाम्ना तु सम्पूज्य एकादश्यां महामतिः ।

उपोषितो द्वितीये ऽह्नि पुनः सम्पूज्य केशवम् ॥

संस्तूय नाम्ना तेनैव कृष्णाख्येन पुनः पुनः ।

दद्यात् तिलांस् तु विप्राय कृष्णो मे प्रीयताम् इति ॥

स्नानप्राशनयोः शस्तास् तथा कृष्णतिला मुने ।

विष्णुप्रीणनमन्त्रैश् च समाप्ते वर्षपारणे ॥

कृष्णकुम्भास् तिलैः सार्धं पक्वान्नेन च संयुताः ।

छत्रोपनद्युगैः सार्धं संवीता (?) रत्नगर्भिणः ॥

ब्राह्मणानां प्रदेयास् ते यथावन्म ससंव्यया (?) ।

कृष्णां च गां ब्राह्मणाय पीतवस्त्रां पयस्विनीम् ॥

छत्रोपनद्युगं दद्यात् कृष्णो मे प्रीयताम् इति ।

तिलप्ररोहजाः क्षेत्रे यावत्सङ्ख्यास् तिला द्विजाः ॥

तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।

अरोगो जायते नित्यं नरो जन्मनि जन्मनि ॥

अन्धो न च विहीनाङ्गो न कुष्ठी न च कुत्सितः ।

भवत्य् एताम् उषित्वा तु तिलाख्यां द्वादशीं नरः ॥

विष्णुप्रीणनमन्त्रोक्त्या समाप्ते वर्षपारणे ।

पूजां च कुर्याद् विप्राय भूयो दद्यात् तथा तिलान् ॥

अनेन विधिना दाल्भ्य तिलदानान् न संशयः ।

[१११०] मुच्यते पातकैः सर्वैर् अनायासेन मानवः ॥

दानं विधिस् तथा श्रद्धा सर्वपातकशान्तये ।

नार्थप्रभूतो नायासः शरीरे मुनिसत्तम ॥

इति विष्णुधर्मोक्तं तिलद्वादशीव्रतम् ।

कृष्ण उवाच ।

शरतल्पगतं भीष्मं पर्यपृच्छद् युधिष्ठिरः ।

व्रतेन येन पुण्येन यमलोको न दृश्यते ॥

नारी वा पुरुषो वापि शोकं चैव न पश्यति ।

तन् ममाचक्ष्व धर्मज्ञ पितामह कृपां कुरु ॥

भीष्म उवाच ।

एकादशी वैतरणी या तां कृत्वा सुखी भव ।

यमलोकं न पश्ये च शोकं चैव न विन्दति ॥

युधिष्ठिर उवाच ।

केन तात विधानेन कर्तव्या सा महाफला ।

पितामह समाख्याहि तद्विधानं मम प्रभो ॥

कृष्ण उवाच ।

एकादशी तिथिः कृष्णा मार्गशीर्षगता नृप ।

ताम् आसाद्य नरः सम्यग् गृह्णीयान् नियमं शुचिः ॥

एकादशी तिथिः कृष्णा नाम्ना वैतरणी शुभा ।

सा व्रतेन मया कार्या वर्षं नक्तपरा सिता ॥

मध्याह्ने तु नरः स्नात्वा नित्यं निर्वर्तितक्रियः ।

[११११] रात्रौ सुरभिम् आनीय कृष्णाम् अर्चेत् यथाविधि ॥

पूर्वाभिमुख्य् अभिधातव्या कृष्णा गौर् लिप्तभूतले ।

अग्रपादादितः पूज्या पश्चात् पादद्वयावधि ॥

गोपुच्छं तु समासाद्य कुरु वै पितृतर्पणम् ।

ततः पूजा प्रकर्तव्या शास्त्रदृष्टविधानतः ॥

गां चैव श्रद्धया युक्तश् चन्दनेनानुलेपयेत् ।

गन्धतोयेन चरणौ शृङ्गे प्रक्षाल्य भक्तितः ॥

ततो तु पूजयेद् भक्त्या पुष्पैर् गन्धादिवासिनैः ।

मन्त्रैः पुराणसम्प्रोक्तैर् यथास्थानं यथाविधि ॥

तत्र पूजामन्त्रः ।

गोर् अग्ररादाभ्यां नमः । गोर् आस्याय नमः । गोः शृङ्गाभ्यां नमः । गोः स्कन्धाभ्यां नमः । गोपुच्छाय नमः । गोऽग्रपादाभ्यां नमः । गोः सर्वाङ्गेभ्यो नमः ।

स्थानेष्व् एतेषु गन्धांश् च प्रक्षिपेच् छुद्धमानसः ।

पश्चात् प्रदापयेद् धूपं गौर् दीपं प्रतिगृह्यताम् ॥

असिपत्रादिकं घोरं नदीवैतरणीं तथा ।

प्रसादात् ते तरिष्यामि गोमातस् ते नमो नमः ॥

सुखेन तीर्यते यस्मान् नदी वैतरणी ध्रुवम् ।

तस्माद् एकादशीं कृत्वा नाम्ना वैतरणी भवेत् ॥

आनन्दकृत् सर्वलोके देवानां च सदा प्रिया ।

गौस् त्वं पाहि जगन्नाथे दीपो ऽयं प्रतिगृह्यताम् ॥

दीपमन्त्रः ।

आच्छादनं गवे दद्यात् सम्यक् शुद्धं सुनिर्मलम् ।

[१११२] सुरभिर् वस्त्रदानेन प्रीयतां परमेश्वरी ॥

आच्छादनमन्त्रः ।

मार्गशीर्षादिके भक्तं यावन् मासचतुष्टयम् ।

अन्यन् मासचतुष्कं तु यवकाशनम् एव च ॥

श्रावणादिषु मासेषु चतुर्ष्व् अद्याच् च पायसम् ।

तद् अन्नस्य त्रयो भानाः गोगुरु स्वार्थम् एव च ॥

नैवेद्यं हि मया दत्तं सुरभि प्रीयताम् इति ।

द्वितीयं गुरवे दद्यात् तृतीयं स्वयम् एव च ॥

मासान् मासं प्रकुर्वीत मासद्वादशकं व्रतम् ।

उद्यापनं ततः कुर्यात् पूर्णे संवत्सरे सदा ॥

शय्या सतूलिका कार्या दम्पत्योः परिधानकम् ।

सवत्सा कृष्णवर्णा तु धेनुः कार्या पयस्विनी ॥

सौवर्णी पूजयेन् मन्त्रैः पूर्वोक्तैर् भक्तिसंयुतैः ।

ततस् तु गुरवे दद्यात् सर्वं तत्र क्षमापयेत् ॥

नारी वा पुरुषो वापि व्रतस्यास्य प्रभावतः ।

राज्यं बहुविधं भुक्त्वा स्वर्गलोके महीयते ॥

भारो लोहस्य दातव्यः कार्यो ऽसौ द्रोणसम्मितः ।

वैतरण्यां समाप्त्यर्थं ब्राह्मणाय कुटिम्बिने ॥

इति भविष्योत्तरोक्तं वैतरणीव्रतम् ।

[१११३] युधिष्ठिर उवाच ।

मेघावृते ऽम्बरे देव प्रावृट्काले ह्य् उपस्थिते ।

दर्दुरारावभूयिष्ठे केकानादनिनादिते ॥

किं व्रतं तत्र कर्तव्यं स्त्रीभिः पुम्भिर् अथापि वा ।

ब्रूहि मे तत् सोपवासः सर्वनामानि मन्त्रकम् ॥

कृष्ण उवाच ।

प्रकृते श्रावणे मासि कृष्णपक्षे समाहितः ।

एकादश्यां शुचिर् भूत्वा स्नात्वा सर्वैषधीजलैः ॥

माषचूर्णेन राजेन्द्र कुर्याद् इन्दुरिकाशतम् ।

मोदकांश् च तथा पञ्च घृतप्रस्थः सुनिर्मलः ॥

आत्मोपयोगम् उद्दिश्य ततो गत्वा जलाशयम् ।

दुष्टयादोविरहितम् अब्जोपेतजलैर् वृतम् ॥

तस्यैव पुलिने रम्ये जलान्ते गोमयादिना ।

कृत्वा मण्डकं वृत्तं पिष्टकादिभिर् अर्चितम् ॥

चर्चितं गन्धकुसुमैर् धूपदीपाक्षतैः शुभैः ।

तत्र चन्द्रं लिखेत् पार्श्वे रोहिण्या सहितं भुवि ॥

अर्चयीत शुभार्थेन मन्त्रेणानेन भक्तितः ।

सोमराज नमस् तुभ्यं रोहिण्या ते नमो नमः ॥

महासति महादेवि सम्पादय ममेप्सितम् ।

इत्थं सम्पूज्य तस्याग्रे नैवेद्यं देयम् अर्चितम् ॥

तच् चैवं ब्राह्मणे दद्यात् सोमो नः प्रीयताम् इति ।

प्रीयताम् इति मे देवि रोहिणी शशिनः प्रिया ॥

एवम् उच्चार्य तद् दत्वा तज् जलं स्वयम् आविशेत् ।

[१११४] कण्ठान्तं जलमात्रं वा जानुगुल्फान्तम् एव वा ॥

ध्यायते सोमराजं च रोहिणीसहितं विभुम् ।

जलस्थम् एव भुञ्जीत स्वयम् इन्दुरिकाशतम् ॥

पञ्च मोदकान् घृतप्रस्थस्येति शेषः ।

यावत् समस्तं तद् भुक्तं भुक्त्वा तत् तटसंस्थितः ।

निवेद्य वाचनं वाच्यं ततो विप्राय भोजनम् ॥

दक्षिणासहितं दद्यात् स्वशक्त्या परिधानकम् ।

भक्त्या परमया पार्थ वित्तशाठ्यविवर्जितः ॥

यः करोति नरो राजन् नारी वाथ कुमारिका ।

वर्षे वर्षे विधानेन पर्थेदं रोहिणीव्रतम् ॥

इहलोके चिरं स्थित्वा धनधान्यसमाकुले ।

गृहाश्रमे शुभे पार्थ पुत्रपौत्रादिसंयुते ॥

ततः सुतीर्थमरणं लब्ध्वा विष्णुपुरं व्रजेत् ।

दिव्यं वर्षशतं स्थित्वा भुक्त्वा भोगान् अनुत्तमान् ॥

इह चाभ्येत्य राजासौ जायते जनवल्लभः ॥

खे रोहिणी शशिभृता विहृता हिता

यत् कारणं शृणु नरेन्द्र निवेदयामि ।

सत्पिष्टमाषरचितेन्दुरिकाशतं यद्

मुक्तं जले गुडघृतेन फलं तद् एव ॥

गोडो मोदकः ।

इति भविष्योत्तरोक्तं रोहिणीद्वादशीव्रतम् ।

[१११५] युधिष्ठिर उवाच ।

शङ्खचक्रगदापाणे श्रीवत्स गरुडासन ।

मल्लाख्यद्वादशीं ब्रूहि किं विधानं च किं फलम् ॥

कृष्ण उवाच ।

मार्गशीर्षे शुभे मासि देवर्षिपितृसेविते ।

यदा च बण्डीरवटे रमामि यमुनातटे ॥

गोपालमध्ये गोवस्तैर् अष्टवर्षो ऽस्मि लीलया ।

कंसासुरवधार्थाय यमुनोपवने तदा ॥

अवलोवालरूपेण गोपमल्लैर् वलोत्कटैः ।

त एव मल्लगोपाश् च बलेन सह कानने ॥

आष्फोटयन्ति नृत्यन्ति त्रिदिवे त्रिदशा इव ।

सुभद्रो मन्दुलीगण्डस्वर्गोवर्धनगायनः ॥

पक्षेन्द्रभट इत्यादि तेषां नामानि गोकुले ।

गोपीनाम् अपि नामानि प्राधान्येन च बोधयेत् ॥

गोपाली पालिका धन्या विशाखान्या विनिश्चिका ।

गन्धानुगन्धा सीमाभा तारका दशमी तथा ॥

इत्य् एवमादिभिर् अहम् उपवेश्य वरासने ।

पूजितो ऽस्मि शुभैः पुष्पैर् दधिदूर्वाक्षतैस् तथा ॥

शतानां त्रीणि पुष्पाणि मल्लानां पूजयन्ति माम् ।

मल्लैश् चैव सुरागैश् च रङ्गजा मरनर्तनैः ॥

मल्लयुद्धैर् बहुविधैर् मत्तमल्लभटैः स्फुटैः (?) ।

भक्ष्यैर् भोज्यैस् तथा पानैर् दधिदुग्धघृताशनैः ॥

स्नेहसङ्कर्षणैर् हास्यैः कर्षणक्रीडने मिथः ।

[१११६] एवं द्वादश कर्तव्याः स्मर्तव्याः सुसमाहितैः ॥

मल्लैर् विशेषतः कार्यास् तथान्यैर् अपि भक्तितः ।

पूजयन्ति क्रमेणैव मासि मासि तनूर् मम ॥

मार्गशीर्षादिभिः पार्थ पूजयेन् मासनामभिः ।

पारणे पारणे दद्यान् मल्लिकानि द्विजातये ॥

गन्धैः पुष्पैस् तथा दीपैर् गीतवाद्यैर् मनोहरैः ।

मल्लयुद्धैश् च विविधैर् जागरं कारयेन् निशि ॥

घृतदानैः क्षीरदानैर् दधिदानैः पृथक् पृथक् ।

सर्वत्र देवदेवेशः कृष्णो मे प्रीयताम् इति ॥

एवम् एव विधिः प्रोक्तो मन्त्रदानसमन्वितः ।

द्वादशीयं मयाद्यापि क्रियते बलवृद्धये ॥

मल्लानां जयदा यस्मान् मल्लद्वादशिसञ्ज्ञिता ।

तस्मान् मल्लैः प्रकर्तव्या मल्लयुद्धजयार्थिभिः ॥

अन्येषाम् अपि कौन्तेय सर्वार्थजयदायिनी ।

इमां चीर्त्वा पापसङ्घैर् मुच्यते नात्र संशयः ॥

अरण्ये स्याद् यतो भोज्यं दत्तं तैस् तु परस्परम् ।

क्रमेण पाण्डवश्रेष्ठ तेनैषारण्यद्वादशी ।

एषैव मार्गशीर्षे तु गृहीता पार्थ मानवैः ॥

द्वादशिसञ्ज्ञा तु विख्याता द्वादशी भुवनत्रये ।

यस्याः प्रभावाद् राजेन्द्र गोपगोकुलसङ्कुलाः ॥

अजाविगोमहिष्यादिधनधान्यसमृद्धिभिः ।

इमां पापहरां पुण्यां नामाख्यद्वादशीं नृपः ॥

ये करिष्यन्ति मद्भक्तास् तेषां दास्यामि हृद्गतम् ।

[१११७] आरोग्यं बलम् ऐश्वर्यं विष्णुलोकं च शाश्वतम् ।

भण्डीरपादपतले मिलितैर् महद्भिर्

मल्लैर् अनाकुलबाहुबलं नियुद्धैः ।

सम्पूजितः सपदि यत्र तिथौ ततश् च

सा द्वादशी भुवि गता वलमल्लसञ्ज्ञा ॥

इति भविष्योत्तरोक्तं मल्लद्वादशीव्रतम् ।

मैत्रेय उवाच ।

उपवासव्रतानां तु वैकल्यं यन् महामते ।

दानकर्मकृतं तस्य विपाको वद यादृशः ॥

याज्ञवल्क्य उवाच ।

यज्ञानाम् उपवासानां व्रतानां च यतव्रतः ।

वैकल्यात् फलवैकल्यं यादृशं तच्छृणुष्व मे ॥

उपवासादिना राज्यं प्राप्ताश् चान्ये तथा वसु ॥

भ्रष्टैश् चर्या निर्धनाश् च भवन्ति पुरुषाः पुनः ।

रूपं तथोत्तमं प्राप्य व्रतवैकल्यदोषतः ॥

काणाः कुब्जाश् च भूयस् ते भवन्त्य् अन्धाश् च मानवाः ।

उपवासान् नरः पत्नीं नारी वापि तथा पतिम् ॥

वियोगव्रतवैकल्याद् उभयं तद् अवाप्नुते ।

ये ऽपि हव्ये सत्यदारास् तथान्ये सत्यनग्नयः ॥

कुले वसति दुःशीला दुष्कुले शीलिनश् च ये ।

वस्त्रानुलेपनैर् हीना भूषणैश् चातिरूपिणः ॥

विरूपरूपाश् च तथा प्रसाधनगुणान्विताः ।

[१११८] सर्वे ते व्रतवैकल्यात् फलवैकल्यतां गताः ॥

तस्माद् व्रते तथा दाने यज्ञे वोपोषिते तथा ।

वैकल्यं नैव कर्तव्यं वैकल्याद् विकलं फलम् ॥

मैत्रेय उवाच ।

कथञ्चिद् यदि वैकल्यम् उपवासादिके भवेत् ।

किं तत्र वद कर्तव्यं निश्छिद्रं येन जायते ॥

याज्ञवल्क्य उवाच ।

अखण्डद्वादशीम् एतां समस् तेष्व् अपि कर्मसु ।

वैकल्यशमनायालं शृणुष्व गदतो मम ॥

मार्गशीर्षे ऽमले पक्षे द्वादश्यां नियतः शुचिः ।

कृतोपवासो देवेशं समभ्यर्च्य जनार्दनम् ॥

स्नातो नारायणं वक्ति भुञ्जन् नारायणं तथा ।

भुञ्जन् नारायणं देवं स्वपन् नारायणं पुनः ॥

पञ्चगव्यजलस्नातो विष्णुं ध्यात्वा जितेन्द्रियः ।

यवव्रीहिभृतं पात्रं दत्वा विप्राय भक्तितः ॥

इदम् उच्चारयेत् पश्चाद् देवस्य पुरतो हरेः ।

सप्तजन्मनि यत् किञ्चिन् मया खण्डव्रतं कृतम् ॥

भगवंस् त्वत्प्रसादेन तद् अखण्डम् इहास्तु मे ।

यथाखण्डजगत्सर्वं त्वम् एव पुरुषोत्तम ॥

तथाखिलान्य् अखण्डानि व्रतानि मम सन्तु वै ।

एवं मे त्वत्प्रभावेण कामावाप्तिस् तु साम्प्रतम् ॥

एवं मासानुमासं च चातुर्वर्ण्यविधिः स्मृतः ।

चतुर्भिर् एव मासैस् तु पारणं प्रथमं स्मृतम् ॥

[१११९] प्रीणनं च हरेः कुर्यात् पारणे पारणे पुनः ।

चैत्रादिषु तु मासेषु चतुर्थेष्व् एव पारणम् ॥

तत्रापि शक्तुपात्राणि दद्यात् श्रद्धासमन्वितः ।

श्रावणादिषु मासेषु कार्त्तिकान्तेषु पारणम् ॥

तत्रापि घृतपात्राणि (?) दद्याद् विप्राय शक्तितः ।

सौवर्णं राजतं ताम्रं मृण्मयं पात्रम् इष्यते ॥

स्वशक्त्यपेक्षया राजन् पालाशम्बाथ कारयेत् ।

एवं संवत्सरस्यान्ते ब्राह्मणान् संयतेन्द्रियान् ॥

आमन्त्रितान् द्वादश वै भोजयेद् घृतपायसैः ।

वस्त्राभरणदानैश् च प्रणिपत्य क्षमापयेत् ॥

उपदेष्टारम् अपि च पूजयेद् विधिवद् गुरून् ।

गां च दत्वा नृपश्रेष्ठ प्रणिपत्य क्षमापयेत् ॥

एवं सम्यग् यथान्यायम् अखण्डद्वादशीं नरः ।

समुपोष्यानखण्डस्य व्रतस्य फलम् अश्नुते ॥

सप्तजन्मानि वैकल्यं यद्व्रतस्य क्वचित् कृतम् ।

करोत्य् अखण्डम् अखिलम् अखण्दद्वादशी यतः ॥

तस्माद् एषा प्रयत्नेन नरैः स्त्रीभिश् च सुव्रते ।

अखण्डद्वादशीं सम्यग् उपोष्य फलकाङ्क्षया ॥

इति विष्णुधर्मोत्तरे अखण्डद्वादशीव्रतम् । विष्णुधर्मोत्तरोक्तम् उद्यापनम् ।

कृष्ण उवाच ।

नारदेन पुरा विष्णुर् अखण्डद्वादशीव्रतम् ।

[११२०] उद्यापनविधिं पृष्टः कथयामास तं शृणु ॥

नारद उवाच ।

भगवन् देवदेवेश पुराणपुरुषोतम ।

कच्चित् पृच्छामि सन्देहं कारुण्यात् कथय प्रभो ॥

अखण्डद्वादशी यासौ पुराणे कथिता तु या ।

सा सर्वव्रतखण्डानां पूरणाय किम् उच्यते ॥

यथा सर्वव्रतानां तु वैकल्यं पूर्यते प्रभो ।

तस्या उद्यापनविधिर् न सम्यक् कथितस् त्वया ॥

न तत्प्रश्नस्य वक्तास्ति श्रीता वापि सुद्र्लभः ।

विष्नुर् उवाच ।

मार्गशीर्षे शुभे मासि शुक्लपक्षे शुचिव्रतः ।

दशम्यां केशवं पूज्य हविष्यान्नकृताशनः ॥

निर्वर्त्य पश्चिमां सन्ध्यां गृह्णीयाद् दन्तधावनम् ।

उपस्पृश्य यथान्यायं मन्त्रम् एतम् उदीरयेत् ॥

कृष्ण विष्णो हृषीकेश केशव क्लेशनाशन ।

करिष्ये ऽहं व्रतारम्भं भवेद् यावद् दिनत्रयम् ॥

इति सम्प्रार्थ्य गोविन्दं मन्त्रेणादौ ततः स्वपेत् ॥

व्रतग्रहणमन्त्रः ।

ततः प्रभाते चोत्थाय यथोक्तं व्रतम् आचरेत् ।

चतुर्भिः पारणं मासैः कथितं यद् द्विजोत्तम ॥

तत्पात्रदानविधिना भिद्यते न हि पारणम् ।

एवं द्वादश् निर्वर्त्य द्वादशीः पद्मभोद्भव ॥

उद्यापनं ततः कुर्याद् विधिमन्त्रपुरस्कृतम् ।

[११२१] एकादश्यां शुचिः स्नातः शुक्लाम्बरधरो व्रती ॥

सर्वतीर्थेषु यत् पुण्यं सर्वतीर्थेषु यत् फलम् ।

त्वत्पादपद्मतोयेन सर्वं मे भवतु प्रभो ॥

इति स्नानमन्त्रः ।

स्नानं कृत्वा ततो देवं पूजयेद् गरुडध्वजम् ।

एकत्र मूर्तिसम्पन्नं लक्ष्मीनारायणं प्रभुम् ॥

यथाशक्त्या प्रकुर्वीत सौवर्णं रत्नभूषितम् ।

सहस्रशीर्षामन्त्रेण स्नापयेद् गन्धवारिणा ॥

मधुवातादिभिर् मन्त्रैर् मधुना स्नापयेद् धरिम् ।

यथार्यम्नेतिमन्त्रेण क्षीरेण स्नापयेत् ततः ॥

एवं स्नाने कृते पश्चात् पूजां कर्तुं समारभेत् ।

चन्दनोशीरकर्पूरकुङ्कुमादिभिर् अर्चयेत् ॥

तैर् विलिप्य हरिं भक्त्या ततो मन्त्रम् उदीरयेत् ।

यथाशक्त्या मया देव स्नापितश् चानुलेपितः ॥

न्यूनातिरिक्तं तत् सर्वं लक्ष्मीनारायणः क्षमेत् ॥

अनुलेपनमन्त्रः ।

ततो वस्त्रयुगं श्रेष्ठम् आनीय परिधापयेत् ।

पीतं वा लोहितं वापि श्वेतं नानाविचित्रितम् ॥

परिधानं यथाशक्त्या तव देव समर्पितम् ।

न्यूनातिरिक्तं तत् सर्वं लक्ष्मीनारायणः क्षमेत् ॥

इति परिधानमन्त्रः ।

परिधाप्य ततो देवं पुष्पैर् नानाविधैः शूभैः ।

[११२२] सञ्छाद्य पुष्पमालाभिर् मन्त्रम् एतम् उदीरयेत् ॥

पुष्पैर् अपि यथाशक्त्या पूजितो ऽसि जनार्दन ।

नूनातिरिक्तं तत् सर्वं लक्ष्मीनारायणः क्षमेत् ॥

इति पुष्पार्चनमन्त्रः ।

एवं कृत्वा विधानेन शय्यां चैव निवेदयेत् ।

तूलीपर्यङ्कयुक्तां तु छेदप्रच्छेदगूडकैः ॥

प्रतिपादसमारूढैः चतुःपादप्रतिष्ठितैः ।

निवेश्य तत्र देवेशं लक्ष्मीनारायणं शुभम् ॥

नैवेद्यादिनिवेद्यानि नानाभक्ष्ययुतानि च ।

लेह्यान्य् अभ्यवहार्याणि चूष्याणि चर्वणानि च ॥

पानकानि च वै यत्नाद् यस्मिन् देशे यथ तथा ।

तानि सर्वाण्य् उपादाय देवाय विनिवेदयेत् ॥

फलानि च सुगन्धीनि पक्वान्नानि निवेदयेत् ।

एवं निवेद्य तत् सर्वं भक्त्या मन्त्रम् उदीरयेत् ॥

यथावित्तोपसंयुक्तं मया तव निवेदितम् ।

लक्ष्मीनारायण विभो भक्त्या तत् प्रतिगृह्यताम् ॥

इति नैवेद्यदानं तु भक्त्या देवस्य कारयेत् ।

देवस्य तु शिरः पूर्वं पादौ पश्चात् प्रकल्पयेत् ॥

शिरःस्थाने ततः कुम्भं वारिपूर्णं मनोहरम् ।

स्थापयेत् कर्कटीयुक्तं सरत्नं वस्त्रभूषितम् ॥

स्थापयित्वा तु तं कुम्भं ततो मन्त्रम् उदीरयेत् ।

[११२३] भुक्त्वा पीत्वा तथाचम्य तोयेनानेन केशव ।

मद्भक्त्या प्रीतितो देव सुतृप्तः सुमुखः स्वयम् ॥

इति स्थापनमन्त्रः ।

शय्योपचारं यत् किञ्चित् तत् सर्वं विनिवेदयेत् ।

यावत् पूजा समारब्धा स्नानदानाशनान्तिकाः ॥

सघृतं गुग्गुलं तावद् दहेद् देवाग्रतो निशि ।

ततो विप्रं समानीय भार्यया सहितं शुभम् ॥

सर्वदुर्लक्षणैर् हीनं साङ्गोपाङ्गसमन्वितम् ।

वेदविद्याव्रतस्नातः पूजितः स्वकुलोद्भवैः ॥

देवस्यान्ते ततो विप्रं भार्यया सहितं न्यसेत् ।

प्राङ्मुखं विमलं शुद्धं भक्त्या तं पूजयेत् ततः ॥

बहुना किं प्रलापेन कथितेनेह नारद ।

देवः सम्पूजितो यद्वत् तद्वद् विप्रं च पूजयेत् ॥

विष्णुब्राःमणयोर् भेदं न कदाचिद् विकल्पयेत् ।

इति येषां हृदि सदा पूज्या विप्रा यतीश्वराः ॥

द्वादशान्यांस् तथा कुम्भान् पूर्णान् शुद्धेन वारिण ।

स्नापयेद् देवपर्यङ्कोपरितः शुभचेतसा ॥

द्वादशैव तथा गावः सवत्साः कांस्यदोहनाः ।

क्षीरवत्सः सुशीलाश् च स्थापयेद् देवसन्निधौ ॥

अथ वा वित्तवैकल्ये कुर्याद् गोत्रितयं नरः ।

दद्यात् तु सम्यक् भक्ताय तत्राशक्तिम् अतः सतः ॥

एकाप्यम् (?) उत्तमगुणा तस्य सा द्वादशाधिका ।

[११२४] स्ववित्तशक्त्या यत् किञ्चिद् दातुम् उत्सहते नरः ॥

तत् सर्वं द्विजदेवाभ्यां सन्निधौ सम्प्रकल्पयेत् ।

उपस्कराणि दानानि छत्रोपानत्प्रपादुकाः ॥

गोसङ्ख्यादिकृतं सर्वं दानं तस्मिन् प्रकल्पयेत् ।

यदा दानेन गौर् एककल्पा शक्तिप्रपूर्वकम् ॥

सा सम्पूर्णा तु कर्तव्या वत्सेन सह पूजिता ।

स्वर्णशृङ्गीं रौप्यखुरां घण्टाभरणसंयुताम् ॥

तद्वर्णवस्त्रसंवीतां वत्सेन सह पूजयेत् ।

एवं निर्वर्त्य विधिना स्नानपूजादिना समम् ॥

देवब्राह्मणयोर् भक्त्या ततो विप्रान् क्षमापयेत् ।

एतद् गृहाण् मे विप्र भार्यया सहितः प्रभो ॥

एतेनावाह्य तं विप्रं तस्मिन् सर्वं निवेदयत् ।

प्रतिग्रहीता दाता च व्रती विष्णुर् यथा तथा ॥

मया दत्तं इदं सर्वं गृहाण् त्वं द्विजोत्तम ॥

दानमन्त्रः ।

दाता च विष्णुर् भगवान् अन्ततः

प्रतिग्रहीता स च एव विष्णुः ।

तस्मात् त्वया दत्तम् इदं हि सर्वम्

प्रतिगृहीतं च मया शुभाय ॥

ब्राह्मणमन्त्रः ।

अन्येभ्यो ऽपि यथाशक्त्या तस्मिन् काले प्रदीयते ।

दीनान्धकृपणादिभ्यस् तदक्षयफलंस्मृतम् ॥

वित्तशाठ्यं न कुर्वीत समग्रफलम् आप्नुयात् ।

[११२५] इत्य् अखण्डव्रतस्यैव उद्यापनविधिः स्मृतः ॥

कथितस् ते मया वत्स तस्य पुण्यफलं शृणु ॥

यावज् जगज् जलधिशैलधरादि तावत्

तत् सन्ततिर् भवति पुण्यफलोपभोक्ती ।

तावन् न विष्णुभवनात् परिवर्तते ऽसौ

अन्ते लयं च परमात्मनि याति विष्णौ ॥

इत्य् अखण्डद्वादश्या उपायनविधिः ।

यतस् तद् दुर्लभं पुण्यं भुक्तिमुक्तिप्रदं नृणाम् ।

नारदेन पुरा प्राप्तं सकाशाच् चक्रपाणिनः ॥

न च व्यूहं परं पात्रं स्वयं देवेन भाषितम् ।

तद् वदस्व गुरु त्वं मे कुरुष्वानुग्रहं मयि ॥

मर्कण्डेय उवाच ।

श्वेतद्वीपस्थितो विष्णुः पुरा देवासुरर्षिणा (?) ।

आराधितो हरिर् भक्त्या वर्षाणां कोटयस् तु षट् ॥

प्रसन्नस् तस्य देवर्षेः शङ्खचक्रगदाधरः ।

प्रादुर्भूत्वाब्रवीद् वाक्यं नारदं मुनिसत्तमम् ॥

ब्रूहि नारद देवर्षे वरदो ऽस्मि तवानघ ।

मत्सकाशाद् वरो यस् ते चिरात् समभिकाङ्क्षितः ॥

नारद उवाच ।

वेदशास्त्राणि वेदाङ्गधर्मशास्त्राणि वा प्रभो ।

अधीतानि मया सम्यक् सकाशात् पद्मयोनितः ॥

[११२६] न श्रुतं हि मया देवपूजने नैतद् उत्तमम् ।

तत्त्वानां च समुद्धारम् अङ्गानां च तथार्चनम् ॥

यज्ञं च विभवं यज्ञे भुक्तिमुक्तिफलप्रदम् ।

यदि ते ऽस्ति दया देव कृष्ण मे तद् वद प्रभो (?) ॥

श्रीभगवान् उचाच ।

आदौ तु मण्डपं वक्ष्ये शृणुष्वैकमना मुने ।

यत् प्रविष्य नरो याति तत् स्थानं परमं मम ॥

कस्यचित् शुक्लपक्षः स्याद् एकादश्याम् उपोषितः ।

पुमृक्षलग्नसंयोगे यज्ञं कुर्वीत वैष्णवम् ॥

फाल्गुनाषाढशुक्लायां कार्त्तिक्यां ग्रहणे ऽपि वा ।

एकादश्यां सङ्क्रान्त्यौ कर्तव्यं यजनं मम ॥

यथा चोपनतं शिष्यं श्रद्दधानं जितेन्द्रियम् ।

सर्वसत्त्वहितं विप्रभक्तं च सुपरीक्षितम् ॥

यज्ञस् तदैव कर्तव्यो भुक्तिमुक्तिप्रदायकः ।

शैवाय चलचित्ताय हिंसकायाजितात्मने ॥

मम यज्ञो न दातव्यो प्रार्थमानस्य कस्यचित् ।

परीक्ष्य भूमिं सगुणां यज्ञार्थं प्रागुदक्प्लवाम् ॥

मन्त्रयेत् प्रथमं तस्यास् ततः कुर्वीत मण्डपम् (?) ।

अङ्गारतुषकेशास्थिवल्मीककृमिसङ्कुलाम् ॥

सशल्याम् ऊषरां भूमं यत्नेन परिवर्जयेत् ।

नीलां पीतां तथा रक्तां कृष्णवर्णां हि सन्त्यजेत् ॥

आचार्यो वैष्णवो यज्ञं कर्तुम् अर्हति योगवित् ।

अन्यदरनसंलीनं शूद्रं सङ्करजं शठम् ।

[११२७] अकार्यकारिणः सर्वान् आचार्यान् दूरतस् त्यजेत् ॥

ततः प्रवर्तयेत् सम्यक् मण्डापं मुक्तिदायकम् ।

आचार्यः कवचं कृत्वा वैष्णवं त्व् अभयप्रदम् ॥

प्रतिमायां कृतौ पूर्वं चतुःकोणपुरं लिखेत् ।

द्वारैश् चतुर्भिः संयुक्तं समरे खाङ्कितं शुभम् ॥

तस्य मध्ये स्थितं पद्मम् अष्टपत्रं तु वर्तुलम् ।

पीता सौवर्णिका तस्य रक्तकेसररञ्जिता ॥

पुरद्वाराणि शुक्लान् कोणान् रक्तेन रञ्जयेत् ।

चतुरो विन्यसेच् छङ्खान् श्लक्षान् पद्मस्य कोणगान् ॥

पूरयेद् रक्तपुष्पैस् तु अन्तरं पुरपद्मयोः ।

आयुधानि दिगीशानां विलिखेद् वाग्यतः पुमान् ॥

वज्रं शक्तिं तथा दण्डं खड्गं पाशं ध्वजं गदां ।

शूलञ्जिते दिगीशानां स्वासु दिक्षु विनिर्दिशेत् ॥

वर्णादि विन्यसेत् तत्त्वं वासुदेवाख्यम् अव्ययम् ।

शुद्धस्फटिकसङ्काशं कर्णिकायां महाप्रभुम् ॥

पूर्वोक्तान्तरे वर्णं रक्तं पूर्वदले स्थितम् ।

तत्त्वं सङ्कर्षणं चैव सर्वलोकेषु पूजितम् ॥

आद्यं बिन्दुसमायुक्तं विशुद्धकनकप्रभम् ।

आग्नेये तु दले तत्तवं (?) प्राङ्मुखं तु विनिर्दिशेत् ॥

सविसर्गं तथैवाद्यं भिन्नाञ्जनसमन्वितम् ।

खवर्णात् सप्तमं वर्णं याम्ये बिन्दुविभूषितम् ॥

तत्त्वं नारायणाख्यं तु न्यसेन् नैऋतिदिग्दले ।

[११२८] सर्वं ब्रह्ममयं तत्त्वं रक्ताख्यं कुसुमप्रभम् ॥

ईशाने च दले पूज्यं वामनं तत्त्वम् अव्ययम् ।

आकाराणि नवैतानि नमोऽन्तानि तपोधन ॥

ख्यातानि नवतत्त्वानि नवव्यूहेति शब्दितम् ।

अङ्गानि वास्य मुख्यानि नवव्यूहस्य सत्तम ॥

वाहनान्य् आयुधानां च सम्यग् भोगं यथादिशेत् ।

वैनतेयं गरुत्मन्तं पक्षिराजम् अनुत्तमम् ॥

मण्डपस्य न्यसेद् द्वासि पूर्वं चैव तथापरे ।

तं थं रं हुं फड् इति चक्रं त्रैलोक्यवन्दितम् ॥

सुदर्शनमहावीरं न्यसेत् पीठस्य दक्षिणे ।

खं धं फं यं क्षं गदां देवी मं शं शक्तिं सुदुर्जयाम् ॥

उत्तरे तु न्यसेद् द्वारि पूर्वं चैव तथा परे ।

बलवन्तं महाशङ्खं मृणालरजतप्रभम् ॥

पीठस्य पश्चिमे भागे पाञ्चजन्यं विनिर्दिशेत् ।

पद्महस्तां श्रियं देवीं स्वाहाकारं पद्मभूषिताम् ॥

वामे चैनां पराकान्तिं न्यसेत् पीठस्य दक्षिणे ।

मण्डपं च चतुःषष्टिसत्त्ववीर्यबलप्रदम् ॥

गणैशं शाश्वतीं छायां न्यसेत् पीठस्य चोत्तरे ।

वर्वणोद्गमामालां (?) च भूषणाय ममोत्तमा ॥

पीठस्य पश्चिमे भागे न्यसेच् च मम सन्निधौ ।

क्षतं क्षत्रं ववं रुक्षं कौस्तुभं भूषणं मम ॥

पश्चिमे विन्यसेत् तत्र पश्चिमे मुनिसत्तम ।

[११२९] तं मं यं शं महाभोगं फणामणिविभूषण ॥

आधारः सर्वलोकानां तम् अप्य् अस्य विनिर्दिशेत् ।

नवैतानि ममाङ्गानि साकाराणि यथाक्रमम् ॥

पीठमध्ये ऽर्चयेत् सम्यग् बहिः पद्मस्य सत्तम ।

नवव्यूहं तथाङ्गानि परिकल्प्य यथा पुरा ॥

उपरिष्टाद् वितानं तु पताकाभिर् अलङ्कृतम् ।

दर्पणौ पुष्पमालाभिर् यथाशोभं विभूशितौ ॥

एवम् अभ्यर्च्य मां तत्र आचार्यः शिष्यसंवृतः ।

अग्निकुण्डं ततो गच्छेत् प्रदीप्तं दक्षिणान्वितम् ॥

निविश्य माम् अतः शिष्यान् पूजयित्वा हुताशनम् ।

जुहुयान् मूलमन्त्रेण तिलान् व्रीहिघृतप्लुतान् ॥

लक्षम् अष्टोत्तरं हुत्वा सहस्रं शतम् एव च ।

शिष्याणां कायशुद्ध्यर्थं समयं वैष्णवं मुने ॥

नवव्यूहस्य मूर्तानाम् अङ्गानां च यथाक्रमम् ।

शतं शतं तु सर्वेषां हुत्वा चाष्टोत्तरं पृथक् ॥

हुत्वा लक्षं सहस्रं वा अष्टधा तु विधानतः ।

ततः पूर्णाहुतिं दद्यात् समाप्तौ च विशेषतः ॥

समाप्ते तु महायज्ञ्ये तुष्ट्यर्थं त्रिदवौकसाम् ।

वसोर् धारां ततः ततः कुर्यात् प्रदीप्ते यज्ञवाटके ॥

शङ्खदुन्दुभिनिर्घोषैर् मृदङ्गपणवस्वनैः ।

कर्तव्याख्यानकुशलैः मनुजैर् जागरतं निशि ॥

समाप्य विधिवद् यज्ञं प्रभूतं धनसञ्चयम् ।

[११३०] ततो ऽनुपूजयेद् भक्त्या गुरुं दीक्षाप्रदायकम् ॥

यः प्रकाशयते ज्ञानं निष्कलं विपुलं धनम् ।

स गुरुर् वन्दनीयो हि यथैवाहं तथा मुने ॥

दीक्षां प्राप्य गुरोः सम्यज् ज्ञानं वा मत्प्रकाशकम् ।

गुरुं न प्रणमेद् यस् तु स पापो नरकं व्रजेत् ॥

अतः प्रणम्य शिरसा दद्याच् च गुरुदक्षिणाम् ।

भूगाम्बैकाञ्चनं धान्यवस्त्राण्य् आभरणानि च ॥

निवेद्य गुरवे सर्वम् आत्मानं विभवं गृहम् ।

तथा मिथः प्रकुर्वीत यथा सुप्रीतये गुरोः ॥

परितुष्टे गुरुस् तस्य तुष्तो ऽहं नात्र संशयः ।

विमानिते भृशं क्रुद्धे गुरौ वाहं विमानितः ॥

ततो धान्यानि भूगावौ भक्ष्यभोज्यम् अवारितम् ।

चतुर्थस्थाश्रमेभ्यश् च भक्त्या देयं प्रियंवद ॥

यः कारयति मे यज्ञं यो विद्याद् भक्तिमान् नरः ।

यः पश्यति विशुद्धात्मा स याति भवनं मम ॥

इमं यज्ञं महापुण्यं महापातकनाशनम् ।

नवव्यूहं च ते पुत्र प्रोक्तं संसारमुक्तिदम् ॥

आदाहं यो नवव्यूहं यज्ञे यस्मिन् प्रविश्य तु ।

विशुद्धो जन्मदुःखौघाल् लीयते मयि मानवः ॥

मार्कण्डेय उवाच ।

इति गुह्यतमं ज्ञानं नवव्यूहं कपिञ्जल ।

भाशितं वासुदेवेन नारदाय महात्मने ॥

ते नराः पशवो लोके किं तेषां जीवितैः फलम् ।

[११३१] यैर् लब्धा न हरेत् दीक्षां नार्चितो वा जनार्दनः ॥

संसारे ऽस्मिन् महाघोरे जन्मरोगभाकुले ।

स एवैको महाभागः पूजयेद् यो जनार्दनम् ॥

स एवैकः कृती लोके कुलं तेनाप्य् अलङ्कृतम् ।

आधारः सर्वलोकानां येन विष्णुः प्रसादितः ॥

इति विष्णोर् महायज्ञं ये कुर्वन्ति नरा भुवि ।

ते यान्ति शाश्वतं विष्णोर् आनन्दं परमं पदम् ॥

इति विष्णुधर्मोत्तरोक्तं नवव्यूहार्चनम् ।

स्कन्द उवाच ।

विष्णुं वैकुण्ठम् आसीनं देवदेवं जनार्दनम् ।

प्रणम्य शिरसा भक्त्या प्रह्लादो दैत्यसत्तमः ॥

वासुदेव जगन्नाथ भाक्तानाम् अभ्यप्रद ।

अहं हि मनुजैः पृष्टो लोकानां च शूभाशुभम् ॥

शुभगा (?) मनुजाश् चैव केचिद् देवेश दुर्भगाः ।

भवन्ति कर्मणा केन सरूपा रूपवर्जिताः ॥

तैस् तु सर्वैर् अहं पृष्टो न जानामि जनार्दन ।

प्रणम्य शिरसा भक्त्या प्रह्लादो दैत्यसत्तमः ॥

वासुदेव जगन्नाथ भक्तानां अभयप्रद ।

आपृष्टवा जनान् सर्वान् आगतो ऽस्मि तवान्तिकम् ॥

एवं सर्वं ततो मह्यं जनानाम् मम चैव हि ॥

श्रीभगवान् उवाच ।

पुरा कृतयुगे तात न तेजो ऽभूत् (?) हुताशने ।

[११३२] ब्राह्मणस्य च शापेन तनुस् तस्य विरूपिता ॥

ततो देवगणाः सर्वे ऋषिभिः कन्नरैः सह ।

तेन दुःखेन सन्तप्ता ब्रह्माणं शरणं ययुः ॥

देवा ऊचुः ।

देवदेव जगत्कर्ता लोकानां प्रपितामह ।

हुतभुक् द्विजशापेन न च यज्ञेषु हूयते ॥

ब्रह्मोवाच ।

आसीत् (?) पुरा व्रतं गोप्यन्तिलदाहीति सञ्ज्ञकम् ।

तेन व्रतेन देवेन्द्र प्रेरयध्वं हुताशनम् ॥

व्रतस्यास्य प्रभावेण पावको होष्यते ऽध्वरैः ।

तथेति चोक्त्वा देवास् ते व्रतम् अग्निम् अकारयन् ॥

तदा प्रभृतियज्ञेषु हूयते च यथा पुरा ।

लोकपालेषु वैशित्वं दत्तं च ब्रह्मणा स्वयम् ॥

तिलदाही तथाप्य् एका प्रसिद्धा दिवि दैवतैः ।

तथा त्वम् अपि दैत्येन्द्र गच्छ शीघ्रं जनान् प्रति ॥

प्रह्लाद उवाच ।

विधिना केन कर्तव्यं तिलदाही व्रतोत्तमम् ।

कस्मिन् मासे तिथौ चैव विधिना केन तद् भवेत् ॥

श्रीभगवान् उवाच ।

पौषमासेषु या कृष्णतिथिर् एकादशी शुभा ।

ताम् उपोष्य तदा स्नानं कृत्वा नारायणं जपेत् ॥

[११३३] पुष्यर्क्षेण तु सङ्गृह्य गोमयेन तु पिण्डकान् ।

कारयेत् तिलसंयुक्तान् ध्यायेद् देवं जनार्दनम् ॥

होमं कुर्याद् यथाशक्त्या मन्त्रैश् चागमसम्भवैः ।

मण्डलं कारयेद् विष्णोः कुम्भान् स्थाप्य चतुर्दिशम् ॥

सप्तध्यान्यम् (?) उदीच्यां च वस्त्राणि च फलानि च ।

तिलप्रस्थोपरि देवं सश्रियं स्वर्णसम्भवम् ॥

नारायणं न्यसेत् पादौ जानुभ्याम् विष्णुरूपिणम् ।

ऊर्वोस् त्रिक्रमं चिअव मेढ्रे त्रैलोक्यरूपकम् ॥

कट्यां च श्रीधरं देवं पद्माख्यं नाभिमण्डले ।

उदरे नरसिंहं च वैकुण्ठं कण्ठमण्डले ॥

सर्वसाधारणं बाह्वोर् मुखे विज्ञान्विग्रहम् ।

नेत्रे संसारदीपं च सर्वात्मानं शिरस् तथा ॥

एवं न्यासविधिं कृत्वा मन्त्रमूर्तिं प्रकल्पयेत् ।

कृत्वा पूजां यथायोगं ततो ह्य् अर्घ्यं प्रपूजयेत् ॥

फलरत्नसमायुक्तं पुष्पधूपादिधूपितम् ।

मन्त्रेणानेन दैत्येन्द्र ततो ऽहं तोषम् आवहम् ॥

कृष्ण कृष्ण कृपालुस् त्वं सर्वाघौघविनाशन ।

देहि मे रूपसौभाग्यं स्वर्गं मोक्षं च देहि मे ॥

तिलदाहीति ये केचिद् व्रतं कुर्वन्ति मानवाः ।

वरदो ऽहं सदा तेषां ददामि विपुलां श्रियम् ॥

एवं संश्रुत्य दैत्येन्द्रो नमस्कृत्य जनार्दनम् ।

आगतो यत्र सम्मर्दे जनानां संस्थितो भुवि ॥

[११३४] लोका ऊचुः ।

ब्रूहि दैत्येन्द्र यद् वृत्तं कथितं चक्रपाणिना ।

त्वया पृष्टेन लोकानां हितायाग्रे तथा त्व् इह ॥

प्रह्लाद उवाच ।

अहो जना युष्मदर्थे गतो ऽहं यत्र केशवः ।

मम दुःखतरं घोरं मर्दितं चक्रपाणिना ॥

यथोपदिष्टं देवेन निर्णयं कथयाम्य् अहम् ।

सविस्तरं ततो लोके व्याख्यानं दानवेन वै ॥

व्रतस्यास्य प्रभावेण पुरुषत्वं प्रजायते ।

अजरा जायते तत्र न च दुःखं प्रपश्यति ॥

मनोरथाः सुसम्पूर्णाः पुत्रपौत्रसमन्विताः ।

अवैधव्यं सदा स्त्रीषु सतीत्वं जायते जने ॥

भर्त्रा सह तथैकत्वं सुनिर्वाणं समृच्छति ।

पूर्वं तावत् कृतं शच्या इन्द्रपत्न्या सुशीलया ॥

अनुसूयारुन्दतीभ्यां सीतया च कृतं तथा ।

द्रौपद्यैतद् व्रतं सर्वं यावज्जीवम् अनुष्ठितम् ॥

सुखम् आरोग्यम् ऐश्वर्यं रूपसौभाग्यबुद्धिदम् ।

सन्ध्यया संस्तुतं सर्वं पाञ्चाल्या यद् अनुष्ठितम् ॥

तत् सर्वं साथ पप्रच्छ विष्णुपत्नी यशस्विनी ।

तिलदाहीव्रतं भद्रे ब्रूहि त्वं सखि सुव्रते ॥

विधिम् उद्यापनं चैव कथयस्व यथातथम् ।

द्रौपदी कथयामास व्रतस्यास्य विधिक्रमम् ॥

पौषे मासे तु या कृष्णा तिथिर् एकादशी तथा ।

[११३५] ताम् उपोष्य ततः स्नानं विधिपूर्वं समाचरेत् ॥

मौनं सङ्कल्प्य सञ्चित्य पुराणपुरुषोत्तमं ।

ततः पूजा विधातव्या मन्त्रैः स्वागमसम्भवैः ॥

अर्घ्यं दत्वा विधानेन स्तुतिं कुर्यात् पुनः पुनः ।

उद्यापनविधिं वच्मि शृणुष्वैकमनाः सति ॥

तिलप्रस्थोपरिदेवं सश्रियं सुवर्णसम्भवम् ।

पूजयेन् मण्डलं पश्चाद् वस्त्रैर् आभरणैः फलैः ॥

कुम्भाः सवस्त्राः कर्तव्याश् चत्वारो मण्डपाद् बहिः ।

सप्तधान्यम् उदीच्यां तु प्राच्यं होमं तु कारयेत् ॥

आचार्यं सकलत्रं च वार्चयेत् कुसुमादिभिः ।

वस्त्रैर् आभरणैः पुष्पैः फलैर् नानाविधोत्तमैः ॥

एवं यः कुरुते भद्रे नारी वा पुरुषो ऽपि वा ।

वर्षे वर्षे तु शुश्रोणि गां च दद्यात् सदक्षिणाम् ॥

तिलदाहीव्रतं सम्यग् ये प्रकुर्वन्ति मानवाः ।

तेषां सौभाग्यम् अतुलं सुन्द्राङ्गः प्रजायते ॥

एतद् व्रतं सविस्तारम् उद्यापनसमन्वितम् ।

यः करोति सदा भक्त्या स वैष्णवपुरं व्रजेत् ॥

एवं यः कुरुते भद्रे नारी वा पुरुषो ऽपि वा ।

सर्वकामसमृद्धं तु परं पदम् अवाप्नुयात् ॥

इति स्कन्दपुराणोक्तं तिलदाहीव्रतम् ।

[११३६]

मैत्रेय उवाच ।

विधानं शृणु राजेन्द्र यथादृष्टं मन्षीषिभिः ।

यथोक्तं नियमं कुर्याद् एकादश्याम् उपोषितः ॥

दन्तकाष्ठं प्रगृह्यादौ वाग्यतो नियतेन्द्रियः ।

श्रवणद्वादशीयोगे समुपोष्य जनार्दनम् ॥

अर्चयित्वा विधानेन अहं भोक्ष्ये परे ऽहनि ।

नदीनां सङ्गमे स्नायाद् अर्चयेद् यत्र वा मनः ॥

सौवर्णं रक्तसंयुक्तं द्वादशाङ्गुलम् उच्छ्रितम् ।

पीतवस्त्रैः शुभैर् वेष्ट्य भृङ्गारं निर्व्रतं नवम् ॥

हिरण्मयेन पात्रेण अर्घ्यपात्रं प्रकल्पयेत् ।

दध्यक्षतफलैश् चैव सहिरण्यं सचन्दनम् ॥

नमस् ते पद्मनाभाय नमस् ते जलशायिने ।

तुभ्यम् अर्घ्यं प्रयच्छामि वालवामनरूपिणे ॥

नमः कमलकिञ्जल्कपीतनिर्मलवाससे ।

महाहररिपुस्कन्ध धृतचक्राय चक्रिणे ॥

नमः शार्ङ्गासिशङ्खाब्जपाणये वामनाय च ।

यज्ञाय यज्ञेश्वराय यज्ञोपकरणाय च ॥

यज्ञभुक् फलदात्रे च वामनाय नमो नमः ।

देवेश्वराय देवाय देवसम्भूतिकारिणे ॥

प्रभवे सर्वदेवानां वामनाय नमो नमः ।

मत्स्यकूर्मवराहाय नरसिंहस्वरूपिणे ॥

रामरामत्रिरामाय वामनाय नमो नमः ।

[११३७] श्रीधराय नमस् तुभ्यं नमस् ते गरुडध्वज ॥

चतुर्बाहो नमस् ते ऽस्तु नमस् ते धरणीधर ।

एवं पूज्य विधानेन नरः स्रक्चन्दनादिभिः ॥

रात्रौ जागरणं कुर्यात् पुरतो जलशायिनः ।

धृत्वा जलमयं रूपं देवदेवस्य चक्रिणः ॥

ब्रह्माण्डम् उदरे यस्य महद्भूतैर् अधिष्ठितम् ।

मायावी वामनः श्रीशः सो ऽत्रायातु जगत्पतिः ॥

एवं सम्पूजयित्वा तु द्वादश्याम् उदये रवेः ।

भृङ्गारसहितं वस्त्रं संवत्सरं प्रपूजयेत् ॥

वामनः प्रतिगृह्णातु वामनो ऽहं ददामि तम् ।

वामनं सर्वतोभद्रं विजयार्थं निवेदयेत् ॥

जलधेनुं तथा दद्याच् छत्रं चैव तु पादुकम् (?) ।

सहिरण्यानि वस्त्राणि धेनुं वानडुहं (?) नृप ॥

यत् किञ्चिद् दीयते तत्र तदानन्त्याय कल्पते ।

श्रवणद्वादशीयोगे सम्पूज्य गरुडध्वजम् ॥

दत्वा दानं द्विजातिभ्यो वियोगे पारणं ततः ।

सिंहस्थिते तु मार्तण्डे श्रवणस्थे निशाकरे ॥

श्रवणद्वादशी ज्ञेया न स्याद् भाद्रपदाद् ऋते ।

दशम्य् एकादशी यत्र सानुपोष्या भवेत् तिथिः ॥

श्रवणेन तु संयुक्ता सा शुभा सर्वकामदा ।

श्रवणेन युक्ता या दशमी साप्य् उपोष्येत्य् अर्थः ।

[११३८] पारणं तिथिवृद्धौ तु द्वादश्याम् उडुसङ्क्षयात् ॥

वृद्धौ कुर्यात् त्रयोदश्यां तत्र दोषो न विद्यते ।

द्वादशीतौल्ये नक्षत्रे द्वादश्यां पारणम् अधिक त्रयोदश्याम् इत्य् अर्थः ।

इत्य् एषा कथिता राजन् द्वादश्यां श्रवणे तथा ।

कर्तव्या सा प्रयत्नेन इहामुत्रफलप्रदा ॥

इत्य् अग्निपुराणे विजयद्वादशीव्रतम् ।

कृष्ण उवाच ।

द्वादश्यास् तु विधिः प्रोक्तः श्रवणेन युधिष्ठिर ।

सर्वपापप्रशमनः सर्वसौख्यप्रदायकः ॥

एकादशी यदा शुक्ला श्रवणेन समन्विता ।

विजया सा तिथिः प्रोक्ता भक्तानां विजयप्रदा ॥

पुरा देवगणैः सर्वैः समवेतैर् वरार्थिभिः ।

नारदः प्रार्थितो विष्णुश् चन्द्राग्न्यनिलसंयुतः ॥

बलवान् विजितो दैत्यो बलिर् नामा महाबलः ।

तेन देवगणाः सर्वे त्याजिताः सुरमन्दिरम् ॥

त्वं गतिः सर्वदेवानां शीघ्रम् अस्माकम् उद्धर ।

जहि दैत्यं महाबाहो बलिं बलवताम्बरम् ॥

श्रुत्वा विष्णुस् तदा वाक्यं देवानां दरुणोदयम् ।

उवाच वाक्यं वाक्यज्ञो देवानां हितकाम्यया ॥

जानामि विरोचनेः पुत्रं बलिं त्रैलोक्यकण्टकम् ।

तपसा भावितात्मानं शान्तं दान्तं जितेन्द्रियम् ॥

[११३९] मद्भक्तं मद्गतप्रानं सत्यसन्धं महाबलम् ।

प्रजापतिसमं ख्यात्या प्रजानां प्रियकारकम् ॥

तद्गुणा न हि शक्यन्ते वक्तुं कैर् अपि भूतले ।

अवश्यं नावसेयो ऽतो भोक्तव्यं तपसः फलम् ॥

तपस्यान्तश् च बहुना कालेनास्य भविष्यति ।

अथ काले बहुतिथे सादितिर् गुर्विणी भवेत् ॥

सुषुवे नवमे मासि पुत्रं बालाकृतिं हरिम् ।

ह्रस्वपादं ह्रस्वकायं महासिरसम् अर्भकम् ॥

पाणिपादोदरकृशम् ऊरूकन्धरकद्वयम् ।

दृष्ट्वा सुवामनं जातम् अदितेश् चकितं मनः ॥

भयं बभूव दैत्यानां देवानां तोषम् आबभौ ।

जातकर्मादिकस् तस्य संस्कारः स्वयम् एव हि ॥

चक्रे च कश्यपो धीमान् प्रजापतिसमन्वितः ।

आबद्धमेखलो दण्डो यतिर् यज्ञोपवीतिनां ॥

कुशचर्माजिनधरः कमण्डलुविभूषितः ।

बलेर् बलवतो यज्ञं जगाम बहुविस्तरम् ॥

दृष्ट्वा बलिं तु यज्वानं वामनो ऽभ्येत्य तत्क्षणम् ।

अर्थं नाहं यज्ञपते दीयताम् मम् मेदिनी ॥

पदत्रयप्रमाणेन पठनार्थे स्थितो ह्य् असि ।

दत्ता दत्तास्तु च मया बलिः प्राह द्विजोत्तमम् ॥

[११४०] ततो वदितुम् आरब्धं वामनो ऽनन्तविक्रमः ।

पादौ भूमौ प्रतिष्ठाप्य शिरसावृत्य रोदसी ॥

नाभ्याम् इन्द्रादिकान् लोकान् ललाटे ब्रह्मणः पदम् ।

न तृतीयं पदं लेभे ततो नेदुर् दिवौकसः ॥

तं दृष्ट्वा महद् आश्चर्यं सिद्धाद्या ऋषयस् तथा ।

साधु साध्व् इति देवेशं प्रशशंसुर् मुदान्विताः ॥

ततो दैत्यगणाः सर्वे जित्वा त्रिभुवनं वशी ।

बलिम् आह ह्य् अधो गच्छ सुखं सबलवाहनः ॥

तत्र त्वम् ईप्सितान् भोगान् भुक्त्वा मद्बाहुपालितः ।

अस्येन्द्रस्यावसाने तु त्वम् एवेन्द्रो भविष्यसि ॥

एवम् उक्तो बलिः प्रायान् नमस्कृत्य नरोत्तमम् ।

विसर्ज्यायं बलिं देवलोकपानान् उवाच ह ॥

स्वानि धिष्णानि गच्छध्वं तिष्थध्वं विगतज्वराः ।

देवेनोक्ता गता देवाः प्रहृष्टा पूज्य वामनम् ॥

एवम् उक्त्वा जगत्कर्ता तत्रैवान्तर् अधीयत ।

एतत् सर्वं समभवद् एकादश्यां नराधिप ॥

तेनेष्टा देवदेवस्य सर्वथा विजयान्वितः ।

एषैव फाल्गुने मासि पुष्येण सहिता नृप ॥

विजया प्रोच्यते सद्भिः कोटिकोटिगुणोत्तरा ।

एषैवेति शुक्लपक्षैकादशी पराम्ष्यते ।

[११४१] एकादश्यां सोपवासो रात्रौ संऊजयेद् धरिम् ।

रौप्यसौवर्णपात्रे वा दारुवंशमये ऽपि वा ॥

आच्छाद्य पात्रं वासोभिर् अहतैः फलसंयुतैः ।

मार्गचर्मेण गन्धैश् च भक्त्या वा शक्त्यपेक्षया ॥

तिलाढकेन वित्ताढ्यैः प्रस्थेन कुडम् एव वा ।

अलाभे यवगोधूमैः फलैः शुक्लतिलैर् भवेत् ॥

पुष्पैर् गन्धैः फलैर् धूपैः कालोत्थैर् अर्चयेद् धरिम् ।

नानाविधैश् च नैवेद्यैर् भक्ष्यभोज्यैर् गुडोदनैः ॥

स्ववित्तम् अनुसारेण सहिरण्यं च कारयेत् ।

मन्त्रवते शतगुणं भक्त्या लक्षगुणोत्तरम् ॥

भक्तिमन्त्रगुणोपेतं कोटिकोटिगुणोत्तरम् ।

एभिर् मन्त्रपदैस् तत्र पूजयेद् गरुडध्वजम् ॥

उपहारैर् नरशेष्ठ शुचिर् भूत्वा समाहितः ।

ॐ जलोपमदेहाय जलजास्याय शङ्खिने ।

जलराशिस्वरूपाय नमस् ते पुरुषोत्तम ॥

नमः कमलनाभाय नमस् ते जलशायिने ।

नमस् ते केशवानन्त वासुदेव नमो ऽस्तु ते ॥

स्नानमन्त्रः ।

मलयेषु समुत्पन्नं गन्धाढ्यं सुमनोहरम् ।

मया निवेदितं तुभ्यं गृहाण परमेश्वर ॥

चन्दनमन्त्रः ।

[११४२] वनस्पतिसमुत्पन्नं गन्धाढ्यं सुमनोहरम् ।

मया निवेदितं पुष्पं गृहाण पुरुषोत्तम ॥

पुष्पमन्त्रः ।

नमः कमलकिञ्जल्क पीतनिर्मलवाससे ।

महाहवे रिपुस्कन्धघृष्टचक्राय चक्रिणे ॥

पूजामन्त्रः ।

मत्स्यकूर्मवराहं च नारसिंहं च वामनम् ।

रामं रामं च कृष्णं च अर्चयामि नमो नमः ॥

अर्चनमन्त्रः ।

पादाद्यैकास्य पूजनं शीर्षम् अतः सर्वाङ्गपूज

धूपो ऽयं देवदेवेश शङ्खचक्रगदाधर ।

अच्युतानन्द गोविन्द वासुदेव नमो ऽस्तु ते ॥

धूपमन्त्रः ।

त्वम् एव पृथिवी ज्योतिर् वायुर् आकाशम् एव च ।

त्वम् एव ज्योतिषां ज्योतिर् दीपो ऽयं प्रतिगृह्यताम् ।

दीपमन्त्रः ।

अन्नं चतुर्विधं स्वादु रसैः षड्भिः समन्वितम् ।

मया निवेदितं देव प्रसीद परमेश्वर ॥

अग्निर् यमो वैश्रवणः पापं मे हन्तु मे ऽव्ययम् ॥

नैवेद्यमन्त्रः ।

जगदादिर् जगद्रूपो ह्य् अनादिर् जगदन्तकृत् ।

[११४३] जलाशयजगद्योनिः प्रीयतां मे जनार्दनः ॥

प्रीणनमन्त्रः ।

अनेककर्मनिर्बन्धध्वंसिनं जलशायिनम् ।

नतो ऽस्मि मदुरावासं माधवं मधुसूदनम् ॥

नमो वामनरूपाय नमस् ते ऽस्तु त्रिविक्रम ।

नमस् ते मणिबन्धाय वासुदेय नमो ऽस्तु ते ॥

नमस्कारमन्त्रः ।

नमओ नमस् ते गोविन्द वामनेश त्रिविक्रम ।

अघौघसङ्क्षयं कृत्वा सर्वकामप्रदो भव ॥

प्रार्थनामन्त्रः ।

सर्वगः सर्वदेवेशः श्रीधरः श्रीनिकेतनः ।

विश्वेश्वराय विष्णुश् च श्रीशायी च नमो नमः ॥

शयनमन्त्रः ।

सर्वं सम्पूजयेद् रात्रारेकादश्यां नृपोत्तम ।

जागरं तत्र कुर्वीत गेयवादित्रनिस्वनैः ॥

याश्रव श्रवणे युक्ता द्वादशी परमा तिथिः ।

तस्याहं सङ्गमे स्नात्वा सर्वपापैः प्रमुच्यते ॥

एवं स नियमं कृत्वा प्रभाते विमले सति ।

प्रदेयः शास्त्रविदूषि ब्राह्मणे मन्त्रतो नृप ॥

ब्राह्मणश् चापि मन्त्रेण प्रतिगृह्णीत मन्त्रवित् ।

वामनो बुद्धिदो दाता द्रव्यस्थो वामनः स्वयम् ॥

वामनस्य प्रतिग्राही वामनाय मन्स् तु ते ।

[११४४] ॐ गुह्यम् । ॐ शिरसि । पुष्पफननैव्द्यं सर्वम् एतद् अर्चनविधिना दद्यात् ।

एवम् उपोष्य विधिवद् एकादश्यां समन्त्रकम् ।

पूर्वोक्तविधिना चैव प्रतिपक्षो भयङ्करः ॥

हस्त्यश्वरथजातीनां दाता भोक्ता विमत्सरी ।

रूपसौभाग्यसम्पन्नो दीर्घायुर् निर्जितो भवेत् ॥

पुत्रैः परिवृतो जीवो जीवेच् च शरदः शतम् ।

एषा व्युष्टिः समाख्याता एकादश्यां मया तव ॥

पूर्वम् एव समाख्याता द्वादशी श्रवणान्विता ।

उपोष्यैकादशीं पश्चाद् द्वादशीम् अप्य् उपोषयेत् ॥

न चात्र विधिलोपः स्याद् उभयोर् देवता हरिः ।

एकादशी द्वादशी चान्यतरस्यां वा श्रवणयुक्तायां श्रवणयुक्तोपवासेनैव व्रतद्वयसिद्धिः एकस्मिन् व्रते पूर्वम् अन्यां तिथिम् उपोष्य पश्चाद् अपारयित्वा नान्योपोष्या इति यो विधिलोपः स एव देवतैकत्वे न भवतीत्य् अर्थः ।

बुधश्रवणसंयुक्ता द्वादशी सङ्गमोदकम् ।

स्नानं दध्योदनं सम्यग् उपवासः परो विधिः ॥

सगरेण ककुत्स्थेन धुन्धुमारेण गादिना ।

एतैश् चान्यैश् च राजेन्द्र कामाच् च द्वादशीव्रतम् ॥

सा द्वादशी बुधयुता श्रवेणेन साकं

स्याज् जायतेति कथिता ऋषिभिर् नभस्ये ।

[११४५] ताम् आदरेण् समुपोष्य नरो ऽमर्तत्वम्

आप्नोति पार्थ अणिमादिगुणोपपन्नम् ॥

इति श्रीभविष्योत्तरे विजयद्वादशीश्रवणद्वादशीव्रतम् ।

ब्रह्मोवाच ।

एकादश्यां यथोद्दिष्टा विश्वेदेवाः प्रपूजिताः ।

प्रजां पशून् धनं धान्यं प्रयच्छन्ति महीं तथा ॥

मूलमन्त्रः स्वसञ्ज्ञाभिर् अङ्खमन्त्राः प्रकीर्तिताः ।

पूर्ववत् पद्मपत्रस्थः कर्तव्यश् च तिथीश्वरः ॥

अत्र तिथीश्वरो विश्वेदेवाः ।

गन्धपुष्पोपहारैश् च यथाशक्ति विधीयते ।

पूजाशाठ्येन शाठ्येन कृतापि तु फलप्रदा ॥

आज्यधारासमिद्भिश् च दधिक्षीरान्नमाक्षिकैः ।

पूर्वोक्तफलदो होमः कृतः शान्तेन चेतसा ॥

एतद् व्रतं वैश्वानरप्रतिपद्व्रतवद् व्याख्येयम् ।

इति भविष्यत्पुराणोक्तं विश्वव्रतम् ।

कृत्वा भूरितरं पापं ज्ञानतो ऽज्ञानतो ऽपि वा ।

तस्य पापस्य शान्त्यर्थं किं दानं किम् अथ व्रतम् ॥

ब्रह्मोवाच ।

महाव्रतम् इदं वत्स सर्वपापप्रणाशनम् ।

कीर्तयिष्यामि ते वत्स सुखकीर्तिधनप्रदम् ॥

[११४६] पुष्यर्क्षेण समायुक्ता शुक्ला वै द्वादशी भवेत् ।

सा प्रोक्ता वासुदेवेन सर्वपापप्रणाशिनी ॥

ये ऽर्चयन्ति नरास् तस्यां भक्त्या देवं जनार्दनम् ।

समुपोष्य विमुच्यन्ते पापैस् ते शतजन्मजैः ॥

कर्मणा मनसा वाचा यत् पापं समुपार्जितम् ।

तत् क्षालयति गोविन्द तिथौ तस्यां समर्चितः ॥

तत् क्षालयति गोविन्द तिथौ तस्यां समर्चितः ।

स्नानं जपो ऽथ वा होमः समुद्दिश्य जनार्दनम् ॥

नरैर् यत् क्रियते तस्यां तदन्तफलं भवेत् ।

यस्मान् नाशयते जन्तोः पापं जन्मशतोद्भवम् ॥

पुष्यर्क्षैकादशी तस्मात् प्रोक्ता पापप्रणाशिनी ।

एवम् एव पुरा प्राह भानुः सारथिनं प्रति ॥

भानुर् उवाच ।

द्वादशी वा परा ब्रध्नपुष्येणैव च संयुता ।

उपोष्या तु प्रयत्नेन द्वादशी पापनाशनी ॥

पुष्येण द्वादशीयुक्ता शुक्ला वै फाल्गुनस्य च ।

जया सा द्वादशी प्रोक्ता स्वयं वा विष्णुना पुरा ॥

तस्यां दत्तं तपस् तप्तं कोटिकोटिगुणोत्तरम् ।

एकादश्यां निराहारो द्वादस्यां विष्णुम् अर्चयेत् ॥

रौप्यसौवर्णपात्रे वा दारुवंशमये ऽपि वा ।

आच्छाद्य पात्रं वासोभिर् अहतैः सुपरीक्षितैः ॥

मार्गैश् च मेढजैश् चैव सिद्धिः स्याच् छक्त्यपेक्षया ।

तिलाढकेन वित्ताढ्यैः प्रस्थेन कटजेन वा ॥

अलाभे चैव गोधूमैः फलं मुख्यं तिलैर् भवेत् ।

[११४७] पुष्पैर् धूपैः फलैर् गन्धैः कालोत्थैर् अर्चयेद् धरिम् ॥

नानाविधैश् च वैवेद्यैर् भक्ष्यैर् भोज्यैर् गुडोदनैः ।

जागरं तत्र कुर्वीत गेयवादित्रनिस्वनैः ॥

एवं सनियमस्यास्य प्रभाते विमले सति ।

भक्त्या वा वित्तसारेण सहिरण्यं प्रदापयेत् ॥

समाप्ते तु व्रते ब्रह्मन् यत् पुण्यं तन् निबोध मे ।

चतुर्युगानां विप्रेन्द्र एकसप्तति खेचर ॥

तावद् विष्णुपुरे तत्र क्रीडते कालम् अक्षयम् ॥

इत्य् आदित्यपुराणोक्तं विजयाद्वादशीव्रतम् ।

पुलस्त्य उवाच ।

एकादश्यां शुल्कपक्षे यदा तु स्यात् पुनर्वसुः ।

नाम्ना सा तिजया ख्याता तिथीनाम् उत्तमा तिथिः ॥

यो ददाति तिलप्रस्थं त्रिकालं वत्सरं नृप ।

उपवासं तु तस्यां यः करोत्य् अभ्येत्य तत्समम् ॥

तस्यां जगत्पतिर् देवः सर्वलोकेश्वरो हरिः ।

प्रत्यक्षतां प्रत्यात्य् अस्मात् तत्रानन्तफल्ं स्मृतम् ॥

सगरेण ककुत्स्थेन धुन्धुमारेण गाधिना ।

तस्याम् आराधितः कृष्णो दत्त्वान् अखिलां भुवम् ॥

इति विष्णुधर्मोत्तरोक्तम् अतिविजयैकादशीव्रतम् ।

वज्र उवाच ।

केवलं कृष्णपक्षस्य द्वादशीषु जनार्दन ।

[११४८] कदाप्रभृति धर्मज्ञ विधिना केन वार्चयेत् ॥

मार्कण्डेय उवाच ।

माघ्यां तु समतीतायां द्वादशी या भवेन् नृप ।

ततः प्रभृति कर्तव्यं व्रतम् एतद् उपोषिता ॥

द्वादशीषु च कृष्णासु नाम कृष्णस्य कीर्तयेत् ।

तेनैव नाम्ना कर्तव्यौ जपहोमौ तथैव च ॥

तिलैर् निवेदनं कार्यं होमे कार्यं तथा तिलैः ।

पौष्यां तु समतीतायां कृष्णा या द्वादशी भवेत् ॥

तस्यां व्रतावसाने तु तिलान् दद्याद् द्विजातिषु ।

सुवर्णं च महीपाल रक्तवस्त्रं तथैव च ॥

संवत्सरम् इदं कृत्वा व्रतं मनुजपुङ्गव ।

तिर्यग्योनिं न चाप्नोति स्वर्गलोकं च गच्छति ॥

यावज्जीवं व्रतम् इदं यः करोति समाहितः ।

न स दुःखम् अवाप्नोति नारकं मनुजोत्तम ॥

यत्र वैतरणी दुर्गा क्षुरधारा सपर्वता ।

पापानां पावना यत्र तरासौ न गमिष्यति ॥

यस्या गणा भीमबला महोग्रा

दंष्ट्राकरालाग्रकरोग्रवेषा ।

विद्रावणाः पापकृतां नराणां

दृष्टेर् न तस्यानद्य यान्ति मार्गम् ॥

इति विष्णुधर्मोत्तरोक्तं कृष्णद्वादशीव्रतम् ।

[११४९] वज्र उवाच ।

एकाम् उपोष्य कृष्णां यां द्वादशीं विधिना नरः ।

महाफलम् अवाप्नोति तन् ममाचक्ष्व मार्गव ॥

मार्कण्डेय उवाच ।

माध्यां तु समतीतायां श्रवणेन तु संयुता ।

द्वादशी या भवेत् कृष्णा प्रोक्ता सा तिलद्वादशी ॥

तिलैः स्नानं तिलैर् होमं नैवेद्यं तिलमोदकैः ।

दीपैश् च तिलतैलेन तथा देयं तिलोदकम् ॥

तिलाश् च देया विप्रेषु तस्मिन्न् अहनि पार्थिव ।

उपवासदिने राजन् होतव्याश् च तथा तिलाः ॥

उपोषितेनापरे ऽह्नि होतव्यश् च विशेषतः ।

इन्धनं च प्रदातव्यं ब्राह्मणेषु तथानघ ॥

तिलप्रस्थं तदा हुत्वा सोपवासो जितेन्द्रियः ।

न दुर्गतिम् अवाप्नोति नात्र कार्या विचारणा ॥

तद् विष्णोः परमं नित्ये सोममन्त्रः प्रकीर्तितः ।

पौरुषं च तथा सूक्तं श्रीसूकेन च संयुतम् ॥

होमः कार्यो ऽथ राजेन्द्र सावित्र्या परमात्मनः ।

एतत् प्रोक्तं द्विजातीनां स्त्रीशुद्रेषु च यत् शृणु ॥

द्वादशाक्षरौ मन्त्रौ च तेषां प्रोक्तौ महात्मनाम् ।

हितौ तौ च द्विजातीनां मन्त्रश्रेष्ठौ नराधिप ॥

तेभ्यो ऽप्य् अधिकमन्त्रो ऽपि विद्यते न हि कुत्रचित् ॥

वज्र उवाच ।

द्वादशाष्टाक्षरौ मन्त्रौ कथयस्व ममानघ ।

[११५०] पुण्योः पवित्रौ माङ्गल्यौ सर्वपापप्रणाशनौ ॥

मार्कण्डेय उवाच ।

ॐ नमो भगवते वासुदेवाय । ॐ नमो नारायणाय ।

एतौ मया वः कथितौ पवित्रौ

मन्त्राविनौ पापहरौ धरण्याम् ।

परायणौ सर्वतपस्विनां वरौ

वरस्य भूतौ भुवनेषु नित्यम् ॥

यथातिथिस् ते श्रवणेन युक्ता

माघस्य मासस्य तथा मयोक्ता ।

कार्या तथेयं नृपतेर् विशेषाद्

योगे पवित्रे सरिताह्वयस्य ॥

इति विष्णुधर्मोक्तं तिलद्वादशीव्रतम् ।

एकादशी तथा कृष्णां फाल्गुने मासि भार्गव ।

छन्दोदेवस्य कर्तव्यः पूजा धर्मभृतां वर ॥

पूजन्च्छादनदेवस्य येनायं गुणवर्जितम् ।

न प्राप्नोति तथा प्रीतिं गुणवन्तीं न संशयम् ॥

इति धर्मोत्तरोक्तं कृष्णैकादशीव्रतम् ।

[११५१] एकादशीं तथा प्राप्य चैत्रे शुक्लस्य पूजयेत् ।

सम्पूज्य तं महाभागं गृहमङ्गलम् अश्नुते ॥

तम् इति छन्दोदेवम् ।

इति विष्णुधर्मोत्तरोक्तम् अवैधव्यशुक्लैकादशीव्रतम् ।

मार्कण्डेय उवाच ।

अहङ्कारकं तथा सूर्यं निरृतिं वापगेश्वरः ।

हवनं वेश्वरं मृत्युं कपालकषकिङ्किणीम् ॥

तत्र वैकादशाद् यस् तु देवान् त्रिभुवनेश्वरान् ।

एकादश्यां सोपवासः सोमं सम्पूजयेत् तथा ॥

गन्धमाल्यनमस्कारदीपधूपान्नसम्पदाः ।

मार्गशीर्षाद् अथारभ्य यावत् संवत्सरं भवेत् ॥

संवत्सरान्ते दद्याच् च ब्राह्मणाय पयस्विनीम् ।

कृत्वा व्रतं वत्सरम् एतद् इष्टं

रुद्रत्वम् आप्नोति नरस् तु राजन् ।

रुद्रेण सार्धं सुचिरं वसित्वा

कामान् अप्राप्नोति [अवाप्नोति?] मनो ऽभिरामान् ॥

तथा सर्वगतान् रुद्रान् मुदा सर्वत्र पूजयेत् ।

सर्वकामान् अवाप्नोति सर्वगान् अपराजितान् ॥

इति विष्णुधर्मोत्तरोक्तं सर्वकामव्रतम् ।

[११५२] सनत्कुमार उवाच ।

मासि भाद्रपदे शुक्लपक्षे यदि हरेर् दिनम् ।

बुधश्रवणयोगश् च प्राप्यते तत्र पूजितः ॥

प्रयच्छति सुतान् कामान् वामनो मनसि स्थितान् ।

विजया नाम सा प्रोक्ता तिथिः प्रीतिकरो हरेः ॥

सङ्गमः सर्वतीर्थानां सङ्गमे तत्र जायते ।

शुक्ला भाद्रपदे स्वर्गं कृष्णा कलुषसङ्क्षयम् ॥

फाल्गुने कुरुते मोक्षम् अपि ब्रह्मावधारणम् (?) ।

गङ्गायमुनयोः पुण्ये नर्मदासरित्सङ्गमे ॥

सरस्वत्यरुणयोश् चैव सङ्गमे पापनाशने ।

ब्रह्मवल्मीसाभ्रामे सप्तधारे ऽथ वा द्विज ॥

अन्येषु सङ्गमेष्व् एव स्वयम् आयाति वामनः ।

तत्र सम्पूजितो ऽथासौ (?) जायते प्रेतमोक्षदः ॥

दध्योदनसमायुक्तां वारिधानीं प्रदापयेत् ।

पूजय त्वं जगन्नाथं वामनः प्रीयताम् इति ॥

महापुण्यप्रदा ह्य् एषा सङ्गमे विजया तिथिः ।

सर्वपापक्षयो नूनं जायते च उपोषणात् ॥

गृहीत्वा नियमं प्रातर् गत्वा नद्यादिसङ्गमे ।

सौवर्णं वामनं कृत्वा सौवर्णमाषकेण वा ॥

यथाशक्त्या तु विन्यस्य कुम्भोपरि जगत्पतिम् ।

पूर्णपात्रे स्नापयित्वा मन्त्रैर् एतैः प्रपूजयेत् ॥

ॐ वामनाय नमः पादौ कटिं दामोदराय च ।

ऊरू श्रीपतये गुह्यं कामदेवाय पुजयेत् ॥

[११५३] पूजयेज् जगतां पत्युर् उदरं विश्वधारिणे ।

हृदये योगिनाथाय कण्ठं श्रीपतये नमः ॥

मुखं च पङ्कजस्थाय शिरः सर्वात्मने नमः ।

इत्थं सम्पूज्य वासोभिर् आच्छाद्य च जगद्गुरुम् ॥

दद्यात् सुश्रद्धया वार्घ्यं नारिकेलादिभिः फलैः ।

ॐ नमो नमस् ते गोविनद बुधश्रवणसञ्ज्ञया ॥

अघौघसङ्क्षयं कृत्वा प्रेतमोक्षप्रदो भव ॥

इत्य् अर्थ्यमन्त्रः ।

छत्रोपनद्युगं दानं दद्याद् अन्नं कमण्डलुम् ।

विशेषेण द्विजाग्र्याय वामनः प्रीयताम् इति ॥

धेनुदानं प्रशंसन्ति सङ्गमे जगतां पतिम् ।

उद्दिश्य कमलाकान्तं पुण्यनद्यास् तु सङ्गमे ॥

त्रीण्य् आहुर् अतिदानानि गावः पृथ्वी सरस्वती ।

आसप्तमं पुनात्य् एव दोहवान् इह वेदनैः ॥

यथाशक्त्या च दानानि द्विजाग्र्येभ्यः प्रदापयेत् ।

कुर्याज् जागरणङ्कुर्याद् गीतं शास्त्रसमन्वितम् ॥

श्रद्धया परया युक्तो निशाम् अनिमिषेक्षणः ।

प्रभाते भोजयेद् विप्रान् द्वादश्यां पारणं ततः ॥

कुर्यात् त्रयं श्रद्धया च सर्वं सफलतां व्रजेत् ।

एवं कृते तु विजयाव्रते ऽस्मिन् वै जयादिने ॥

न दुर्लभतरं किञ्चिद् इह लोके परत्र च ।

दुर्लभा विजया नॄणां दुर्लभस् तत्र सङ्गमः ॥

[११५४] सुदुर्लभतरा श्रद्धा तत्र गोविन्दपूजने ।

सर्वतीर्थेन भूयिष्ठे सङ्गमे याति सङ्गमम् ॥

विजयावासरे सर्वदेवानां सङ्गमे भुवि ।

अपि रम्योदकस्यात्र सङ्गमः पापनाशनः ॥

आपगासङ्गमस्यात्र फलं वक्तुं न पार्यते ।

इदं सर्वपुराणेषु रहस्यं परिगीयते ॥

सङ्गमे वामनं पूज्य प्रेतो येन न जायते ।

फलम् अस्य व्रतस्योकं देवपित्रुद्धरोत्तमः ॥

वंशोद्धारकरं मुक्तिं याति पैवत्सणाद् अपि ।

न पावनं न तत् किञ्चिद् अतः परम् इहोच्यते ॥

विजयाव्रततुल्यं यद् अपरं परिपद्यते ।

वामासि वामनं वारिधानीं धेनुचतुष्टयम् ॥

दत्वात्र सङ्गमे तात याति विष्णोः सलोकताम् ।

अनृणो जायते मोहादेवानाम् अतिथिक्रिया ॥

कुर्वन्न् एव मनुष्याणां पितॄणां विजयाव्रतात् ।

अश्रद्धया कृतं दत्तं तपस् तप्तं कृतं च यत् ॥

विफलं जायते तावन् न च तत् प्रेत्य नो इह ।

श्रद्धा धर्मसुता देवी श्रद्धा साधनम् उत्तमम् ॥

श्रद्धामयो ऽयं मनुजो यच्छ्रद्धादः स एव सः ।

यो योगेन गतिं याति यां च साङ्ख्येन योगतः ॥

इष्टापूर्तेन यां याति तां कलौ वामनार्चनात् ।

मुच्यते तस्य पूर्वे ऽपि पितृमातामःआः कुले ॥

[११५५] प्रेतभावा न जायन्ते तद्वंशे प्रेतयोनयः

इदं रहस्यं परमं पवित्रं

पुराणसङ्घेषु मुनिप्रणीतम् ।

विशेषकार्यं विजयाभिधानं

वदन्ति सन्तः परमात्मनिष्ठाः ॥

इति ब्रह्मवैवर्तोक्तं विजयाद्वादशीव्रतम् ।

देव्य् उवाच ।

कथम् एतद् व्रतं कार्यं वैष्णवं विष्णुवल्लभम् ।

रात्रौ जागरणं कार्यं विधिना केन तद् वद ॥

ईश्वर उवाच ।

फाल्गुनस्य सिते पक्षे एकादश्याम् उपोषितः ।

स्नात्वा नद्यां तडागे वा वाप्यां कूपे गृहे ऽपि वा ॥

गत्वा गिरौ वने वापि यत्र सा प्राप्यते शिवा ।

क्षीरोदे मथ्यमाने तु यदा वृक्षः समुत्थितः ॥

आमर्दन्देव दैत्यानां तेन सामलकी स्मृता ।

अस्मिन् वृक्षे स्थिता लक्ष्मीः सदा पितृगृहे नृप ॥

शिवालक्ष्मीस्थितो वृक्षः सेव्यते सुरसत्तमैः ।

देवैर् ब्रह्मादिभिः सर्वैर् वृक्षो ऽसौ वैष्णवः कृतः ॥

तत्र गत्वा हरिः पूज्यो वृक्षमूले ऽथ वा शिवा ।

पूज्या पुष्पैः शुभै रात्रौ कार्यं जागरणं नरैः ॥

अष्टाधिकशतैः कार्या फलैस् तस्याः प्रदक्षिणा ।

प्रदक्षिणीकृत्य ततो भोक्तव्यं तु फलं नरैः ॥

[११५६] करकं जलपूर्णं तु कर्तव्यं पात्रसंयुतम् ।

हविष्यान्नं तु कर्तव्यं दीपः कार्यो विधानतः ॥

एवं जागरणं कार्यं यथा श्रवणतत्परैः ।

मुच्यन्ते देहिनः पापैः कलिजैः कायसम्भवैः ॥

देहान्ते ये नराः पूर्वे पूज्यन्ते हरिमन्दिरम् ॥

इति स्कन्दपुराणीयप्रभासम्खण्डोक्तं आमलकैकादशीव्रतम् ।

अथ गोदोहमन्त्रैस् तु विधिना केन वै मुने ।

हरिं सम्पूजिता शीघ्रं नराणां स प्रसीदति ॥

क्षीरोदे मथ्यमाने च मुने पूर्वं सुरासुरैः ।

पञ्च गावः समुत्पन्नाः सर्वलोकस्य मातरः ॥

सर्वलोकोपकारार्थं देवानां तर्पणाय च ।

यज्ञानां दोहसम्पत्यै तथा हरिहरस्य च ॥

गोमयं रोचना क्षीरं मूत्रं दधि घृतं गवाम् ।

षडङ्गानि पवित्राणि तथा सिद्धिकराणि च ॥

उच्छ्रितो बिलवृक्षश् च गोमयान् मुनिसत्तम ।

तत्रासौ लभते लक्ष्मीं श्रीवृक्षस् तेन बोध्यते ॥

गोरोचनायां माङ्गल्याः सञ्जाताः सर्वकामिकाः ।

गुग्गुलस् तु ततो जातो गोमूत्राच् छुभदर्शनः (?) ॥

यत् किञ्चिज् जगतो वीर्यं तत् सर्वं क्षीरसम्भवम् ।

दध्नो जातानि सर्वाणि मङ्गलार्थस्य सिद्धये ॥

[११५७] घृताद् अमृतसम्भूतिः (?) सुरासुरप्रिया ध्रुवम् ।

हरिं सुस्नापयेत् तस्माद् पयोदधिघृतैस् तथा ॥

गुग्गुलं निर्दहत्य् अश्वैर् मन्त्रैः पौराणसम्भवैः ।

नैवेद्यैर् विविधाकारैर् दीपैर् वस्त्रैः सुशोभनैः ॥

एवं पूज्य विधानेन ब्राह्मणांस् तर्पयेत् ततः ।

मुनिपुष्पाणि पूजर्थं यावत्सु तिथिषु त्व् इह ॥

तावर्घुगसहस्राणि (?) स्वर्गलोके महीयते ।

ततो विष्णुपदं याति यस्मान् नावर्तते पुनः ॥

ये तस्य पितरः सन्ति पतिता नरकार्णवे ।

ते ऽपि स्वर्गं समासाद्य मोदन्ते विगतज्वराः ॥

एवम् अभ्यर्च्य देवेशं ब्राह्मणेभ्यो यथापगाम् ।

धेनुं सर्वगुणोपेतां क्रमेण मुनिपुङ्गव ॥

अनेन विधिना पञ्च शरदान्तदिनानि तु ।

कर्तव्यम् एकभक्तेन दिनान्ते सघुभुग् नरः ॥

जलाज्यमधुधेनुं च तिलहेमवतीं तथा ।

दत्वा पुण्यम् अवाप्नोति न तत् सर्वमहामखैः ॥

सर्वं यत् कुरुते सम्यङ् महावृद्धिव्रतं परम् ।

नावलिम्पति पापेन पद्मपत्रम् इवाम्भसा ॥

यत्र सङ्कीर्त्य कर्माणि मर्त्याः सन्ति महाधियः ।

प्रायश्चित्तानि निर्दिष्टं तेषां सुगतिकामिनाम् ॥

ब्रह्महत्यादिपापानि अगम्यागमनानि च ।

कृत्वा स्तेयं सुरापश् च प्रसादं मुच्यते मुने ॥

विक्रयं तिलधेनूनां कृत्वा व्रतम् इदं शुचिः ।

[११५८] मुच्यते पातकात् सद्यः कीर्तितात् स्मरणान् मुने ॥

एवं वा द्वादशान् मासान् उपोष्यैकादशीं बुधः ।

यद् यः करोति शुद्धात्मा कृतकृत्यः सुखी भवेत् ॥

सुनामद्वादशी पूज्या नाम्ना द्वादशभिस् तथा ।

द्वादशा धेनवो देया हरिः कामान् प्रयच्छति ॥

दिवि देवाः सदेवेन्द्राः कृत्वा कर्माण्य् अनेकशः ।

पश्चाद् आराधयन्तीह हरिं शुद्धव्रतेन हि ॥

इति वह्निपुराणोक्तं शुद्धिव्रतम् ।

एकादश्यां निराहारो द्वादश्यां पुरुषोत्तमम् ।

अर्चयेद् ब्राह्मणमुखे स गच्छेत् परमं पदम् ॥

एषा तिथिर् वैष्णवी स्याद् द्वादशीशुक्लपक्षका ।

तस्याम् आराधयेद् देवं प्रयत्नेन जनार्दनम् ॥

इति कूर्मपुराणोक्तं द्वादशीव्रतम् ।

एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् ।

द्वादश्यां शुक्लपक्षस्य महापापैः प्रमुच्यते ॥

इति कूर्मपुराणोक्तं द्वादशीव्रतम् ।

मार्गशीर्षे शिते पक्षे द्वादश्यां समजायत ।

मत्स्यो विष्णुः समाहात्म्यः तस्येष्टेयं सदा तिथिः ॥

एकादश्याम् उपोष्यादौ पठन् मत्स्यावतारकम् ।

[११५९] शृण्वन् सौवर्णं मन्त्रं च कारयित्वा वदेद् इदम् ॥

विष्णुधर्मे ।

प्रीयतां मत्स्य इत्य् उक्त्वा तं दद्याद् ब्राह्मणाय तु ।

यो दद्यात् स सुखी भूत्वा विष्णुलोकं व्रजेच् छुभम् ॥

पौषे मासि सिते पक्षे द्वादश्यां समजायत ।

कूर्मरूपी स भगवान् तस्येष्टेयं सदा तिथिः ॥

एकादश्याम् उपोष्यादौ पठन् कूर्मं च तारकम् ।

शृण्वन् सौवर्णं कूर्मं च कारयित्वा वदेद् इदम् ॥

विष्णुर् मे प्रीयतां कूर्म इत्य् उक्त्वा ब्राह्मणाय तु ।

यो दद्यात् स सुखी भूत्वा विष्णुलोके महीयते ॥

यो मर्त्यो माघशुक्लस्य द्वादश्यां तु विशेषतः ।

उपोष्य भक्त्या वाभ्यर्च्य वराहं रुक्मनिर्मितम् ॥

दद्यात् पठेच् च चरितं वाराहं हरिम् उत्तमम् ।

वराहजन्मदिवसे विप्राय श्रद्धयान्वितः ॥

सुतम् एतं समासाद्य मोदते कालम् अक्षयम् ।

वराहविष्णुप्रीतिं च कूर्मदेवं यथातथम् ॥

नारसिंहं फाल्गुने तु एकादश्यां सिते शुचिः ।

उपोष्याभ्यर्चयेद् भक्त्या नारसिंहभवे दिने ॥

सौवर्णं नारसिंहं (?) च कृत्वा शक्त्या द्विजाय तु ।

दद्यान् नृसिंहचरितम् इदं शृण्वन् पठंश् च वा ॥

शत्रून् विजित्येह लक्ष्मीं प्राप्य नित्यं नरोत्तमः ।

पातालस्वर्गम् आप्नोति नागदैत्याङ्गनायुतम् ॥

चैत्रे मासि सिते पक्षे एकादश्याम् उपोषितः ।

[११६०] वामनस्य दिने ऽभ्यर्च्य वामनं पुरुषोत्तमम् ॥

सौवर्णं वामनं दद्यात् पठेद् भक्त्या च यो नरः ।

स चिरं वामनस्येदं शृणुयाद् (?) वाप्य् उपोषितः ॥

स धनैर् अन्वितो भुक्त्वा भोगान् इह च मानुषान् ।

ब्रह्मलोकम् अवाप्नोति विद्यान् नामानुतत्परः ॥

वैशाखशुक्लैकादश्याम् उपोष्याभ्यर्चयेच् छुचिः ।

जामदग्न्यं तथा रामं दद्याद् विप्राय रुक्मजम् (?) ॥

इदं च रामचरितं शृणुयाद् वा पठेन् नरः ।

रामस्य जन्मदिवसे तथा दाशरथेर् द्विजः ॥

सीतारामं तु सौवर्णं यो विप्राय प्रयच्छति ।

द्वादश्यां रामचरितम् इदं शृण्वन् पठंश् च वा ॥

स इन्द्रलोकं लभते रामस्यैव प्रसादतः ।

इह कीर्तिम् अवाप्नोति धनं पुत्रांश् च जीवितम् ॥

आषाढमासि शुक्लां य उपोष्यैकादशीं द्विजः ।

द्वादश्याम् अर्चयेद् रामं रौहिणेयं महाबलम् ॥

रौहिणेयस्य रामस्य तिथौ जन्मनि सूत्तमे ।

सौवर्णं ब्राह्मणायापि रामं दद्यात् सपात्रकम् ॥

स नागलोकम् आप्नोति यावद् इन्द्राश् चतुर्दश ।

इह स्त्रीभोगम् आप्नोति बलवान् निरुजो भवेत् ॥

श्रावणे मासि शुक्लां य उपोष्यैकादशीं द्विज ।

द्वादश्याम् अर्चयेत् कृष्णं रुक्मिणीसहितं शुचिः ॥

रुक्मप्रतिकृतिं कृत्वा दद्याच् च ब्राह्मणाय च ।

पठेच् च कृष्णचरितं कृष्णजन्मदिने शुचिः ॥

[११६१] श्रावणे शृणुयाद् वापि य इदं पुरुषोत्तमः ।

स मुच्यते ऽस्मात् संसाराद् भुक्त्वा भोगम् उत्तमम् ॥

यस् तु भाद्रपदे मासि एकादश्याम् उपोषितः ।

शुक्लायाम् अर्चयेत् कालं विष्णुं सौवर्णम् अच्युतम् ॥

द्वादश्यां जन्मदिवसे कल्किविष्णुः सुरेश्वरः ।

दद्याद् विप्राय तं वापि भक्त्यानुष्ठानतो मुदा ॥

पठेद् इदं कल्किविष्णोश् चरितं शृणुयात् ततः ।

जनलोकम् अवाप्नोति कृते जन्म लभेद् युगे ॥

तस्मिंस् तु तस्मिन् दिवसे दत्तं विष्ण्ववतारकम् ।

अर्चयन्तु सुराः सर्वे भवेयुः सर्वदार्चिताः ॥

इति विष्णुपुराणोक्तं दशावतारव्रतम् ।

एकादश्यां तु नक्ताशी यश् च कं विनिवेदयेत् ॥

विप्रायेति शेषः ।

कृत्वा मर्त्ये च सौवर्णं स विष्णोः पदम् आप्नुयात् ।

एतत् कृष्णव्रतं नाम कल्पान्तैः सुखलाभकृत् ॥

इति पद्मपुराणोक्तं कृष्णव्रतम् ।

अगस्त्य उवाच ।

एकादश्यां तु यत्नेन नक्तं कुर्याद् यथाविधि ।

मार्गशीर्षं तु कृष्णायाम् आरभ्यादौ विचक्षणः ॥

[११६२] तद् व्रतं धनदस्येह (?) कृतं वित्तं प्रयच्छति ॥

इति वाराहपुराणोक्तं धनदव्रतम् ।

इति श्रीमहार्जाधिराजश्रीमहादेवस्य समस्तकरणाधीश्वर-

**सकलविद्याविशारदश्रीहेमाद्रिविरचिते **

चतुर्वर्गचिन्तामणौ व्रतखण्डे एकादशीव्रतानि ।

अथ षोडशो ऽध्यायः ।

अथ द्वादशीव्रतानि ।

भक्ता विष्णोः सूरिहेमादिणेह

प्रस्तूयन्ते द्वादशीस्थव्रतानि ।

कृत्वा यानि प्राणिनो लङ्घयन्ति

तं दुर्वारासारसंसारपारम् ॥

विष्णुधर्मोत्तरात् ।

राम उवाच ।

उपवासासमर्थानां किं स्याद् एकम् उपोषितम् ।

महाफलं महादेव तन् ममाचक्ष्व पृच्छतः ॥

कृष्ण उवाच ।

या रामश्रवणोपेता द्वादशी महती तु सा ।

तस्याम् उपोषितः स्नातः पूजयित्वा जनार्दनम् ॥

[११६३] प्राप्नोत् प्रयत्नात् धर्मज्ञ द्वादशद्वादशीफलम् ।

दध्योदनयुतं तस्यां जलपूर्णं घटं द्विजे ॥

वस्त्रसंवेष्टितं दत्वा छत्रोपनहम् एव च ।

न दुर्गतिम् अवाप्नोति जातिम् अग्र्यां च विन्दति ॥

अक्षय्यं स्थानम् आप्नोति नात्र कार्या विचारणा ।

श्रवणद्वादशीयोगे बुधवारो भवेद् यदि ॥

अत्यन्तं महती नाम द्वादशी सा प्रकीर्तिता ।

स्नानं जप्यं तथा दानं होमं श्राद्धं सुरार्चनम् ॥

सर्वम् अक्षयम् आप्नोति तस्यां भृगुकुलोद्वह ।

तस्मिन् दिने तथा स्नातो यत्र क्वचन सङ्गमे ॥

स्वर्गङ्गास्नानजं राम फलं प्राप्नोत्य् असंशयम् ।

श्रावणे सङ्गमाः सर्वे परपुष्टिप्रदाः सदा ॥

विशेषाद् द्वादशीयुक्ते बुधयुक्ता विशेषतः ।

तथैव द्वादशी प्रोक्ता बुधश्रवणसंयुता ॥

तृतीया च तथा प्रोक्ता सर्वकामफलप्रदा ।

तथा तृतीया धर्मज्ञ तथा पञ्चदशी शुभा ॥

ब्रह्मवैवर्तपुराणे ।

नमस्ये फाल्गुने मासि यदि वा द्वादशी भवेत् ।

शुद्धश्रवणसंयुक्ता सङ्गमो विजया स्मृता ॥

वारिधानीप्रदानो स्याद् दध्योदनसमायुता ।

[११६४] प्रेतयोनौ न जायेत पूजयित्वा च वामनम् ॥

वंशः समुद्धृतस् तेन मुक्तं पितृऋणाद् असौ (?) ॥

भविष्योत्तरात् ।

युधिष्ठिर उवाच ।

उपवासासमर्थानां सदैव पुरुषोत्तम ।

एकया द्वादशी पुण्या ता उपोष्य ममानघ ॥

श्रीकृष्ण उवाच ।

मासि भाद्रपदे शुक्ला द्वादशी श्रवणान्विता ।

सर्वकामप्रदा पुण्या उपवासे महाफला ॥

सङ्गमे सरितां स्नात्वा द्वादशीं समुपोषितः ।

समयं समवाप्नोति द्वादशद्वादशीफलम् ॥

अत्र द्वादश द्वादश्याम् एवोपवासविधानम्, वचनसामर्थ्यात् ।

अथा चोक्तं विष्णुरहस्ये ।

द्वादश्याम् उपवासो ऽत्र त्रयोदश्यां तु पारणम् ।

निषिद्धम् अपि कर्तव्यम् इत्य् आज्ञा परमेश्वरी ॥

बुधश्रवणसंयुक्ता सैव चेद् द्वादशी भवेत् ।

अतीव महती तस्यां सर्वं कृतम् इहाक्षयम् ॥

द्वादशीं श्रवणोपेता यदा भवति भारत ।

सङ्गमे सरितां स्नात्वा गङ्गादिस्नानजं फलम् ॥

सोपवासम् अवाप्नोति नात्र कार्या विचारणा ।

जलपूर्णं तदा कुम्भं स्थापयित्वा विचक्षणः ॥

पञ्चरत्नसमोपेतं सोपवीतं सुपूजितम् ।

[११६५] तस्य स्कन्धे सुघटितं स्थापयित्वा जनार्दनम् ॥

यथाशक्त्या स्वर्णमयं शङ्खशार्ङ्गविभूषितम् ।

स्नापयित्वा विधानेन सितचन्दनचर्चितम् ।

सितवस्त्रयुगछन्नं छत्रोपानद्युगान्वितम् ॥

ॐ नमो वासुदेवाय शिरः सम्पूजयेत् ततः ।

श्रीधराय मुखं तद्वद् वैकुण्ठाय दृशे नमः ॥

नमः श्रीपतये वक्त्रं भुजौ सर्वास्त्रधारिणे ।

व्यापकाय नमः कुक्षौ केशवायोदरं नमः ॥

त्रैलोक्यजनकायेति मेढ्रं सम्पूजयेद् धरेः ।

सर्वाधिपतये जङ्घे पादौ सर्वात्मने नमः ॥

अनेन विधिना राजन् पुष्पैर् धूपैः समर्चयेत् ।

ततस् तस्याग्रतो देयं नैवेद्यं घृतपाचितम् ॥

मोदकांश् च नवान् कुम्भान् शक्त्या दद्याच् च दक्षिणाम् ।

एवं सम्पूज्य गोविन्दं जागरं तत्र कारयेत् ॥

प्रभाते विमले स्नात्वा सम्पूज्य गरुडध्वजम् ।

पुष्पधूपादिनैवेद्यैः फलैर् वस्त्रैः सुशोभनैः ॥

पुष्पाञ्जलिं ततो दत्वा मन्त्रम् एतम् उदीरयेत् ।

नमो नमस् ते गोविन्द बुधश्रवणसञ्ज्ञक ॥

अघौघसङ्क्षयं कृत्वा सर्वसौख्यप्रदो भव ।

अनन्तरं ब्राह्मणेदं वेदवेदाङ्गपारगे ॥

पुराणज्ञे विशेषेण विधिवत् सम्प्रदापयेत् ।

प्रीयतां देवदेवेशो मम नित्यं जनार्दन ॥

[११६६] अनेनैव विधानेन नद्यास् तीरे नरोत्तम ।

सर्वं निवर्तयेत् सस्यगेकभक्तरतो ऽपि सन् ॥

कृष्ण उवाच ।

अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् ।

महत्य् अरण्ये यद् वृत्तं भूमिपाल शृणुष्व तत् ॥

देशो देशोरको नाम तस्य भागे तु पश्चिमे ।

अतिवाजन्मनुद्देशो सर्वसत्त्वभयङ्करः ॥

सुतप्तसिकता भूमिर् यत्र कृष्टा महोरगाः ।

अल्पछायद्रुमाकीर्णा मृतप्राणिसमाकुला ॥

शमीखदिरपालाशक्रीरैः पीलुभिस् तथा ।

सत्पतत्रभीमद्रुमाः पार्थ कण्ठकैर् आविला दृढैः ॥

गन्धप्राणिगणाकीर्णा तत्र भूर् दृश्यते क्वचित् ।

अतर्कतापविषमा भूस्तृणा पुरुषो खग ॥

ज्वलिताग्निसमश् चैव यत् किञ्चित् तत्र दृश्यते ।

तथापि जीवा जीवन्ति सर्वकर्मनिबन्धनाः ॥

नोदकं नोत्पलाराजनुवन्त (?) तत्र वलाहकाः ।

कदाचिद् अपि दृश्यन्ते प्लवमाना विहङ्गमाः ॥

सकान्तरगतिः कैश्चिच् छिशुभिस् तृषितैः समम् ।

उक्तन्तजीविता राजन् दृश्यन्ते विहतोत्तमाः ॥

उत्प्लुत्योत्प्लुत्यतरसा मृगः सैकसताङ्गतः ।

शक्यते चैव नश्यन्ति जलैः सैकतसेतुवत् ॥

तस्मिन् तथाविधे देशे कश्चिद् दैववशाद् वणिक् ।

निजसार्थपरिभ्रष्ठः प्रविष्टो मरुजङ्गले ॥

[११६७] उक्तवान् मलिनात् तक्षात्रिर् मासान् भौमदर्शनात् ।

बभ्रामोद्भ्रान्तहृदयः क्षुत्तृषाश्रमकर्षिताः ॥

द्युग्रामद्युजलाखाहं यास्यामि न बुधोपमः ।

कथम् एति ददर्शासौ तृष्णाव्याकुलितेन्द्रियाः ॥

स्नायुबद्धास्थिचरणा धावमानानितस् ततः (?) ।

प्रेतस्कन्धसमारूढम् एकं विचित्रदर्शनम् ॥

ददर्श बहुभिः प्रेतैः समन्तात् परिवारितम् ।

आगच्छामानम् अव्यग्रं स्तुतिशब्दपुरःसरम् ॥

प्रेतस्कन्धां महीं गत्वा तस्यान्तिकम् उपागमत् ।

सो ऽभिवाद्य वणिक् श्रेष्टम् इदं वचनम् अब्रवीत् ॥

अस्मिन् घोरतरे देशे भवतः कथम् आगमः ।

तम् उवाच वणिग् धीमान् सार्थभ्रष्टस्य मे वने ॥

प्रवेशो दैवयोगेन पूर्वकर्मकृतेन तु ।

तृष्णा मे बाधते सार्थ क्षुद्भ्रमो ऽयं भृशं तथा ॥

प्राणाः कण्ठम् अनुप्राप्ता वचनं नृपतीव मे ।

अन्नोपायं न पश्यामि जीवेयं नृप केनचित् ॥

कृष्ण उवाच ।

इत्य् एवम् उक्ते प्रेतस् तं वणिजं वाक्यम् अब्रवीत् ।

पुन्नामम् इदम् उत्सृज्य प्रतीक्ष समुहूर्तकम् ॥

कृत्यातिथ्यो मया राजन् जनिष्तसि। यथासुखम् ।

एवमुक्तस् तथा चक्रे स वणिक् तृष्णयार्दितः ॥

मध्याह्नसमये प्राप्ते ततस् तद्देशमागतः ।

सन्नासवृक्षाछान्तोद्रा वारिधाणी मनोरमा ॥

[११६८] दध्योदनस्य युक्तेन वर्धमानेन संयुतान् ।

अवतीर्य ततस् त्व् अग्र्यं प्रददातीष्टये तदा ॥

तेषां गाम् अन्नदानेन वणिक् तृप्तिम् उपागतः ।

वितृष्णो विज्वरश् चैव क्षणेन समपद्यत ॥

ततस् तु मेतसं यस्य तस्माद् भागं समाददौ ।

दध्योदनान्नपानीयात् प्रेतास् तृप्तिं परां गताः ॥

अतिथिं तर्पयित्वा च प्रेतलोकं च सर्वशः ।

ततः स्वयं च बुभुजे भुक्तशेषं यथासुखम् ॥

तस्य भुक्तवतश् छत्रं पानीयं चाक्षयं ययौ ।

प्रेताधिपतयस् तस्य वणिग्वचनम् अब्रवीत् ॥

आश्चर्यम् एतत् परमं वने ऽस्मिंश् चातिभाति मे ।

अन्नपानस्य सम्प्राप्तिः परम् अस्य कुतस् तव ॥

स्तोकेन च तथान्नेन बिभर्षि सुबहून् पृथक् ।

तृममस् ते कथं तत्त्वे निर्मासाभिन्नकुक्षवः ॥

अपरं च कथं श्लेह मम वापपरिक्षये ।

हस्ताबलं वकं कस् त्वं सन्तप्तो निर्जले वने ॥

तृष्णश् चासि कथं ग्रासमात्रे गेषु भवान् अपि ।

कस् त्वम् अस्यां सुघोरायां सुवृथां तुहतीललः ॥

तद् एतच् छंशयं छिन्धि परं कौतूहलं मम ।

एवम् उक्तः स वणिजा प्रेतो वचनम् अब्रवीत् ॥

शृणु भद्र प्रवक्ष्यामि दुष्कृतं कर्म चात्मनः ।

शालके नगरे रम्ये अहम् आसं सुदुर्मतिः ॥

वणिक् सक्तः पुरा कालो तीतोर्वहुर् (?) ममयानघ ।

[११६९] साकले नगरे रम्ये नास्तिकस्य दुरात्मनः ॥

धनलोभान् मया तत्र न कदा वित्तभेदिता ।

न दत्ता भिक्षवे भिक्षा तृष्णाया जलदेन च ॥

प्रतिवेशस् तु तत्रासीद् ब्राह्मणो गुनवान् मम ।

श्रवणद्वादशीयोगे मासि भाद्रपदे तथा ॥

सह कश्चिन् मया सार्धं तोषीं नाम नदीं ययौ ।

तस्याश् च सङ्गमं पुण्यं यत्रासीच् चन्द्रगङ्गया ॥

चन्द्रभागा सोमसुता तत्रासीच् चार्कनन्दिनी ।

तपःशीतोष्णसलिले सङ्गमे सुमनोहरे ॥

श्रवणद्वादशीयोगे स्नानं चैव तथोषितः ।

चन्द्रभागस्य तोयस्य वारिधान् पीतवान् दृढम् ॥

दध्योदनयुतैः सार्धं सम्पूर्णैर् वर्धमानकैः ।

छत्रोपनद्युगं वस्त्रं प्रतिमां विधिवद् धरेः ॥

प्रददौ विप्रमुख्याय रहस्यज्ञो महामुनिः ।

वित्तसंरक्षणार्थाय तस्यापि च ततो मया ॥

सोपवासेन दत्ता वा परिधातिसुशोभना ।

चन्द्रभागस्य प्रददौ विप्र पुष्पयुता तदा ॥

एतत् कृत्वा गृहं प्राप्तः ततः कालेन केनचित् ।

पञ्चत्वम् अहम् आसाद्य नास्तिक्यात् प्रेततां गतः ॥

अस्याम् अटव्यां घोरायां तथा दृष्टास् त्वयानघ ।

ब्रह्मस्वहारिणस् त्व् एते पापाः प्रेतत्वम् आगताः ॥

परदाररताः केचित् स्वामिद्रोहरताः परे ।

मित्रद्रोहरताः केचिद् देशे ऽस्मिंस् तु सुदारुणे ॥

[११७०] ममैते विपदो याता अन्नपानकृते ऽनघ ।

अक्षयो भगवान् विष्णुः परमात्मा सनातनः ॥

यद् दीयते तम् उद्दिश्य अक्षयं तत् प्रकीर्तितम् ।

मया विहीनाः किं तत्त्वं वने ऽस्मिन् भृशदारुणे ॥

पीडाम् अनुभविष्यन्ति दारुणां कर्मयोनिजाम् ।

एतेषां त्वं महाभाग ममानुग्रहकाम्यया ॥

अनेकनामगोत्राणि गृह्णीयास् त्व् अखिलेन च ।

अस्ति चोक्षागता चैव तव सम्पुटिका शूभा ॥

हिमवत्यां तथासाद्य यत्र त्व् अन्विष्यते निधिम् ।

गत्याशीर्षं ततो गत्वा श्राद्धं कुरु महामते ॥

एकम् एकम् अथोद्दिश्य प्रेतं प्रेतं यथासुखम् ।

एवं सम्भाष्यमाणो ऽसौ तप्तजाम्बूनदप्रभः ॥

विमानवरम् आरुह्य स्वर्गलोकम् इतो गतः ।

स्वर्गे च प्रेतनाथेन प्रभावात् स वणिक् क्रमात् ॥

नामगोत्राणि सङ्गृह्य प्रयातः स हिमाचलम् ।

तत्र प्राप्य निधिं गत्वा विनिक्षिप्य स्वके गृहे ॥

धनभागम् उपादाय गयाशीर्षं वटं ययौ ।

प्रेतानां क्रमशस् तत्र चक्रे श्राद्धं दिने दिने ॥

यस्य यस्य यथाश्राद्धं स करोति दिने वणिक् ।

स स तस्य सदा स्वप्ने दर्शयत्य् आतमनस् तनुम् ॥

व्रतीति च महाभाग प्रसादेन तवानघ ।

प्रेतभावं मया त्यक्तं प्राप्तो ऽस्मि परमां गतिम् ॥

सत्कृत्वा धनलाभस्य प्रेतान्ं सत्कृतिं वणिक् ।

[११७१] जगाम स्वगृहं तत्र मासि भाद्रपदे तथा ॥

श्रवणद्वादशीयोगे पूजयित्वा जनार्दनम् ।

दानं च दत्वा विप्रेभ्यः सोपवासो जितेन्द्रियः ॥

महानदीसङ्गमेषु प्रतिवर्षं युधिष्ठिर ।

चकार विधिवद् दानं ततो दृष्टान्तम् आगतः ॥

अवाप परमं स्थानं दुर्लभं सर्वमानवैः ।

तत्र कामफला वृक्षा नद्यः पायसकर्दमाः ॥

शीतलामलपानीयाः पुषक्रिण्यो मनोरमाः ।

तं देशम् आसाद्य वणिक महात्मा

सुमृष्टजाम्बूनदभूषिताङ्गः ।

कल्पं समग्रं सह सुन्दरीभिः

सार्धं सुहृद्भिर् मुदितः सदैव ॥

बुधश्रवणसंयुक्ता द्वादशी सङ्गमोदके ।

दानं दध्योदनं शस्तम् उपवासपरो विधिः ॥

सगरेण कुकुत्स्थेन धुन्धुमारेण गाधिना ।

एतैश् चान्यैश् च राजेन्द्र कामदा द्वादशी कृता ॥

या द्वादशी बुधयुता श्रवणेन सार्धं

सा वै जयेति कथिता मुनिभिर् नभस्ये ।

ताम् आदरेण समुपोष्य नरो हि सम्यक्

प्राप्नोति सिद्धिम् अणिमादिगुणोपपन्नाम् ॥

इति भविष्योत्तरोक्तं श्रवणद्वादशीव्रतम् ।

[११७२]

ब्रह्मोवाच ।

त्रैलोक्यगामिनो देवी लक्ष्मीस् ते ऽस्तु सदा प्रिया ।

द्वादशी च तिथिस् ते ऽस्तु कामरूपी च जायते ॥

हरिं प्रतीदं वचनम् ।

घृताशनो (?) भवेद् यस् तु द्वादश्यां तत्परायणः ।

स स्वर्गवासी भवतु पुमान् स्त्री वा विशेषतः ॥

इति वाराहपुराणोक्तं हरिव्रतम् ।

मार्कण्डेय उवाच ।

भुवने भारतश् चैव सुजात्यः सुजनस् तथा ।

क्रतुः सर्वश् च मूर्धा च तेजः सत्यस्रवाः सदा ॥

प्रसवश् चाव्ययश् चैव दक्षो द्वादशकस् तथा ।

भगीवा नाम निर्दिष्टा देवा द्वादश यज्ञियाः ॥

तेषां सम्पूजनं कुर्याद् द्वादश्यां नियमेन तु ।

गन्धमाल्यनमस्कारधूपदीपान्नसम्पदाः ॥

संवत्सरान्ते दद्याच् च ब्राह्मणाय पयस्विनीं ॥

कृत्वा व्रतं वत्सरम् एतद् इष्टं

प्राप्नोति तेषां तु सलोकम् एव ।

तत्रोष्य कालं सुचिरं मनुष्यो

राजा भवेद् वा द्विजपुङ्गवो वा ॥

इति विष्णुधर्मोक्तं भृगुव्रतम् ।

[११७३]

मार्कण्डेय उवाच ।

मनोमनस् तथा प्राणो नरो जातश् च वीर्यवान् ।

वीतिर् हयोनघश् चैव हंसो नारायणस् तथा ॥

विभिश् चापि प्रभुश् चैव स्वाध्या द्वादश कीर्तिताः ।

पूजयेच् छुक्लपक्षे तान् द्वादश्यां मार्गशीर्षतः ॥

कृत्वा व्रतं वत्सरम् एतद् इष्टं

प्राप्नोति तेषां तु स सलोकम् एव ।

तत्रोष्य कालं सुचिरं मनुष्यो

राजा भवेद् वा द्विजपुङ्गवो वा ॥

इति विष्णुधर्मोक्तं साध्यव्रतम् ।

मार्कण्डेय उवाच ।

धाता मित्रो ऽर्यमा पूषा शक्रो ऽंशो वरुणो भगः ।

त्वष्टा विवस्वान् सविता विष्णुर् द्वादशकस् तथा ॥

पूजयेद् द्वादशादित्यान् शुक्लपक्षे उपोषितः ।

मार्गशीर्षाद् अथारभ्य द्वादश्यां नियतव्रतः ॥

दत्वा व्रतान्ते पुरुषः सुवर्णं

प्राप्नोति लोकान् सवितुर् नृवीर ।

मानुष्यम् आसाद्य भवत्य् अरोगो

जितेन्द्रियश् चैव धनान्वितश् च ॥

इति विष्णुधर्मोक्तं द्वादशादित्यव्रतम् ।

[११७४]

पुलस्त्य उवाच ।

पौषे मासि सिते पक्षे द्वादश्यां शक्रदैवते ।

नक्षत्रयोगगे विष्णुं प्रथमं तु समर्चयेत् ॥

ततः प्रभृति विप्रेन्द्र मासि मासि जनार्दनम् ।

उपोषितः पूजयेत यावत् संवत्सरं गतम् ॥

मासे च मासे विधिनोदितेन

तस्यां तिथौ दानम् इति ब्रवीमि ।

प्राश्यं यथावद् विधिवत् क्रमेण

तद् उच्यमानं निखिलं निबोध ॥

घृतं यथा व्रीहियवं हिरण्यं

यवान्नम् अम्भश् चणकान्नपानम् ।

छत्रं पयो ऽन्नं गुडफाणिताड्यं

सुचन्दनं वस्त्रम् अनुक्रमेण ॥

एकैकपादोक्तम् एकैकदानं

गोमूत्रम् अम्भो घृतम् आमशाकम् ।

दूर्वादधिव्रीहियवं तिलांश् च

सूर्यांशुतप्तं जलम् अम्बुदार्भम् ॥

क्षीरं च मासक्रमशः प्रयुक्तं

दार्भम् अम्बुकुशोदकम् ।

कुलप्रधाने धनधान्यपूर्णे

विवेकवत्यस्तसमस्तदुःखे ॥

[११७५] प्राप्नोति जन्माविकलेन्द्रियश् च

भवत्य् अरोगो मतिमान् सुखी च ॥

इति विष्णुधर्मोत्तरोक्तं सुजन्मद्वादशीव्रतम् ।

बृहस्पतिर् उवाच ।

कथं स राजा भाग्यस्थः सर्वलोकाधिको विभुः ।

कथं च दिव्यतां प्राप्तो विष्णुसायुज्यतां विभो ॥

सर्वदेवेश्वरस् तस्य कथं तुष्ट उमापतिः ॥

ब्रह्मोवाच ।

भाग्यर्क्षद्वादशी नाम सर्वभाग्यप्रदायिनी ।

तत्र कृत्वा हरेर् अर्चाम् इष्ट्वा पद्मैर् यथाविधि ॥

सर्वलक्षणसम्पन्नाम् अष्टावक्रो महामुनिः ।

हरेर् अर्चा हरिरूपा प्रतिमा ।

शङ्करार्धं हरेः पुंस उभे संस्थापयेद् वशी ॥

शङ्करार्धं हरेर् इत्यादि शङ्करस्यार्धं हरेश् च पुरुषस्यार्धं सत्य् एवं हरिहरमूर्तिम् उभे संस्थापयेद् इत्य् अर्थः ।

भक्त्या सर्वोपहारेण द्वादशीरेणुमण्डाले ।

आद्येन चक्रराजेन पूजितो मधुसूदनः ॥

तुतोष तस्य नृपतेस् तेन भाग्यत्वम् आप्नुयात् ।

चक्रराजो महासुदर्शनमन्त्रः ।

तुष्टेन देवदेवेन वरो दत्तो द्विजोत्तम ॥

अत ऊर्ध्वं भवान् वत्स मम तुल्यो भविष्यति ।

[११७६] भाग्यर्क्षद्वादशी तात अष्तम्यां वा तदर्चनम् ॥

यागमण्डलपूजार्घं हरिम् उद्दिश्य कारयेत् ।

आचार्याय प्रदातव्यं हेमगोभूतिलादिकम् ॥

दक्षिणां वित्तसारेण पुनाति नर्कार्णवात् ।

युगभाग्यप्रभावेन प्रयच्छति फलं हरिः ॥

युगभाग्यप्रभावेणेति युगस्य कृतादेर् भाग्यस्य कर्मणः प्रभावेणेत्य् अर्थः ।

यथा काले च क्षेत्रे च एकापि गणिका गता ।

प्रयाति शतधा वृद्धिं तथा भाग्ययुगे द्विज ॥

यथा भाग्ये तथा पौष्णे वासवे च द्विजोत्तम ।

तुल्यरूपं विजानीयाद् द्वादश्याम् अष्टमीषु च ॥

भाग्यं भगदैवत्यं पूर्वफल्गुनी नक्षत्रं पौष्णं रेवती वासवं धनिष्ठा ।

तुष्यते देवदेवेशः शशाङ्काङ्कितशेखरः ।

पुत्रायूराज्यसौभाग्यं प्रयच्छति जनर्दनः ॥

मासि मासि च यो मर्त्यः करोति हरिहरार्चनम् ।

पद्मे सुलक्षणोपेते सर्ववर्णोपशोभिते ॥

तस्य तुष्यति देवेशश् चक्रपाणिर् जनार्दनः ॥

इति देवीपुराणोक्तं भाग्यर्क्षद्वादशीव्रतम् ।

पुष्यारक्द्वादशी पुण्या सर्वपापनिवर्हणी ।

कृता वा केन सा शक्र घृतपात्रप्रयादिना ॥

तदा प्रत्यक्षतस् तस्य देवदेवो जनार्दनः ।

[११७७] ददर्श स्वां तनुं शुभ्रां पीतां चैव चतुर्भुजाम् ॥

इति देवीपुराणोक्तं पुष्यार्कद्वादशीव्रतम् ।

ब्रह्मोवाच ।

द्वादश्यां विष्नुम् इष्ट्वेह सर्वदा विजयी भवेत् ।

पूज्यश् च सर्वलोकानां यथा गोपतिगोकरः ॥

गोपतिः सूर्यो गोकरो नत्ररश्मिर् यस्य स गोपतिगोकरो विष्णुः ।

मूलमन्त्राः स्वसञ्ज्ञाभिर् अङ्गमन्त्राश् च कीर्तिताः ।

पूर्ववत् पद्मपत्रस्थः कर्तव्यश् च तिथीश्वरः ॥

गन्धपुष्पोपहारैश्च यथाशक्ति विधीयते ।

पूजाशाठ्येन शाठ्येन कृतापि तु फलप्रदा ॥

आज्यधारासमिद्भिश् च दधिक्षीरान्नमाक्षिकैः ।

पूर्वोक्तफलदो होमः कृतः शान्तेन चेतसा ॥

एतत् तु व्रतं वैश्वानरप्रतिपद्व्रतवद् व्याख्येयम् ।

इति भविष्यत्पुराणोक्तविष्णुव्रतम् ।

युधिष्ठिर उवाच ।

अवियोगव्रतं ब्रूहि मम यादवनन्दन ।

विधानं तस्य कीदृक् च किं पुण्यं कात्र देवता ॥

श्रीकृष्ण उवाच ।

शृणु पाण्डव यत्नेन कथ्यमानं मया खिल (?) ।

अवियोगव्रतं नाम व्रतानाम् उत्तमं व्रतम् ॥

[११७८] शुक्ले प्रोष्ठपदे मासि द्वादश्यां समुपोषितः ।

स्नात्वा जलाशये स्वच्छे शुक्लाम्बरधरः शुचिः ॥

जलान्ते मण्डलं कृत्वा गोमयेनातिशोभनम् ।

गोधूमचूर्णैस् तन्मध्ये सलक्ष्मीकं जनार्दहम् ॥

लेपयित्वा हरं गौरीं सावित्रीं ब्रह्मणा सह ।

राज्ञा सह रविं राजंस् त्रैलोक्योद्योतकारकम् ॥

गन्धपुष्पैस् तथा धूपैर् नैवेद्यैर् भक्तितो ऽर्चयेत् ।

अवियोगव्रतं पार्थ मन्त्रेणानेन तद्गतः ॥

अवियोगा दृढमनाश् चेतस्य् आधाय केशवम् ।

शङ्करं पद्मयोनिं च रविं गगनभूषणम् ॥

इदम् उच्चारयेत् पार्थ कृत्वा तत्प्रणवं नमः ।

सहस्रशीर्षा पुरुषः पद्मनाभो जनार्दनः ॥

व्यासर्षिकपिलाचार्यौ भगवान् पुरुषोत्तमः ।

नारायणो ऽथ मधुहा विष्णुर् दामोदरो हरिः ॥

महावराहो गोविन्दः केशवो गरुडध्वजः ।

श्रीधरः पुण्डरीकाक्षो विश्वरूपस् त्रिविक्रमः ॥

उपेन्द्रो वास्मनो रामो वैकुण्ठो माधवो ध्रुवः ।

वासुदेवो हृषीकेशः कृष्णः सङ्कर्षणो ऽच्युतः ॥

अनिरुद्धो महायोगी प्रद्युम्नो ऽनन्त एव च ।

नित्यं ममास्तु सुप्रीतः श्रीकण्ठो ऽरिनिषूदनः ॥

उमापतिर् नीलकण्ठः स्थानुः शम्भुर् भगो ऽरिहा ।

ईशानो भैरवः शूली त्र्यम्बकस् त्रिपुरान्तकः ॥

कपर्दी गोपतिर् लिङ्गी महाकालो वृषध्वजः ।

[११७९] शिवः सर्वो महादेवो रुद्रो भूतगणेश्वरः ॥

ममास्तु सह पार्वत्या शङ्करः शङ्करः सदा ।

ब्रह्मा शम्भुर् विभुः (?) स्रष्टा पौषकरः प्रपितामहः ॥

हिरण्यगर्भो वेदज्ञः परमेष्ठी प्रजापतिः ।

वेधाश् चतुर्मुखः कर्ता स्वयम्भूः कमलासनः ॥

विरिञ्चिः पद्मयोनिश् च ममास्तु वरदः सदा ।

आदित्यो भास्करो भानुः सूर्यो ऽर्कः सविता रविः ॥

मार्तण्डो मण्डलो द्योतो रश्मिमाली ग्रहाग्रणीः ।

प्रभाकरः सप्तसप्तिस् तरणिर् द्युमणिः खगः ॥

दिवाकरो दिनकरः सहस्रांशुर् मरीचिमान् ।

पद्मप्रबोधनः पूषा जगच्चक्षुर् द्युभूषणः ॥

द्वादशात्मा महातेजा मित्रः कालान्तको हरिः ।

निक्षुभावल्लभो देवः सुप्रीतो ऽस्तु सदा मम ॥

लक्ष्मीः श्रीः कमला पद्मा विभूतिर् हरिवल्लभा ।

पार्वती ललिता गौरी उमा शम्भुप्रिया सती ॥

गायत्री प्रकृतिः सृष्टिः सावित्री देवसम्मता ।

राज्ञी भानुमती सञ्ज्ञा निक्षुभा भास्करप्रिया ॥

दीप्ता सूक्ष्मा जया भद्रा विभूतिर् विमला तथा ।

अमोघा विद्युतिश् चैव इत्य् एते मूर्तिरूपततः (?) ॥

इति स्वरूपो ज्ञेयः । सूर्यस् तु श्मश्रुलश् चतुर्बाहुर् ऊर्ध्वकरद्वयधृतकमलः अधःकर-द्वयधृतपुष्पमालः कर्तव्यः वामपार्श्वे स्वर्णपङ्कजकरा निक्षुभा कर्तव्या इति । पद्मनाभशङ्करपितामहार्कादीन् सप्रियान् कृत्वा । दत्वा दानं गुरवे चान्ते व्रजेद् वेश्म-[११८०]-यश् चरितनरः कश्चिद् व्रतम् एतद् भक्तिभावितो लोको भवति च स धनभागी सन्ततिमान् विगतसन्तापः । हरिहरहिरण्यगर्भप्रभाकराणां क्रमेण लोकेषु भुक्त्वा भोगान् विपुलान् वियोगी अथ सुनिर्वृतो भवति स्त्रीपुंसयोर् यदि युग्मं पुरुषो ऽपि यदि समाचरेत् कश्चिद् यद् नारी वा व्रतम् एतच् चीर्त्वा यात्पालयं विष्णोः ।

इति भविष्यत्पुराणोक्तम् अवियोगद्वादशीव्रतम् ।

युधिष्ठिर उवाच ।

अक्षौहिण्यो दशाष्टौ च मद्राज्यार्थे कषयङ्गताः ।

तेन पापेन मे चित्ते जुगुप्सातीव जायते ॥

तत्र ब्राह्मणराजन्यवैश्याः शूद्रादयो हताः ।

भीष्मद्रोणकलिङ्गादिकर्णशल्यसुयोधनाः ॥

तेषां वधेन यत् पापं तन् मे मर्माणि कृन्तति ।

पापप्रक्षालनं किञ्चिद् धर्मं ब्रूहि जगत्पते ॥

कृष्ण उवाच ।

सुमहत्पुण्यजननं गोविन्दद्वादशीव्रतम् ।

अस्ति पार्थ महाबाहो पाण्डवानां दुहरन्धर ॥

युधिष्ठिर उवाच ।

येयं गोद्वादशी नाम विधानं तत्र कीदृशम् ।

कथम् एषा समुत्पन्ना कस्मिन् काले जनार्दन ॥

[११८१] एतत् सर्वं हरे ब्रूहि मां तर नरकार्णवात् ॥

कृष्ण उवाच ।

पुरा कृतयुगे पार्थ मुनिकोटिः समागताः ।

तपश् चचार विपुलं नानाव्रतधरा गिरौ ॥

हर्षेण महताविष्टा देवदर्शनकाङ्क्षया ।

जम्बूमार्गे महापुण्ये नानातीर्थविभूषिते ॥

पारिपात्रे सिद्धपात्रे रम्ये बदरिकाश्रमे ।

घण्टारवीति विख्याते उत्तमे शिखरे नृपे ॥

तापसारण्यम् अतुलं दिव्यकाननमण्डितम् ।

वसिष्ठशुक्राङ्गिरसक्रतुदक्षादिभिर् वृतम् ॥

वल्कलाजिनसंवीतैर् भृगोर् आश्रममण्डलम् ।

नानामृगगणैर् युष्टं (?) शाखामृगगणैर् युतम् ॥

प्रशान्तसिंहहरिणं वस्तुसर्वगतद्रुमम् ।

गहनं निरुत्सनं रम्यं तालसन्तानसङ्कुलम् ॥

सिंहव्याघ्रगजैर् भिन्नं हरिणैः शंशरैः शरैः ।

वराहतुतुभिश् चित्रैः समन्ताद् उपशोभितम् ॥

तपस्यतां तत्र तेषां मुनीनां दर्शनार्थिनाम् ।

व्याजं चक्रे महीनाथ द्वादशार्धार्धलोचनः ॥

बभूव ब्राह्मणो वृद्धो जरापाण्डुरमूर्धजः ।

श्लथचर्मतनुः कुब्जो पाशपाणिः सवेपथुः ॥

उमा विचक्रे गोरूपं शृणुयात् पार्थ यादृशम् ।

क्षीरोदतोयसम्भूताः याः पुरामृतमन्थने ॥

पञ्च गावः शुभाः पार्थ पञ्चकस्य च मातरः ।

[११८२] नन्दा सुभद्रा सुरभी सुशीला बहुला सती ॥

यतो लोकोपकाराय देवानां तर्पणाय च ।

जमदग्निर् भरद्वाजवसिष्ठशिवगौतमाः ॥

जगृहुः कामदाः पञ्च गावो दत्वा सुरैस् ततः ।

गोमयं रोचना मूत्रं क्षीरं दधि घृतं गवाम् ॥

षडङ्गानि पवित्राणि संशुद्धिकरणानि च ।

गोमयाद् उत्थितः श्रीमान् बिल्ववृक्षः शिवप्रियः ॥

तत्रास्ते पद्महस्ता श्रीः श्रीवृक्षस् तेन स स्मृतः ।

बीजान्य् उत्पलपद्मानां पुनर् जातानि गोमयात् ॥

गोरोचना च माङ्गल्या पवित्रा सर्वसाधिका ।

गोमूत्राज् जुहूषुर् जातः सुगन्धः प्रियदर्शनः ॥

आहारः सर्वदेवानां शिवस्य च विशेषतः ।

जगद्बीजं जगत्किञ्चित् तज् ज्ञेयं क्षीरसम्भवम् ॥

दध्नः सर्वाणि जातानि मङ्गलान्य् अर्थसिद्धये ।

घृताद् अमृतम् उत्पन्नं देवानां तोषकारणम् ॥

ब्राह्मणाश् चैव गावश् च कुलम् एकं द्विधा कृतम् ।

एकत्र मन्त्रास् तिष्ठन्ति हविर् अन्यत्र तिष्ठति ॥

गोषु यज्ञाः प्रवर्तन्ते गोषु देवाः प्रतिष्ठिताः ।

गोषु देवाः समुद्गीर्णाः स षडङ्गपदक्रमाः ॥

शृङ्गमूले गवां नित्यं ब्रह्मविष्णू समाश्रितौ ।

शृङ्गाग्रे सर्वतीर्थानि स्थावराणि चराणि च ॥

शिरोमध्ये महादेवः सर्वकारणकारणम् ।

[११८३] ललाटे संस्थिता गौरी नासारन्ध्रे च षण्मुखः ॥

कम्बले ऽश्वतरौ नागौ नासापुटसमाश्रितौ ।

कर्णयोर् अश्विनौ देवौ चक्षुषोः शशिभास्करौ ॥

दन्तेषु वसवः सर्वे जिह्वायां वरुणः स्थितः ।

सरस्वती च हुङ्कारे यमयक्षौ च गण्डयोः ॥

सन्ध्याद्वयं तथोष्ठाभ्यां ग्रीवायां च पुरन्दरः ।

रक्षांसि कुक्षौ देव्यौ च पार्ष्णिकाये व्यवस्थितौ ॥

चतुष्पात् सकलो धर्मो नित्यं जङ्घासु तिष्ठति ।

खुरमध्येषु गन्धर्वाः कुराग्रेषु च पन्नगाः ॥

खुराणां पश्चिमे भागे राक्षसाः सम्प्रतिष्ठिताः ।

रुद्रा एकादशाः पृष्ठे वसवः सर्वसन्धिषु ॥

श्रोणीतटस्थाः पितरः कुल्वाकेषु च मानवः ।

उदरे पृथिवी सर्वा सशैलवनकानना ॥

चत्वारः सागराः पूर्णा गवां ये तु पयोधराः ।

पर्जन्यः क्षीरधारासु मेघबिन्दुव्यवस्थिताः ॥

उदरे गार्हपत्यो ऽग्निर् दक्षिणाग्निर् हृदि स्थितः ।

कण्ठे आहवनीयो ऽग्निः सभ्यो ऽग्निः स्थाणुनि स्थितः ॥

अस्थ्नि वाचः स्थिताः शैला मज्जासु क्रतवस्थिताः ।

[११८४] ऋग्वेदो ऽथर्ववेदश् च सामवेदो यजुस् तथा ॥

सितरक्तपीतकृष्णा गवां वर्णा व्यवस्थिताः ।

नासारूपम् उपाश्रित्य सुरभीणां युधिष्ठिर ॥

यत्श्रित्य तत्क्षणाद् गौरी आदित्यसऋशी तनुः ।

आत्मानं विदधे देवी दर्मराज शृणुष्व तत् ॥

षडुन्नतां पञ्चनिम्नां मण्डुकाक्षीं सुवालधिम् ।

ताम्रसूनीस्थितकठिं सुखरीं सुमुखीं मिताम् ॥

सुशीलां च वसुस्नेहां सुसुक्षीरां पर्योधराम् ।

गोरूपिणीमुखां स्पृष्ट्वा स्वामिने चात्र वासकम् ॥

चर्यया प्रतरं हृष्टो महादेवस्य चेतसि ।

शनैः शनैः ययौ पार्थ विप्ररूपी महाश्रमः ॥

दत्वा कुलपतेः पार्श्वं भृगोः स्वाङ्गं निवेदयेत् ।

तपस्विनां महातेजास् तेषु सर्वेषु पाण्डव ॥

न्यासरूपां ददौ धेनुं रक्षत्व् एनां दिनद्वयम् ।

यावत् स्वत्वा इतस् तीर्त्वा जाम्बूमार्गाद् इहास्म्य् अहम् ॥

रक्षिष्यामो प्रतिज्ञा या मुनिभिः सुरभीम् इमाम् ।

अतद्धे मृगवद् देवः पुनर् व्याघ्रो बभूव ह ॥

वज्रचक्रनखो दर्वी ज्वलपिङ्गललोचनः ।

जिह्वाकरालवदनो जिह्वा लाङ्गूलदातुगः ॥

सम्पदाश्रमफादन्तीं धेनुं चैव सवत्सकाम् ।

त्रासयामास नादेन मुनीनां दिक्ष्व् अवस्थिताः ॥

ऋषयो ऽपि समाक्रान्ता दार्तनादं प्रचक्रिरे ।

हा हेत्य् उच्चैः केचुद् ऊचुः हुहुङ्कारांस् तथापरे ॥

[११८५] तालस्फोटां ददुः केचिद् व्याघ्रं दृष्ट्वातिभैरवम् ।

स्वामिनं भीरवं चक्रे गौर् उप्लूत्य सवत्सका ॥

तस्या व्याघ्रभयार्तायाः कपिलाया युधिष्ठिरिअ ।

पलायास्याः शिलामध्ये क्षणं च हरतुष्टये ॥

व्याघ्रवत्सकयोस् तत्र वन्दनं सुरकिन्नरैः ।

दृश्यते ऽतीव सुव्यक्तं न ददामि चतुष्पदम् ॥

सजलं शिवलिङ्गं च शम्बोस् तीर्थं तद् उत्तमम् ।

यस् त्वं स्पृशति राजेन्द्र स गोवधाद् व्यपोहति ॥

तत्र स्नात्वा महातीर्थे जम्बूमार्गे गणाधिप ।

ब्रह्महत्यादिभिः पापैर् मुच्यते नात्र संशयः ॥

ततस् ते मुनयः क्रुद्धा ब्रह्मदत्तां महास्वनाम् ।

जघ्नुर् घण्टां सुरैर् दत्तां गिरिकन्दरपूरणीम् ॥

शब्देन तेन व्याघ्रो ऽपि मुक्त्वा गावं सवत्सकाम् ।

विप्रैस् तत्र कृतं नाम ढुढुगीर् इति विश्रुतम् ॥

अपिबन् परिपेयार्थं ते रुद्रा नात्र संशयः ।

अथ प्रत्यक्षतः श्रेष्ठस् तेषां देवो महेश्वरः ॥

शूलपानिस् त्रिपुरहा कामाप्तो वृषभे स्थिरः ।

उमासहायो वरदः सस्वामी सविनायकः ॥

सनन्दी समहाकालः सभृङ्गी सबलो हरः ।

वीरभदश् च चामुण्डाघण्टाकर्णादिभिर् वृतः ॥

मातृभिर् वत सङ्घातैर् यक्षराक्षसगुह्यकैः ।

देवदानवगन्धर्वमुनिविद्याधरोरगैः ॥

प्रणम्य देवदेवाय पत्नीभिः सहितैस् तथा ।

[११८६] गोरूपिणी सवत्सा च पूजिता ब्रह्मचारिभिः ॥

कार्त्तिके कृष्णपक्षे तु द्वादश्यां नन्दिनीव्रतैः ।

ततः प्रभृति राजेन्द्र अवतीर्णो महीतले ॥

उत्तानपादेन तथा व्रतं चीर्णम् इदं शृणु ।

उत्तानपादनामासीत् क्षत्रियः पृथिवीपतिः ॥

तस्य भार्याद्वयं चासीद् रुचिश्रुघ्नीति विश्रुतम् ।

श्रुघ्न्यां (?) जातो ध्रुवः पुत्रो बालपादधरो ऽव्ययः ॥

रुच्याः समर्पितः श्रुघ्न्या ध्रुवो ऽयं रक्ष्यतां सखि ।

अहं करिष्ये शुश्रूषां भर्तुस् तावत् सदा स्वयम् ॥

नृवीरं सवितुं नित्यं प्रतिज्ञा जायते गृहे ।

करोति भर्तुः (?) शुश्रूषां श्रुघ्नी (?) नित्यं पतिव्रता ॥

कदाचित् क्रोधम् आसाद्य सपत्न्या जनितं तया ।

स्वयं च व्याहनिष्यामि शुशुः खण्डछविः कृतः ॥

ततो ऽपि कायं तत्स्थाल्याम् एकः सिद्धः सुसंस्कृतः ।

अन्नभोजनवेलायां ददाति नृपतेः स्वयम् ॥

भुञ्जीत स्वपतिं चोक्त्वा सामिषं भोजनं किल ।

अथ भोजनवेलायां ध्रुवो जीवितम् आप्तवान् ॥

तथैव च प्रसन्नात्मा मातुर् उत्सङ्गगो ऽभवत् ।

तं दृष्ट्वा महद् आश्चर्यं श्रुघ्नी पप्रच्छ विस्मिता ॥

किम् एतद् ब्रूहि वृत्तान्तं यस्येयं व्युष्टिः तत् तया ।

किं त्वया चरितं किञ्चिद् व्रतं दत्तं हुतं तथा ॥

[११८७] सत्यं सत्यं पुनः सत्यं येन जीवति ते सुतः ।

शय्यायां सुप्तवान् बालो निहत्य शकलीकृतः ॥

पक्वः स्वयं कृतः स्थाल्यां व्यञ्जनैः सह भोजनैः ।

परिशिष्यमाना (?) पुनः कथं जीवितम् आप्तवान् ॥

किं ते सिद्धा महाविद्या मृतसञ्जीवनी शुभा ।

रत्नं मणिमहारत्नं योगाञ्जनमहौषधम् ॥

कथयस्व महाभागे सत्यं सत्यं भगिन्य् असि ।

एवम् उक्ते तु वृत्ते ऽस्याः व्याचख्यौ वत्सकव्रतम् ॥

कार्त्तिके शुक्लद्वादश्यां यथा चानुष्ठितं पुरा ।

व्रतस्यास्य प्रभावेन पुनर् जीवति मे सुतः ॥

वत्सो मे वत्सवेलायां मनोऽर्थे मलते पुनः ।

समागमश् च भवति व्रतैः प्रवसितैर् अपि ॥

यथार्थम् एतद् व्याख्यातं तव गोद्वादशीव्रतम् ।

कदापि चैतत् सर्वं तु भविष्यति शुभाशुभा ॥

एवम् उक्तव्रतं चीर्णं रुच्याः पुत्राः सुखान्विताः ।

सम्प्राप्तजीवितान्ते च ध्रुवस्थाने निवेषिताः ॥

ब्रह्मणा सृष्टिकारेण रुचिर् भर्त्रा सहोषिता ।

दशनक्षत्रसंयुक्तो ध्रुवः सो ऽद्यापि दृश्यते ॥

ध्रुवर्क्षेण यदा दृष्टे लोकः पापैः प्रमुच्यते ।

[११८८] युधिष्ठिर उवाच ।

कीदृशं तद्विधानं च तन् मे ब्रूहि जनार्दन ।

यत् कृतं श्रुघ्नीवचनाद् रुच्या यदुकुलोद्वह ॥

कृष्ण उवाच ।

सम्पाप्ते कार्त्तिके मासि शुक्लपक्षे नृपोत्तम ।

द्वादश्यां कृतसङ्कल्पः (?) स्नात्वा शुद्धे जलाशये ॥

नरो वा यदि वा नारी नक्तं सङ्कल्प्य चेतसि ।

ततो मध्याह्नसमये कृत्वा देवार्चनादिकम् ॥

प्रतीक्षेतागमं भक्त्या गवां गोध्यानतत्परः ।

सवत्सां तुल्यवर्णां च शीलिनीं गाम् पयस्वनीम् ॥

चन्दनाइभिर् आलिल्प्य पुष्पमालाभिर् अर्चयेत् ।

कुङ्कुमालक्तकैर् धूपैः धूपदीपैः सुगन्धिभिः ॥

अथ ताम्रमये पात्रे कृत्वा पुष्पाक्षतैस् तिलैः ।

चन्दनैः कुङ्कुमैर् गन्धैः पुष्पैः कालोद्भवैस् तथा ॥

पादमूले तु दातव्या मन्त्रेणानेन पाण्डव ।

पाता रुद्रेण इत्य् एष मन्त्रः प्रोक्तो द्विजन्मना ॥

स्त्रीशूद्राणां महाबाहो मन्त्रो ऽयं परिकीर्तितः ।

क्षीरोदार्णवसम्भूते सुरासुरनमस्कृते ॥

सर्वदेवमये मातर् गृहाणार्ध्यं नमो ऽस्तु ते ।

[११८९] दत्तार्घ्यं तज्जलं पुण्यं साक्षतं (?) मूर्ध्नि निक्षिपेत् ॥

ततो मासादि संसिद्धान् वटकांश् च निवेदयेत् ।

पञ्च् असप्त दशैकं वा यथाविभवम् आत्मनः ॥

सुरभि त्वं जगन्मातर् नित्यं विष्णुपदे स्थिते ।

सर्वदेवमये ग्रासं नयाद्य त्वम् इमं शुभम् ॥

दत्तार्घ्यो दत्तनैवेद्यः कृतपूजः सुसंयतः ।

प्रार्थयेद् आशिषं प्राज्ञो वध्याग्रे करसम्पुटम् ॥

सर्वदेवमये देवि सर्ववेदैर् अलङ्कृता ।

मातर् ममाभिलषितं सफलं कुरु नन्दिनि ॥

एवम् अभ्यर्च्य विधिवद् दत्वा गवि गवाह्निकम् ।

पर्युक्ष्य वारिणा भक्त्या प्रणम्याथ पुनः पुनः ॥

तद्दिने तायिकापक्वं (?) स्थालीपाकं युधिष्ठिर ।

गोक्षीरं गोघृतं दत्वा दधिक्षीरं विसर्जयेत् ॥

माषान्नं कामतो ऽश्नीयाद् रात्रौ विगतमत्सरः ।

भूम्यां स्वपन् ब्रह्मचारी शृणु यत् फलम् आप्नुयात् ॥

यावन्ति गात्ररोमाणि गवां कौरवनन्दन ।

तावद् दिनानि गोलोके पूजितो मोदते ऽमरैः ॥

नारी वा कुरुते जातु व्रतम् एतद् युधिष्ठिर ।

मेरोः पूर्वाष्टकं रम्यम् इन्द्राग्नियमरक्षसाम् ॥

वरुणानिलरुद्राणां रुद्रस्य च युधिष्ठिर ।

तेषाम् उपरि गोलोकस् तत्र याति स गोव्रती ॥

[११९०] ऊर्जाम् अन्ते हि दशमे ऽह्नि च गां सवत्सां

याः पूजयन्ति वटकैः कुसुमैश् च हृद्यैः ।

ताः सर्वकामसुखभोगविभूतिभाजो

मर्त्ये च सन्ति सुचिरं नृपतेश् च वत्साः ॥

इति भविष्योत्तरोक्तं गोवत्सद्वादशीव्रतम् ।

कृष्ण उवाच ।

पुरा बभूव राजर्षिर् अजापाल इति श्रुतः ।

प्रापितः स प्रजाभिस् तु सर्वदुःखापनुत्तये ॥

दुःखापनोदनं कुरु भो व्याधिर् नाना नरेश्वर ।

एवम् उक्तश् चिरं ध्यात्वा कृत्वा व्याधीनजागणान् ॥

पालयामास हृष्टो ऽसौ अजापालस् ततो ऽभवत् ।

तेनैषा निर्मिता शान्तिः नाम्ना नीराजना जने ॥

तस्यां तु पाण्डवश्रेष्ठ लक्षणं वच्मि ते शृणु ।

राजा पुरोहितैः सार्धम् अनुष्ठाय विधानतः ॥

तस्मिन् काले बभूवाथ रावणो राक्षसेश्वरः ।

लङ्कास्थितः सुरगणो नियुनक्ति स्वकर्मसु ॥

अखण्डमण्डलं चन्द्रम् आतपत्रं चकार ह ।

इन्द्रं सेनापतिं चक्रे वायुं पांशुप्रमार्जकम् ॥

वरुणं बन्धकर्मस्थं धनदं धनरक्षकम् ।

यमं संयमने ऽरीणां युयुजे मन्त्रणे मनुम् ॥

मेधाछन्दन्ति लिप्यन्ति द्रुमा पुष्पाणि चिक्षिपुः ।

सप्तर्षयः शान्तिपरा ब्राह्मणाः संस्थिताः परे ॥

[११९१] यमो यामककक्षायां गन्धर्वा गीततत्पराः ।

प्रेक्षणीये ऽप्सरो ऽष्टौ वा बाह्ये विद्याधरावृताः ॥

गङ्गाद्याः सरितः पाने गार्हपत्यो हुताशने ।

तिष्ठन्ति पार्थिवाः पूर्वां पुरसेवाविधायिनः ॥

दीप्यन्ति भासुरै रत्नैः प्रशालातो विभूषणैः ।

तं दृष्ट्वा नारदः प्राह प्रशस्तं प्रतिहारकम् ॥

परावर्त्य मम स्थाने ब्रूहि को ऽत्र समागतः ।

उवाच च प्रणम्याग्रे दन्डपाणिर् निशाचरः ॥

एषां ककुस्थो मान्धाता धुन्धुमारो नलो ऽर्जुनः ।

ययातिर् नहुषो भीमो राघवो ऽयं विदूरथः ॥

एते चान्ये च बहवो राजान इति आसते ।

सेवाकरा न च स्थानेनाजापाल इहागतः ॥

रावणः कुपितः प्राह शीघ्रं दूतं विसर्जय ।

इत्य् उक्ते प्रहितो दूतो धूम्राक्षो नाम राक्षसः ॥

धूम्राक्ष गच्छ ब्रूहि त्वम् अजापालं ममाज्ञया ।

सेवां कुरु समागच्छ कबन्धायस्य पार्थिव ॥

अन्यथा चन्द्रहासेन त्वां करिष्ये विकन्धरम् ।

रावणेनैवम् उत्क्तस् तु धूम्राक्षो गरुडो यथा ॥

सम्प्राप्य तां पुरीं रम्यां तच् च राजकुलं गतः ।

ददर्श यतम् एकं स अजापालम् अजावृतम् ॥

मुक्तकेशं मुक्तकक्षं नैकभुक्तं क्रमद्वयम् ।

यष्टिस्कन्धं रेणुभृतं व्याधिभिः परिवारितम् ॥

[११९२] निहतामित्रशार्दूलं सर्वोपद्रवनाशनम् ।

मह्याम् आलिख्य नामानि विनिघ्नन्ति द्विषां गणम् ॥

स्नानं भुक्तं शुभे स्थाने कृतकृत्यं मनुं यथा ।

दृष्ट्वा हृष्टमनाः प्राह धूम्राक्षो रावणोदितम् ॥

साक्षेपम अजपालो ऽपि प्रत्युक्ता कारणान्तरम् ।

प्रेषयामास धूम्राक्षं ततः सत्यं समादधे ॥

ज्वरम् आकारयित्वा तु प्रोवाचेदं महीपतिः ।

गच्छ लङ्काधिपस्थानम् आचरस्व यथोचितम् ॥

नियुक्तस् त्व् अजपालेन ज्वरराजो जगाम ह ।

गत्वा च कम्पयामास सगणं राक्षसेश्वरम् ॥

रावणस् त्व् अविदित्वा तु ज्वरं परमदारुणम् ।

प्रोवाच तिष्ठतु नृपस् तेन मे न प्रयोजनम् ॥

ततः स विज्वरो राजा बभूव धनदानुजः ।

तेनैषा निर्मिता शान्तिर् अजपालेन धीमता ॥

सर्वरोगप्रशमनी सर्वोपद्रवनाशनी ।

कार्त्तिके शुक्लपक्षस्य द्वादश्यां रजनीमुखे ॥

समुत्थिते विनिद्रे तु देवे दामोदरे तथा ।

विद्यान्ते नरमालाभिरम्ये स्त्रीवानुरन्तिके (?) ॥

जनयित्वा नवं विष्णुं हुत्वा मन्त्रैर् द्विजोत्तमैः ।

वर्धमानतपुष्पाभिर् दीपिकाभिर् हुताशनम् ॥

कृत्वा महाजनाः सर्वे हरिं नीराजयेच् छनैः ।

पुष्पैर् अभ्यर्चनं देवं समालभ्य च चन्दनैः ॥

बदरैः कर्वरैश् चैव त्रपुसैर् इक्षुभिस् तथा ।

[११९३] गन्धैः पुष्पैर् अलङ्कारैर् वस्त्रै रत्नैश् च पूजितैः ॥

तस्यैवानुमतां लक्ष्मीं ब्राह्मणं चण्डिकां तथा ।

आदित्यं शङ्करं गौरीं यक्षं गणपतिं ग्रहान् ॥

मातरः पितरो गावः सर्वा नीराजयेत् क्रमात् ।

गवां नीराजनं कुर्यान् महिष्यादेश् च मण्डलम् ॥

भ्रामयेत् त्रासयेच् छब्दैर् घण्टावादनछादनैः ।

ता गावः प्रस्नुता याश् च तासां (?) पीडा तथागदा ॥

सिन्दूरकृतशृङ्गाग्रा हम्बारावाः सवत्सकाः ।

अनुयान्ति च गोपालाः कलयन्तो वनानि ते ॥

छेदानुलिप्तरक्ताङ्गा रक्तपीतसिताम्बराः ।

पञ्चकोलाहले वृत्ते गवां नीराजनोत्सवे ॥

तुरङ्गान् लक्षणैर् युक्तान् द्विरदांश् च सुपूजितान् ।

राजचिह्नानि सर्वाणि उद्धृत्य स्वगृहाङ्गणे ॥

राजा पुरोहितैः सार्धं मन्त्रिभृत्यपुरःसरः ।

सिंहासनोपविष्टश् च शङ्खभेर्यादिनिस्वनैः ॥

पूजयेद् गन्धकुसुमैर् वसुदीपविलेपनैः ।

इयम् अश्वादिपूजा महानवम्युत्सवे द्रष्टव्या ।

तत्र स्त्री लक्षणैर् युक्ता वेश्या वाथ कुलाङ्गना ।

[११९४] शीर्षोपरि नरेन्द्रस्य त्रिर्वारं भ्रामयेच् च सा ॥

शान्तिर् अस्तु समिद्भिश् च द्विजैर् वेदस्वनेन वा ।

ततो नीरा जयेत् सैन्यं हस्त्यश्वरथसङ्कुलम् ॥

एवम् एषा महाशन्तिः ख्याता नीराजना जने ।

येषां राष्ट्रे पुरे ग्रामे क्रियते पाण्डुनन्दन ॥

तेषां रोगाः क्षयं यान्ति सुभिक्षं वर्धते सदा ।

शान्तिनीराजनालोके सर्वरोगान् व्यपोहति ॥

लोकानां वर्धयित्वायुर् अजपालचरो यथा ।

येषां रोगादिपीडासु जन्तूनां हितम् इच्छता ॥

वर्षे वर्षे प्रयोक्तव्या शान्तिनीराजना इति ।

नीराजयन्ति नवेमेधनिभं हरिं यो

गोब्राह्मणार्थहितकारिणम् अश्वगोभिः ।

ते सर्वरोगरहिताः सहिताश् च भृत्यैः

दीर्घायुषो भुवि भवन्त्य् अजपालवाक्यात् ॥

इति भविष्योत्तरे नीराजनद्वादशीव्रतम् ।

सूत उवाच ।

पुरा देवासुरे युद्धे हतैस् तु हरिणासुरैः ।

पुत्रपौत्रेषु शोकार्ता गत्वा भूर्लोकम् उत्तमम् ॥

[११९५] समन्ते पञ्चके तीर्थे सरस्वत्याः शुभे तटे ।

भर्तुर् आराधनपरा तप उग्रं चकार ह ॥

तदा दितिर् दैत्यमाता ऋषिरूपेण संस्थिता ।

फलाहारा तपस् तेपे कृच्छ्रं चान्द्रायणान् बहून् ॥

यावद् वर्षशतं साग्रं जराशोकसमाकुला ।

ततः सा तपसा तप्ता वसिष्ठादीन् अपृच्छत ॥

कथयन्तु भवन्तो मे पुत्रशोकविनाशनम् ।

व्रतं सौभाग्यफलदम् इह लोके परत्र च ॥

ऊचुर् वसिष्ठप्रमुखा मदनद्वादशीव्रतम् ।

यस्य प्रसादाद् अभवत् सुतशोकविवर्जिता ॥

ऋषयः ऊचुः ।

श्रोतुम् इच्छाम्य् अहं त्वत्तो मदनद्वादशीव्रतम् ।

सुतान् एकोनपञ्चाशद् येन लेभे दितिः पुराः ॥

सूत उवाच ।

यद् वसिष्ठादिभिः पूर्वं दितेः कथितम् उत्तमम् ।

विस्तरेण तद् एवेदं मत्सकाशान् निबोधत ॥

चैत्रे मासि सिते पक्षे द्वादश्यां नियतव्रतः ।

स्थापयेद् अव्रणं कुम्भं सिततण्डुलपूरितम् ॥

नानाफलयुतं तद्वद् इक्षुदण्डसमन्वितम् ।

सितवस्त्रयुगच्छन्नं सितचन्दनचर्चितम् ॥

नानाभक्ष्यसमोपेतं सहिरण्यं स्वशक्तितः ।

[११९६] ताम्रपात्रं गुडोपेतं तस्योपरि निवेशयेत् ॥

तदभावे कथां कुर्यात् कामकेशवयोर् निरः ।

कामनाम्ना हरेत् अर्चां स्नापयेद् गुडवारिणा ॥

शुक्लपुष्पाक्षततिलैर् अर्चयेद् इति केशवम् ।

कामाय पादौ सम्पूज्य जङ्घे सौभाग्यदायकम् ॥

ऊरू स्मरायेति पुनर् मन्मथायेति वै कटिम् ।

स्तम्बोदयायेत्य् उदरम् अनङ्गायेत्य् उरो हरेः ॥

मुखं पद्ममुखायेति बाहू पञ्चशराय वै ।

नमः सर्वात्मने मौलिम् अर्चयेद् इति केशवम् ॥

एवं प्रजागरं कृत्वा शुक्लमाल्याम्बरो व्रती ।

ततः प्रभाते तं कुम्भं ब्राह्मणाय निवेदयेत् ॥

ब्राह्मणान् भोजयेच् छक्त्या स्वयं भुञ्जीत बन्धुभिः ।

भुक्त्वा तु दक्षिणां दद्याद् इमं मन्त्रम् उदीरयेत् ॥

प्रीयताम् अत्र भगवान् कामरूपी जनार्दनः ।

हृदये सर्वभूतानां य आत्मेत्य् अभिधीयते ॥

अनेन विधिना सर्वं मासि मासि समाचरेत् ।

उपवासी त्रयोदश्याम् अर्चयेद् विष्नुम् अव्ययम् ॥

फलम् एकं च सम्प्राश्य द्वादश्यां भूतले स्वपेत् ।

ततस् त्रयोदशे मासि घृतधेनुसमन्विताम् ॥

शय्यां दद्याद् द्विजेन्द्राय सर्वोपस्करसंयुताम् ।

काञ्चनं कामदेवं च शुक्लां गां च पयस्विनीम् ॥

[११९७] वासोभिर् द्विजदाम्पत्यं पूज्य शक्त्या विभूषणैः ।

सर्वगन्धादिकं दद्यात् प्रीयताम् इत्य् उदीरयेत् ॥

होमं शुक्लतिलैः कुर्यात् कामनामानि कीर्तयेत् ।

गव्येन सर्पिषा तद्वत् पायसेन च धर्मवित् ॥

विप्रेभ्यो भोजनं दद्याद् वित्तशाठ्यं विवर्जयेत् ।

इक्षुदण्डान् अथो दद्यात् पुष्पमालाः स्वशक्तितः ॥

यः कुर्याद् विधिनानेन नन्दनद्वादशीम् इमाम् ।

सर्वपापविनिर्मुक्तः प्राप्नोति हरिसात्म्यताम् ॥

इह लोके वरान् पुत्रान् सौभाग्यसुखम् अश्णुते ।

यः स्मरः संस्मृतो विष्णुर् आनन्दात्मा महेश्वरः ॥

सुखार्थी कामरूपेण यजेत् तं जगदीश्वरम् ।

तत् श्रुत्वा च चचारासु दितिः सर्वम् अशेषतः ॥

कश्यपो व्रतमाहात्म्याद् आगत्य परया मुदा ।

च्काराकर्कशां भूयो रूपयौवनशालिनीम् ॥

वरैर् आच्छादयामास सा तु वव्रे वरं सुतम् ।

ततः सा व्रतमाहात्म्याल् लेभे गर्भम् अनुत्तमम् ॥

कदाचिल् लब्धसञ्चारं शत्रुत्वाज् जठरं दितेः ।

प्रविश्यैकोनपञ्चाशत् कृत्वा शक्रो जघान ताम् ॥

तावन्तो वालका भूय रुरुदुर्नमृतिं गताः ।

ततो वै चिन्तयामास किम् एतद् इति वृत्रहा ॥

धर्मस्य पश्य माहात्म्यं पुनः सञ्चीवितास् त्व् अमी ।

कदाचिद् अनया नूनं मदनद्वादशी कृता ॥

[११९८]

तत्प्रसादेन जीवन्ति जनया निहता अपि ।

नूनम् एतत् परिणतम् अधुना तत् तु पूजनम् ॥

वज्रेणाभिहताः सन्तो न विनाशम् अवाप्नुयुः ।

एकाप्य् अनेकताम् आप यस्माद् गर्भो हतो ऽप्य् अलम् ॥

अहो माहात्म्यम् एतस्मिन् मदनद्वादशीव्रते ।

जीवपुत्रा बहुसुता येन नारी प्रजायते ॥

इति मत्स्यपुरानोक्तं मदनद्वादशीव्रतम् ।

भद्राश्व उवाच ।

विज्ञानोत्पत्तिकामस्य क आराध्यो भवेद् द्विज ।

कथम् आराध्यते सो हि एतद् आख्याहि मे द्विज ॥

अगस्त्य उवाच ।

विष्णुर् एव महायज्ञः सर्वदेवैर् अपि प्रभुः ।

तस्योपायं प्रवक्ष्यामि येनासौ वरदो भवेत् ॥

रहस्यं सर्वदेवानां मुनीनाम् उत्तमस् तथा ।

नारायणः परो देवः तं प्रणम्य न सीदति ॥

श्रूयते च पुरा राजन् नारदेन महात्मना ।

कथितं पुष्टिदं विष्णोर् व्रतम् अप्सरसां तथा ॥

नारदस् तु पुराकल्पे गतवान् मानसं शरः ।

स्नानार्थं तत्र सो ऽपश्यत् सर्वम् अपसरां गणम् ॥

[११९९] तास् तं दृष्ट्वा विलासिन्यो जटामुकुटधारिणम् ।

अस्थिचर्मावशेषं तु छत्रकुण्डीकपालिनम् ॥

देवासुरमनुष्याणां दिदृक्षुं कलहं सदा ।

ब्रह्मपुत्रं तपोयुक्तं पप्रच्छुस् ता वराननाः ॥

अप्सरस ऊचुः ।

भगवान् ब्रह्मतनय भर्तृकामा वयं द्विज ।

नारायणश् च भर्ता नो यथा स्याद् आचचक्ष्व तत् ॥

नारद उवाच ।

प्रणामपूर्वकः प्रश्नः सर्वतो भवते शुभः ।

स च मे न कृतो गर्वाद् युष्माभिर् यौवनस्मयात् ॥

तथा हि देवदेवस्य विष्णोर् यन् नामकीर्तितम् ।

भवतीभिस् तथा भर्ता भवत्व् इति हरिः शुभः ॥

तन्नामोच्चारणाद् एव कृतं सर्वं न संशयः ।

इदानीं कथयामास व्रतं येन हरिः स्वयम् ॥

वरदन्तम् अवाप्नोति भर्तृत्वं च नियच्छति ।

वसन्ते शुक्लपक्षस्य द्वादशी या भवेच् छुभा ॥

तस्याम् उपोष्य विधिवत् सश्रीकं हरिम् अर्चयेत् ।

पर्यङ्कास्तरणं कृत्वा नानास्तरणसंयुतम् ॥

तत्र लक्ष्म्या युतं देवं रौप्यं कृत्वा निवेदयेत् ।

तस्योपरि ततः पुष्यैर् मण्डपं कारयेद् बुधः ॥

नृत्यवादित्रगीतैश् च जागरं तत्र कारयेत् ।

[१२००] मनोभवायेति शिरस् त्व् अनङ्गायेति वै कटिम् ॥

कामाय बाहुमूले तु कुशुमास्त्राय चोदरम् ।

मन्मथायेति पादौ तु हरयेति च सर्वतः ॥

पुष्पैः सम्पूज्य देवेशं मल्लिकाजातिभिस् तथा ।

पश्चाच् चतुर आदाय इक्षुदण्डान् सुशोभनान् ॥

चतुर्दिक्षु न्यसेत् तस्य देवस्य प्रणतो नृप ।

एवं कृत्वा प्रभाते तु दापयेद् ब्राह्मणाय तम् ॥

वेदवेदाङ्गयुक्ताय सम्पूर्णाङ्गाय धीमते ।

ब्राह्मणांश् च तथा भोज्य व्रतम् एतत् समाप्यते ॥

व्रतस्यान्ते ततो विष्णुर् भर्ता वो भवति ध्रुवम् ।

अकृत्वा मत्प्रणामं तु पृष्टं गर्वेण शोभनाः ॥

व्रतेनानेन देवेशं पतिं लब्ध्वाभिमानतः ।

अवमाने ऽपहरणं गोपालैर् वो भविष्यति ॥

पराहृतानां कन्यानां देवो भर्ता भविष्यति ।

एवम् उक्त्वा स देवर्षिः प्रययौ नारदः क्षणात् ॥

अतो ऽप्य् एतद् व्रतं चक्रुस् तुष्टस् तासां स्वयं हरिः ।

इति भविष्यत्पुरानोक्तं भर्तृप्राप्तिव्रतम् ।

द्वादश्यां शुक्लपक्षे च मासि भाद्रपदे नरः ।

नैवेद्यगन्धपुष्पाद्यैर् अर्चयेज् जलशायिनम् ॥

[१२०१] न चाल्पएद् विकर्मस्थान् पाषण्डान् पतितान् नरान् ।

स्नात्वा जपन्न् अनन्तेति शतम् अष्टोत्तरं बुधः ॥

व्रजंस् तिष्ठन् स्वपन् भुञ्जन् बुध्यन् प्रस्खलिते क्षुते ।

वेदनार्तः स्मरेन् नित्यम् अनन्तं मनसा गिरा ॥

व्रतम् एतद् विधानेन कुर्यात् संवत्सरं नरः ।

ततो ऽथ भोजयेद् विप्रान् शक्त्या दद्याच् च दक्षिणाम् ॥

पूर्णे संवत्सरे शक्त्या पूजयित्वा जनार्दनम् ।

वीणावेणुमृदङ्गाद्यैर् गीतनृत्यं तु कारयेत् ॥

अर्चयित्वा हरिं भक्त्या कारयित्वा तु जागरम् ।

अनन्तफलम् आप्नोति गीतवाद्यैर् उदाहृतम् ॥

अहिंसकः शुचिर् दान्तः सर्वभूतहिते रतः ।

व्रतम् एतन् नरः कृत्वा विष्णुलोके महीयते ॥

इति विष्णुरहस्योक्तम् अनन्तद्वादशीव्रतम् ।

युधिष्ठिर उवाच ।

यत् कृत्वा मुच्यते जन्तुर् महतः पञ्चपातकात् ।

पञ्चपातकिनः प्रेतान् पितॄंस् तारयते तथा ॥

निशाकृदाप्यायनश् च पूर्णिमादैवता इमाः ।

जगन्नाथो महीधारी देवेन्द्रो देवकीसुतः ॥

चतुर्भुजो गदापाणिः सुरभीदः सुलोचनः ।

सर्वगतश् चक्रपाणिः शूरश् चाप्य् असुरान्तकः ॥

श्रीशश् च द्वादश इमा देवताः परिकीर्तिताः ।

[१२०२] स्वाहाकारान्वितैर् एतैश् चतुर्थ्यन्तैश् च नामभिः ॥

श्रावणादौ देवतानां पूजां च कुरुते व्रती ।

श्रवणाद् एव कुर्वीत द्वादश्यां परिकीर्तिताः ॥

पूर्णिमायां तु देवेभ्यः पायसं जुहुयात् ततः ।

अमावास्यां देवतानां तिलमुद्गगुडोदनम् ॥

पञ्चरत्नानि देवतानां पञ्चपातकशान्तये ।

पञ्चमूर्तिं स्वर्णमयीं पञ्चामृतसमन्विताम् ॥

भोजयेद् ब्राह्मणान् राजन् पञ्चद्वादशसम्ख्यया ।

एतच्चीर्णे वृत्रवधान् मुक्तवान् पाकशासनः ॥

अहल्या सङ्गदोषाच् च सुरापानाद् बृहस्पतिः ।

गुरुस्त्रीगमनात् सोमः सुवर्णहरणाद् बलिः ॥

अन्यैर् अपि महीपालैर् दिलीपसगरादिभिः ।

महापातकजैर् दोषैर् विमुक्ताश् चोपपातकैः ॥

तस्मात् त्वम् अपि कौन्तेय कुरु व्रतम् इदं शुभम् ।

यद् वाञ्छति महाराज शाखतीं गतिम् आत्मनः ॥

इति भविष्यत्पुराणोक्तं पञ्चमहापापनाशनद्वादशीव्रतम् ।

द्वादश द्वादशीर् यस् तु समाप्योपोषणैर् नरः ।

गोवत्सं काञ्चनं विप्रान् अर्चयेद् भक्तितः पुनः ॥

परं पदम् अवाप्नोति विष्णुव्रतम् इदं स्मृतम् ॥

इति पद्मपुराणोक्तं विष्णुव्रतम् ।

[१२०३]

वराह उवाच ।

द्वादश्याम् उपवासं तु ये वै कुर्वन्ति ते नराः ।

माम् एव प्रतिपद्यन्ते मम भक्तिपरायणाः ॥

कृत्वा चैवोपवासं तु गृहीत्वा च जलाञ्जलिम् ।

नमो नारायणायेति आदित्यं चावलोकयेत् ॥

यावन्तो बिन्दवः केचित् पतन्त्य् अञ्जलितो जलात् ।

तावद् वर्षसहस्राणि स्वर्गलोके महीयते ॥

तथैव तस्यां (?) द्वादश्यां कृत्वा कर्म यथाविधि ।

पाण्डुरैश् चैव पुष्पैस् तु मृष्टैर् गन्धैश् च धूपनैः ॥

य एवं कारयेद् भूमिं (?) तस्यापि शृणुयाद् गतिम् ।

दत्वा शिरसि पुष्पाणि इमं मन्त्रम् उदीरयेत् ॥

ॐ इति कृत्वा मन्त्रः ।

सुरश्रेष्ठ धराधार सुमनसः सुमना गृह्य प्रीयतां म

भगवान् अम्बिकः ।

एतेन मन्त्रेण सुमनो दद्यात् । गन्धमन्त्र उच्यते ।

ॐ नमस् तुभ्यं स्वस्ति विध्युक्तसुगन्धं गृह्णेमं (?) मङ्गलवते

विष्णवे ।

एतेन मन्त्रेण गन्धान् दद्यात् ।

अश्रुत्वापि च शास्त्राणि यो माम् एवं च कारयेत् ।

मम लोकं स गच्छेच् च जायते च चतुर्भुजः ॥

श्यामाकं षष्टिकं चैव सद्भोज्यानि गुणांस् तथा ।

[१२०४] गुणांश् च व्यञ्जनानि ।

शालीन् यवान्नं च तथा नीवारभक्तकं तथा ॥

एतानि यस् तु भुञ्जीत मम कर्मपरायणः ।

स स्याच् च शङ्खचक्राङ्को लाङ्गली मुशली गदी ॥

उपवासः सूर्यार्घ्यो विष्णुपूजा श्यामाकाद्यन्यतमं पारणं चेति व्रतम् ।

इति भविष्यत्पुराणोक्तं विष्णुद्वादशीव्रतम् ।

कृष्ण उवाच ।

द्वादश्यां गुह्यकान् अर्च्य पललाक्षतसंयुतैः ।

हेमं विप्राय वै दद्याद् उपवासपरायणः ॥

एतद् वै गुह्यकं प्रोक्तं व्रतं पापहरं शुभम् ।

इति भविष्योत्तरोक्तं गुह्यकद्वादशीव्रतम् ।

द्वादश्यां देवदेवेशं पूजयित्वा जलाधिपम् ।

पुण्डरीकम् अवाप्नोति वरुणं यादसां पतिम् ॥

इति विष्णुधर्मोक्तं पुण्डरीकयज्ञप्राप्तिव्रतम् ।

सर्वं देवरथं शक्रं पूजयित्वा तथा नरम् ।

सर्वान् कामान् अवाप्नोति स्वर्गलोकं च गच्छति ॥

इति विष्णुधर्मोत्तरोक्तं शक्रव्रतम् ।

[१२०५] उमोवाच ।

भगवन् श्रोतुम् इच्छामि आश्चर्यं परमं विभो ।

कथितव्यं प्रसादेन यद्य् अस्ति मम सौह्रदम् ॥

देव येन विरूपत्वं यद्व्रतेन प्रणश्यति ।

सौभाग्यं परमं चैव प्राप्यते कस्य सेवनात् ॥

तन् मे कथय देवेश परमाभीष्टदायकम् ।

ईश्वर उवाच ।

श्रूयतां वै परं गुह्यं व्रतं पापहरं शुभम् ।

सुरूपा द्वादशी नाम महापातकनाशनी ॥

रूपप्रदायिनी चैव तथा सौभाग्यवर्धनी ।

कुलवृद्धिकरी चैव सर्वसौख्यप्रदायिनी ॥

तां शृणुष्व प्रयत्नेन कथ्यमानां मयानघे ।

पुरा वै द्वापरस्यान्ते विष्णुर् (?) दैत्यनिसूदकः ॥

उत्पन्नो मृत्युलोकेश वसुदेवकुले किल ।

तेनोढा रुक्मिणी नाम भीष्मस्य च सुता पुनः ॥

अत्यन्तरूपसुभगा पतिव्रतपरायणा ।

न हि तस्या विना कृष्णः (?) स्तोकम् उद्वहते सुखम् ॥

श्वश्रूश्वशुरयोः पादवन्दनं भर्तृतत्परा ।

केनापि कर्मदोषेण कुपितां कृष्णमातरम् ॥

न प्रसादयति क्षिप्रं प्रतिमत्वेच्छती प्रियम् ।

ततो देव्याः समुत्पन्नः कोपः सर्वगुणापहः ॥

[१२०६] कृष्णं प्रोवाच कुपिता यदि ते जननी स्वयम् ।

ततस् तयापि वै बाह्या कुरूपा निर्गुणाधिका ॥

मद्वाक्यं नान्यथा कर्तुं नार्हसि त्वं कुलोद्वह ।

कृष्ण उवाच ।

अपापां रुक्मिणीं त्यक्तुम् उत्सहे ऽहं कथां शुभाम् ।

यः परित्यजते भार्याम् अविलुप्तशरीरिणीम् ॥

स प्राप्नोति च मन्दात्मा दौर्भाग्यं साप्तपौरुषम् ।

विरूपत्वम् अवाप्नोति न सुखं विन्दते क्वचित् ॥

व्याधिर् वा जायते लोके निन्दनीयश् च देहिनाम् ।

इत्य् अहं नानुमानो ऽपि कथं कुर्यात् तथा वचः ॥

देवक्य् उवाच ।

सर्वेषाम् एव दानानां दानं तीर्थादि यच्छति ।

माता गुरुतरा वत्स कस् तस्या वचनं त्यजजेत् ॥

मम वाक्यस्य करणात् कथं पापिष्ठता भवेत् ।

जननी पूज्यते लोके न भार्या यदुनन्दन ॥

कृष्ण उवाच ।

न च त्यजाम्य् अहं मतः प्रियां प्राणधनेश्वरीम् ।

इति तूष्णीं पराभूतां मातरं प्रेक्ष्य केशवः ॥

चिन्ताम् अवाप परमां कथं सौख्यं भवेद् इति ।

एतस्मिन्न् एव काले तु नारदो मुनिसत्तमः ॥

अभ्याजगाम सहसा विष्णुं प्रेक्ष्य च विस्मितम् ।

पूजितः परया भक्त्या अर्घ्यं तस्मै निवेदितम् ॥

[१२०७] उपविष्टे यथान्यायं (?) पर्यपृच्छद् अनामयम् ।

नारद उवाच ।

किं त्वं सखेदपरमः किम् उद्वेगस्य कारणम् ।

किं न सुध्यति ते ऽभीष्टं त्यजोद्वेगं यदूत्तम ॥

कृष्ण उवाच ।

मात्रा नियुक्तो देवर्षे परिणेतुं द्विजोत्तम ।

कन्याम् उद्वह यस्यापि कुरूपां कस्यचित् प्रभो ॥

यथा मातुर् नियोगो ऽत्र कृतो भवति सत्कृतिः ।

नारद उवाच ।

श्रूयताम् अभिधास्यामि पूर्ववृत्तान्तम् आदरात् ।

लक्ष्मीयुक्तः पुरा नाथ क्रीडमानो ह नन्दने ॥

तत्राययौ स भगवान् दुर्वासा ऋषिसत्तमः ।

सत्कृतश् च यथान्यायम् अभ्युत्थानकपूर्वकम् ॥

प्रेक्ष्य बिभत्सरूपं तं देव्या हासः कृतस् तदा ।

स च कोपेन महता वैश्वानरसमप्रभः ॥

शशाप लक्ष्मीं दुष्टात्मा मुनिः क्रोधसमन्वितः ।

हसितो ऽहं त्वया मुग्धे आत्मनो रूपम् ईक्षिता ॥

विरूपा भव दुर्बुद्धे किं न ज्ञातो ह्य् अहं त्वया ।

इत्य् उक्ता सा तया देव्या यथावत् सम्प्रसादितः ॥

प्रसन्नो जगदे वाक्यं मे शापो न वृथा भवेत् ।

[१२०८] जन्मान्तरेण साफल्यं भविष्यति कुरूपता ॥

सा एव चावतीर्णा हि गोत्रकस्य गृहे सुता ।

सत्यभामा विरूपाङ्गी विरूपदर्शनं तथा ॥

कर्णनासातिविकृतां सञ्जातां तत्प्रभावतः ।

पाणिपादौ कटिग्रीवा सर्वं वैरूप्यलक्षणम् ॥

तपादस्वो (?) महाप्राज्ञः स ते कन्यां प्रदास्यति ।

कृष्ण उवाच ।

भगवन् विरूपं वदनं कथां द्रक्ष्यामि नित्यशः ।

का निर्वृतिं गमिष्यामि तां विवाह्य कुरूपिकाम् ॥

नारद उवाच ।

तस्या एव प्रसादेन रुक्मिण्या यदुनन्दन ।

उत्तमं प्राप्य सौरूपं सौभाग्यं परमं सुखम् ॥

माता हि तावन् मान्या वै धर्मकामार्थम् इच्छता ।

एवं पुरा व्यतीत्यैवं (?) सम्बन्धो विहितः पुरा ॥

त्वया वाक्यं तथा कार्यं गुरूणां वचनं महत् ।

माता गुरुतरा भूमे इति वेदेषु गीयते ॥

ईश्वर उवाच ।

एवम् उक्त्वा माहादेवीं नारदस् त्रिदिवं गतः ।

कृष्णश् च मातरं प्राह वैवाह्यं हि विधीयताम् ॥

विवाहितावसानेन वेदोक्तविधिना ततः ।

[१२०९] आनीयतां तदा देवि दर्शयामास तां वधूम् ॥

पश्य त्वं वचनाद् ब्रूहि परिणीता शुचिव्रता ।

निर्वृत्तिपरमं गच्छ प्रसादपरमा भव ॥

इत्य् उक्त्वा वीक्ष्य तां कृष्णः प्रणिपत्य स्वमातरम् ।

जगाम देवकार्याणां करणाय महाबलः ॥

तां दृष्ट्वा देवमाता च बभौ दुःखान्विता भृशम् ।

ईदृग्विरूपं विकृतिं कथं कर्तास्मि गोपनम् ॥

चिन्ता च मेति महतीम् अतीवोद्विग्नमानसः ।

कस्यापि नाचचक्षे ऽपि विरूपं तच्छरीरजम् ॥

अथ किं विहितं काले रुक्मिणी तव चाग्रतः ।

नमस्कृत्य ततः श्वश्रूं सम्पृष्ट्वा चरणौ तदा ॥

उवाच प्रस्तुतं वाक्यं भक्तियुक्तं सुखावहम् ।

प्रभावं द्रष्टुम् इच्छामि भवतीं कृष्णवल्लभाम् ॥

दर्शयन्तु च मे शीघ्रं प्रसादं सुविधीयताम् ।

देवक्य् उवाच ।

श्वश्रूर् ह्य् अहं ते सुभगे ममापि वचनं कुरु ।

दीयतां त्वरितं श्रुभ्रु सुरूपाद्वादशीव्रतम् ॥

[१२१०] सम्प्रयच्छति चेतस्यं दर्शनं ते भविष्यति ।

रुक्मिण्य् उवाच ।

कथं यद् दीयते धर्मं व्रतं चापि सुदुष्करम् ।

कथं तस्यां प्रयच्छामि फलं देवैः सुदुर्लभम् ॥

देव्य् उवाच ।

अर्धं प्रदीयताम् अस्यै तदर्धम् अथ वा पुनः ।

पञ्चमः सप्तमः षष्ठः षोडशांशो ऽथ वापि वा ॥

देव्य् उवाच ।

स्रूपाद्वादशी पुण्यतिलार्धम् अपि नोत्सहे ।

किं पुनः षोडशांशेन सपत्न्या दुष्टचेतसः ॥

एवम् उक्त्वा जगामाथ मन्दिरं सा शुभेक्षणा ।

पुनः पृच्छति ते सा तु प्रणिपातेन वै रुषा ॥

देवि पृच्छामि चोक्तो ऽयं न करोति प्रभुर् मम ।

कथं पश्यामि तां तन्वीं नवोढां कृष्णवल्लभाम् ॥

कृष्ण उवाच ।

अम्बा द्रक्ष्यसि ते सुभ्रूं धिग्रूपां तां सुमध्यमाम् ।

कर्णनासा च विकृता विरूपा विकृतानना ॥

अहं तु नोत्सहे द्रष्टुम् ईदृग्रूपां सुचिस्मिते ।

कर्म नृणां फलं ते च शुभाशुभसंशयम् ॥

[१२११] एवं बहुगते काले देवैश् चैव प्रभावतः ।

देव्यागारं सत्यभामा शिष्या दत्वा च वेशिता ॥

प्रार्थये यततां तूर्णं सुरूपाद्वादशीव्रतम् ।

तिलाद् अपि हि षड्भागं होमाद् अपि हि निःसृतम् ॥

सा गता तत्सकाशं तु विवाहद्वारमार (?) तु ।

उवाच रुक्मिणीं सा च सत्यभामा शुचिव्रता ॥

एकाम् अप्य् आहुतिं देवि देहि मे भीष्मनन्दिनि ।

अर्धाहुतिं वा मे देहि सद्यस्ति (?) मम सौहृदम् ॥

रुक्मिण्य् उवाच ।

को ऽयं मतिभ्रमस् ते वै सुरूपां द्वादशीं प्रति ।

तिलाहुतिं च दास्यामि उद्घाटय कपाटकम् ॥

इत्य् उक्त्वा त्वरितं स्नात्वा दत्वा ह्य् एकां तिलाहुतिम् ।

तिलं चैव प्रदत्तैयं रूपेणैवाधिका भवत् ॥

तां दृष्ट्वा विस्मयपरा पप्रच्छ दयितां हरेः ।

कथ्यतां मम का हि त्वं किमर्थमिह चागता ॥

सत्यभामोवाच ।

तवाहं भगिनी भद्रे कृष्णवोढास्मि धर्मतः ।

सत्यभामेति मे नाम नमामि चरणौ तव ॥

इति श्रुत्वा तु वचनं विस्मयोत्पुल्ललोचना ।

नोवाच किञ्चिच् चार्चङ्गी अत्यर्थं विस्मिताभवत् ॥

एतस्मिन्न् एव काले च वाग् उवाचाशरीरिणी ।

तव दानप्रभावेन सत्यव्रतपरायणे ॥

[१२१२] सुरूपा द्वादशीपुण्यं देवानाम् अपि दुर्लभम् ।

देव्य् उवाच ।

कर्मणा केन कर्तव्यं कुमाचारं वदस्व मे ।

नियमं होमदानं च प्रसादः संविधीयताम् ॥

ईश्वर उवाच ।

पौषमासं तु सम्प्राप्य पुष्यर्क्षे तु सुशोधयेत् ।

तस्यां रात्रौ संयतात्मा ध्यात्वा विष्णुं सनातनम् ॥

श्वेता गौर् एकवर्णा च तस्या ग्राह्यं च गोमयम् ।

अन्तरिक्षात् प्रपतितं शुचिर् मौनम् अवास्थितः ॥

तस्याः कृत्वा हुतीनां च शतम् अष्टोत्तरं तिलैः ।

प्रतीक्षैकादशीं कृष्णाम् उपवासपरायणैः ॥

भाव्यं नियमसंयुक्तैर् विशेषात् संयतात्मभिः ।

स्नात्वा नद्यां तडागे वा विष्णुम् एवाथ चिन्तयेत् ॥

सौवर्णं च हरिं कृत्वा रूप्यं वासः स्वशक्तितः ।

तिलपात्रोपरिस्थे च न्यसेत् कुम्भे सद्रव्यके ॥

ततो विष्णुपूजा ।

इति सम्पूज्य विधिना पुष्पैर् धूपैः सचन्दनैः ।

नैवेद्यं तिलमिश्रं च फलानि विविधानि च ॥

अर्घ्यमन्त्रोपयुक्तानि तदग्रे स्तवनं पठेत् ।

नमः परमशान्ताय विरूपाक्ष नमो ऽस्तु ते ॥

सर्वकल्मषनाशाय गृहाणार्घ्यं नमो ऽस्तु ते ।

अर्घ्यमन्त्रः ।

एवं सम्पूज्य देवेशं होमयेद् गोमयाहुतीः ।

[१२१३] तिलान् आहुतिसंयुक्तान् मन्त्रैः सहस्रशीर्षकैः ॥

हृदि ध्यात्वा च देवेशं लक्ष्मीयुक्तं सनातनम् ।

शङ्खचक्रगदाखेटं ध्यात्वा देवं जनार्दनम् ॥

होमान्ते कारयेच् छ्राद्धं वैष्णवं द्विजसत्तम ।

दत्वा च भोजनं तेभ्यः कृत्वा चैव प्रदक्षिणम् ॥

धर्मश्रवणसंयुक्ता जाग्रतो तत्र तां निशाम् ।

तं कुम्भं वैष्णवीं मूर्तिं विप्राय प्रतिपादयेत् ॥

मन्त्रहीनं क्रियाहीनं सर्वं तत्र क्षमापयेत् ॥

ईश्वर उवाच ।

एवं यः कुरुते देवि सुरूपाद्वादशीव्रतम् ।

नरो वा यदि वा नारी तच् च पुण्यं शृणुष्व मे ॥

दौर्भाग्यं नश्यते तस्य अपि जन्मान्तरार्जितम् ।

अपि भूमस्य सम्पर्को जायते कारणान्तरात् ॥

तस्यापि न भवेद् दुःखं वैरूप्यं तस्य जन्मनि ।

बन्धुजनवियोगं च नेष्टैः सह वियोगतः ॥

जायते गोत्रवृद्धिश् च कीर्तिमान् जायते भुवि ।

जातिस्मरणम् आप्नोति पदं निर्वाणम् आप्नुयात् ॥

वाच्यमानम् इदं भक्त्या यः शृणोति समाहितः ।

पुण्यम् आप्नोति सततं स्वर्गलोके महीयते ॥

इति उमामहेश्वरसंवादे सुरूपाद्वादशीव्रतम् ।

[१२१४] मान्धाता उवाच ।

एकादशी महाब्रह्मन् महापुण्यफलप्रदा ।

ऋक्षयोगैस् तु संयुक्ता कथयस्व मम प्रभो ॥

वसिष्ठ उवाच ।

जया च विजया चैव जयन्ती पापनाशनी ।

सर्वपापहरा चैषा कर्तव्या फलकाङ्क्षिभिः ॥

एकादश्यां शुक्लपक्षे यदा ऋक्षं पुनर्वसुः ।

सा नाम्ना च जया ख्याता तिथीनाम् उत्तमा तिथिः ॥

समुपोष्य व्रती पापान् मुच्यते नात्र संशयः ।

अग्निष्टोमस्य यज्ञस्य फलम् आप्नोति मानवः ॥

यदा शुक्ले तु द्वादश्यां नक्षत्रं श्रवणं भवेत् ।

विजया सा तथा प्रोक्ता तिथीनाम् उत्तमा तिथिः ॥

तस्यां स्नातः सर्वतीर्थे स्नातो भवति मानवः ।

दानं सहस्रगुणितं तथा चैव प्रयोजनम् ॥

होमजपोपवासैश् च सहस्राणां फलं लभेत् ।

यदा च शुक्लद्वादश्यां रोहिणी च प्रजायते ॥

जयन्ती नाम सा प्रोक्ता सर्वपापहरा तिथिः ।

सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु ॥

तत् क्षालयति गोविन्दस् तस्याम् अभ्यर्च्य भक्तितः ।

यदा च शुक्लद्वादश्यां पुष्यं भवति कर्हिचित् ॥

तदा सातिमहापुण्या कथिता पापनाशनी ।

[१२१५] यो ददाति च यत् पुण्यं नित्यं संवत्सरे नरः ॥

उपवासं तु तस्यां च यः करोति महत् फलम् ।

तस्यां जगत्पतिर् देवः सर्वलोकेश्वरो हरिः ॥

प्रत्यक्षतां प्रयात्य् आशु तद् अनन्तफलं स्मृतम् ।

सगरेण ककुत्स्थेन धुन्धुमारेण गाधिना ॥

तस्याम् आराधितो देवो दत्तवान् अखिलां भुवम् ।

उपवासस् तु तस्यां च देव आराधितः स च ॥

तस्मै स राज्यम् अखिलं सन्तुष्टो भुवि दत्तवान् ।

वाचिकान् मानसांश् चैव कायिकांश् च विशेषतः ॥

सप्तजन्मकृतं पापं मुच्यते नात्र संशयः ।

इमाम् एकाम् उपोष्यैव पुष्यनक्षत्रसंयुताम् ॥

एकादशीसहस्रेण फलं प्राप्नोत्य् असंशयम् ।

स्नानं दानं जपो होमः स्वाध्यायदेवतार्चनम् ॥

यद् अस्यां क्रियते किञ्चित् तत् सर्वं चाक्षयं भवेत् ।

पुरुषैस् तु प्रयत्नेन कर्तव्या फलकाङ्क्षिभिः ॥

फाल्गुने च विशेषेण विशेषः कथितो नृप ।

आमार्दकीव्रतं पुण्यं विष्णुलोकफलप्रदम् ॥

आमर्दकीम् अधो गत्वा जागरं तत्र कारयेत् ।

कृत्वा तु जागरं विष्णोर् गोसहस्रफलं लभेत् ॥

मान्धाता उवाच ।

आमर्दकी कदा ह्य् एषा उत्पन्ना द्विजसत्तम ।

एतत् सर्वं समाचक्ष परं कौतूहलं हि मे ॥

[१२१६] कस्माद् इयं पवित्रा च कस्मात् पापप्रणाशनी ।

कस्माज् जागरणं कृत्वा गोसहस्रफलं लभेत् ॥

वसिष्थ उवाच ।

कथयामि महाभाग गच्छेयं भगवान् क्षितौ ।

आमर्दकी महावृक्षः सर्वपापप्रणाशनः ॥

एकार्णवे पुरा जाते नष्टे स्थावरजङ्गमे ।

नष्टे देवासुरगणे प्रनष्टोरगराक्षसे ॥

तत्र देवाधिदेवेशः परमात्मा सनातनः ।

जजाप परमं ब्रह्म आत्मनः पदम् अव्ययम् ॥

ततो ऽस्य जपतो ब्रह्म मुखाच् छशिसमप्रभः ।

ष्ठीवनाद् बिन्दुसम्पन्नः स भूमौ निपपात ह ॥

तस्माद् बिन्दोः समुत्पन्नः स्वयं धात्री नगो महान् ।

शाखाप्रशाखाबहुला फलभारावनामितः ॥

सर्वेषाम् चैव वृक्षाणाम् आदिर् एष प्रकीर्तितः ।

एतस्मिन्न् एव काले तु ससृजे बहुधाः प्रजाः ॥

ब्राह्मणान् असृजत् तेन सम्सृष्टाश् च इमाः प्रजाः ।

देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ॥

तांश् च दृष्ट्वा महाभाग परं विस्मयम् आगताः ।

नजातीय (?) इमान् वृक्षान् विन्तयानो ऽपि सर्वतः ॥

एवं चिन्तयतस् तेषां वाग् उवाचाशरीरिणी ।

सञ्जाता वैष्णवी तत्र ऋषीणां प्रतिबोधनी ॥

असृजद् भगवान् देव ऋषयस् तु तथामराः ।

अजिताश् चात्र यत्रास्ते धारा वै विष्नुसम्भवा ॥

[१२१७] आमर्दकी नगो ह्य् एष प्रवरो लोकविश्रुतः ।

विष्णोर् निष्ठीवनाज् जातः प्रवरो वैष्णवो (?) नगः ॥

तस्मात् सर्वप्रयत्नेन सेव्या आमर्दकी सदा ।

सर्वपापहरा प्रोक्ता वैष्णवी पापनाशनी ॥

अस्या मूले स्थितो विष्णुर् ऊर्ध्वे चैव पितामहः ।

स्कन्धे च भवगान् रुद्रः संस्थितस् त्रिपुरान्तकः ॥

शाखासु सरितः सर्वाः प्रशाखासु च देवताः ।

पर्णेषु वसवो देवाः पुष्पेषु मरुतस् तथा ॥

प्रजानां पतयः सर्वे फले चैव व्यवस्थिताः ।

सर्वदेवमयी ह्य् एषा धात्री च कथिता मया ॥

तस्मात् पूज्यतमा ह्य् एषा विष्णुभक्तिपरायणैः ॥

ऋषिर् उवाच ।

को भवान् न हि जानामि अकस्माद् वद हे शुभः ।

देवो वा यदि वा चान्यः कथयस्व यथातथम् ॥

वाग् उवाच ।

यः कर्ता सर्वलोकानां भुवनानां चतुर्दश ।

अनङ्गाङ्गवपुः प्रेक्ष्य सो ऽहं विष्णुः सनातनः ॥

तच् छ्रुत्वा तस्य देवस्य भाषितं ब्राह्मणाः स्थिताः ।

विषयोत्फुल्लनयनाः परं विस्मयम् आगताः ॥

अनादिनिधनं देवं स्तोतुं चैव प्रचक्रमुः ।

ॐ नमो भूतात्मने च भूताय परमात्मने ॥

[१२१८] अव्यक्ताय नमो नित्यम् अनन्ताय नमो नमः ।

दामोदराय शुचये यज्ञेशाय नमो नमः ॥

नमो मायापटच्छन्नजगद्धात्रीमहात्मने ।

अच्युताय नमो नित्यम् अनन्ताय नमो नमः ॥

एवं स्तुतस् तदा तैश् च तुतोष भगवान् हरिः ।

प्रत्युवाच महर्षींस् तान् अभीष्टं किं ददामि वः ॥

ऋषय ऊचुः ।

यदि तुष्टो हि भगवान् अस्माकं हितकाम्यया ।

व्रतं किञ्चित् समाख्याहि स्वर्गमोक्षप्रदं परम् ॥

धनधान्यप्रदं पुण्यम् आत्मनस् तुष्टिदायकम् ।

अल्पायासं बहुफलं व्र्तानाम् उत्तमं व्रतम् ॥

कृतेन येन देवेश विष्णुलोके महीयते ।

विष्णुर् उवाच ।

फाल्गुनामलपक्षेषु द्वादशी ऋषिसत्तमाः ।

ब्राह्मणानां महापुण्या सर्वपातकनाशनी ॥

विशेषस् तत्र कथितः शृणुष्व ऋषिसत्तमाः ।

आमर्दकीं तु सम्प्राप्य जागरं यस् तु कारयेत् ॥

सर्वपापविनिर्मुक्तो गोसहस्रफलं लभेत् ।

एतद् वः कथितं विप्रा व्रतानाम् उत्तमं व्रतम् ॥

ऋषय ऊचुः ।

व्रतस्यास्य विधिं ब्रूहि परिपूर्णं कथं भवेत् ।

के मन्त्राः के नमस्कारा देवताः काः प्रकीर्तिताः ॥

कथं स्नानं कथं दानं कथं पूजाविधिः स्मृतः ।

[१२१९] अर्घ्यप्रदानमन्त्रश् च कथयस्व यथातथम् ॥

विष्णुर् उवाच ।

श्रूयतां यो विधिः सम्यग् व्रतस्यास्य द्विजोत्तम ।

न कस्यचिन् मयाख्यातो व्रतस्य विधिर् उत्तमः ॥

एकादश्यां च नियमं गृह्णीयाद् दन्तधावनम् ।

एकादश्यां निराहारं स्थित्वा चैवापरे ऽहनि ॥

भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत ।

इति कृत्वा च नियमं दन्तधावनपूर्वकम् ॥

नालापेत् पतितांश् चौरान् तथा पाषण्डिनो नरान् ।

दुर्विनीतान् भिन्नमर्यादान् गुरुदारप्रकर्षकान् ॥

अपराह्णे तथा स्नानं विधिवत् कारयेद् बुधः ।

नद्यां तडागे कूपे वा गृहे वा नियमाशनः ॥

मृत्तिकालम्भनं पूर्वं ततः स्नानं समाचरेत् ।

अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते (?) वसुन्धरे ॥

मृत्तिके हर मे पापं यन् मया दुष्कृतं कृतम् ॥

मृत्तिकामन्त्रः ।

त्वम् आपो योनिः सर्वेषां देवदानवरक्षसाम् ।

श्वेतयोनिर् भुजङ्गास्यं रसानां पतये नमः ॥

स्नातो ऽहं सर्वतीर्थेषु ह्रदे प्रश्रवणेषु स ।

नदीषु देवखातेषु अत्र स्नानं तु मे भव ॥

**[१२२०] **स्नानमन्त्रः ।

जामदग्निं ततश् चैव (?) कारयित्वा हिरण्मयम् ।

माषकेण सुवर्णस्य तदर्धेनाथ वा पुनः ॥

गृहम् आगत्य देवानां पूजाहोमं तु कारयेत् ।

ततश् चामर्दकीं गच्छेत् पोषयेच् च समन्ततः ॥

तस्याधो जलकुम्भं च स्थापयेन् मन्त्रसंयुतम् ।

पञ्चरत्नसमोपेतं दिव्यगन्धादिवासितम् ॥

छत्रोपानहवस्त्रैश् च सितचन्दनचर्चितम् ।

स्रग्मालालङ्कृतग्रीवं सर्वतो धूपधूपितम् ॥

दीपमालाकुलं कुर्यात् सर्वतस् तु मनोहरम् ।

तस्योपरि न्यसेत् पात्रं दिव्यदानैः प्रपूजितम् ॥

पात्रोपरि न्यसेद् देवं जामदग्न्यं महाभुजम् ।

विशोकाय नमः पादौ जानुनी विश्वरूपिणे ॥

उग्राय च नमः कण्ठे आस्यं यज्ञमुखाय वै ।

ननाम शोकवियुतो वासुदेवाय चक्षुषी ॥

ललाटे वामनायेति रामायेति पुनर् भ्रुवौ ।

नमः कूर्मात्मने तद्वात् शिर इत्य् अभिपूजयेत् ॥

पूजयित्वा ततो देवं अर्घ्यं चैव प्रदापयेत् ।

फलेन चैव शुभ्रेण भिक्तियुक्तेन चेतसा ॥

नमस् ते देवदेवेश जामदग्ने नमो ऽस्तु ते ।

इमं देवम् इमं देवं श्रीलक्ष्म्या सहितो हरिः ॥

[१२२१] अर्घ्यमन्त्रः ।

ततो जागरणं कुर्याद् भक्तियुक्तेन चेतसा ।

नृत्यैर् गीतैश् च वादित्रैर् धर्माख्यानकथानकैः ॥

वैष्णवैश् च तथा ख्यातैः क्षपयेच् छर्वरीं तु ताम् ।

प्रदक्षिणं ततः कुर्याद् आमर्दक्या नमस् तदा ॥

शतम् अष्टाधिकं चैव अष्टाविंशतिम् एव च ।

ततः प्रभातसमये नीत्वा नीराजनं हरेः ॥

ब्राह्मणं पूजयित्वा तु सर्वं तस्मै निवेदयेत् ।

जामदग्न्यं घटच्छन्नं वस्त्रयुग्मम् उपानहौ ॥

जामदगस्वरूपी च प्रीयतां मम केशवः ।

ततश् चामर्दकीं स्पृष्ट्वा कृत्वा चैव प्रदक्षिणम् ॥

स्नानं कृत्वा विधानेन ब्राह्मणान् भोजयेत् तदा ।

ततश् च स्वयम् अश्नीयात् कुक्कुटेन समन्वितः ॥

एवं कृते तु यत् पुण्यं तत् सर्वं कथयाम्य् अहम् ।

सर्वतीर्थेषु यत् पुण्यं सर्वदानेषु यत् फलम् ॥

सर्वयज्ञाधिकं चैव लभते नात्र संशयः ।

एतद् वः सर्वम् आख्यातं व्रतानाम् उत्तमम् व्रतम् ॥

एतद् व्रतं गतमलं कथितं मया वै

पापापहं शुचिमतिर् हरिवासरे ते ।

यो वै करिष्यति नरः शुचिशुद्धचित्तः

स प्राप्स्यते हरिपदं परमं परत्र ॥

[१२२२] एतावद् उक्त्वा देवेशस् तत्रैवान्तरधीयत ।

ते चापि ऋषयः सर्वे चक्रुः सर्वम् अशेषतः ॥

तथा त्वम् अपि राजेन्द्र कर्तुम् अर्हसि सत्तम ।

व्रतम् एतद् दुराधर्षं सर्वपापप्रणाशनम् ॥

इति मार्कण्डेयपुराणे आमदकीव्रतम् ।

इति श्रीमहार्जाधिराजश्रीमहादेवस्य समस्तकरणाधीश्वर-

**सकलविद्याविशारदश्रीहेमाद्रिविरचिते **

चतुर्वर्गचिन्तामणौ व्रतखण्डे द्वादशीव्रतानि ।